०२४ रामं प्रति कौसल्योपदेशः

चतुर्विंशः सर्गः

[कौसल्यासमाश्वासः] ॥ २।२४।१ ॥

तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने।

कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥

एवं धर्म्यं राघवस्य निश्चयं दृष्ट्वा धर्मो जयति नाधर्मःऽ इति मत्यालम्बनेन कौसल्याया रामप्रवासानुमतिः। तं समीक्ष्येत्यादि। निर्देशःनिदेश इति यावत् ॥ १ ॥

॥ २।२४।१ ॥ ॥ २।२४।२ ॥

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः।

मयि जातो दशरथात् कथ मुञ्छेन वर्तयेत् ॥ २ ॥

वर्तयेत्जीवेत्। भवानिति शेषः ॥ २ ॥

उञ्छो नाम दैवात्प्रकीर्णानां धान्यानां ग्रहणम्।

आत्मानं प्रत्येवेदं वचनं वा कौसल्यायाः।

॥ २।२४।२ ॥ ॥ २।२४।३ ॥

यस्य भृत्याश्च १दासाश्च मृष्टान्यन्नानि भुञ्जते।

कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥

भृत्याःमन्त्रिमुख्याःभर्तुं योग्याः। दासाःभुजिष्याः ॥

१दाराश्चङ।

॥ २।२४।३ ॥ ॥ २।२४।४ ॥

क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम्।

गुणवान् दयितो १राज्ञा राघवो यद्विवास्यते ॥ ४ ॥

विवास्यत इति यत् तच्च कः श्रद्दधेत्इत्यन्वयः। परमार्थतो विवासं श्रुत्वाश्रवणं प्राप्य तु कस्य वा भयं न भवेत्स्वस्त्रीपुत्रादिस्नेहशैथिल्यस्मृतिशङ्काजनितम् ॥ ४ ॥

निरपराधिनः पुत्रस्यैव विवासने वयं कुत्रेति भयं वा विवक्षितम्। अत्र को यत्तच्छ्रद्दधेत्ऽ इति पाठः व्याख्यासम्मतः प्रतिभाति।

१राज्ञोङ।

॥ २।२४।४ ॥ ॥ २।२४।५ ॥

नूनं तु बलवान् लोके कृतान्तस्सर्वमादिशन्।

लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ ५ ॥

सर्वमादिशन्सर्वं दुःखं प्रयच्छन्। लोकेकर्मलोके। यत्रयस्मात् ॥ ५ ॥

॥ २।२४।५ ॥ ॥ २।२४।६८ ॥

अयं तु मामात्मभवः तवादर्शनमारुतः।

१विलापंदुःखसमिधः रुदिताश्रुहुताहुतिः ॥ ६ ॥

चिन्ताबाष्पमहाधूमस्तवा २गमनचिन्तजः।

कर्शयित्वा भृशं, पुत्रनिश्वासायाससम्भवः ॥ ७ ॥

त्वया विहीनामिह मां शोकाग्निरतुलो महान्।

प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ ८ ॥

शोकाग्निः प्रधक्ष्यतीति वक्ष्यति। तस्याग्निसमाधिमाहअयं तु मामित्यादि। आत्मभवःस्वमनसस्सम्भूतः। विलापदुःखैः समिधःसमिन्धनं यस्य स तथा, घञर्थे कविधानंऽ इति कः। रुदिताश्रूण्येव हुताःकृतहोमाः आहुतयो यस्य स तथा। अन्येषामपि दृश्यतेऽ इति दीर्घः श्रमेण। तवागमनचिन्ताजनितनिश्वासरूपेणायासेनप्रयासेन पुनःपुनस्सन्धुक्षणरूपेण सम्भवःवृद्धिर्यस्य स तथा ॥ ८ ॥

१विवासङ।

२दर्शनचित्तजःङ।

चित्रभानुःवन्योऽग्निरिवगो।

॥ २।२४।६८ ॥ ॥ २।२४।९१० ॥

कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति।

अहं त्वाऽनुगमिष्यामि, पुत्र यत्र गमिष्यसि ॥ ९ ॥

यथानिगदितं मात्रा तद्वाक्यं पुरुषर्षभः।

श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १० ॥

यथानिगदितंयेन प्रकारेण निगदितं तथा तद्वाक्यं श्रुत्वाआत्मानुगमनं श्रुत्वेति यावत् ॥ १० ॥

॥ २।२४।९१० ॥ ॥ २।२४।११ ॥

कैकेय्या वञ्चितो राजा, मयि चारण्यमाश्रिते।

भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११ ॥

वञ्चित इति। परित्यक्त इति यावत्। न वर्तयिष्यतिन जीविष्यतीति यावत् ॥ ११ ॥

॥ २।२४।११ ॥ ॥ २।२४।१२ ॥

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः।

स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ॥ १२ ॥

केवलं नृशंसःक्रौर्यमात्रम्। न तेनेहामुत्र च सुखमित्यर्थः। मनसाऽपि न कर्तव्यःन चिन्तनीय इति यावत्। तत्र हेतुःविगर्हित इति ॥ १२ ॥

तथा च नृशंसपदं भावप्रधानपरमिति भावः। यद्वा परित्यागरूपक्रियैव नृशंसेत्युच्यते।

॥ २।२४।१२ ॥ ॥ २।२४।१३ ॥

यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः।

शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ १३ ॥

यदेवमतःयावदित्यादि ॥ १३ ॥

॥ २।२४।१३ ॥ ॥ २।२४।१४१५ ॥

एवमुक्ता तु रामेण कौसल्या शुभदर्शना।

तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १४ ॥

एवमुक्तस्तु वचनं रामो धर्मभृतां वरः।

भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १५ ॥

एवं वचनमुक्तःभर्तृशुश्रूषाङ्गीकारवचनमुक्तः, कर्मणि निष्ठा ॥ १५ ॥

॥ २।२४।१४१५ ॥ ॥ २।२४।१६ ॥

मया चैव भवत्या च कर्तव्यं वचनं पितुः।

राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १६ ॥

उभाभ्यामवश्यकर्तव्यमित्यत्र क्रमाद्धेतुःभर्ता गुरुरिति ॥ १६ ॥

स खलुऽ इत्यध्याहार्यम्।

भर्ताभरणकर्ता। एवञ्च सर्वं सर्वस्याप्यन्वेति।

॥ २।२४।१६ ॥ ॥ २।२४।१७१८ ॥

इदानीं तु महारण्ये विहृत्य नव पञ्च च।

वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १७ ॥

एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा।

उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १८ ॥

पितृशुश्रूषणानन्तरं त्वच्छुश्रूषणमपि करोमीत्याहइदानीमित्यादि। विहृत्येत्यनेन वनवासं मृगयावत्क्रीडैव मे इति दर्शितम् ॥

इमानिङ। इमानीत्यल्पत्वज्ञापनायगो।

॥ २।२४।१७१८ ॥ ॥ २।२४।१९ ॥

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्।

नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ॥ १९ ॥

यदि ते गमने बुद्धिः कृता पितुरपेक्षया।

अङ्गीकृतवनवासापि सपत्नीदुःखस्मरणात् पुनश्च रामानुगमनमभिलषतिआसामित्यादि। वन्यांवने भवाम् ॥ १९ ॥

यथा वन्या मृगी वने सन्तुष्टा वर्ततेतथाहमपि वर्ते, न भवन्तं क्लेशयिष्यामीति भावः। पितुरपेक्षया पितुरिच्छयागो।

॥ २।२४।१९ ॥ ॥ २।२४।२० ॥

तां तथा रुदतीं रामोऽरुदन् वचनमब्रवीत्।

जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ॥ २० ॥

भवत्या मम चैवाद्य राजा प्रभवति प्रभुः।

अरुदन्रुदन्तीमपि तां दृष्ट्वा स्वयमरुदन्नित्यर्थः। १रोदने तु कातर्यप्राकट्यतो मे मातुः पुनरप्यनुगमनप्रत्याशाप्रसङ्ग इति भावः ॥

रुदन् व्यसनेषु मनुष्याणां भृशं भवति दुःखितःऽ इत्युक्तगुणविशिष्टोऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालनरूपधर्मविघ्नभयाद्धैर्येण स्थितवान्गो। अरुदन्शि। ति।

१रोदनेनट।

॥ २।२४।२० ॥ ॥ २।२४।२१ ॥

न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता ॥ २१ ॥

धीमतेति। सनाथा इति शेषः ॥ २१ ॥

राज्ञा अनाथाःराजरूपनाथरहिता इति वाऽर्थः।

॥ २।२४।२१ ॥ ॥ २।२४।२२ ॥

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः।

भवतीमनुवर्तेत स हि धर्मरतस्सदा ॥ २ ॥

अथ सपत्नीमध्यवासो दुष्कर इति यदुक्तं तत्र परिहारमाहभरत इत्यादि। भवतीमनुवर्तेतेति। अतः कैकेयीकोपोऽकिञ्चित्कर इत्याशयः ॥ २२ ॥

॥ २।२४।२२ ॥ ॥ २।२४।२३२४ ॥

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः।

श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ २३ ॥

१दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्।

राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ २४ ॥

एनंराजानम् ॥ २४ ॥

१दारुणश्चाव्ययःङ।

॥ २।२४।२३२४ ॥ ॥ २।२४।२५ ॥

व्रतोपवासनिरता या नारी परमोत्तमा।

भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥ २५ ॥

भर्तृशुश्रूषया नारी लभते १स्वर्गमुत्तमम्।

द्विजमात्रस्य गायत्रीवत् स्त्रिया भर्तुशुश्रूषणस्यैव नित्यत्वात् नित्याकृतिजप्रत्यवायानर्थमनित्यकृतिस्साङ्गापि परिहर्तुं न शक्नोतीत्याहव्रतेत्यादि ॥ २५ ॥

१गतिमुत्तमाम्ङ।

नित्याकरणजन्येत्यर्थः।

॥ २।२४।२५ ॥ ॥ २।२४।२६२७ ॥

अथ या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ २६ ॥

शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता।

एष धर्मः स्त्रिया नित्यो लोके वेदे श्रुतः स्मृतः ॥ २७ ॥

अथ नित्यानुष्ठाने सत्यनित्याकरणे न तु लोकक्षय इत्याहअथ येत्यादि। निर्नमस्काराभर्तृव्यतिरिक्तस्य यस्य कस्यापि नमस्काराद्युपचाररहितापिविशिष्य कुलदैवतब्रह्मादिदेवपूजारहिता च, अथापि भर्तृशुश्रूषां कुर्वीत यदि न तस्या उक्तानित्याकरणेन काचित्क्षतिः। अत एष एव स्त्रिया नित्यः श्रुतःश्रुतिभिः, स्मृतःस्मृतिभिश्चेत्यर्थः ॥

पुरादृष्टःऽङ। पुरातनलोकाचारसिद्ध इत्यर्थःगो।

वेदे श्रुतः, लोके स्मृतश्च। वेदमनधीयाना अपि जानन्तीत्यर्थः।

॥ २।२४।२६२७ ॥ ॥ २।२४।२८ ॥

अग्निकार्येषु च सदा सुमनोभिश्च देवताः।

पूज्यास्ते मत्कृते, देवि ब्राह्मणाश्चैव सुव्रताः ॥ २८ ॥

तर्हि कर्मान्तरं न कर्तव्यम्? इत्यत्र तदपि कर्तव्यमेव, ऐहिकाभ्युदयार्थमित्याहअग्नीत्यादि। सदा तत्परा भवेति शेषः ॥ २८ ॥

तूष्णीमवस्थाने एनां दुःखमाक्रमिष्यतीति धिया दुःखविच्छेदनार्थं कालक्षेपसाधनं विधत्तेअग्नीति। अग्निकार्येषुशान्तिकपौष्टिकहोमेषुगो।

॥ २।२४।२८ ॥ ॥ २।२४।२९३० ॥

एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी।

नियता नियताहारा भर्तृशुश्रूषणे रता ॥ २९ ॥

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति।

यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ ३० ॥

काममिति। ऐहिकविषयजसुखमिति यावत्। तस्य पुत्रमात्रासाध्यत्वादाहयदीत्यादि ॥ ३० ॥

॥ २।२४।२९३० ॥ ॥ २।२४।३१३२ ॥

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा।

कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ ३१ ॥

गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक

विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥ ३२ ॥

सुकृतांसुष्टु कृतनिश्चयाम्। कालःकालनिमित्तकेष्टवियोगादिरित्यर्थः ॥ ३२ ॥

कालःइष्टवियोगादिजनकःति।

॥ २।२४।३१३२ ॥ ॥ २।२४।३३३५ ॥

गच्छ, पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा, विभो

पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ॥ ३३ ॥

प्रत्यागते महाभागे कृतार्थे चरितव्रते।

पितुरानृण्यतां प्राप्ते १त्वयि लप्स्ये परं सुखम् ॥ ३४ ॥

कृतान्तस्य गतिः, पुत्र दुर्विभाव्या सदा भुवि

यत्त्वा सञ्चोदयति मे वच आच्छिद्य, राघव ॥ ३५ ॥

मे वच आच्छिद्यनिराकृत्य त्वात्वां सञ्चोदयति यत्वनायेति शेषः, अतो दुर्विभाव्या ॥ ३५ ॥

पितुर्विषय इत्यर्थः। आनृण्यतांस्वार्थे ष्यञ्। अनृणतामित्यर्थः।

१स्वपिष्ये परमं सुखंङ।

॥ २।२४।३३३५ ॥ ॥ २।२४।३६ ॥

गच्छेदानीं, महाबाहो क्षेमेण पुनरागतः।

नन्दयिष्यसि मां, पुत्र साम्ना १शुक्लेन चारुणा ॥ ३६ ॥

शुक्लेननिर्मलेननीरागदोषेण। चारुणामनोहरेण। साम्नासान्त्ववचनेन ॥ ३६ ॥

१वाक्येनङ। श्लक्ष्णेनङ। च।

॥ २।२४।३६ ॥ ॥ २।२४।३७३८ ॥

अपीदानीं स कालः स्याद्वनात्प्रत्यागतं पुनः।

यत्त्वां, पुत्रक पश्येयं जटावल्कलधारिणम् ॥ ३७ ॥

तथा हि रामं वनवासनिश्चितं

समीक्ष्य देवी परमेण चेतसा।

उवाच रामं शुभलक्षणं वचः

बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्विंशः सर्गः

स्वस्त्ययनंमङ्गलमभिकाङ्क्षितुं शीलमस्त्यस्या इति तथा। दल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्विंशः सर्गः

क्षणमात्रमप्यदर्शनासहिष्णुत्वात् प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयतेअपीतिगो।

॥ २।२४।३७३८ ॥