एकोनत्रिंशस्सर्गः
[सीतादृढाध्यवसायः] ॥ २।२९।१ ॥
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ १ ॥
इदमब्रवीदित्युक्तम्। तदेव प्रदर्श्यतेएतत्त्वित्यादि ॥ १ ॥
॥ २।२९।१ ॥ ॥ २।२९।२ ॥
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।
गुणा इत्येव तान् १विद्धि तव स्नेह २ पुरस्कृता ॥ २ ॥
तव स्नेहपुरस्कृतापुरस्कृतत्वादेवत्वदनुगृहीतत्वादेव हेतोः गुणा इत्येव विद्धीति ॥ २ ॥
१मन्येङ।
२पुरस्कृतान्ङ।
॥ २।२९।२ ॥ ॥ २।२९।३४ ॥
मृगास्सिंहा गजाश्चैव शर्दूलाश्शरभास्तथा।
पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ ३ ॥
अदृष्टपूर्वरूपत्वात् सर्वे ते तव, राघव
रूपं दृष्ट्वाऽपसर्पेयु १ भये सर्वे हि बिभ्यति ॥ ४ ॥
एतदेव प्रदर्शयतिमृगा इत्यादि। सृमरःगवयःमरै सृमरैः अदृष्टपूर्वं तावकं रूपं येषां ते तथा, तेषां भावस्तत्त्वं, तस्मादित्यर्थः। भयेभयहेतौ सति ॥ ४ ॥
ते सर्वे तव रूपंऽ इत्यन्वयः।
१तवङ।
॥ २।२९।३४ ॥ ॥ २।२९।५ ॥
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।
त्वद्वियोगेन मे, राम त्यक्तव्यमिह जीवितम् ॥ ५ ॥
त्वद्वियोगेन हेतुना ॥ ५ ॥
इयं सीता मम सुता৷৷৷৷ छायेवानुगता सदाऽ (बा। ७३२६) इत्युक्तत्वादितिभावः।
॥ २।२९।५ ॥ ॥ २।२९।६७ ॥
न च मां त्वत्समीपस्थामपि १शक्नोति, राघव
सुराणामीश्वर २ श्शक्रः प्रधर्षयितुमोजसा ॥ ६ ॥
पतिहीना तु या नारी सा न शक्ष्यति जीवितुम्।
काममेवंविधं, राम त्वया मम ३विदर्शितम् ॥ ७ ॥
पतिहीनेति। प्रबलभर्तृहीनेति यावत्। न शक्ष्यतीति। उक्तरूपवन इति शेषः। कामं विदर्शितं भवता। अथापि त्वद्भर्तृकाया न भीतिलेश इति शेषः ॥ ७ ॥
१शक्रोऽपिङ।
२श्शक्तःङ।
दशमसर्गारम्भश्लोकेविदर्शिताविपरीतं बोधितेति व्याख्यातत्वादत्रापि विदर्शितंविपरीतमुपदिष्टमित्यर्थः स्वरसः। पतिहीनाया जीवनमेव यदाऽसम्भवि, तदा तस्यै अन्यानुवर्तनोपदेशोऽत्यन्तं विपरीत एवेत्याशयः।
३निदर्शितम्ङ।
॥ २।२९।६७ ॥ ॥ २।२९।८ ॥
अथवाऽपि, महाप्राज्ञ ब्राह्मणानां १मुखाच्छ्रुतम्।
पुरा पितृगृहे, २सत्यं वस्तव्यं किल मे वने ॥ ८ ॥
अथवा किमनेन सुखदुःखविचारेण। मम तु वनवासप्राप्तिर्ब्रह्मालिखितेत्याहअथवेत्यादि। पुरा पितृगृहे निवसन्त्या मया ब्राह्मणानां मुखात् त्वया किल वने वस्तव्यम्ऽ इति श्रुतम् ॥ ८ ॥
१मया श्रुतम्ङ।
२नित्यंङ।
मे मयागो।
॥ २।२९।८ ॥ ॥ २।२९।९ ॥
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा।
वनवासकृतोत्साहा नित्यमेव, महाबल ॥ ९ ॥
कथमेवं निश्चयसम्भव इत्यत्राहलक्षणिभ्य इति। लक्षणज्ञानमस्त्येषामिति इनिः, सामुद्रिकलक्षणविद्भ्य इत्यर्थः ॥ ९ ॥
लाक्षणिभ्यःङ।
॥ २।२९।९ ॥ ॥ २।२९।१० ॥
आदेशो वनवासस्य प्राप्तव्यस्स मया किल।
सा त्वया सह १तत्राहं यास्यामि, प्रिय नान्यथा ॥ १० ॥
सः वनवासस्यादेशः ब्राह्मणोक्तः मया प्राप्तव्यः किल। ललाटलिपेरशक्यपरिमार्जनत्वादित्याशयः। सातथाऽऽदेशवत्यहं। तत्रतस्मादेव हेतोस्त्वया सह यास्यामि। नान्यथा ॥ १० ॥
आदेशःदैवादेशः विध्यपरपर्यायः ब्राह्मणमुखाच्छ्रुतः,
१भर्त्राहंङ।
॥ २।२९।१० ॥ ॥ २।२९।११ ॥
कृतादेशा भविष्यामि गमिष्यामि सह त्वया।
कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः ॥ ११ ॥
एवं सति कृतादेशाकृतब्राह्मणनियोगा भविष्यामि। अतस्त्वया सह गमिष्यामि। समुत्पन्न इति। वनवासस्येति शेषः ॥ ११ ॥
एकवचनेन तेषामैकमत्यं सूच्यते।
॥ २।२९।११ ॥ ॥ २।२९।१२ ॥
वनवासे हि जानामि दुःखानि बहुधा किल।
प्राप्यन्ते नियतं, वीर पुरुषैरकृतात्मभिः ॥ १२ ॥
वनवासे हि बहुधा दुःखानि किल सन्तीति जानाम्येव। अथापि तद्दुःखमकृतात्मभिःअजितेन्द्रियैर्विषयलोलुपैरेव प्राप्यते। न त्वादृङ्मादृग्जनेनेत्यर्थः ॥ १२ ॥
॥ २।२९।१२ ॥ ॥ २।२९।१३ ॥
कन्यया च पितुर्गेहे वनवासः श्रुतो मया।
भिक्षिण्या १ स्साधुवृत्ताया मम मातु रिहाग्रतः ॥ १३ ॥
न केवलं ब्राह्मणमुखाद्वनवासश्रवणं, अपि तु तापसीमुखादपीत्याहकन्ययेत्यादि। गेह इति। स्थितवत्येति शेषः। भिक्षिणीव्रीह्यादित्वादिनिः, तापसीति यावत् ॥ १३ ॥
ननु लक्षणज्ञानां भ्रमो भवेत्, तत्राहभिक्षिण्याःतापस्याः। तपोयुक्तत्वेन तस्याः भ्रमो न सम्भवतीति भावःति। साधुवृत्ताया भिक्षिण्या इति पञ्चमी।
१श्शमवृत्तायाङ। च।
अत्र इहऽ इति पदमुत्तरश्लोकान्वयिति। इह मातुः एतज्जन्मनि जनन्या इत्यर्थःसत्य। अथवा पितृगृहे लक्षणिभ्यः श्रुतम्। इहपतिगृहे च मातुःकदाचिदागताया मातुः, अथवा कौसल्यैव माता, तस्या अग्रतः भिक्षिण्या श्रुतमित्यर्थः।
॥ २।२९।१३ ॥ ॥ २।२९।१४ ॥
प्रसादितश्च वै पूर्वं त्वं वै बहु १विधं, प्रभो
गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १४ ॥
वनवासस्य गमनं प्रति प्रसादित इति योजना ॥ १४ ॥
१तिथंङ। च।
॥ २।२९।१४ ॥ ॥ २।२९।१५ ॥
कृतक्षणाऽहं, भद्रं ते, गमनं प्रति, राघव
वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १५ ॥
कृतक्षणाकृतानुमतिका। वने वासो यस्य स तथा। चर्याशुश्रूषा ॥ १५ ॥
कृतः क्षणःउत्सवःउत्साहः यया सा। कृतोत्साहेत्यर्थः। अहं गमनं प्रति कृतोत्साहा। हे राम ते भद्रं भवतु इत्यन्तवयः।
॥ २।२९।१५ ॥ ॥ २।२९।१६ ॥
शुद्धात्मन् १प्रेमभावाद्धि भविष्यामि विकल्मषा।
भर्तारमनुगच्छन्ती भर्ता हि २मम दैवतम् ॥ १६ ॥
३प्रेत्यभावेऽपि ४कल्याणसङ्गमो मे सह त्वया।
अनुगच्छन्ती विकल्मषा भविष्यामीति योजना। प्रेत्यभावेमृत्वा शरीरान्तरपरिग्रहेऽपि हि यस्मात् त्वया कल्याणसङ्गमःदिव्यसुखहेतुस्सङ्गमस्सिद्धःअत इह नित्यसङ्गमः कैमुतिकसिद्ध इत्यर्थः ॥
१प्रेष्यङ।
२परङ। च।
३एतदनन्तरं पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रो रक्षन्तिवार्धक्ये न स्त्री स्वातन्त्र्यमर्हति ॥ ऽ इत्यधिकम्ङ।
४कल्याणः संगमःङ। च।
॥ २।२९।१६ ॥ ॥ २।२९।१७१८ ॥
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ १७ ॥
इह लोके च पितृभिः या स्त्री यस्य महामते
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १८ ॥
कुतः प्रेत्य च सङ्गमसिद्धिरित्यत्राहश्रुतिरित्यादि। ब्राह्मणानां मुखात् पुण्या किल श्रुतिः यत उक्तार्थप्रतिपादिका श्रूयते अत इत्यर्थः। का सेत्यतस्तां श्रुतिं पठतिइहेत्यादि। पद्यसिद्धये वाल्मीकिना महामत इति पदं प्रयुक्तम्। श्रुतिस्वरूपं तु तदतिरिक्तं यजुर्मन्त्ररूपम्इह लोके च पितृभिर्यास्त्री यस्याद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सेति ॥ १८ ॥
अद्भिस्सहेत्यर्थः।
स्वधर्मेणपतिव्रताधर्मेण विद्यमाना सा प्रेत्यभावेऽपि तस्य पत्नी भवत्येवती
खिलश्रुतिःक।
॥ २।२९।१७१८ ॥ ॥ २।२९।१९ ॥
एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ १९ ॥
एवमिति। श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सतीत्यर्थः। इहईदानीमिति यावत् ॥ १९ ॥
॥ २।२९।१९ ॥ ॥ २।२९।२० ॥
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।
नेतुमर्हसि, काकुत्स्थ समानसुखदुःखिनीम् ॥ २० ॥
सुखदुःखयोरिति। तत्साधनानुष्ठानयोरित्यर्थः। अत एव समानसुखदुःखिनीम् ॥ २० ॥
॥ २।२९।२० ॥ ॥ २।२९।२१२२ ॥
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।
विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात् ॥ २१ ॥
एवं बहुविधं तं सा याचते गमनं प्रति।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २२ ॥
नयनाननुमतौ हेतुःविजनमिति। श्वश्रूननान्दृमुखरक्षकजनरहितमिति यावत् ॥ २२ ॥
॥ २।२९।२१२२ ॥ ॥ २।२९।२३ ॥
एवमुक्ता तु सा चिन्तां मैथिली समुपागता।
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ २३ ॥
गांभुवम् ॥ २३ ॥
॥ २।२९।२३ ॥ ॥ २।२९।२४ ॥
चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्।
ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनत्रिंशस्सर्गः
वर (२४) मानः सर्गः ॥ २२२४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनत्रिंशस्सर्गः।
क्रोधाविष्टां तु वैदेहीङ।
॥ २।२९।२४ ॥