षड्विंशस्सर्गः
[सीताप्रतिबोधनम्] ॥ २।२६।१ ॥
अभिवाद्य च कौसल्यां राम स्सम्प्रस्थितो वनम्।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥
एवं मातरमनुमान्य सीतामप्यनुमानयितुं रामस्य प्रवृत्तिः। अभिवाद्येत्यादि। अतिशयेन धर्मवत् धर्मिष्ठं, विन्मतोर्लुक्इष्ठनादौ परतः ॥ १ ॥
सम्प्रस्थितः सम्प्रतस्थे। अथवा श्लोकद्वयमेकं वाक्यम्।
॥ २।२६।१ ॥ ॥ २।२६।२ ॥
विराजयन् राजसुतो राजमार्गं नरैर्वृतम्
हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २ ॥
आममन्थमन्थनं कृतवानिव ॥ २ ॥
॥ २।२६।२ ॥ ॥ २।२६।३ ॥
वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी।
तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥
तत्सर्वंराजवृत्तान्तम्। तदेव यौवराज्याभिषेचनं तस्याश्च हृदि स्थितमभूदिति शेषः ॥ ३ ॥
तपस्विनीरामाभिषेकार्थव्रतोपवासादिनियमविशिष्टागो। यद्वा तपस्विनीअनुकम्पार्हा तपस्वी तापसे चानुकम्प्ये त्रिषुऽ इति मेदिनी। रामवनप्रस्थानमजानन्ती यौवराज्याभिषेकमेव चिन्तयन्ती सीता राममुखात्कथं तदुदन्तं श्रोष्यतीति कविरनुकम्पयैवमुक्तवान्।
॥ २।२६।३ ॥ ॥ २।२६।४ ॥
देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना।
अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥
देवकार्यंदेवपूजाम् ॥ ४ ॥
कृतज्ञादैवैरेवं राज्यप्रदानोपकृतत्वेन कृतज्ञतया तत्पूजाति। कृतज्ञाअभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पादिना पूर्वकृतपादार्चनादिसमाचारज्ञागो। सम्प्रदायज्ञा रामपादार्चनाय रामं प्रतीक्षते स्मइति भावः ॥
॥ २।२६।४ ॥ ॥ २।२६।५६ ॥
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम्।
प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ ५ ॥
अथ सीता समुत्पत्त्य वेपमाना च तं पतिम्।
अपश्चच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥
शोकसन्तप्तत्वादिधर्मकं पतिं दृष्ट्वा वेपमाना सती तं पतिमपश्यत् ॥ ६ ॥
॥ २।२६।५६ ॥ ॥ २।२६।७ ॥
तां दृष्ट्वा हि स धर्मात्मा न शशाक मनोगतम्।
तं शोकं राघवस्सोढुं ततो विवृततां गतः ॥ ७ ॥
सोढुमिति। गूढतयेति शेषः। ततःतत एव हेतोः विवृततांविवृताभिप्रायकतां गतः ॥ ७ ॥
विवृततांव्यक्तदुःखताम्गो। यद्वा वैवर्ण्यमिति यावत् विवर्णवदनंऽ इत्युत्तरश्लोकानुसारात्।
॥ २।२६।७ ॥ ॥ २।२६।८ ॥
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।
आह दुःखाभिसन्तप्ता किमिदानीमिदं, प्रभो ॥ ८ ॥
प्रस्विन्नंप्राप्तदुःखजस्वेदम् ॥ ८ ॥
यत्तु सीताया दुःखेन कथमेषा कालं नयिष्यतीति धिया दुःखित इति विवर्णवदनत्वादिकमितितदनुचितंभगवति कथमपि दुःखासम्बन्धात् तादृशधियंप्यभावाच्च व्यसनेषु मनुष्याणां भृशं भवति दुःखितःऽ इत्यादावपि दुःखित इवेत्येवार्थं इति ममाभातिति।
अमर्षणं शोकधारणाक्षमम्। अत एव प्रस्विन्नम्।
॥ २।२६।८ ॥ ॥ २।२६।९ ॥
अद्य बार्हस्पतः १श्रीमान् युक्तः पुष्योऽनुराघव
प्रोच्यते ब्राह्मणैः प्राज्ञै केन त्वमसि दुर्मनाः ॥ ९ ॥
बार्हस्पतःबृहस्पतिदेवताकः। दित्यदित्यादिभ्यो ण्यलुक्छान्दसः। युक्तःचन्द्रमसेति शेषः। युक्त इति तु प्रोच्यत इत्यन्वयः। केनेति। अद्य पुष्यः, अद्याभिषेको रामस्येति द्विजैः उक्ते दुःखं केनसन्तोषं विहायेत्यर्थः हग ॥ ९ ॥
१श्रीमानुक्तःङ।
पुष्येणऽ युक्तः चन्द्रेणेति शेषःति।
२बार्हस्पतः बृहस्पतिदैवत्यः। उक्तः अभिषेकार्हत्वेन विहितः। युक्त इति पाठेऽभिषेकार्हःगो।ऽ
॥ २।२६।९ ॥ ॥ २।२६।१० ॥
न ते शतशलाकेन जलफेननिभेन च।
आवृतं वदनं वल्गु छत्रेणापि विराजते ॥ १० ॥
शतं शलाका यस्मिन् छत्रे तत्तथा छत्रेणावृतं सन्न विराजते इति योजना ॥ १० ॥
वल्गुसुन्दरम्।
॥ २।२६।१० ॥ ॥ २।२६।११ ॥
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ११ ॥
शतपत्रंपद्मं तत्सदृशेक्षणं तवाननम् ॥ ११ ॥
॥ २।२६।११ ॥ ॥ २।२६।१२ ॥
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां, नरर्षभ
स्तुवन्तो नात्र दृश्यन्ते मङ्गलैस्सूतमागधाः ॥ १२ ॥
वन्द्यादयो मुहुर्व्याकृतचराः ॥ १२ ॥
॥ २।२६।१२ ॥ ॥ २।२६।१३ ॥
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।
मूर्ध्नि १मूर्धावसिक्तस्य दधति स्म विधानतः ॥ १३ ॥
क्षौद्रं च दधि चेति। तीर्थोदकमिश्रितमिति शेषः। मूर्धावसिक्तस्यशिरस्स्नातस्य ॥ १३ ॥
क्षौद्रंमधु
१मूर्धाभिषिक्तस्यङ।
न दधति स्मनाभिषिञ्चन्ति स्म।
॥ २।२६।१३ ॥ ॥ २।२६।१४ ॥
न त्वां प्रकृतयस्सर्वाः श्रेणीमुख्याश्च १भूषिताः।
अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १४ ॥
श्रेणीमुख्याःपरिषन्मुख्याः ॥ १४ ॥
१भूषितम्ङ।
॥ २।२६।१४ ॥ ॥ २।२६।१५१६ ॥
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः।
मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १५ ॥
न हस्ती चाग्रतः १श्रीमान् तव लक्ष्मणपूजितः।
प्रयाणे लक्ष्यते, वीर कृष्णमेघगिरिप्रभः ॥ १६ ॥
पुष्यरथःकेवलं लीलागमनादिप्रयोजनः युद्धानर्हो रथः। तस्याग्रतो निर्गमनं राज्ञो निर्जिगमिषोः प्रथमं भवति। तस्मिन् सत्यामिच्छायामारोहति। नो चेत्केवलमग्रे गच्छति। तथा हस्त्यादिश्च। कृष्णमेघप्रभो गिरिप्रभश्च तथा ॥ १५१६ ॥
१श्रीमान्सर्वङ।
कृष्णमेघयुक्तगिरिप्रभः। उभयोरुपमानत्वे वैषम्यापत्तिःगो।
॥ २।२६।१५१६ ॥ ॥ २।२६।१७ ॥
न च काञ्चनचित्रं ते पश्यामि, प्रियदर्शन
भद्रासनं पुरस्कृत्य १ यान्तं, वीर २ पुरस्सरम् ॥ १७ ॥
वीरेति सम्बुद्धिः ॥ १७ ॥
भद्रासनं पुरस्कृत्य यान्तं ते पुरस्सरंअग्रगं सेवकं न पश्यामिति। वीरपुरस्कृतं भद्रासनं पुरस्कृत्य ते यातंगमनं न पश्यामिगो। वीरपुरस्सरं यथातथा पुरस्कृत्य यातंभद्रासनंइति वा। पुरतो नीयमानस्य भद्रासनस्य मर्यादार्थं वीराः तत्पुरतो गच्छन्तीति प्रसिद्धमेव।
१यातंङ। च।
२पुरस्कृतम्ङ।
॥ २।२६।१७ ॥ ॥ २।२६।१८ ॥
अभिषेको यदा सज्जः किमिदानी मिदं तव।
अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८ ॥
अभिषेको यदायस्मात् सज्जः तथापीदानीं तवेदं किंउक्तलक्षणवैपरीत्यमित्यर्थः। उक्तगजान्तराजचिह्नाभावानुवादः स्ववेश्मसमीपे तेषामननुभवात् ॥ १८ ॥
यदेतियस्मिन् काले प्रहृष्टेन भाष्यं तदा किमेव लक्ष्यस इति वार्थः।
मयं तवङ। मुखवर्ण इत्यस्य विशेषणमिदम्।
॥ २।२६।१८ ॥ ॥ २।२६।१९ ॥
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।
सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ १९ ॥
विलपन्तींदुःखेन भाषमाणाम् ॥ १९ ॥
विलपन्तींविविधं लपन्तींगो। विविधं पृच्छतींशि।
तत्रभवान् पूज्यःगो। ति।
॥ २।२६।१९ ॥ ॥ २।२६।२० ॥
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि
शृणु, जानकि येनेदं क्रमेणाद्यागतं मम ॥ २० ॥
कुले महतीत्यादिकथनं अव्यग्रतया प्रव्राजनकारणप्रश्नोत्तरसिद्धिशेषतया। येन क्रमेणेदमिति। प्रव्राजनमिति यावत्। क्रमःहेतुः ॥ २० ॥
महतोऽप्रियस्य श्रवणे सीतायाः किंवा भविष्यतीति भयात् चित्तदार्ढ्यार्थे विविधगुणकीर्तनेन सम्बोधयतिकुल इत्यादिगो।
येन क्रमेणयेन मार्गेणगो।
॥ २।२६।२० ॥ ॥ २।२६।२१२२ ॥
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च।
कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ २१ ॥
तयाऽद्य मम सज्जेऽस्मिन् अभिषेके नृपोद्यते।
प्रचोदितस्स समयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥
नृपेणोद्यतेप्रस्ताविते, तस्मिन्नभिषेके सज्जे सति तया अद्य स समयःप्राजीनो वरसङ्केतः प्रचोदितःप्रवर्तितः। तेन तु राजा धर्मेणधर्ममार्गेणैव प्रतिनिर्जितः ॥ २२ ॥
वरे महत्वं त्वनिवार्यत्वेनशि।
॥ २।२६।२१२२ ॥ ॥ २।२६।२३ ॥
चतुर्धश हि वर्षाणि वस्तव्यं दण्डके मया।
पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ २३ ॥
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्।
अस्तु, प्रकृते किमित्यत आहचतुर्दशेत्यादि। वरनिर्जितेन पित्रा मद्वनवासवरपरिपालनशेषतया पितृनियोगेन मया दण्डके वस्तव्यम्। भरतश्चापि द्वितीयवरपरिपालनशेषतया यौवराज्ये नियोजितः ॥ २३ ॥
मया पितृवचोदितेनगो।
नियोजितः मयेति शेषः। ज्येष्ठाज्ञां विना तस्य तल्लाभासम्भवात्ति।
॥ २।२६।२३ ॥ ॥ २।२६।२४ ॥
भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ २४ ॥
अथ सीताया गृहावस्थापनधिया वक्तव्यबुद्धिमुपदिशतिभरतस्येत्यादि। न कथ्यःन श्लाघनीयः ॥ २४ ॥
सीताहृदयं ज्ञातुं बुद्ध्युपदेशेन प्रणयरोषमुत्पादयन्नाह भरतस्येतिगो।
॥ २।२६।२४ ॥ ॥ २।२६।२५ ॥
१ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।
तस्मान्न ते गुणाः २कथ्या भरतस्याग्रतो मम ॥ २५ ॥
ते प्रसिद्धा मम गुणाः। भरतस्याग्रत इति। ज्येष्ठो भ्राता पितृसमःऽ इति न्यायेन यदा कदाचित्त्वां मातृबुध्या नमस्कर्तुमागच्छति तदेति शेषः ॥ २५ ॥
१बुद्धियुक्ताङ।
२श्लाघ्याःङ।
॥ २।२६।२५ ॥ ॥ २।२६।२६ ॥
अहं ते नानुकर्तव्यो विशेषेण कदाचन।
अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २६ ॥
अहंअस्मत्स्वरूपं तेत्वया विशेषेणविशिष्य कदाचनकदापि नानुकर्तव्यःनानुकरणीयःनानुस्मरणीयः। भरतस्याग्रत इत्यनुकर्षः। कुत एवमित्यत्राहअनुकूलतयेत्यादि। अत्र नापि तेन तु भर्तव्याऽ इति सर्वात्मना पाठो नाशितः प्राचीनः परेण ॥ २६ ॥
अहं ते नानुवक्तव्यःऽ इति कतके पाठःति। नापि त्वं तेन भर्तव्याऽ इति गोविन्दराजीयपाठः। विशेषेण न भर्तव्या, किन्तु बन्धुसाधारण्येन रक्षणीयेत्यर्थः।
मम भर्तू राज्यमनेनापहृतंऽ इत्यादिप्रतिकूलाभिसन्धिस्त्याज्येति भावः।
गोविन्दराजेन।
॥ २।२६।२६ ॥ ॥ २।२६।२७ ॥
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।
स प्रसाद्यस्त्वया, सीते नृपतिश्च विशेषतः ॥ २७ ॥
ननु तदनुकूलाचरणं किमर्थमित्यत्राह–तस्मा इत्यादि। नृपतिःदशरथः ॥ २७ ॥
सः त्वया विशेषतः प्रसाद्यः। चो हेतौ। यतो नृपतिरयंति।
॥ २।२६।२७ ॥ ॥ २।२६।२८२९ ॥
अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन्।
वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥
याते च मयि, कल्याणि वनं मुनिनिषेवितम्।
व्रतोपवासपरया भवितव्यं, तवानघे ॥ २९ ॥
यातेगते ॥ २९ ॥
॥ २।२६।२८२९ ॥ ॥ २।२६।३० ॥
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।
वन्दितव्यो दशरथः पिता मम जनेश्वरः ॥ ३० ॥
काल्यंसर्वस्मिन्नप्युषसि। अत्यन्तसंयोगे द्वितीया ॥ ३० ॥
॥ २।२६।३० ॥ ॥ २।२६।३१ ॥
माता च मम कौसल्या वृद्धा सन्तापकर्शिता।
धर्ममेवाग्रतः कृत्वा त्वत्तस्सम्मानमर्हति ॥ ३१ ॥
त्वत्तस्सम्मानमर्हतीत्यत्र हेतुःधर्ममेवाग्रतः कृत्वेति। यतः प्रवृत्ताऽस्मद्व(च)ननियोजन इति शेषः ॥ ३१ ॥
धर्ममेवाग्रतः कृत्वा, स्थिताया इति शेषःगो। त्वन्मातुर्वन्दने किं फलमिति चेत्तत्राहधर्ममितिति।
॥ २।२६।३१ ॥ ॥ २।२६।३२ ॥
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।
स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥ ३२ ॥
स्नेहःमातृत्वप्रयुक्तसन्तोषः। प्रणयःअनुनयःसेवा। सम्भोगःअन्नपानादिविशेषप्रदानम् ॥ ३२ ॥
सम्भोगःपरिपालनंगो। भुजपालनाभ्यावहारयोरिति धातुः।
॥ २।२६।३२ ॥ ॥ २।२६।३३ ॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।
१प्रिये भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३३ ॥
भ्रात्रा पुत्रेण च क्रमात्समानभावास्पदौतथा द्रष्टव्यौ। त्वयेति शेषः। प्रियेऽ इति सम्बुद्धिः ॥ ३३ ॥
१त्वयाङ।
॥ २।२६।३३ ॥ ॥ २।२६।३४३५ ॥
विप्रियं न च कर्तव्यं भरतस्य कदाचन।
स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३४ ॥
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।
१राजानस्सम्प्रसीदन्ति प्रकुष्यन्ति विपर्यये ॥ ३५ ॥
विपर्ययेशीलादिविपर्यये ॥ ३५ ॥
१एतदनन्तरंस्पृशन्निव गजो हन्ति जिघ्नन्निव भुजङ्गमः। स्मयन्निव नृपो हन्ति मानयन्निव दुर्जनः ॥ इत्यधिकंङ।
॥ २।२६।३४३५ ॥ ॥ २।२६।३६ ॥
औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः।
समर्थान् सम्प्रगृह्णन्ति जनानपि जनाधिपाः ॥ ३६ ॥
जनानितिप्राकृतान् रक्तस्पर्शरहितानिति यावत् ॥ ३६ ॥
॥ २।२६।३६ ॥ ॥ २।२६।३७३८ ॥
सा त्वं वसेह, कल्याणि राज्ञस्समनुवर्तिनी।
भरतस्य, रता धर्मे सत्यव्रतपरायणा ॥ ३७ ॥
अहं गमिष्यामि महावनं, प्रिये
त्वया हि वस्तव्यमिहैव, भामिनि
यथा व्यलीकं कुरुषे न कस्यचित्
तथा त्वया कार्यमिदं वचो मम ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षड्विंशः सर्गः
यथा कस्य चिदपि मन्नियोगस्य व्यलीकं व्यलीकं त्वप्रियेऽनृतेऽ न कुरुषेतथेदमपि मे वचः अमोघं कुरुअत्रास्वेति यावत्। दल (३८) मानः सर्गः ॥ ३८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षड्विंशः सर्गः
व्यलीकत्वमिति यावत्। गोविन्दराजीये तुव्यलीकंअप्रियम्। यथा कस्यचिदपि जनस्य व्यलीकं न कुरुषे तथा वर्तितव्यम्। इदं मम वचश्च कार्यम् (इति भिन्नं वाक्यं)। यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थः। सर्वेषामपि प्रियमेव कुरुषे यदितर्हि मत्प्रियाचरणे किमु वक्तव्यमिति भावः।
॥ २।२६।३७३८ ॥