०२२ दैवप्रभावः

द्वाविंशस्सर्गः

[लक्ष्मणप्रतिबोधनम्] ॥ २।२२।१२ ॥

अथ तं व्यथया दीनं सविशेषममर्षितम्।

१सरोषमिव नागेन्द्रं राषविष्फारितेक्षणम् ॥ १ ॥

आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम्।

उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ २ ॥

अथ भगवान् रामः सौमित्रेः कैकेयीविषयकरोषमुपशमयतिअथेत्यादि। सविशेषंरामेष्टजनान्तरापेक्षयेति शेषः। अमर्षितं प्राप्तासहनम्। निष्फारितंविस्तारितम्। सत्त्वंसर्वविषयकं स्वबलं। धैर्येण धारयन्प्रकटयन् ॥ २ ॥

सविशेषंसातिशयं यथातथा अमर्षितंइति वार्थः। श्लोकद्वयमेकं वाक्यम्।

१श्वसन्तमिव ङ।

सत्त्वंअन्तःकरणं धैर्येण धारयन्, अविकृतं यथातथा धारयन्निति वार्थः। अन्तःकरणं निगृह्येति यावत्। तत्रोपपादकंआत्मवानिति। आत्मवान्महामनाः। आत्मवान् को जितक्रोधःऽ (बाल।१४) इति वाल्मीकिप्रश्नस्य तैर्युक्तः श्रूयतां नरःऽ इति खलु प्रत्युत्तरितं नारदेन। तदत्र स्पष्टीकृतम्।

॥ २।२२।१२ ॥ ॥ २।२२।३४ ॥

निगृह्य रोषं शोकं च १धैर्यमाश्रित्य केवलम्।

अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ ३ ॥

सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।

२अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः ॥ ४ ॥

किमुवाचेत्यत्राहनिगृह्येत्यादि। रोषंपित्रादिवधहेतुभूतम्। अवमानंवनप्रवासरूपावमानम्। निरस्येति। शत्रुभिर्निजदौर्बल्यकृतत्वाभावादित्याशयः। उत्तमं हर्षं गृहीत्वेति। सत्यपरिपालनेन पितुः पुण्यलोकसिद्धिजं हर्षमित्यर्थः। तं गृहीत्वा तत्सिद्ध्यर्थमेव हे सौमित्रे ममाभिषेकार्थंतत्प्रयोजनमुद्दिश्य यः सम्भारसम्भ्रमो वर्तते सः सम्भारसम्भ्रमःत्वरा अभिषेकनिवृत्यर्थेऽस्तु। सा त्वरा वनवासपरिकरसम्पादनाय तवास्तु ॥ ४ ॥

१धर्ममाङ।

४५ श्लोकयोः पौर्वापर्यव्यतिक्रमःगो। ति। युक्तं च तत्। यतो निगृह्यऽ इत्यादिश्लोकः क्रियासाकाङ्क्षः। तस्य च हर्षं गृहीत्वा उत्तरत्र कार्यं कुरुऽ इत्यन्वयः स्वरसः।

॥ २।२२।३४ ॥ ॥ २।२२।५ ॥

उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे।

सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥ ५ ॥

यदेवंअतः उपक्लृप्तमित्यादि। निरत्ययंनिरपायम्। सत्यपरिपालनोपयुक्तं कार्यं वल्कलाद्यानयनरूपं कुर्वित्यर्थः ॥ ५ ॥

॥ २।२२।५ ॥ ॥ २।२२।६ ॥

यस्या मदभिषेकार्थे मानसं परितप्यते।

माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ॥ ६ ॥

अपि च यस्याः मदभिषेकार्थेअर्थशब्दो निवृत्तिवचन इह, “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु”, यस्या मदभिषेकनिवृत्तिनिमित्तं मानसं परितप्यते, सा मे माता यथा चेत्सशङ्का न स्यात्तथा कुरु। पितृवाक्यपरिपालनं रामकर्तव्यम्। अल्पकालसाध्यत्वाच्च तस्य तद्विषये त्वया न विषक्तव्यम्। अनुमन्यस्वऽ इत्येवमादिवचनेनेति शेषः ॥ ६ ॥

मदभिषेकार्थेमदभिषेकविषये माताकैकेयीसविशंका लक्ष्मणेन संमन्त्र्य राज्यं रामः पुनः किं ग्रहीष्यतीऽति शङ्कावती यथा न स्यात् तथा कुरुतवोच्चावचभाषणेन हि सा तथा मन्येतापि। अहं तु सर्वथा तन्न सहे इति भावः। अनन्तरश्लोकानां स्वारस्यपर्यालोचनायामयमर्थः स्वरसः।

अहमेव वा रामस्य सहायतया वनं गत्वा रामं सुरक्षामीति च वदेति च भावः स्यात्।

॥ २।२२।६ ॥ ॥ २।२२।७ ॥

तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।

मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम् ॥ ७ ॥

कुत एवमित्यत्राहतस्या इत्यादि। तस्या मनसि प्रतिसञ्जातं शङ्कामयं दुःखं मुहूर्तमप्युपेक्षितुं नोत्सहे ॥ ७ ॥

॥ २।२२।७ ॥ ॥ २।२२।८ ॥

न बुद्धिपूर्वं नाबुद्धं १समारब्धं कदाचन।

मातृ़णां वा पितुर्वाऽहं २कृतकल्पं च विप्रियम् ॥ ८ ॥

कथमसहनमित्यत्रेतः प्रागेवं निर्णीतव्यवहारत्वादेवेत्याहन बुद्धीत्यादि। मातृ़णां, पितुर्वा बुद्धिपूर्वं विप्रियंविप्रियकरं कर्म कदाचनकदापि न समारब्धंनारब्धवानस्मि। तथा अबुद्धंअबुद्धिपूर्वकमपि तन्न समारब्धम्। अपि च तत् कृतकल्पमपीति न। एवं पाङ्क्ते पाठेऽर्थे च स्थिते स्मरामीहऽ इति ३कृतमल्पं च विप्रियम्ऽ इति च पाठं योजनाशक्त्याऽचीक्लृपत् परः ॥ ८ ॥

१स्मरामीहऽङ।

२कृतमल्पंऽङ।

३कृतकल्पंक।

महेश्वरतीर्थः

॥ २।२२।८ ॥ ॥ २।२२।९ ॥

सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः।

परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ ९ ॥

सत्यःसत्यवचनस्वभाववान्। निर्भयोऽस्त्विति। मया तत्कृतसत्यपरिपालनादेव ॥ ९ ॥

सत्यःसत्यवचनः, सत्याभिसन्धःसत्यप्रतिज्ञः, सत्यपराक्रमःअमोघपराक्रमःगो। यथाक्रमं विशेषणत्रयेन

वाचि मनसि कर्मणि च सत्यत्वं प्रतिपादितं भवतीत्याशयः।

॥ २।२२।९ ॥ ॥ २।२२।१० ॥

तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते।

सत्यं नेति मनस्तापः, तस्य तापस्तपेच्च माम् ॥ १० ॥

विपक्षे बाधकमाहतस्यापीत्यादि। हियस्मात्। अस्मिन्नभिषेककर्मण्यप्रतिसंहृते तस्यपितुः सत्यं न संवृत्तमभूत् इति कृत्वा मनस्तापो भवेत्। तस्य च मनस्तापो मामपि तपेत्तापयेत्पितृहितमकुर्वतो मम जन्म किमिति ॥ १० ॥

यस्या मदभिषेकार्थे मानसं परितप्यतेऽ इति पूर्वमुक्तत्वात् तस्यापीत्युक्तम्। एवञ्च अभिषेचनसम्भारेऽप्रतिसंहृते कैकेय्या दुःखं पूर्वमुक्तम्। न कैकेय्याः केवलं शोकः, तस्यापि राज्ञः शोकः स्यादिति भावः। शिष्टं ६ श्लोकटिप्पण्यां द्रष्टव्यम्

॥ २।२२।१० ॥ ॥ २।२२।११ ॥

अभिषेकविधानं तु तस्मात्संहृत्य, लक्ष्मण

अन्वगेवाहमिच्छामि वनं गन्तुमितः १ पुरः ॥ ११ ॥

यदेवमतःअभिषेकेत्यादि। अन्वगेवअभिषेकनिर्वर्तनानन्तरमेव। इतः पुरःपूर् शब्दात्पञ्चमी ॥ ११ ॥

अन्वक्अनुपदं अन्वगन्वक्षमनुगेऽनुपदं क्लीवम्ऽ इत्यमरःगो। भरतागमनं नाहं प्रतीक्षे। अपि त्वस्मिन्नेव क्षणे वनं गच्छाम्यहम्। अनन्तरं भरतोऽभिषिच्यतामित्यर्थः। भरतागमने हि सर्वं व्यत्यस्तं भवेत्। अपि च वरद्वये प्रथमवरनिर्वर्तनानन्तरमेव हि द्वितीयवरनिर्वर्तनं युक्तमिति भावः। अत एव अभिषेचयतां ततःऽ इत्युक्तमिति।

१पुनःङ।

॥ २।२२।११ ॥ ॥ २।२२।१२ ॥

मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।

सुतं भरतमव्यग्र १मभिषेचयतां ततः ॥ १२ ॥

अव्यग्रंस्वस्थबुद्धितया अभिषेचयतांअभिषेकं कारयताम् ॥ १२ ॥

१ मभिषेचियता ततःङ।

॥ २।२२।१२ ॥ ॥ २।२२।१३ ॥

मयि चीराजिनधरे जटामण्डलधारिणि।

गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ १३ ॥

गतेऽरण्यमिति। गत एवेति यावत् ॥ १३ ॥

॥ २।२२।१३ ॥ ॥ २।२२।१४ ॥

बुद्धिः १ प्रणीता येनेयं मनश्च सुसमाहितम्।

तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥ १४ ॥

तथा पितरमपि क्लेशयितुं नार्हामीत्याहबुद्धिरित्यादि। येनेयं बुद्धिःवनप्रव्रजनबुद्धिः उत्पादिता, यत्र मनश्च मामकं सुसमाहितंसत्यपरिपालनशेषतया पूर्वप्रवृत्तत्वेन सुतरामव्याकुलतया उक्तकृतौ स्थापितञ्च, तं तु संक्लेष्टुं नार्हामि। यदेवमतःप्रव्रजिष्याम्येव। मा चिरंविलम्बो मा स्त्वित्यर्थः ॥ १४ ॥

येन मया इयं बुद्धिःवनवासबुद्धिः प्रणीताशिक्षिता मनश्च सुसमाहितंस्थिरीकृतं तं मां संक्लेष्टुं क्लेशयितुं नार्हामिगो। येनईश्वरेणेयं बुद्धिः कैकेय्याः प्रणीतामन्थराद्वारा दत्ता, मनश्च तद्बुद्धिविषये सुसमाहितंस्थिरीकृतं तं संक्लेष्टुंमत्कृतमन्यथाजातमिति क्लेशयितुं नार्हामि। तस्य मदधिकारित्वान्मद्रूपत्वाद्वेति गूढ आशयः। (मत्संकल्पकृत एवायं इत्याशयः)ति। येनमन्थरादिजनेनेयं बुद्धिरुत्पदिता तमपि क्लेशयितुं नार्हामिकिं पुनः पितराविति भावःती।

१प्रणिहिता येनङ।

॥ २।२२।१४ ॥ ॥ २।२२।१५ ॥

कृतान्तस्त्वेव, सौमित्रे द्रष्टव्यो मत्प्रवासने।

राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १५ ॥

एवं प्रवासं निश्चित्य तत्र कैकेयीनिमित्तत्वशङ्कया तस्यां क्रोधनिवृत्तय आहकृतान्त इत्यादि। प्रचीनं दुरदृष्टमेव प्राप्ताप्राप्तराज्यवनाप्राप्तिप्राप्तिकारणं, नान्यदित्यर्थः। “कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” ॥ १५ ॥

कृतान्तःदैवम् इन्द्रादीनां दुःखनिवर्तकादृष्टमिति यावत्ति। गो। कृतः अन्तो येनेति व्युत्पत्त्या कृंतान्तशब्देन काल उच्यतेरामानुजअन्यथा उत्तरत्र दैवोऽयं कृतान्तविहितःऽ इत्यत्र क्लेशः स्यादिति भावः।

प्राप्तराज्याप्राप्ति, अप्राप्तवनप्राप्तिकारणमिति यथासङ्ख्यमन्वयः

॥ २।२२।१५ ॥ ॥ २।२२।१६ ॥

कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने।

यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १६ ॥

कृतान्तस्त्वेवेत्यवधार्यांशमाहकैकेय्या इत्यादि ॥ १६ ॥

हियस्मात् कैकेय्या मयि भरतादप्यधिका प्रतिपत्तिःइष्टत्वाभ्युपगमः प्रसिद्धः तमुपचितव्यवहारानुभवादेव तादृश्यास्तस्या मयीदृशो भावःअभिप्रायः कथं स्यात्। अथ देवो भरताभिषेकप्रापकः सद्दैवविहितः मद्वनवासप्रापककृतान्तविहितःदुरदृष्टविहितो यदि न भवेत्। दैवकरणकमेव कैकेय्या भाववैपरीत्यं इत्यत्र सहजभावं स्मारयतिजानासीत्यादि।

पीडन इति परदृष्ट्या।

॥ २।२२।१६ ॥ ॥ २।२२।१७ ॥

जानासि हि यथा, सौम्य न मातृषु ममान्तरम्।

भूतपूर्वो विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७ ॥

हे सौम्य मम तु मातृषु अन्तरं नप्रतिपत्तिभेदो न। तथा तस्याः कैकेय्या अपि तत एव सुते भरते मय्यपि वा विशेषो न भूतपूर्वःनानुभूत इतीममर्थं च जानासि किल। अतो देवकृतो भावभेद इति निश्चिन्विति शेषः ॥ १७ ॥

भूतपूर्वमिति पाठान्तरम्गो। ति। तदा अन्तरमित्यनेनान्वयः। उत्तरात्रापि लिङ्गविपरिणामेनान्वयः।

॥ २।२२।१७ ॥ ॥ २।२२।१८ ॥

सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।

उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात् समर्थये ॥ १८ ॥

अयमेव निश्चय इत्याहस इत्यादि। सोऽहमभिषेकनिवृत्तिप्रयोजनैः प्रवासप्रयोजनैश्च दुर्वचैरुग्रैर्वाक्यैः तस्या एवं प्रवर्तने दैवादन्यन्न किञ्चिदपि कारणमस्ति इत्यहं समर्थये ॥ १८ ॥

वाक्यैरिति हेतौ तृतीया। दैवादन्यत् बुद्धिभेदकारणं न समर्थयेगो।

॥ २।२२।१८ ॥ ॥ २।२२।१९ ॥

कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।

ब्रूयात् सा प्राकृतेव स्त्री १मत्पीड्यं भर्तृसन्निधौ ॥ १९ ॥

सर्वथैव दैवमेव तस्या भावभेदहेतुरित्याहकथमित्यादि। प्रकृतिसम्पन्नापरमसत्त्वप्रकृतिसम्पन्ना राजपुत्रीमहाकुलप्रसूता तथागुणाएतत्क्षणात्प्रागनुभूततादृक्परमकल्याणगुणा भर्तृसन्निधौ च कथं कुर्यादिति। यदि न दैवहतेति शेषः ॥ १९ ॥

अहं पीड्यः यस्य वाक्यस्य तत् मत्पीड्यम्।

१मत्पीडांङ।

॥ २।२२।१९ ॥ ॥ २।२२।२० ॥

यदचिन्त्यं तु तद्दैवं १भूतेषु न विहन्यते।

व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २० ॥

इह विषये न केवलं तस्या एव देववशगत्वम् ममापीत्याहयदित्यादि। यद्दैवं प्रारब्धादृष्टरूपमस्ति तदचिन्त्यंअचिन्त्यफलदानसमर्थम्, तत् भूतेषुसंसारिषु न क्वापि विहन्यतेअशक्यविहननस्वफलदानं भवति।

अतो व्यक्तंस्पष्टं मयि तस्यां च हि दैववशाद्विपर्ययःयथाप्राप्तवैपरीत्यंकनिष्ठराज्यज्येष्ठवनवासादिरूपं प्राप्तं, नान्यत इत्यर्थः ॥ २० ॥

भूतेषुभूताधिष्ठातृषु ब्रह्मादिष्वपिति।

१भूतेष्वपि न हन्यतेङ।

मयि हस्तगतराज्यभ्रंशरूपः, तस्यां पूर्वावस्थितवात्सल्यापगमरूपः विपर्ययः पतितःप्राप्तःगो।

व्यक्तमिति क्रियाविशेषणमिति भावः। गोविन्दराजीये तुव्यक्तंअत्र संशयो नास्ति इत्युक्तम्।

॥ २।२२।२० ॥ ॥ २।२२।२१ ॥

कश्च दैवेन, सौमित्र यौद्धुमुत्सहते पुमान्।

न यस्य ग्रहणं किञ्चित् कर्मणोऽ १ न्यत्र दृश्यते ॥ २१ ॥

ननु कथं दैवस्य प्राबल्यम्? किञ्च तत्सत्वे मानमित्यत्राहकश्चेत्यादि। यदि प्राचीनं दुरदृष्टं सुज्ञानं तदा तेनापि योद्धुं शक्यम् तन्निरासोऽपि सुकरः, तन्नास्तीत्याहन यस्येत्यादि। यस्यअदृष्टस्य ग्रहणंज्ञानमेव न समस्ति, तेन दैवेन कः पुमान् योद्धुमुत्सहते। तर्हि निष्प्रमाणत्वाद्दैवमेव नास्तीति वा किं न स्यादित्यत्राहकर्मणोऽन्यत्रेति। अचिन्त्यहेतुसुखदुःखफलरूपकार्यवशादेव तदस्तित्वं त्वनुमेयम्। अतो न निष्प्रमाणतेत्यर्थः ॥ २१ ॥

यस्य नु ग्रहणं किञ्चित्कर्मणोऽन्यन्न दृश्यतेति। पाठः। क्रियत इति कर्म कार्यम्। फलरूपकार्यतोऽन्यत्र यस्य ग्रहणंज्ञानसाधनं न दृश्यतेगो। यद्वाअन्यत्रेति पञ्चम्यर्थे तसिल्। फलव्यतिरिक्तात्साधनात् तद्ग्रहणं न सम्भवतीत्यर्थः।

१न्यन्नङ। च।

॥ २।२२।२१ ॥ ॥ २।२२।२२ ॥

सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।

१यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥ २२ ॥

अतो दैवमेव प्रबलं, पौरुषं तु काकतालीयमेवेत्याशयेनाहसुखेत्यादि। भवाभवौबन्धमोक्षौ। यच्च किञ्चित्तथाभूतंअचिन्त्यकारणकं कार्यमस्ति तत्सर्वं दैवस्य ननु कर्मकार्यम् ॥ २२ ॥

ननु कर्मणोऽन्यत्रेत्युक्तं, किं तत्कर्म? तत्राहसुखदुःख इतिगो।

भवाभवौउत्पत्तिविनाशौगो। मङ्गलामङ्गलेसत्य

१यस्यङ।

॥ २।२२।२२ ॥ ॥ २।२२।२३ ॥

ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः।

उत्सृज्य नियमांस्तीव्रान् १भ्रश्यन्तेकाममन्युभिः ॥ २३ ॥

दैवप्राबल्यमेव द्रढयतिऋषय इत्यादि। विश्वामित्रादय इति यावत्। मन्युःक्रोधः। अभिभूयन्त इति शेषः ॥ २३ ॥

१गृह्यन्तेङ।

काममन्युभिः भ्रश्यन्ते। कामस्य मन्योश्चानेकत्वात् बहुवचनम्।

॥ २।२२।२३ ॥ ॥ २।२२।२४ ॥

असङ्कल्पितमेवेह यदकस्मात्प्रवर्तते।

निवर्त्या १ रम्भमारब्धं ननु दैवस्य कर्म तत् ॥ २४ ॥

इदानीं प्रारब्धस्य लक्षणमप्याहअसङ्कल्पितमित्यादि। अचिन्तितसुखदुःखप्रापकंप्रारब्धमित्यर्थः। लक्षणान्तरंनिवर्त्येत्यादि। येन पुरुषानभिमतारम्भमारब्धं तदेव दैवस्यप्रारब्धस्य कर्मकृत्यम्। पुमिच्छाविघातकत्वे सति तदनिष्टावहत्वं प्रारब्धत्वमित्यर्थः ॥ २४ ॥

निवर्त्यारब्धमारम्भैःइति ति, पाठः। आरम्भैः यत्नैः आरब्धंउपक्रान्तं कार्यं निवर्त्य यदसङ्कल्पितमेवअचिन्तितमेव अकस्मात्दृष्टहेतुं विना प्रवर्तते, तत् दैवस्य कर्म ननुति।

१रब्धमारम्भैःङ। च।

॥ २।२२।२४ ॥ ॥ २।२२।२५ ॥

एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।

व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २५ ॥

उपदिष्टं बुद्धियोगं सफलमुपसंहरतिएतयेत्यादि। बुद्ध्याबुद्धियोगेन आत्मानंअन्तःकरणं आत्मनाआत्मीयबुद्धियोगबलात् ॥

संस्तभ्य, यदि तिष्ठसीति शेषःति। तत्त्वया एतया बुद्ध्या आत्मनाऽऽत्मानं संस्तभ्य स्थितस्य मे अभिषेके व्याहतेऽपि परितापो न विद्यत इति वाऽन्वयः। एवं सत्येवानन्तरश्लोकानुरूप्यम्।

॥ २।२२।२५ ॥ ॥ २।२२।२६ ॥

तस्मादपरि १ तप्यस्व त्वमप्यनुविधाय माम्।

२प्रतिसंहर च क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २६ ॥

अपरितप्यस्वपरितापं मा कुरु। मयूरव्यंसकादित्वात्समासः। त्वमपि मामनुविधायअनुकुर्वन् आभिषेचनिकींतत्प्रयोजनिकां क्रियांअलङ्कारादिकर्म क्षिप्रं प्रतिसंहर ॥ २६ ॥

१तापस्सन्ङ। च।

२प्रतिसंहारयङ। च।

नञः पूर्वनिपात इत्यर्थः

॥ २।२२।२६ ॥ ॥ २।२२।२७ ॥

एभिरेव घटैः सर्वैः अभिषेचनसम्भृतैः।

मम, लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ २७ ॥

तापस्येतापसव्रतसंकल्पे यत् व्रतसंकल्पापेक्षितं स्नानंव्रतस्नानमस्ति तदेभिर्भर्विष्यतीति योजना ॥ २७ ॥

॥ २।२२।२७ ॥ ॥ २।२२।२८ ॥

अथवा किं ममैतेन १राज्यद्रव्यमतेन तु।

उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ २८ ॥

राज्येति। राज्याभिषेकसाधनद्रव्यत्वेन मतंअभिक्लृप्तं तथा। स्वयंस्वहस्तेनेति यावत्। व्रतादेशं

करिष्यतीति। व्रतसङ्कल्पसाधकं भविष्यतीत्यर्थः ॥ २८ ॥

१राजद्रव्यङ।

॥ २।२२।२८ ॥ ॥ २।२२।२९ ॥

मा च, लक्ष्मण सन्तापं कार्षीर्लक्ष्म्या विपर्यये।

राज्यं वा वनवासो वा वनवासो महोदयः ॥ २९ ॥

राज्यं वनवासो वा ममास्तु, नाहमर्थपरःऽ इत्यादि ऋषिभिस्तुल्यं केवलं धर्ममास्थितंऽ इत्युक्तत्वात्। राज्यं वा यथावत्पालनेन धर्मसाधनमस्तु वनवासो वाऽस्तु तपस्साधनन्। तयोरस्यास्ति विशेष इत्याहवनवासो महोदय इति। प्रजाकृत्यचिन्ताविक्षेपराहित्येन सतततपःप्रवृत्तिसाधनत्वात्, विशिष्य पितृवाक्यपरिपालनविशेषप्रयोजनवत्त्वाच्च महोदयःमहाभ्युदयसाधनम् ॥ २९ ॥

महोदयःमहाफलः, राज्यव्यापारक्लेशाभावात्, अपूर्वदर्शनसौख्याच्चेति भावःगो। पितृवाक्यपरिपालनप्रयोजनवत्वात् महाभ्युदयसाधनम्ती। स्वावतारोद्देशः तदानीमेव सिध्येदित्याशयः। महान्

उदयःउन्नतिः यस्मात् महोन्नतिसाधनम् इत्यर्थः।

॥ २।२२।२९ ॥ ॥ २।२२।३० ॥

न लक्ष्मणास्मिन् खलु कर्मविघ्ने

माता यवीयस्यतिशङ्कनीया।

दैवाभिपन्ना हि वदत्यनिष्टं

जानासि दैवं च तथाप्रभावम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वाविंशस्सर्गः

उपदेशपरमप्रयोजनं निगमयतिन लक्ष्मणेति। यवीयसी माता नातिशङ्कनीयेति कुत इत्यत्राहदैवाभिपन्नेति। प्रारब्धग्रस्तेति यावत्। अनिष्टं वदन्ती दृश्यते। त्वं च दैवं तथाप्रभावंअस्मदुपदेशेन जानासि किल। अतो नातिशङ्कनीयेति। अंग (३०) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वाविंशः सर्गः

॥ २।२२।३० ॥