०२३ लक्ष्मणसान्त्वनम्

त्रयोविंशः सर्गः

[लक्ष्मणाक्रोशः] ॥ २।२३।१ ॥

इति ब्रुवति रामे तु १लक्ष्मणोऽधश्शिरा इव।

२ध्यात्वा मध्यं ३जगामाशु सहसा ४दुःखहर्षयोः ॥ १ ॥

एवं शुद्धसत्त्वभावतो भगवता दैवावलम्बनेन परमार्थदृशा समाहितो लक्ष्मणो रजोन्मिश्रसत्त्वप्रधानतः दैवात्पौरुषं प्रवलमिति मन्यमानः पौरुषमवलम्ब्य दैवं प्रतिक्षेपणीयमिति ब्रूते। कृष्णावतारे बलदेववत्रामावतारे लक्ष्मणश्शब्दब्रह्मशेषावतारः। अत उक्तप्रकृतित्वं लक्ष्मणस्य। तत्र मायाशक्तिप्रधानावतारं शुद्धं ब्रह्म भगवान् कुलगुरुः कृष्णः, सुस्थिरपेशीशक्तिप्रधानावतारं ब्रह्म सुशुद्धतरं ब्रह्म भगवान्राम इति विशेषः। इतीत्यादि। अधश्शिरा इति। उक्तार्थाङ्गीकारमूलमधश्शिरस्त्वम्। ५दुःखहर्षयोःदुःखसुखयोः मनसा मध्यं जगामेव। अतिलौकिकपौरुषनिधिनापि रामेण दैवप्राबल्यपरमसिद्धान्तावष्टंभेनोपदिष्टबुद्धियोगो यदा मनसा स्मृतो भवति तदा सुखं प्राप्नोति, यदा तु प्रकृतिवशतो विस्मृत्य पौरुषप्राबल्यं स्मरति तदा श्रीनिवृत्त्यादिकमसहमानः क्रधात्मकं दुःखं प्राप्नोति। इवशब्दान्माध्यस्थ्यं अपरमार्थं, स्वप्रकृत्यनुकूलव्यापार एव प्रबल इति प्रदर्श्यते। तथा हि गीयते सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपिऽ इति ॥ १ ॥

स्वानभ्युपगमसूचनायाधश्शिरास्सन् ৷৷৷৷ इवशब्देनास्थिरत्वमुच्यते। उत्तरत्र माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात्ऽगो।

१लक्ष्मणोऽवाक्शिराङ।

२श्रुत्वाङ

३जगामेव मनसाङ।

रामस्य धर्मे स्थैर्यं दृष्ट्वा हर्षः, राज्यभ्रंशाद्दुःखमित्येषा मध्यगतिः। अधश्शिरस्त्वेनोक्तार्थस्यार्धाङ्गीकारध्वननम्ति।

४दैन्यहर्षयोः।

५दैन्यहर्षयोःघ।

॥ २।२३।१ ॥ ॥ २।२३।२ ॥

१तथा तु बध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।

निशश्वास महासर्पो २बिलस्थ इव रोषितः ॥ २ ॥

अथ प्रकृतिप्राबल्यात्प्रकृतिप्रयुक्तव्यापारमेव प्राप्तवानिति प्रदर्श्यतेतथा त्वित्यादि। तथा भयङ्करामित्यर्थः। बिलशब्देन पातुर्बिलमेव द्रष्टव्यम्। अन्यबिलस्थस्य परमसुखित्वेन निग्रहाभावेन रोषाद्यप्रसङ्गात् ॥ २ ॥

१तदा तु कृत्वाङ।

बिलमत्र परबिलंति। बिलस्थःपेटिकाबिलस्थः न तु वल्मीकस्थः, तदानीं रोषासम्भवात्गो। यद्वा स्वबिलस्थ एव रोषितःविप्रकृतः।

॥ २।२३।२ ॥ ॥ २।२३।३ ॥

तस्य दुष्प्रतिवीक्षं तद्भ्रकुटीसहितं तदा।

बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥

प्रतिमुखतया वीक्षितुमशक्यंदुष्प्रतिवीक्षम्। मुखस्य सदृशमिति। मुखस्य दुर्दर्शत्वेन सदृशमिति यावत् ॥ ३ ॥

॥ २।२३।३ ॥ ॥ २।२३।४ ॥

अग्रहस्तं विधून्वंस्तु हस्ती हस्तमिवात्मनः।

तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ ४ ॥

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।

अग्रं हस्तस्याग्रहस्तं, एकदेशसमासः पूर्वपरादिव्यतिरिक्तस्थलेऽपि क्वचिद्भवतिसायमह्नस्सायाह्नेसाहायनीतिवत्। आत्मनोऽग्रहस्तं विधून्वन्नित्यनेन रामेण क्षमापणाय लक्ष्मणहस्तो गृहीत इति शेष इत्यपि वक्तुं शक्यं, तथा प्रस्तावात्। तिर्यगित्यादिनाप्यतिक्रोधमूर्छनप्रदर्शनम्। अग्राक्ष्णाकटाक्षेण तिर्यग्वीक्षमाणः ॥ ४ ॥

अग्रहस्तंदक्षिणकरंशि।

हस्तिहस्तंऽगो। हस्तिहस्तसदृशमित्यर्थः। अभीष्टासिद्धिमूलकात्याधिककोपे सति हस्तविधूननं मनुष्याणां स्वभावः। प्रकृतव्याख्याकारस्तु लक्ष्मणसान्त्वाय रामेण गृहीतमग्रहस्तं लक्ष्मणे विधून्वन्विमोचयन् इत्यभिमन्यते। तिलकेऽप्येवं व्याख्यातम्।

॥ २।२३।४ ॥ ॥ २।२३।५ ॥

अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् ॥ ५ ॥

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।

अस्थान इत्यादि। धर्मदोषःधर्मविरोधः, तत्प्रसङ्गेनतत्परिहारशेषतया वनवासः कार्यः। लोकस्य प्राप्तातिशङ्कापरिहारहेतवे च। रामोऽपि पितृवचो नाकार्षीत्, कः खलु लोकेऽन्यः पितृवचः प्रमाणीकरिष्यतीति लोकनाशप्रसङ्गपरिहारार्थमित्यर्थः। तथा हि जगौ यद्यदाचरतिऽ इत्यादि उपहन्यामिमाः प्रजाःऽ इत्यन्तम्। उक्तहेतोः, वैप्रसिद्धः सुमहानयं सम्भ्रमःवनगमनत्वरात्मा यस्य ते जातः सोऽयमस्थाने अयुक्तःभ्रान्तिमूल एवेत्यर्थः ॥ ५ ॥

एवं वाऽर्थःधर्महानिप्रसक्त्या लोकस्यानतिशङ्कया अनतिःअपूजा, तद्विषयशङ्कयालोको मामधर्मिष्ठ इति न पूजयेदिति शङ्कयेत्यर्थः यस्य ते अयुक्तः सुमहान् सम्भ्रमो भ्रान्तिर्जाता। धर्महानिर्लोकनत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति भावःगो।

॥ २।२३।५ ॥ ॥ २।२३।६ ॥

कथं ह्येतदसं १ भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६ ॥

यथा दैवमशौण्डीरं २ शौण्डीरः क्षत्त्रियर्षभः।

तथात्वमेव प्रतिपाद्यतेकथं हीत्यादि। अशौण्डीरंअसमर्थंअकिञ्चित्करमेव दैवमिति किञ्चिद्वस्तु प्रबलमिति यथा त्वं वदसि एवं शौण्डीरःदैवमपि निराकर्तुं समर्थः त्वद्विधः क्षत्त्रियर्षभो यद्यसम्भ्रान्तः स्यात्तदासौ कथमेतद्वक्तुमर्हति? न कथमपि ॥ ६ ॥

हे शौण्डीरसमर्थ, दैवमपि निराकर्तुं क्षमेत्यर्थः क्षत्रियर्षभक्षत्रियश्रेष्ठ त्वं अशौण्डीरंअशूरं तत् दैवं यथा समर्थं वदसि एवं असम्भ्रान्तस्त्त्वद्विधः कथं वक्तुमर्हतिन कथमपि। अशूरः सम्भ्रान्तः क्षत्त्रबन्धुरेवासमर्थं दैवमनुसर्तुमर्हतीत्यर्थःगो।

१भ्रान्तंङ।

२शौण्डीर क्षत्रियर्षभङ।

॥ २।२३।६ ॥ ॥ २।२३।७ ॥

किन्नाम कृपणं दैवमशक्तमभिशंससि ॥ ७ ॥

अतः कृपणंअसमर्थैकपरिग्राह्यं अतश्शोच्यंदीनं पौरुषसन्निधौ मन्दबलं, अत एवाशक्तंपौरुषमतिक्रम्य कार्यासमर्थप्राकृतवत्किंनामाभिशंससिअभिष्टौषि ॥ ७ ॥

॥ २।२३।७ ॥ ॥ २।२३।८ ॥

पापयोस्ते कथं नाम तयोश्शङ्का न विद्यते।

सन्ति १ धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे ॥ ८ ॥

तयोस्सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः।

एवं देवावलम्बनवादं प्रतिक्षिप्य धर्मदोषप्रसङ्गं परिहरतिपापयोरित्यादि। पापात्मनोस्तयोः

कैकेयीदशरथयोर्विषये ते कथं नाम शङ्कापापात्मत्वशङ्का न विद्यते ॥

ननु कथं धर्मावलम्बनव्यवहारयोस्तयोः पापशङ्काप्रवृत्तिरित्यत्राहसन्तीत्यादि। हे धर्मात्मन् लोके धर्मोपधासक्ताःधर्मव्याजपराः बहिः, अन्तः प्रच्छन्नपापजनास्सन्तीत्येतन्न बुध्यसे किम्? अस्ति लेके, प्रकृते तथात्वं कथमित्यत्राहतयोरित्यादि। सुचरितं त्वां त्वदर्थं च शाठ्यात्मृषाक्लृप्तधर्मव्यवहारात् परिजिहीर्षतोःनिरासिसिष्वोस्तयोरप्युक्तहेतोर्धर्मकञ्चुकत्वमेव ॥ ८ ॥

१धर्मोपधाः श्लक्ष्णाःङ।

स्वार्थं अभिषेकरूपमस्मत्प्रयोजनं परिजिहीर्षतोःपरिहर्तुमिच्छतोः तयोः कैकेयीदशरथयोः सचरितंसुष्ठु मन्त्रितं किं न बुध्यसेगो। ती। स्वार्थंस्वेष्टसिद्ध्यर्थमिति वा।

॥ २।२३।८ ॥

॥ २।२३।९ ॥

यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव

तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥ ९ ॥

एवन्त्वस्य प्रयोजकश्शाठ्यहेतुरसिद्ध एवेत्याशंक्य तमर्थापत्त्या साधयतियदीत्यादि। हे राम यद्येवं न व्यवसितंत्वदर्थप्रच्यावनमेव यचेनकेनचिच्छाठ्येन चिकीर्षितं यदि न स्यात्, वरप्रसङ्गश्च यदि सत्यः स्यात्तदा तु हियस्मात् प्रागेवपूर्वकाल एव प्रकृतः १प्रवृत्तप्रसङ्गः स वरः राज्ञो मनसि विपरिवर्तमानो युष्मदभिषेकप्रसङ्गात्प्रागेव दत्तश्च स्यात्। अस्यै वरद्वयं दत्तं, इदमवश्यं निर्यातनीयम् अन्यथा लोकचित्तस्यार्थपरस्यातिचलत्वादभिषेकविघ्न एतद्वारा भविष्यतिऽ इति निश्चित्य त्वदर्थविघ्नव्यतिरिक्तेनैव केनचिदर्थेन पूर्वमेव २निर्यातयेत्। तत्तु न कृतम्। अत उभावपि त्वदर्थप्रच्यावने हृदयशठावित्यर्थः। अत्र यद्यपि परिहारोऽस्तिवृद्धत्वाद्राज्ञा विस्मृतो वरप्रसङ्गः। तया तु गूढहृदयत्वाद्यावत्स्वाभिमतकालं गुप्तमित्यादिकंअथापि रुष्टेन तत्सर्वं न परिहर्तव्यमित्युपेक्षितम् ॥ ९ ॥

अयं भावःभरतायावश्यं राज्यं देयम्। रामस्य ज्येष्ठत्वेन तद्विषयोऽभिषेक आरभ्यते। अन्यथा लोकविरोधः। तदानीं त्वया वरद्वयं प्रष्टव्यम्। तद्व्याजेन रामो विवास्यते, भरतोऽभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम्। अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं न याचेत। अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदितिगो।

१कृतप्रसङ्गःघ।

२निर्यातयितव्यत्वात्घ।

३रुष्टेनलक्ष्मणेन।

॥ २।२३।९ ॥ ॥ २।२३।१० ॥

लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।

नोत्सहे सहितुं, वीर तत्र मे क्षन्तुमर्हसि ॥ १० ॥

यदेवमतोलोकेत्यादि। ज्येष्ठे श्रेष्ठगुणे जाग्रति कनिष्ठविषयत्वाल्लोकविद्विष्टत्वम्। प्रत्यक्षविरुद्धं शास्त्रविरुद्धं चेत्यर्थः। लोक्यत अनेन तत्त्वमिति लोकः शास्त्रं च। एवञ्च स्वपक्षे लक्ष्णेन युक्तिरुपदिष्टा वेदितव्या। तत्र मेतद्विषयकं मम प्रतिवचनापराधमित्यर्थः ॥ १० ॥

मे तत्रअसहनविषये क्षन्तुमर्हसिगो।

॥ २।२३।१० ॥ ॥ २।२३।११ ॥

येनेयमागता द्वैधं तव बुद्धिर्महामते।

सोऽपि धर्मो मम द्वेष्यो १यत्प्रसङ्गाद्विमुह्यसि ॥ ११ ॥

तदेव प्रतिवचनं वक्तियेनेत्यादि। यस्य पितृवचनस्य प्रसङ्गात्धर्मत्वप्रसङ्गान्मुह्यसि, येन च तद्धर्मत्वमोहेनेयं तव बुद्धिः द्वैधंद्विप्रकारं राज्यग्रहत्त्यागलक्षणद्विप्रकारं गता, “द्वित्र्योश्च धमुञ्” इति प्रकारार्थे धमुञ्, स हि धर्मो मम द्वेष्यः२धर्माभासत्वादनङ्गीकार्य इत्यर्थः ॥ ११ ॥

१प्रसङ्गाद्यस्य मुह्यसिङ।

२धर्माभावत्वाक।

॥ २।२३।११ ॥ ॥ २।२३।१२ ॥

कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।

करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ १२ ॥

१आभासत्वमेव प्रतिपादयतिकथमित्यादि। कर्मणाअचिन्त्यवैभवस्वक्रियाशक्त्या कर्तुमकर्तुमन्यथाकर्तुं च शक्तःसमर्थस्त्वं कैकेयीवशवर्तिनः पितुर्वाक्यमुक्तहेतोरेवाधर्मिष्ठं विगर्हितं च कथं करिष्यसि ॥

अभावत्वमेवक।

॥ २।२३।१२ ॥ ॥ २।१२।१३ ॥

१यस्त्वयं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते।

२जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः ॥ १३ ॥

एवमधर्मे प्रस्पष्टेऽपि तव धर्मबुद्धिर्न जातेति मे दुःखमित्याहय इत्यादि। यस्त्वयं भेदःअभिषेक ३विघटनात्मा उक्तरीत्या किल्बिषात्मृषावरप्रकल्पनादेव कृतः, एवमपि सर्वथैव तत्त्वत्वेऽपि त्वयैवं न गृह्यत इति यत् तत्रअत्र मे दुःखं जायते। एवं तत्त्वग्रहाभावादेव जायमानो गर्हितो धर्मसङ्गश्चधर्मत्वबुद्धिश्च मम दुःखाय जायते ॥ १३ ॥

१यद्ययंऽ यदयंऽङ।

२एतदनन्तरं तवायं धर्मसंयोगो लोकस्यास्य विगर्हितःऽ इत्यधिकम्ङ।

धर्मसङ्गःधर्मासक्तिर्निन्द्याति।

३विघ्नात्माघ।

॥ २।२३।१३ ॥ ॥ २।२३।१४ ॥

मनसाऽपि कथं कामं १कुर्यात्त्वां कामवृत्तयोः।

तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ॥ १४ ॥

पुनश्च दोषस्य दोषत्वेनाग्रहमेव शोचतिमनसाऽपीत्यादि। त्वां विना, केवलदैष्टिकसाधुं विनेत्यर्थः, कामवृत्तयोस्तयोर्वचःपरिपालनं मनसाऽपि कथं कुर्यात्? मनसाऽपि नाशास्ते, अनुष्ठानं तु दूर इत्यर्थः ॥

१कुर्यास्त्वंङ।

॥ २।२३।१४ ॥ ॥ २।२३।१५ ॥

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयो १र्मतम्।

तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ १५ ॥

इदानीं वरप्रसङ्गस्य वास्तवत्वमङ्गीकृत्याप्याहयद्यपीत्यादि। तयोः पित्रोः प्रतिपत्तिःस्वपुत्राभिषेकत्ववनवासविषयकवरग्रहगोचरा पितुश्च तदनुमतिगोचरा बुद्धिः दैवीदेवकृता इति ते मता, अथापि तदनुवर्तनं ते उपेक्षणीयंउपेक्षार्हं,अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तुऽ इत्यादिस्मृतेर्मुख्योदाहरणत्वात्। एवमुपेक्षणीयमपि नोपेक्षस इति यत्तदपि मे न रोचते ॥ १५ ॥

१र्मताङ।

॥ २।२३।१५ ॥ ॥ २।२३।१६ ॥

विक्लबो वीर्यहीनो यः स दैवमनुवर्तते।

वीरास्सम्भावितात्मानो न दैवं पर्युपासते ॥ १६ ॥

इदानीं त्वादृशस्य दैवावलम्बनवादो न युक्त इत्याहविक्लब इत्यादि। सम्भावितात्मानःसर्वलोकोपश्लाघनीययशोवीर्यादिमन्त इति यावत् ॥ १६ ॥

विक्लबःकातरः, तत्प्रतिद्वन्द्वीसम्भावितात्मान इतिगो। विक्लबः लोकाप्रसिद्धःति।

॥ २।२३।१६ ॥ ॥ २।२३।१७ ॥

न दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति।

दैवं पुरुषकारेण यस्समर्थः प्रबाधितुम् ॥ १७ ॥

विपन्नार्थःहतप्रयोजनः ॥ १७ ॥

॥ २।२३।१७ ॥ ॥ २।२३।१८ ॥

द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।

दैवमानुषयोरद्य व्यक्तिर्व्यक्ता भविष्यति ॥ १८ ॥

ननु दैवबाधकत्वं कस्यचिदपि पुरुषस्य न समस्ति, येनाहं दैष्टिकमवलम्बय इत्यत्राहद्रक्ष्यन्तीत्यादि। दैवमानुषयोर्वक्तिःप्रबलदुर्बलविवेकः व्यक्ता भविष्यति। अद्य मत्पौरुषेणैवेति शेषः ॥

॥ २।२३।१८ ॥ ॥ २।२३।१९ ॥

अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।

१देवि दैवहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ १९ ॥

तदेवाहअद्येति। हे देविकौसल्ये यथा राज्याभिषेचनं दैवहतं दृष्टं जनैस्त एव जना अद्य दैवं च मत्पौरुषहतं द्रक्ष्यन्ति ॥

१यैर्दैवादाहतंऽ यद्दैवादाहतंऽङ।

॥ २।२३।१९ ॥ ॥ २।२३।२० ॥

अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्।

प्रधावितमहं दैवं पौरुषेण निवर्तये ॥ २० ॥

अत्यङ्कुशंअतिक्रमिताङ्कुशव्यापारं उद्दामं उत्कृष्टदामबन्धं, अत एव प्रधावितंदुर्निवारस्वच्छन्दगमनं गजमिव दैवमपि पौरुषेणपुरुषगतज्ञानबलादिसामर्थ्येन निवर्तयेनिरोधयामि ॥ २० ॥

उत्कृष्टःआकृष्टः, छिन्न इत्यर्थः

॥ २।२३।२० ॥ ॥ २।२३।२१ ॥

लोकपालास्समस्ता ये नाद्य रामाभिषेचनम्।

न च कृत्स्नास्त्रयो लोका विहन्युः किंपुनः पिता ॥ २१ ॥

दैवनिवर्तनं स्वपौरुषस्येषत्करमित्याहलोकेत्यादि ॥ २१ ॥

॥ २।२३।२१ ॥ ॥ २।२३।२२ ॥

यैर्विवासस्तवारण्ये मिथो, राजन् समर्थितः।

अरण्ये ते विवत्स्यन्ति चतुर्दशसमास्तथा ॥ २२ ॥

राजन्नित्यनेन स्वपौरुषेण राजत्वस्य सिद्धवत्कृत्यवादः ॥ २२ ॥

॥ २।२३।२२ ॥ ॥ २।२३।२३ ॥

अहं तदाशां छेत्स्यामि पितुस्तस्याश्च, या तव।

अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ २३ ॥

पुत्रराज्यायपुत्रराज्यप्रापणार्थम् ॥ २३ ॥

॥ २।२३।२३ ॥ ॥ २।२३।२४ ॥

१त्वद्बलेन विरुद्धाय न स्याद्दैवबलं तथा।

प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ २४ ॥

त्वद्बलेनत्वत्पक्षभूतेन मया विरुद्धायकृतविरोधाय ममोग्रं पौरुषं यथा दुःखाय प्रभविष्यति, तथा तस्य दैवबलं तन्निराससमर्थं न स्यात् ॥ २४ ॥

१मद्बलेनऽगो। मम बलेनेत्यर्थः।

॥ २।२३।२४ ॥ ॥ २।२३।२५ ॥

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।

आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २५ ॥

अथ वनवासस्योचितं कालं स्वयमेवाहऊर्ध्वमित्यादि। अस्यैव विवरणंवर्षसहस्रान्त इति। पालनंपाल्यं, भावे घञ्, स्वार्थे यत्, प्रजापालनानन्तरमिति यावत्, तत्कृत्वा यथाप्राप्तकालं त्वयि वनवासं गते सति ततः परं आर्यस्य भवतः पुत्राः प्रजा १पाल्यं करिष्यन्ति ॥ २५ ॥

तदानीमप्यन्येषां नावकाश इति भावःति

अत्र पाल्यमित्येव व्याख्येयं पदम्। पालशब्दात् घञन्तात् स्वार्थे यत्प्रत्यये पात्यमिति भावः।

१पालनंघ।

॥ २।२३।२५ ॥ ॥ २।२३।२६ ॥

पूर्वराजर्षिवृत्त्या हि वनवासो १विधीयते।

प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने।

स्वोक्तवनवासोऽशेषसम्मत इत्याहपूर्वेत्यादि। पुत्रवत्प्रजानां परिपालननिमित्तं प्रजाः पुत्रेषु निक्षिप्य पश्चाद्धि वनवासः पूर्वराजर्षिवृत्त्याआचारेण १ विधीयते ॥ २६ ॥

१ऽभीधीयतेङ।

२स्तूयतेघ।

॥ २।२३।२६ ॥ ॥ २।२३।२७२८ ॥

१स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ॥ २७ ॥

नैवमिच्छसि, धर्मात्मन् राज्यकामत्वमात्मनि।

प्रतिजाने च ते, वीर मा भूवं वीरलोकभाक् ॥ २८ ॥

राज्यं च तव रक्षेयं अहं वेलेव सागरम्।

अनेकाग्रेकामवशादुक्तवानप्रस्थधर्मानुष्ठानैकाग्र्यरहिते राजनि स धर्मो ज्येष्ठराज्याभिषेकपूर्ववनवासधर्मो न चेत्, हे धर्मात्मन् राज्यबिभ्रमशङ्क्यैवकुलदूषणकरकनिष्ठराज्यकरणरूपविपर्ययप्रसङ्गादेवतत्परिहारार्थमेव केवलंआत्मनि राज्यकामत्वंराज्यरूपभोग्यसम्बन्धवत्त्वमिच्छसिअङ्गीकरोषि चेत्, तावन्मात्रमेव त्वया सम्पाद्यं प्रजारक्षणक्लेशो न त्वयाऽनुभवितव्यः, वेला सागरमिव तव राज्यमहं रक्षेयं अन्यथाऽहं वीरलोकभाक् मा भूवमिति प्रतिजाने च। अत्र यद्वा भट्टः इतस्ततः कुड्येन शिरस्ताडयति। तत्र न किञ्चिदपि सङ्गतं पश्यामः ॥

१न चेद्राजङ।

राज्यं राम त्वमात्मनिऽ पाठान्तरंहे राम त्वं राजनिदशरथे एवमनेकाग्रे जलचित्तेअव्यवस्थितचित्ते सति, राज्यविभ्रमशङ्कयाराज्यस्य विविधचलनशङ्कया आत्मनि राज्यं नेच्छसि चेत्(तथा न शङ्कितव्यंयतोऽहं तव राज्यं सुस्थिरं रक्षेयम्।)गो। राजन्यस्मत्प्रतिकूले सति कथं मया तत्कर्तुं शक्यम्। यदि राज्ञोऽनभिमतं कुर्यां तदा प्रजाक्षोभोऽपि स्याद्वाऽ इति न शङ्कनीयमिति भावः।

॥ २।२३।२७२८ ॥ ॥ २।२३।२९ ॥

मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतोऽभव ॥ २९ ॥

यदेवं अतःमङ्गलैःअभिषेकसाधनैः अभिषिञ्चस्वात्मानम्। तत्र त्वंतत्रैवाभिषेकव्यापारे व्यापृतःव्यापृतचित्तो भव ॥ २९ ॥

मङ्गलैःमङ्गलद्रव्ययुक्तैर्जलैःगो।

॥ २।२३।२९ ॥ ॥ २।२३।३०३१ ॥

अहमेको महीपालानलं वारयितुं बलात्।

भवत्प्रतिबन्धनिरासेऽहं तिष्ठामीत्याहअहमित्यादि। अलंसमर्थोऽस्मि ॥

न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ॥ ३० ॥

नासिराबन्धनार्थाय न शराः स्तम्भहेतवः।

अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम् ॥ ३१ ॥

त्वदिष्टाचरणप्रयोजनकमेव मम बाहुवीर्यादिकमित्याह १ न म इत्यादि। असिःखड्गः। आबन्धनार्थायआराद्बध्यत इत्याबन्धनमलङ्कारः। स्तम्भःकाष्ठादिकिञ्चित्पदार्थस्याधःपतनस्तम्भनम्, तस्य हेतवस्तथा ॥ ३१ ॥

आबन्धनार्थायभूषणतया कट्यां बन्धनरूपप्रयोजनायगो।

स्तम्भहेतवः केवलं लक्ष्यभूतस्तम्भहेतवः। तूण्यां स्थापनहेतव इति वागो। स्तम्भहेतवःसमूहीभूय स्तम्भनिर्मापकाःशि।

अन्वयक्रमाभिप्रायेणैवं प्रतीकं धृतं स्यात्।

॥ २।२३।३०३१ ॥ ॥ २।२३।३२ ॥

न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ।

न चेत्यादि। यशश्त्रुर्मम मतःमद्बाहुबलानुरूपो मतः स्यात् न च तादृशं पश्यामि। तत्प्राप्तिमहमत्यर्थं कामये ॥

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ॥ ३२ ॥

प्रगृहीतेन १ वै शत्रुं वज्रिणं वा न कल्पये।

विद्युच्चलितेति। निष्ठायाः परनिपातः आहिताग्न्यादित्वात्, चलितविद्युत्समानतेजस्केनेति यावत्। प्रगृहीतेन तेनानेन खड्गेन छेदनानुरूपं वज्रिणमपि न कल्पयेन कमपि सम्भावयामीत्यर्थः ॥

तमहं न कामयेतस्य स्थितिं न कामयेगो।

१कंङ।

॥ २।२३।३२ ॥ ॥ २।२३।३३ ॥

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।

१हस्त्यश्व २नरहस्तोरुशिरोभिर्भविता मही ॥ ३३ ॥

हस्त्यादीनां क्रमाद्धस्तादिभिः सम्बन्धः। भवितेति लुट् ॥

१अत्रैकवद्भावाभावः आर्षःसत्य। परन्तु हस्तादीनां प्राण्यङ्गत्वेऽपि हस्त्यश्वादीनां प्राण्यङ्गत्वाभावाद्वा नैकवद्भावः। न च तेषामपि सेनाङ्गत्वमस्तीति वाच्यम्। अथापि सेनाङ्गप्राण्यङ्गयोरेकवद्भावासम्भव एव। किञ्चात्रोक्तानां हस्त्यादीनां सेनाङ्गत्वनिर्बन्धोऽपि नास्तीत्यपि द्रष्टव्यम्। व्याख्योक्तयथासङ्ख्यान्वयस्त्त्वार्थिकः।

२रथिङ।

॥ २।२३।३३ ॥ ॥ २।२३।३४ ॥

खड्गधाराहता मेऽद्य दीप्यमाना १इवाद्रयः।

पतिष्यन्ति २द्विधा भूमौ मेघा इव सविद्युतः।

खड्गधारया हताःछिन्नाः रक्तधारया दीप्यमानाः अत एव सविद्युतो मेघा इव स्थिताःहस्त्यादयो भूमौ द्विधा पतिष्यन्ति। सम्यक्कृत्तत्वादित्यर्थः ॥ ३४ ॥

१इवाग्नयःङ।

२द्विपाःङ।

॥ २।२३।३४ ॥ ॥ २।२३।३५ ॥

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ॥ ३५ ॥

अथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते।

बद्धगोधाङ्गुलित्राणादिधर्मके मयि स्थिते सति मत्पुरतः पुरुषाणां मध्ये कथं पुरुषमानीप्रतिभटपुरुषमानी स्यात्। न कथमपि समस्ति। सर्वथैवास्मदपेक्षया १ सर्वप्रतिभटस्य दुर्लभत्वादित्यर्थः ॥ ३५ ॥

गोधाज्याघातावरणंहस्तकवचः। अङ्गुलित्राणंज्याकर्षणसाधनंअङ्गुलीकवचः।

१सर्वप्रतिबलस्यघ।

॥ २।२३।३५ ॥ ॥ २।२३।३६ ॥

बहुभिश्चै १ कमर्त्यस्य नैकेन च बहूञ्जनान् ॥ ३६ ॥

विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु।

बहुभिरित्यादि। एकमर्त्यस्यएकमनुष्यस्य संहारो बहुभिर्बाणैर्न क्रियते अपि त्वेकेनैव बाणेन बहूञ्जनान् संहरामि। एवं प्रकारेण मदीयान् बाणान् नृवाजिगजमर्मसुविनियोक्ष्यामि ॥ ३६ ॥

बहुभिः बाणैरेक शूरमत्यस्यन्प्रकर्षेण क्षिपन्, एकेन बाणेन बहून् क्षुद्रानत्यस्यन्गो।

१कमत्यस्यन्ङ।

॥ २।२३।३६ ॥ ॥ २।२३।३७ ॥

अद्य मेऽस्त्र१प्रभावस्य प्रभावः २प्रतरिष्यति ॥ ३७ ॥

राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो

अद्य मेऽस्त्रप्रभावस्यअस्त्रसामर्थस्य प्रभावःमहिमा, हे प्रभो तव प्रभुत्वं कर्तुंसम्पादयितुं त्वदन्यस्य अप्रभुतामपि सम्पादयितुं राज्ञः प्रभुतां प्रतरिष्यति प्लावयिष्यतिनाशयिष्यतीति यावत् ॥ ३७ ॥

१प्रतापस्यङ।

२प्रभविष्यतिङ।

॥ २।२३।३७ ॥ ॥ २।२३।३८३९ ॥

अद्य चन्दनसारस्य केयूरामोक्षणस्य च।

वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ ३८ ॥

अनुरूपाविमौ बाहू, राम कर्म करिष्यतः।

अभिषेचनविघ्नस्य कर्तृ़णां ते निवारणे ॥ ३९ ॥

चन्दनसारस्येति। कल्याणप्रयोजनचन्दनसारानुलेपनस्येत्यर्थः। अनुरुपौअर्हौ। हे राम तेऽभिषेचन(क)विघ्नस्य कर्तृ़णांनिवारणविषये कर्म करिष्यतः ॥ ३९ ॥

इष्टसाधनं यथा मे बाहुः तथाऽनिष्टनिवारणेऽपि क्षम एवेति भावः।

॥ २।२३।३८३९ ॥ ॥ २।२३।३९ ॥

ब्रवीहि कोऽद्यैव मया वियुज्यतां

तवासुहृत्प्राणयशस्सुहृज्जनैः।

यथा तवेयं वसुधा वशे भवेत्

तथैव मां शाधि तवास्मि किङ्करः ॥ ३९ ॥

ब्रवीहीति। सेर्ह्यपिच्चऽ बहुलं छन्दसिऽ इति पित्त्वस्य च विद्यमानत्वात् ब्रुव ईट्ऽ इतीट् ॥ ३९ ॥

॥ २।२३।३९ ॥ ॥ २।२३।४० ॥

१विसृज्य बाष्पं परिमृज्य चक्षुषी

स लक्ष्मणं राघववंश २ वर्धनः।

उवाच ३पित्रोर्वचने व्यवस्थितं

निबोध मामेष हि, सौम्य सत्पथः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोविंशः सर्गः।

एवं लक्ष्मणसंरम्भमुक्त्वाभगवता नायमेतस्य कालःऽ इत्युपदिश्यत इत्याहविसृज्येत्यादि। अन्तर्भावितणिः। बाष्पं विसर्जयित्वालक्ष्मणस्य चक्षुषी परिमृज्येति यावत्। पित्रोर्वचने व्यवस्थितंप्रतिष्ठितं मां निबोध। हे सौम्य एष हि सत्पथःसमीचीनः पन्थाः। जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात्। गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रताऽ इति न्यायादित्याशयः। नव (४०)मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयोविंशः सर्गः

बाष्पं विसृज्यत्यक्त्वा विसृष्टबाष्पं च चक्षुः परिमृज्य मां निबोधेत्युवाचेति वाऽन्वयः।

१विमृज्य बाष्पं परिसान्त्व्य चासकृत्ऽङ।

२वर्धनम्ङ।

३पित्र्ये वचनेङ्।

॥ २।२३।४० ॥