पञ्चविंशः सर्गः
[कौसल्यास्वस्त्ययनम्] ॥ २।२५।१ ॥
साऽपनीय १समायासमुपस्पृश्य जलं २शुचिः।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥ १ ॥
स्वस्त्ययनाभिकाङ्क्षिणी बभूवऽ इत्युक्तम्। तामेव काङ्क्षां कौसल्या पूरयतिसाऽपनीयेत्यादि। समायासःशोकः। मङ्गलानिमङ्गलवचनानि ॥ १ ॥
१तमायासङ। च।
२शुचिङ। च
॥ २।२५।१ ॥ ॥ २।२५।२ ॥
न १शक्यसे वारयितुं गच्छेदानीं, रघूत्तम
शीघ्रं च विनिवर्तस्व वर्तस्व च सतां २क्रमे ॥ २ ॥
क्रम्यत इति क्रमःमार्गः ॥ २ ॥
१शक्यतेङ। च।
२पथिङ।
॥ २।२५।२ ॥ ॥ २।२५।३४ ॥
यं पालयसि धर्मं त्वं १प्रीत्या च नियमेन च।
स वै, राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ ३ ॥
येभ्यः प्रणमसे, पुत्र २चैत्येष्वायतनेषु च।
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ४ ॥
ते चेति। देवा इति शेषः ॥ ४ ॥
१धृत्याङ।
चैत्येषुचतुष्पथेषुअग्निशालासु वा। स्थण्डिलानिदेवपूजास्थलानिगो।
२देवेष्वाङ। च।
॥ २।२५।३४ ॥ ॥ २।२५।५७ ॥
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धामता।
तानि त्वामभिरक्षन्तु गुणैस्समुदितं सदा ॥ ५ ॥
पितृशुश्रूषया, पुत्र मातृशुश्रूषया तथा।
सत्येन च, महाबाहो चिरं जीवाभिरक्षितः ॥ ६ ॥
समित्कुशपवित्राणि वेद्यश्चायतनानि च।
स्थण्डिलानि १ विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः ॥ ७ ॥
पतङ्गाः पन्नगास्सिंहाः त्वां रक्षन्तु, नरोत्तम
समित्कुशादौ तदधिष्ठात्र्यो देवता उपलक्ष्यन्ते। क्षुपाःह्रस्वशाखास्तरवः ॥ ७ ॥
१च विप्राणांङ।
॥ २।२५।५७ ॥ ॥ २।२५।८ ॥
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः।
स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽप्यमा ॥ ८ ॥
स्वस्तिकुर्वन्त्वित्यग्रेण सम्बन्धः। धाताआधार १ धर्मप्रधानो भगवान्विराड्विष्णुः। विधातास्रष्टा, स एव सर्गविधायकः प्राजापत्यात्मा। पूषा भगोऽर्यमेति रेवत्यादिनक्षत्राधिष्ठातृदेवताः ॥ ८ ॥
विश्वेविश्वदेवाः।
धातेत्यादौ तु करोतुऽ इति एकवचनान्ततया विपरिणामः।साध्यःदेवताविशेषाः
१कर्मघ।
पूषादिशब्दाः द्वादशसंख्याकादित्यावान्तरभेदवाचकाःगो।
॥ २।२५।८ ॥ ॥ २।२५।९१० ॥
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।
ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः ॥ ९ ॥
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।
१स्मृतिर्धृतिश्च धर्मश्च पातु त्वां, पुत्र सर्वतः ॥ १० ॥
स्मृतिधृतीध्यानसमाधिलक्षणयोगौ ॥ १० ॥
१श्रुतिः स्मृतिश्चङ। च।
॥ २।२५।९१० ॥ ॥ २।२५।१११४ ॥
स्कन्दश्च भगवान् देवः १सोमश्च सबृहस्पतिः।
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ ११ ॥
याश्चापि सर्वतः सिद्धाः दिशश्च सदिगीश्वराः।
स्तुता मया वने तस्मिन् पान्तु त्वां, पुत्र नित्यशः ॥ १२ ॥
शैलास्सर्वे समुद्राश्च राजा वरुण एव च।
द्यौरन्तरिक्षं पृथिवी २नद्यस्सर्वास्तथैव च ॥ १३ ॥
नक्षत्राणि च सर्वाणि ग्रहाश्च ३सहदेवताः।
अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ॥ १४ ॥
ग्रहाःकुजादयः। ४सहदेवताःतत्तदधिदेवतासहिताः ॥ १४ ॥
१सोमश्चेन्द्रो बृहङ।
२वायुश्च सचराचरःङ।
३ग्रहदेवताःङ।
४शुभदेवताःघ।
॥ २।२५।१११४ ॥ ॥ २।२५।१५ ॥
ऋतवश्चैव षट् पुण्या मासास्संवत्सरास्तथा।
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ १५ ॥
ऋतवश्चैवेत्यादौ पुनः ऋत्वाद्यधिदेवताग्रहणमिति न दोषः ॥
पुनरुक्तिरत्र पुत्रप्रेमपारवश्यान्न दोषायति।
॥ २।२५।१५ ॥ ॥ २।२५।१६१७ ॥
महावने विचरतो मुनिवेषस्य धीमतः।
तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा ॥ १६ ॥
राक्षसानां पिशाचानां १रौद्राणां क्रूरकर्मणाम्।
क्रव्यादानां च सर्वेषां मा भूत्, पुत्रक ते भयम् ॥ १७ ॥
सर्वेषामिति। सर्वेभ्य इति यावत् ॥ १७ ॥
१दैत्यानांङ।
सर्वक्रव्यादसम्बन्धिभयंसम्बन्धसामान्ये षष्ठीति।, गो।
॥ २।२५।१६१७ ॥ ॥ २।२५।१८ ॥
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।
सरीसृपाश्च कीटाश्च मा भूवन् १भवने तव ॥ १८ ॥
प्लवगाःवानराः। दंशाःवनमक्षिकाः। तव भवनेगृहे। मा भूवन्मा स्तु ॥ १८ ॥
गहनेवने तव पीडाकरा मा भूवन्नित्यर्थः।
१गहने वनेङ।
॥ २।२५।१८ ॥ ॥ २।२५।१९ ॥
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु, पुत्रक ॥ १९ ॥
ऋक्षाःभल्लूकाः। न ते द्रुह्यन्तु, क्रुधद्रुहऽ इत्यादिना चतुर्थी ॥
॥ २।२५।१९ ॥ ॥ २।२५।२०२१ ॥
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः।
मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह ॥ २० ॥
आगमास्ते शिवास्सन्तु सिध्यन्तु च पराक्रमाः।
१ सर्वसम्पत्तयो, राम स्वस्तिमान् गच्छ, पुत्रक ॥ २१ ॥
गम्यन्त इति गमाः। आगमाःसर्वे मार्गा इत्यर्थः। सर्वसम्पत्तयःवनवासापेक्षिताः फलमूलादयः। सन्त्विति शेषः ॥ २१ ॥
सत्वजातयःक्रूरजन्तवःगो। सर्वजातियाःऽ सर्वजातीया इत्यर्थःति।
शीघ्रमेव पुनरावृत्तिर्भवत्वित्यभिप्रायेण वा आगमाःऽ इत्युक्तम्।
१सर्वसम्पत्तयेङ।
॥ २।२५।२०२१ ॥ ॥ २।२५।२२२३ ॥
स्वस्ति ते त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ २२ ॥
१गुरुस्सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।
पान्तु त्वामर्चिताः, राम दण्डकारण्यवासिनम् ॥ २३ ॥
पृथिव्यां भवाः पार्थिवाः। देवेभ्यस्सकाशात्ते स्वस्त्यस्त्विति योजना। ये च ते परिपन्थिनः तेभ्यः सोमादयः पान्तु ॥ २३ ॥
आन्तरिक्षेभ्यःअशन्यादिभ्यः पार्थिवेभ्यःभूकम्पादिभ्यः इति वाऽर्थः
१शुक्रः, शक्रःङ।
॥ २।२५।२२२३ ॥ ॥ २।२५।२४ ॥
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः।
उपस्पर्शनकाले तु पान्तु त्वां, रघुनन्दन ॥ २४ ॥
ऋषिमुखाच्च्युताःनिर्गताः, त्वया गृहीताश्चेति शेषः ॥ २४ ॥
॥ २।२५।२४ ॥ ॥ २।२५।२५२८ ॥
सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः।
ये च शेषास्सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ २५ ॥
इति माल्यैस्सुरगणान् गन्धैश्चापि यशस्विनी।
स्तुतिभिश्चा १ नुकूलाभिरानर्चायतलोचना ॥ २६ ॥
ज्वलनं २ समुपादाय ब्राह्मणेन महात्मना।
हावयामास विधिना राममङ्गलकारणात् ॥ २७ ॥
घृतं श्वेतानि माल्यानि ३ समिधः श्वेतसर्षपान्।
उपसम्पादयामास कौसल्या परमाङ्गना ॥ २८ ॥
उपसम्पादयामासेति। होमायेति शेषः ॥ २८ ॥
भूतकर्तृब्रह्मति।
१नुरूपाभिङ।
२समुपाधायङ।
३समिधश्चैवङ।
॥ २।२५।२५२८ ॥ ॥ २।२५।२९ ॥
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।
हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ २९ ॥
अनामयंआरोग्यं, उद्दिश्येति शेषः। बाह्यंहोमस्थानाद्बहिर्भवम् ॥ २९ ॥
॥ २।२५।२९ ॥ ॥ २।२५।३० ॥
मधु दध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।
वाचयामास रामस्य वनेस्वस्त्ययनक्रियाम् ॥ ३० ॥
मध्वित्यादि। स्वस्तिवाच्यंस्वस्तिवाचनमुद्दिश्य। द्विजान् मध्वादिभिरुपलक्षितान् कृत्वा रामस्य वने स्वस्त्यस्त्वित्येवं वनेस्वस्त्ययनक्रियां वाचयामासप्रार्थयामासेति कर्तरि लिट् ॥ ३० ॥
स्वस्तिवाच्यंऽ पुण्याहं वाचयित्वेत्यर्थःगो।
॥ २।२५।३० ॥ ॥ २।२५।३१३७ ॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ ३१ ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ३२ ॥
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ३३ ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।
अदितिर्मङ्गलं प्रादात् तत्ते भवतु मङ्गलम् ॥ ३४ ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः।
यदासन्मङ्गलं, राम तत्ते भवतु मङ्गलम् ॥ ३५ ॥
ऋतवस्सागरा द्वीपा वेदालोका दिशश्च ते।
मङ्गलानि, महाबाहो दिशन्तु १शुभमङ्गलाः ॥ ३६ ॥
इति पुत्रस्य २शेषाश्च कृत्वा शिरसि भामिनी।
गन्धैश्चापि समालभ्य राममायतलोचना ॥ ३७ ॥
शेषा इत्यक्षतानाम। समालभ्य समालम्भो विलेपनम्ऽ ॥
मङ्गलानामपि मङ्गलाःगो।
१शुभमङ्गलङ।
२शेषांश्चझ
॥ २।२५।३१३७ ॥ ॥ २।२५।३८ ॥
ओषाधिं चापि सिद्धार्थां विशल्यकरणीं शुभाम्।
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ ३८ ॥
विशल्यकरणीं अन्वर्थनामिकां सिद्धार्थांदृष्टप्रत्ययिकां ओषधिंमूलिकां गुलिकीकृत्य शुभां रक्षां चकार। तां मन्त्रैरभिमन्त्र्य जजाप च ॥ ३८ ॥
ओषधींओषधीःङ।
॥ २।२५।३८ ॥ ॥ २।२५।३९ ॥
१उवाचाभिप्रहृष्टेव सा दुःखवशवर्तिनी।
वाङ्मात्रेण न भावेन वाचासंसज्जमानया ॥ ३९ ॥
अभिप्रहृष्टेवेति। प्रस्थानस्य कार्यवशादेव केवलमनुमन्तव्यता। हर्षापारमार्थ्यद्योती इवशब्दः। तदेव प्रदर्श्यतेवाङ्मात्रेणेत्यादि। असंसज्जमानयाआन्तरखेदगद्गदयेति यावत् ॥ ३९ ॥
उवाचापिमन्त्रानिति शेषःति
१उवाचापिङ। च।
॥ २।२५।३९ ॥ ॥ २।२५।४०४४ ॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।
अवदत् पुत्र १ मिष्टार्थो गच्छ, राम यथासुखम् ॥ ५० ॥
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।
पश्यामि त्वां सुखं, वत्स सुस्थितं राजवर्त्मनि ॥ ४१ ॥
प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना।
द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥
भद्रासनगतं, राम वनवासादिहागतम्।
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥
मङ्गलैरुपसम्पन्नो वनवासादिहागतः।
वध्वा मम च नित्यं त्वं कामान् २ संवर्ध याहि, भो ॥ ४४ ॥
मङ्गलैःराजोचितवस्त्राभरणादिभिः। वध्वाःसीतायाः। संवर्धवर्धयेति यावत्। याहिगच्छ। भो इति निपातरूपमामन्त्रणार्थकम् ॥ ४४ ॥
केन प्रकारेणोवाचेत्यत्राहआनम्येति आनम्यआनमय्यगो
१सिद्धार्थोङ।
२संवर्धय भो, संवर्धयत्व भोङ।
॥ २।२५।४०४४ ॥ ॥ २।२५।४५४७ ॥
मयार्चिता १देवगणाः शिवादयो
महर्षयो भूतमहासुरोरगाः।
अभिप्रयातस्य वनं चिराय ते
हितानि २काङ्क्षन्तु दिशश्च, राघव ॥ ४५ ॥
इतीव चाश्रुप्रतिपूर्णलोचना
समाप्य च स्वस्त्ययनं यथाविधि।
प्रदक्षिणं चैव चकार राघवं
पुनःपुनश्चापि ३निरीक्ष्य सस्वजे ॥ ४६ ॥
तथा तु देव्या स कृतप्रदक्षिणः
निपीड्य मातुश्चरणौ पुनः पुनः।
जगाम सीतानिलयं महायशाः
स राघवः प्रज्वलितः ४स्वया श्रिया ॥ ४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चविंशः सर्गः
प्रदक्षिणं चकारेति। रक्षार्थमेव तत् पुत्रस्य। देव्याःमातुश्चरणौ पुनःपुनर्निपीश्डअभिवाद्य। तव (४६) (?) मानः सर्गः ॥ ४७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चविंशस्सर्गः
१भूतगणास्सुरोरगाःङ।
२कुर्वन्तुऽ ङ।
३निपीड्यङ।
४त्रयाङ।
॥ २।२५।४५४७ ॥