अष्टाविंशस्सर्गः
[वनवासदुःखप्रतिबोधनम्] ॥ २।२८।१ ॥
एवं ब्रुवन्तीं सीतां तु १ धर्मज्ञो धर्मवत्सलः।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ १ ॥
निवर्तनाय बहुदुःखोपाधिमाहेत्युक्तं, तदेव प्रपञ्च्यतेएवमित्यादि ॥ १ ॥
१धर्मज्ञांङ।
॥ २।२८।१ ॥ ॥ २।२८।२३ ॥
सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम्।
१निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २ ॥
सीते महाकुलीनाऽसि धर्मे च निरता सदा।
इहाचर स्वधर्मं त्वं २मा यथामनसस्सुखम् ॥ ३ ॥
महाकुलीनत्वादिवादः स्ववाक्यपरिग्रहप्रयोजनः। स्वधर्मंस्वकुलधर्मं इहैव स्थित्वा यथा मनसः सुखं भवतिस्वशक्त्यनुसारेणेति यावत्, मामदागमनमुद्दिश्याचर। यथा मनसस्सुखं माचरेति शिक्षात्मनापि सुशकयोजनोऽयं ग्रन्थः। अथापि नास्मि सम्प्रति वक्तव्याऽ इति सीतयोक्तत्वाच्छिक्षार्थ उपेक्ष्यते ॥ ३ ॥
१निवर्तनार्थङ।
२मेङ।
यथा मे मम मनसस्सुखं भवति तथाचरति। मनसो यथा सुखं भवति तथा मा चरेत्यर्थःगो।
॥ २।२८।२३ ॥ ॥ २।२८।४ ॥
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले
वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ ४ ॥
तानिति। दोषानिति यावत् ॥ ४ ॥
वसतःङ। वसतः पुरुषस्येत्यर्थः।
॥ २।२८।४ ॥ ॥ २।२८।५ ॥
सीते विमुच्यतामेषा वनवासकृता मतिः।
बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ५ ॥
कान्तारंदुर्गमं वनं हियस्मात् बहुदोषमित्यभिधीयते ॥ ५ ॥
॥ २।२८।५ ॥ ॥ २।२८।६ ॥
हितबुध्या खलु वचो मयैतदभिधीयते।
सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ ६ ॥
हितबुध्याऽभिधीयत इति। न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः। सदासर्वकालेऽपि सुखं नास्तीति जानामिनिश्चिनोमि ॥
सुखंसुखदं न भवति, दुःखदमेवति।
॥ २।२८।६ ॥ ॥ २।२८।७ ॥
गिरिनिर्झरसम्भूता गिरि १ निर्दरवासिनाम्।
सिंहानां निनदा २दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७ ॥
३निर्झरशब्दो गिरिनिर्झरगिरिदरीवाचकः। गिरिनिर्दरसम्भूताःगिरिनिर्झरसम्भूताः निनदाः तथा गिरिनिर्दरवासिनांगिरिदरीवासिनां निनदाश्च श्रोतुं दुःखं यतः अतो वनंवनवासः दुःखमेव ॥ ७ ॥
गिरिनिर्झराःगिरिनद्यः। तन्निनदैः सम्भूताःप्रभूताः गिरिनिर्दरवासिनां सिंहानां निनदाःति।
१कन्दरङ।
२घोरःङ।
३निर्दरक।
॥ २।२८।७ ॥ ॥ २।२८।८ ॥
क्रीडमानाश्च विस्रब्धा मत्ताश्शून्ये महामृगाः।
दृष्ट्वा समभिवर्तन्ते, सीते दुःखमतो वनम् ॥ ८ ॥
विस्रब्धाःनिश्शङ्का इति यावत्। शून्येनिर्मानुषे। दृष्ट्वा त्वां समभिवर्तन्तेअभिमुखमागच्छन्ति ॥ ८ ॥
शून्येनिर्मानुषे वने विस्रब्धाःनिरुपद्रवत्वात्, अत एव क्रीडमानाः मत्ताश्च महामृगाः अदृष्टपूर्वमनुष्यदर्शनेन सम्भ्रान्ता अभिमुखं पतेयुरिति भावः।
॥ २।२८।८ ॥ ॥ २।२८।९ ॥
सग्रहास्सरितश्चैव पङ्कवत्यश्च दुस्तराः।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वम् ॥ ९ ॥
गजैरपि दुस्तरा इति योजना ॥ ९ ॥
॥ २।२८।९ ॥ ॥ २।२८।१० ॥
लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः।
निरपाश्च १सुदुःखाश्च मार्गा दुःखमतो वनम् ॥ १० ॥
कृकवाकुःवनकुक्कुटः। निरपाःनिर्गतोदकाः, ऋक्पूःऽ इत्यादिना अप् समासान्तः ॥ १० ॥
१सुदुर्गाश्चङ।
॥ २।२८।१० ॥ ॥ २।२८।११ ॥
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले।
रात्रिषु श्रमखिन्नेव तस्माद्दुखतरं वनम् ॥ ११ ॥
स्वयं भग्नासुस्वयं पतितशीर्णपर्णकृतास्वित्यर्थः। श्रमखिन्नेनवह्निसमित्कुशपुष्पफलाद्याहरणश्रमखिन्नेन मया उक्तशय्यायां सुप्यते। आगते त्वयापि तत्र स्वपितव्यम्। अतःदुःखेत्यादि ॥ ११ ॥
स्वयं भग्नासुन तु किसलयनिर्मितं शयनमिति भावः।
॥ २।२८।११ ॥ ॥ २।२८।१२ ॥
अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना।
फलैर्वृक्षावपतितैः, सीते दुःखमतो वनम् ॥ १२ ॥
वृक्षावपतितैःवृक्षात्स्वयमेव पतितैः फलैरेव केवलं सन्तोषः कर्तव्यः ॥ १२ ॥
॥ २।२८।१२ ॥ ॥ २।२८।१३ ॥
उपवासश्च कर्तव्यो यथाप्राणेन, मैथिलि
जटाभारश्च कर्तव्यो वल्कलाम्बर १ धारिणा ॥ १३ ॥
यथाप्राणेनयथाबलानुसारेण ॥ १३ ॥
केशसंस्कारोपयोगितैलाद्यभावादिति भावः।
१धारणम्ङ।
॥ २।२८।१३ ॥ ॥ २।२८।१४१५ ॥
देवतानां पितृ़णां च कर्तव्यं विधिपूर्वकम्।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ १४ ॥
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।
चरतां नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥
नियमेनैव चरतामिति। कालक्षेपं कुर्वतामित्यर्थः ॥ १५ ॥
यद्यपि नगरेऽपि देवतादिकार्यं निर्वर्तनीयमेव परन्तु वने तावत्सामग्रीसम्पादनक्लेशः अत्र विवक्षितः।
काले कालेत्रिकालेष्वपि। अत्रापि नगरापेक्षया विशेषे हेतुमाहचरतां नियमेनेति।
॥ २।२८।१४१५ ॥ ॥ २।२८।१६ ॥
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।
आर्षेण विधिना वेद्यां, बाले दुःखमतो वनम् ॥ १६ ॥
आर्षेण विधिनेति। न तु पौरजानपदपदार्थोपेतविधिनेत्यर्थः ॥
उपहारःबलिःगो।
॥ २।२८।१६ ॥ ॥ २।२८।१७ ॥
यथालब्धेन सन्तोषः कर्तव्यस्तेन, मैथिलि
यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥ १७ ॥
तेनेति। वन्यपदार्थेनेति यावत् ॥ १७ ॥
यथालब्धेनयावल्लब्धेनगो।
॥ २।२८।१७ ॥ ॥ २।२८।१८ ॥
अतीव वातास्तिमिरं बुभुक्षा चास्ति नित्यशः।
भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८ ॥
तिमिरमिति। रात्रिष्विति शेषः ॥ १८ ॥
तिमिरंअतिनिबिडत्वात् मध्याह्नेऽपि। बुभुक्षाअपरिचिताहारसेवया।
॥ २।२८।१८ ॥ ॥ २।२८।१९ ॥
॥ २।२८।२० ॥
सरीसृपाश्च बहवो बहुरूपाश्च, भामिनि
चरन्ति पथि ते दर्पात्ततो दुःखतरं वनम् ॥ १९ ॥
नदीनिलयनास्सर्पा नदीकुटिलगामिनः।
निष्ठन्त्यावृत्त्य पन्थानं ततो दुःखतरं वनम् ॥ २० ॥
नदीवत्कुटिलगामिनस्तथा ॥ २० ॥
स्सर्वेङ।
॥ २।२८।२० ॥
॥ २।२८।१९ ॥ ॥ २।२८।२१ ॥
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैस्सह।
बाधन्ते नित्यं, अबले सर्वं दुःखमतो वनम् ॥ २१ ॥
पतङ्गाःशलभाः ॥ २१ ॥
॥ २।२८।२१ ॥ ॥ २।२८।२२ ॥
द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च, भामिनि
वने व्याकुलशाखाग्राः तेन दुःखतरं वनम् ॥ २२ ॥
व्याकुलशाखाः व्याकुलाग्राश्च तथा। उभयं क्रमात् द्रुमकुशविशेषणम् ॥ २२ ॥
कुशकाशयोश्शाखाः कुशकाशप्रणान्येवगो।
॥ २।२८।२२ ॥ ॥ २।२८।२३ ॥
॥ २।२८।२४ ॥
कायक्लेशाश्च बहवो भयानि विविधानि च।
अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ २३ ॥
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।
न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ २४ ॥
भेतव्येभेतव्यविषये। प्रागुक्तसर्पादिपदार्थविषय इत्यर्थः ॥ २४ ॥
क्रौधमोहौङ।
॥ २।२८।२४ ॥
॥ २।२८।२३ ॥ ॥ २।२८।२५ ॥
तदलं ते वनं गत्वा क्षमं न हि वनं तव।
विमृशन्निह पश्यामि बहुदोषमतो वनम् ॥ २५ ॥
वनं गत्वाऽलमिति। अलं खल्वोःऽ इति प्रतिषेधार्थालमुपपदे क्त्वा। वनं न गन्तव्यमित्यर्थः ॥ २५ ॥
॥ २।२८।२५ ॥ ॥ २।२८।२६ ॥
वनं तु नेतुं न कृता मतिर्यदा
बभूव रामेण तदा महात्मना।
न तस्य सीता वचनं चकार तत्
ततोऽब्रवीद्राममिदं सुदुःखिता ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टाविंशः सर्गः
तद्वचनं न चकार। वनाननुगमननियोगं नाङ्गीचकार, तत एव हेतोरिदमब्रवीत्। तरु (२६) मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टाविंशस्सर्गः
॥ २।२८।२६ ॥