०२७ सीतायाः वनगमननिश्चयः

सप्तविंशस्सर्गः

[सीतानुगमनप्रार्थना] ॥ २।२७।१ ॥

एवमुक्त तु वैदेही प्रियार्हा प्रियवादिनी।

प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १ ॥

एवं रामेण गृहवासे नियुक्ते वनवास एव मम च पत्यनुव्रजननिजनित्यधर्मतो न्यायप्राप्त इति सीताऽऽहएवमित्यादि। प्रणयादेव स्नेहबलादेव संक्रुद्धाकथं मत्पृथक्स्थितिमादिशतीत्यमर्षवती ॥ १ ॥

अप्रियवादिन्यपि प्रियार्हाप्रियभाषणार्हा गो। यद्वा प्रियार्हाप्रियभाषणार्हा। एवं प्रियभाषिणी च। परस्परं भावयन्तःऽ इति न्यायात्। यदि तस्याः समीपे प्रियमुच्येत तद्युक्तंयदा तु प्रियार्हायामपि तस्यां गृहवासनियोजनादिकमप्रियमुच्येत तदा प्रियवादिन्यपि सा किञ्चिदप्रियं ब्रूयादेवेत्याशयः ॥

॥ २।२७।१ ॥ ॥ २।२७।२ ॥

किमिदं भाषसे, राम वाक्यं लघुतया ध्रुवम्।

त्वया यत्परिहास्यं मे श्रुत्वा, नरवरात्मज ॥ २ ॥

स एवामर्षः प्रदर्श्यतेकिमिदमित्यादि। लघुतयामयि च लघुभावेन त्वयि च क्षुद्रपुरुषभावावलम्बनेन च किमिदं भाषसे हे नरवरोत्तम त्वया यद्भाषितं तच्छ्रुत्वा मे ध्रुवं परिहास्यंपरिहासास्पदं जायते ॥ २ ॥

लघुतयाअत्यल्पतया। ध्रुवंनिश्चितं यथा तथा भाषसे। चतुर्दशवर्षपर्यन्तभवत्प्रवासकाले मम गृहस्थितिर्हि नाल्पो विषयः। एकनिमेषमपि भवद्विरहासहिष्ण्वाः कथमयमल्पः स्यात्। त्वं तु अतिसुकरभिवाल्पतया निश्चित्य भाषसेअतोऽपहास्यमिदम् इति भावः।

॥ २।२७।२ ॥ ॥ २।२७।३५ ॥

१वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां, नृप

अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम् ॥ ३ ॥

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।

स्वानि पुण्यानि भुञ्जाना स्वं स्वं भाग्यमुपासते ॥ ४ ॥

भर्तुर्भाग्यं तु भार्यैका प्राप्नोति, पुरुषर्षभ

अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ ५ ॥

कुत एवमित्यत्राहआर्येत्यादि। तस्य तस्य प्राणिनः पित्रादयः स्वानिस्वस्वानुष्ठितानि पुण्यानि भुञ्जानाःउपभुञ्जानाः तद्वशप्राप्तं स्वं स्वं भाग्यंपुण्यफलं सौख्यं उपासतेप्राप्नुवन्ति, इदमपुण्यस्य चोपलक्षणम्, न तु स्वकृतपापपुण्यफलं स्वपित्रादयः। भार्या एकैव तु तस्य तस्य भर्तुर्भाग्यंपुण्यफलमन्यच्च भर्त्रा सह प्राप्नोति। नान्यस्तस्य पित्रादिः। पित्रादेस्तेन सह कर्मसहत्वाभावात्। यदेवं कर्मतत्फलभोगसहत्वं स्त्रियास्सिद्धं शास्त्रतः, अत एवाहमपि वने वस्तव्यमिति युष्मत्पितृमातृकृतादेशेन युष्मद्विषयकेनापि अर्थादादिष्टवनवासैवेत्यर्थः ॥ ३५ ॥

१अयं श्लोकः कुत्रचिन्न दृश्यतेङ।

अर्धो वा एष आत्मनो यत्पत्नीऽ इत्युक्तप्रक्रियया तव वनगमनादेश एव त्वदर्धशरीरभूताया ममाप्यादेश इत्यर्थःती।

॥ २।२७।३५ ॥ ॥ २।२७।६ ॥

न पिता नात्मजो नात्मा न माता न सखीजनः।

इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥ ६ ॥

यदेवं अतःन पितेत्यादि। इह लोके प्रेत्य परलेके च नारीणां न पित्रादिर्गतिः। अपि तु पतिरेक एव सदा गतिः ॥ ६ ॥

॥ २।२७।६ ॥ ॥ २।२७।७ ॥

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव, राघव

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥ ७ ॥

अतःयदि त्वमित्यादि। मृद्गन्तीमृदक्षोदेमर्दयन्ती। एतेन पद्भ्यामेव निस्सन्देहं गमिष्यामीत्युक्तं भवति। अतः कथमिदं वनवासदुःखं सहिष्यत इति न चिन्तनीयमिति भावः ॥ ७ ॥

अद्यैव गमिष्यामीत्यवन्वयः।

कुशकण्टकान्कुशाङ्कुरानिति यावत्।

॥ २।२७।७ ॥ ॥ २।२७।८ ॥

१रोषामर्षौ परित्यज्य २भुक्तशेषमिवोदकम्।

नय मां, वीर विस्रब्धः पापं मयि न विद्यते ॥ ८ ॥

स्त्री सती कथं वनं गमिष्यामिऽ इति ब्रूत इत्यमर्षं, तथा मद्वचनमुल्लङ्घ्य वक्तीति रोषं च त्यक्त्वा विस्रब्धःनिश्शङ्कः मां नय। तत्र हेतुगर्भं विशेषणंवीरेति। त्यागप्रयोजकं पापं च मयि न विद्यते। नीतयापि मया सुखमेव। अत्रोभयत्र दृष्टान्तःभुक्तशेषमुदकमिवेति। दुष्प्रापपानीयकान्तारयायिना पीतशेषं कमण्डलूनिष्ठं यथोदकं अपापं अवश्यनेयमात्मोपकार्येव केवलं तद्वदित्यर्थः ॥ ८ ॥

त्वदनुवर्तनेन चरितार्थेयं भविष्यतीत्येवंरुपा याईर्ष्यागो।

१ईर्ष्यारोषौङ।

भुक्तशेषंशास्त्रनिषिद्धतयोक्तमुदकमिव ईर्ष्यारोषौ परित्यज्यगो।

२पीतशेषङ।

पापंअपाराधः। मम त्यागे को वाऽपराधो मविवर्तत इत्याशयः ॥

॥ २।२७।८ ॥ ॥ २।२७।९ ॥

१प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा।

सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ९ ॥

अवर्जनीयनित्यसम्बन्धत्वादपि नाहं परित्याज्येत्याहप्रासादेत्यादि। प्रासादाग्रैः स्थितिमता, विमानैर्यानवता, योगबलात्केवलं वैहायसगतेनमत्वर्थीयाजन्तःगतिमता, तथा सर्वावस्थागतेनापि भर्त्रा भर्तुः पादच्छायेव सह स्त्री सर्वावस्थागता भवतीति विशिष्यतेविधीयते श्रुतिस्मृतिभिः ॥ ९ ॥

प्रासादाग्रैरिति। पञ्चम्यर्थे तृतीयागो। प्रासादाग्रे स्थित्यपेक्षयेति शेषःति। पुरुषो यामवस्थामाप्नोति तच्छायाऽपि तां प्राप्नोति यथेति वार्थः।

१प्रासादाग्रेङ। च।

॥ २।२७।९ ॥ ॥ २।२७।१० ॥

अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम्।

नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया ॥ १० ॥

गुरूपदेशेनापि मेऽयमर्थस्सिद्ध इत्याहमात्रेत्यादि। विविधाश्रयंनानावस्थभर्तृनित्याश्रयं अनुशिष्टाऽस्मि। अतो मया यथा वर्तितव्यं भर्तरि तद्विषये सम्प्रति न किञ्चिद्वक्तव्याउपदेष्टव्या ॥ १० ॥

एवमेव सर्वत्र पाठो दृश्यते। परन्तु व्याख्यायां प्रतीकधारणेन तु मात्रा चाप्यनुशिष्टास्मि पित्रा च विविधाश्रयम्ऽ इति व्याख्यातुः पाठः स्यादिति प्रतिभाति।

विविधाश्रयंविविधप्रकारं यथा तथागो। विविधाश्रयंविविधार्थंती। विषय आश्रयःऽ इति कोशात् आश्रयाःविषयाः ये अवश्यज्ञेयाः ते सर्वेऽपि उपदिष्टपूर्वां इत्यर्थः।

॥ २।२७।१० ॥ ॥ २।२७।११ ॥

अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।

नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ॥ ११ ॥

यदेवं अतःअहमित्यादि। गमिष्यामीति। त्वद्गमनमन्विति शेषः ॥ ११ ॥

॥ २।२७।११ ॥ ॥ २।२७।१२ ॥

सुखं वने निवत्स्यामि यथैव भवने पितुः।

अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥

त्रीन् लोकानचिन्तयन्तीति। तत्स्थसर्वसंसारिशुभाशुभदुश्चिन्ताप्रसङ्गरहितेति यावत्। पतिव्रतंपतिहिताचरणलक्षणव्रतप्रयोजनकमेव व्यापारं चिन्तयन्ती ॥ १२ ॥

त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थःगो।

॥ २।२७।१२ ॥ ॥ २।२७।१३ ॥

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।

सह रंस्ये त्वया, वीर वनेषु मधुगन्धिषु ॥ १३ ॥

ब्रह्मचारिणीवने वासादेव कामभोगासक्तिरहिता सती ॥ १३ ॥

वने तापसवृत्तिनिष्ठस्य भवतो मया न कश्चनोऽपराधः स्यात् इत्यभिप्रायेणाहब्रह्मचारिणीति। भवत्समीपस्थितिमात्रमप्यलमिति भावः।

॥ २।२७।१३ ॥ ॥ २।२३।१४ ॥

त्वं हि कर्तुं वने शक्तः, राम सम्परिपालनम्।

अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥ १४ ॥

अन्यस्यापीति। त्वदेकशरणजनान्तरस्यापीत्यर्थः ॥ १४ ॥

मानदऽमानश्चित्तसमुन्नतिःऽ श्वशेषत्वज्ञानेन स्वाश्रितानां चित्तौन्नत्यप्रद अथवा मानंइयत्तामर्यादा। सर्ववस्तूनां मर्यादाप्रदः त्वं पत्नींमर्यादामपि मह्यं देहीत्यर्थः।

॥ २।२७।१४ ॥ ॥ २।२७।१५ ॥

सह त्वया गमिष्यामि वनमद्य न संशयः।

नाहं शक्या, महाभाग निवर्तयितुमुद्यता ॥ १५ ॥

निवर्तयितुं न शक्येति। न्यायप्राप्तानुगमनत्वादित्याशयः ॥

॥ २।२७।१५ ॥ ॥ २।२७।१६ ॥

फलमूलाशना नित्यं भविष्यामि न संशयः।

न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ १६ ॥

न ते दुःखं करिष्यामीति। अन्नपानविशेषसम्पादनेनेति शेषः ॥

॥ २।२७।१६ ॥ ॥ २।२७।१७१८ ॥

इच्छामि सरितः शैलान् पल्वलानि वनानि च।

द्रष्टुं सर्वत्र निर्भीतात्वया नाथेन धीमता ॥ १७ ॥

हंस कारण्डवाकीर्णाः पद्मिनीस्साधुपुष्पिताः।

इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ १८ ॥

मद्गुः कारण्डवः प्लवःऽ नीर्क्कोळी ॥ १८ ॥

कारण्डवःजलकुक्कुटःगो।

॥ २।२७।१७१८ ॥ ॥ २।२७।१९२० ॥

अभिषेकं करिष्यामि तासु १नित्यं यतव्रता।

सह त्वया, विशालाक्ष रंस्ये परमनन्दिनी ॥ १९ ॥

एवं वर्ष २सहस्राणां शतं वाऽहं त्वया सह।

व्यतिक्रमं न वेत्स्यामि ३स्वर्गोऽपि न हि मे मतः ॥ २० ॥

त्वया सह वर्तमाना तस्य वर्षसतस्य व्यतिक्रमंगमनं न वेत्स्यामिन स्मरामि। स्वर्गौऽपि न मे मत इति। त्वद्वियुक्ताया इति शेषः ॥ २० ॥

१नित्यमनुव्रताङ।

वर्षसहस्त्राणां शतमपि न वेत्स्यामिक्षणमिव नेष्यामि। किं पुनश्चतुर्दशसमा इति भावःगो।

२सहस्राणिङ।

३स्वर्गेऽपि न हि मे मतिःङ।

॥ २।२७।१९२० ॥ ॥ २।२७।२१ ॥

स्वर्गेऽपि च विना वासो भविता यदि, राघव

त्वया १ मम, नरव्याघ्र नाहं तदपि रोचये ॥ २१ ॥

तदेव विव्रियतेस्वर्गेऽपीत्यादि ॥ २१ ॥

१विनाङ।

॥ २।२७।२१ ॥ ॥ २।२७।२२ ॥

अहं गमिष्यामि वनं सुदुर्गमं

मृगायुतं वानरवारणैश्च।

वने निवत्स्यामि यथा पितुर्गृहे

तवैव पादावुपगृह्य १ संयता ॥ २२ ॥

मृगैरायुतं तथा ॥ २२ ॥

मृगःमारीचमृगः। वानरवारणैःवानरश्रेष्ठैः सुग्रीवादिभिः। पुनर्वनग्रहणात् वनेऽपिअशोकवनेऽपि वत्स्यामि। पुनस्तवैव पादावुपसङ्गृह्य संयतानियता भविष्यामिगो।

१सम्मताङ।

॥ २।२७।२२ ॥ ॥ २।२७।२३ ॥

अनन्यभावामनुरक्तचेतसं

त्वया वियुक्तां मरणाय निश्चिताम्।

नयस्व मां साधु कुरुष्व याचनां

न ते मयाऽतो गुरुता भविष्यति ॥ २३ ॥

याचनांमामिकां वनानुगमनयाच्ञां साधु कुरुष्वचरितार्थं सम्पादय। मया क्रियमाणात् अतःमदनुगमनाद्धेतोः गुरुताभारः न भविष्यति ॥ २३ ॥

॥ २।२७।२३ ॥ ॥ २।२७।२४ ॥

तथा ब्रुवाणामपि धर्मवत्सलो

न च स्म सीतां नृवरो निनीषति।

उवाच चैनां बहु सन्निवर्तने

वने निवासस्य च दुःखतां प्रति ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तविंशस्सर्गः

तथेति। न्यायावलन्बनेनेति यावत्। न निनीषति स्म। अत एव चास्या निवर्तनप्रयोजननिमित्तं वने निवासस्य दुःखतांदुःखत्वज्ञापनं प्रति सत्सम्भवत् बहुहेतुजातमुवाच। वीर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तविंशः सर्गः

॥ २।२७।२४ ॥