एकविंशः सर्गः
[कौसल्यासान्त्वनम्] ॥ २।२१।१ ॥
तथा तु विलपन्तीं तां कौसल्यां राममातरम्।
उवाच १ लक्ष्मणोऽदीनः तत्कालसदृशं वचः ॥ १ ॥
एवं कौसल्याप्रलापे, लक्ष्मणेन चारातिनिरासे प्रतिज्ञातेऽपि भगवतो रामस्य सत्यस्थैर्यप्रतिपादन्। तथा त्वित्यादि। तत्कालसदृशंरामविप्रयोगहेतुककौसल्यादुःखप्रवृत्तिकालोचितम् ॥ १ ॥
१लक्ष्मणो दीनः, लक्ष्मणोऽदीनंङ।
एतेन वक्ष्यमाणलक्ष्यणवचनं केवलं कौसल्याशोकशान्त्यर्थ, न तु सहृदयमिति गम्यतेगो। परन्त्वत्र, अस्मिन्नेव सर्गे २७ तमश्लोको द्रष्टव्यः।
॥ २।२१।१ ॥ ॥ २।२१।२ ॥
न रोचते ममाप्येतत्, आर्ये यद्राघवो वनम्।
त्यक्त्वा राज्याश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥ २ ॥
गच्छेदिति यत् तन्ममापि न रोचते। आर्येऽ इति कौसल्यासम्बोधनम् ॥ २ ॥
स्त्रिया वाक्यवशंवदःऽ इति राघवविशेषणम् इति ज्ञायते, स्त्रिया वशंगत इत्यनुत्क्वा स्त्रिया वाक्यवशं गतःऽ इति कथनात्। उत्तरश्लोके चोद्यमान इत्यत्र चोदनहेतुः समन्मथःऽ इति सामभिप्रायविशेषणे ध्वनितः। तिलके तु स्त्रिया इत्यारभ्य उत्तरान्वयि इति दशरथविशेषणतया व्याख्यातम्।
॥ २।२१।२ ॥ ॥ २।२१।३ ॥
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।
नृपः किमिव न ब्रूयात् चोद्यमानः समन्मथः ॥ ३ ॥
ननु राजचोदिते वनवासे १कथमिह स्थातुं शक्यमित्यत्राहविपरीत इत्यादि। विपरीतःप्राप्तप्रकृतिवैपरीत्यः। तत्र हेतुःवृद्ध इत्यादि। चोद्यमान इति। स्त्रियेति शेषः। किमिव न ब्रूयात्अनुचितशतमपि ब्रूयादेव। अतो न श्रद्धार्हमिति शेषः ॥ ३ ॥
१कथमिवघ।
॥ २।२१।३ ॥ ॥ २।२१।४ ॥
नास्यापराधं पश्यामि नापि दोषस्तथाविधः।
येन १निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४ ॥
ननु कथं राजदोषप्रयुक्तता विवासनस्य रामदोषप्रयुक्तता वा कस्मान्न स्यादित्यत्राहनास्येत्यादि। रामस्येत्यर्थः। अपराधंपितृविषयकं। तथाविधो दोष इति। असमञ्जादेरिवान्यविषयको वा विवासनहेतुरपराध इत्यर्थः ॥ ४ ॥
नापि दोषं तथाविधम्ऽ इति सर्वसम्मतः स्वरसः पाठः।
१निर्यास्यतेङ।
॥ २।२१।४ ॥ ॥ २।२१।५ ॥
१अहं हनिष्ये पितरं वृद्धं कामवशं गतम्।
स्त्रिया युक्तं च निर्लज्जं धर्मायुक्तं नृपं तथा ॥ ५ ॥
अहं हनिष्य इति। अन्यायेन प्रवृत्ताभिषेकविघ्नं करिष्यति चेदिति शेषः। अत्र हेतुःधर्मायुक्तमिति ॥ ५ ॥
अयं श्लोकः बहुषु कोशेषु न दृश्यते। रामस्य अपराधाभावप्रतिपादनपरयोः नास्यापराधं पश्यामिऽ न तं पश्याम्यहं लोकेऽ इति श्लोकयोर्मध्येऽस्य श्लोकस्यावसरालाभस्तु स्पष्टः।
१इदं पद्यं झ। पुस्तके नास्ति।
॥ २।२१।५ ॥ ॥ २।२१।६ ॥
न तं १पश्यामि तल्लोके परोक्षमपि यो नरः।
स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ६ ॥
अस्तु राघवस्याप्यधर्म इत्यत्राहन तमित्यादि। तल्लोकेतत्समक्षंराघवसमक्षं तस्य परोक्षमपि वा यो नरःस्वमित्रःसुतराममित्रोऽपि, महापातकादिदोषवशान्निरस्तोऽपि अस्यरामस्य दोषं समुदाहरेत्तं न पश्यामि ॥ ६ ॥
न तं पश्याम्यहं लोकेऽ इति प्रायिकः पाठः। एतत्पाठे परोक्षमपीत्यत्र अपिनैव कैमुतिकन्यायेन विवक्षितार्थलाभः।
१पश्याम्यहं लोकेङ।
एव वास्यार्थः। लोके हि एकस्मिन् पुरुषे, दोषज्ञानमत्यन्तरङ्गजनस्य स्यात्, सदा सन्निहितत्वात्। तच्छत्रूणां वा स्यात्, तद्दोषैकदत्तदृष्टित्वात्। एवमुभयथाऽपि रामे दोषज्ञानासम्भवः। अत्यन्तरङ्गैर्मादृशैः, दोषैकदृष्टिभिः शत्रुभिश्च न कोऽपि दोषः ज्ञातुं शक्येतेति।
॥ २।२१।६ ॥ ॥ २।२१।७ ॥
देवकल्पमृजुं दान्तं १रिपूणामपि वत्सलम्।
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ ७ ॥
यदेवंअतः देवकल्पमित्यादि। रिपूणामपिकैकेय्यादीनामपि विषये वत्सलंस्निग्धं। धर्मं धर्मविग्रहम् ॥ ७ ॥
१मातृ़णामपिङ।
वत्सलंदोषे सत्यपि तदगणनानुकूलः स्नेहो वात्सल्यम्।
एतादृशं पुत्रं धर्मस्वरूपं अवेक्षमाणःजानन् अकारणात् कः त्यज्येदित्यन्वयः। यद्वा धर्ममवेक्षमाणःधर्मज्ञ इत्यर्थः।
॥ २।२१।७ ॥ ॥ २।२१।८ ॥
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।
पुत्रः को हृदये कुर्यात् राजवृत्तमनुस्मरन् ॥ ८ ॥
बाल्यंबालभावंअविमृश्यकारित्वं। राजवृत्तंप्राचीनराजधर्मं। अनुस्मरन्पर्यालोचयन् ॥ ८ ॥
पुनर्बाल्यमितिपुनःपदस्वारस्यात् बाल्यंकामपरवशत्वमित्यर्थः स्वरसः।
राजवृत्तंराजनीतिंगो। अथवा वृत्तंचारित्र्यम्। एतादृशस्य कामपरवशस्य राज्ञो यच्चारित्र्यं स्त्रीवचनानुवर्तनरूपम्। अस्मत्पितुर्हि कामपरवश्यात्सदा कैकेय्यनुवर्तनं न नूतनंअत इदं यत्किञ्चिदित्याशयः। न हि राज्यतन्त्रे स्त्रीमन्त्रणं हितायेति च भावः।
॥ २।२१।८ ॥ ॥ २।२१।९ ॥
यावदेव न जानाति कश्चिदर्थमिमं नरः।
तावदेव मया सार्धं आत्मस्थं कुरु शासनम् ॥ ९ ॥
इममर्थंरामविवासनवृत्तान्तं। तावत्ततःपूर्वमेव। शासनंयथाप्राप्ताभिषेकपूर्वकं राज्यानुपालनापेक्षितराजनियोगम्। आत्मस्थं कुरुत्वदाज्ञामेव राज्ये प्रवर्तय ॥ ९ ॥
शासनंराज्यंगो। यद्वा शासनंराज्यनिर्वाहमित्यर्थः। आत्मस्थंस्वाधीनम्।
॥ २।२१।९ ॥ ॥ २।२१।१० ॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव।
कः१ समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ १० ॥
कथमेवं शक्यमित्यत्राहमयेत्यादि। अधिकं कर्तुमिति। त्वदाज्ञामतिलङ्घ्याभ्यधिकं कर्तुमित्यर्थः ॥ १० ॥
मया गुप्तस्य तवेत्यन्वयः।
१समर्थोऽप्रियंङ।
॥ २।२१।१० ॥ ॥ २।२१।११ ॥
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ ११ ॥
विप्रिय इति। तव विपक्षभाव इत्यर्थः ॥ ११ ॥
॥ २।२१।११ ॥ ॥ २।२१।१२ ॥
भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति।
सर्वानेतान् वधिष्यामि, मृदुर्हि परिभूयते ॥ १२ ॥
मृदुर्हि परिभूयत इति। अतो मार्दवं न युक्तं तदनुचितकाल इति शेषः ॥ १२ ॥
॥ २।२१।१२ ॥ ॥ २।२१।१३ ॥
प्रोत्साहितोऽयं कैकेय्या १स दुष्टो यदि नः पिता।
अमित्रभूतो निस्सङ्गं २बध्यतां वध्यतामपि ॥ १३ ॥
अशक्यार्थश्च भरताय राज्यदानं राज्ञः इत्याहप्रोत्साहित इत्यादि ॥ १३ ॥
१सन्तुष्टोङ। च।
त्रेताद्वापरयोस्सन्धावयमवतारः। तदा च किञ्चिदधिकपादेनाधर्मप्रवेशः तदनुसारेण लक्ष्मणस्यैवमुक्तिः, कैकेय्याश्च परोपदेशेनैवं मतिः, छलेन वालिवधे प्रवृत्तिश्च भगवत इति बोध्यम्ति।
निस्सङ्गंनिस्स्वेहं यथा तथा। निर्दाक्षिण्यमिति यावत्।
२वध्यतां वध्यतामपिङ।
॥ २।२१।१३ ॥ ॥ २।२१।१४१५ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य कार्यं भवति शसनम् ॥ १४ ॥
बलमेष किमाश्रित्य हेतुं वा, पुरुषर्षभ।
दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १५ ॥
स्थितमिदं तवेति। ज्येष्ठत्वाद्गुणोत्तरत्वाच्चेति शेषः ॥ १५ ॥
एषःदशरथः।
॥ २।२१।१४१५ ॥ ॥ २।२१।१६ ॥
त्वया चैव मया चैव दत्वा वैरमनुत्तमम्।
काऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १६ ॥
कैकेय्या प्रोत्साहितोऽप्ययं राजा आवाभ्यां वैरं कृत्वा भरताय राज्यं कथं दद्यात्? तथा राज्यश्रियमपि च दातुं काऽस्य शक्तिः? न कापि ॥ १६ ॥
कृत्वा वैरमित्येव सर्वत्र दृश्यते। त्वया मया च सह वैरं कृत्वेत्यर्थः। चतुर्थ्यंर्थे तृतीयेति भावः।
॥ २।२१।१६ ॥ ॥ २।२१।१७ ॥
अनुरक्तोऽस्मि भावेन भ्रातरं, देवि तत्त्वतः।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १७ ॥
ज्ञातित्वाविशेषात् त्वं वाऽस्मिन्विषये कथं विश्वसनीयः? इति शङ्काभासमपनयति कौसल्यायाःअनुरक्त इत्यादि। भावःआन्तरः अभिप्रायः ॥ १७ ॥
दत्तेनदानेन गो।
॥ २।२१।१७ ॥ ॥ २।२१।१८२० ॥
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति।
प्रविष्टं तत्र मां, देवि त्वं पूर्वमवधारय ॥ १८ ॥
हरामि वार्याद्दुःखं ते तमः सूर्य इवोदितः।
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ १९ ॥
१हनिष्ये पितरं वृद्धं कैकेय्यासक्त२मुन्नतम्।
कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ २० ॥
कैकेय्यामासक्तः तं, अत एव हेतोरुन्नतंबालवत्कामो ३ न्नतचित्तम्, वस्तुतो वृद्धभावेन गर्हितम्। बाल्यादिर्व्याकृतपूर्वः ॥ २० ॥
१इदं पद्यं कुत्रचिन्नास्तिङ। झ।
उन्नतंउच्छ्रितं, प्रवृद्धं अमर्यादमिति यावत्।
२मानसंङ। च। झ।
३चितचित्तम्ट।
॥ २।२१।१८२० ॥ ॥ २।२१।२१२२ ॥
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।
उवाच रामं कौसल्या रुदती शोकलालसा ॥ २१ ॥
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया?।
यदत्रानन्तरं १तत्त्वं कुरुष्व २यदि रोचते ॥ २२ ॥
श्रुतमिति। अभिवदनमिति शेषः। यदत्रानन्तरमिति। कार्यमिति शेषः ॥ २२ ॥
१कार्यंङ।
२यदि रोचतेऽ इत्यनेन स्वस्यानभिमतिः सूचिताति। गो।
॥ २।२१।२१२२ ॥ ॥ २।२१।२३ ॥
१न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः ॥ २३ ।ऽ
अधर्म्यं सपत्न्याःकैकेय्या वचः श्रुत्वा मां विहाय वनं गन्तुं नार्हसि ॥ २३ ॥
न हि राज्ञा साक्षादुक्तम्। सपत्नी तु यत्किञ्चिन्ममानिष्टानि वदेदेव। अतो न श्रद्धेयमित्याशयः। मम सपत्न्या भाषितं अधर्म्यं वच इत्यन्वयः ॥
१एतत्तु वचनंङ।
॥ २।२१।२३ ॥ ॥ २।२१।२४ ॥
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि।
१शुश्रूष मामिहस्थस्त्वं चर धर्म २ मनुत्तमम् ॥ २४ ॥
३शुश्रूषशुश्रूषणं कुरु ॥ २४ ॥
१शुश्रूषुःट।
२मनुस्मरन्ङ।
३शुश्रूषुःशुश्रूषणं कुर्वन्ट।
॥ २।२१।२४ ॥ ॥ २।२१।२५ ॥
शुश्रूषुर्जननीं १पुत्रः स्वगृहे नियतो वसन्।
परेण २महता युक्तः काश्यपस्त्रिदिवं गतः ॥ २५ ॥
महतेति। धर्मेणेति शेषः। त्रिदिवं गत इत्यनेन इह लोके पूर्वं मातृशुश्रूषाबलेन प्राजापत्यपदं प्राप्तवानित्यवगन्तव्यम् ॥ २५ ॥
१पुत्रङ।
२तपसाङ।
॥ २।२१।२५ ॥ ॥ २।२१।२६ ॥
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।
त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २६ ॥
गौरवेणाहमपि पूज्येति। पितुश्शतगुणं माता गैरवेणातिरिच्यतेऽ इत्यादिस्मृतेरित्याशयः ॥ २६ ॥
॥ २।२१।२६ ॥ ॥ २।२१।२७ ॥
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा।
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २७ ॥
त्वद्वियोगात्परं मे जीवितादिना न किञ्चित्कार्यंन किञ्चित्प्रयोजनमित्यर्थः। यदेवं अतः–त्वयेत्यादि ॥ २७ ॥
॥ २।२१।२७ ॥ ॥ २।२१।२८२९ ॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।
अहं प्रायभिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ २८ ॥
ततस्त्वं प्राप्स्यसे, पुत्र निरयं लोकविश्रुतम्।
ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः ॥ २९ ॥
तत इति। मातुः प्राणान्तशोकसम्पादनादित्यर्थः। सरितां पतिः समुद्रः कस्मिंश्चित्कल्पे मातृदुःखजननरूपाधर्माद्रब्रह्महत्यांब्राह्मणकृत्यां प्राप्य नरकादीनि प्राप्तवान् इति किञ्चित्पुराणप्रसिद्धिः ॥ २९ ॥
प्रायंअनशनव्रतम्। इहअस्मिन्नेव क्षणे।
अधर्मात्पिप्पलादविषये कृतादपकारात् ब्रह्महत्यामिवब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्यया समुद्रस्य प्राप्तं दुःखं ब्रह्महत्येत्युच्यते। पिप्पलादेन कृत्योत्पादनं च पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करि। पाषाणं ते मया दत्तमाहारार्थं प्रकल्पितम्ऽ इति प्रसिद्धम्। साक्षात्समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम्। यद्वाशुश्रूषुरित्यत्र काश्यपः पूर्वजन्मनि मातृशुश्रूषां कृत्वा तत्फलत्वेन दिवं गत्वा प्रजापतित्वं च गतवानिति पुराणकथा। उत्तरत्रसमुद्रः किल मातृदुखजननरूपाधर्माद्ब्रह्महत्यांब्रह्महत्याप्राप्यनरकविशेषान् प्राप्तवानिति पौराणिकी कथागो। कदाचिज्जनन्यै दुद्रोह समुद्रः। तज्जनिताधर्मात् पिप्पलादनिर्मिताभिचारिकक्रियायाः प्रतिमन्त्रणेन निवारणलक्षणहननात् ब्रह्महत्या समुद्रेण सम्पादिता। तया चानुबभूव दुःखमिति पौराणिकी कथासत्य।
॥ २।२१।२८२९ ॥ ॥ २।२१।३०३१ ॥
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ ३० ॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ३१ ॥
पितुर्वाक्यं समतिक्रमितुं शक्तिर्नास्तीति। त्वद्वचनस्य च कर्तव्यत्वेऽपि पितृवचनस्य प्रथमतः प्राप्तत्वेन प्राबल्यात्, युगपदनुष्ठानासम्भवाच्च प्रथमं पितृवचनं कर्तव्यम् ॥ ३१ ॥
अधर्म्यं वचः श्रुत्वा सपत्न्या ममऽ (२३) इति कौसल्यावाक्यं साभिप्रायमुत्तरयतिपितुर्वाक्यमिति।
॥ २।२१।३०३१ ॥ ॥ २।२१।३२ ॥
ऋषिणा च पितुर्वाक्यं कुर्वता १व्रतचारिणा।
गौर्हता जानता धर्मं कण्डुनापि विपश्चिता ॥ ३२ ॥
अपि च पितृवाक्यगौरवेण गोवधो मातृवधोऽपि पूर्वैर्महात्मभिः कृतः। मया तु पितृवाक्यकरणतो दुःखमात्रं मातुरिति कुतः पितृवचसोऽकरणमित्याशयेनाह २ऋषिणेति ॥ ३२ ॥
१वनचारिणाङ।
विपश्चितापि कण्डुनेत्यन्वयः
२राजर्षेतद्यादिऽ इति मातृकासु।
॥ २।२१।३२ ॥ ॥ २।२१।३३ ॥
अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः।
खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान् वधः ॥ ३३ ॥
वधोऽवाप्त इत्यनेनप्राणानपि त्यक्त्वा पितृवाक्यं परिपालनीयम् किमुकियत्कालवनवासमात्रेणेत्याशयः सूचितः ॥ ३३ ॥
पितुराज्ञया भूमिं खनद्भिरित्यन्वयः। इदमुपाख्यानं बालकाण्डे एव वर्णितम्।
॥ २।२१।३३ ॥ ॥ २।२१।३४ ॥
जामदग्न्येन रामेण रेणुका जननी स्वयम्।
कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ ३४ ॥
परशुना स्वयं कृत्तेति। स्वहस्तेनैव छिन्नेत्यर्थः। अरण्येतपोवने। एवमादौ एवमेव पाङ्क्तं प्राचीनपाठं पश्यामः। अन्यस्तु परशुधारेणेत्याद्यशुद्धं पठित्वा तत्समर्थने प्रयतते ॥ ३४ ॥
इयमाख्यायिका भारते वनपर्वणि ११७ अध्याये, श्रीभागवते नवमस्कन्धे १६ अध्याये च द्रष्टव्या।
॥ २।२१।३४ ॥ ॥ २।२१।३५ ॥
एतैरन्यैश्च बहुभिः, १देवि देवसमैः कृतम्।
पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ ३५ ॥
अक्लीबंकातर्यरहितम् ॥ ३५ ॥
१देवदेवड।
॥ २।२१।३५ ॥ ॥ २।२१।३६३७ ॥
न खल्वेतन्मयैकेन क्रियते पितृशासनम्।
एतैरपि कृतं, देवि ये मया तव कीर्तिताः ॥ ३६ ॥
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये।
पूर्वैरय २ मभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३७ ॥
अपूर्वंपूर्वानाचरितम्, नूतनमित्यर्थः। प्रतिकूलंपूर्वाचारविरुद्धम्। उक्तार्थस्यैवान्वयमुखेन प्रतिपादनंपूर्वैरित्यादि ॥ ३७ ॥
ते प्रतिकूलं अपूर्वं धर्मं नाहं प्रवर्तयेति।
अभिप्रेतःअङ्गीकृतः। सर्वसम्मत इति वार्थः। तेन चन्द्रकृततारागमनादिव्यावृत्तिः। ननु दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम्ऽ इति मातृवधादिकं साहसत्वेन निन्दितमिति चेन्न, साहसस्य पितृनियुक्तव्यतिरिक्तविषयत्वात् व्याख्यातृभिस्तदुदाहरणमज्ञानविजृम्भितम्। पितुश्शतगुणं माता गौरवेणातिरिच्यतेऽ इति तु शुश्रूषामात्रे, न तु वचनकरणे। पितुरेव नियन्तृत्वात्गो।
२मभिप्रेत्यङ।
॥ २।२१।३६३७ ॥ ॥ २।२१।३८ ॥
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा।
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३८ ॥
कार्यंकर्तव्यत्वेन प्राप्तमेव क्रियते, नान्यथाअकृत्यं न क्रियत इत्यर्थः। न हीयत इति मात्रादिकिञ्चिद्दुःखोत्पादनादिति शेषः ॥ ३८ ॥
॥ २।२१।३८ ॥ ॥ २।२१।३९४१ ॥
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।
वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठस्सर्वधनुष्मताम् ॥ ३९ ॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।
विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ४० ॥
मम मातुर्महद्दुःखमतुलं, शुभलक्षण
अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ ४१ ॥
मम मातुर्महद्दुःखमपि जानाम्येव। अथापि मया तु सत्यस्य शमस्य चाभिप्रायंरहस्यं ज्ञात्वा युष्मद्दुःखहेतुत्वेऽपि सत्ये प्रवर्ते। युष्माभिस्तु सत्यादे रहस्यमविज्ञाय खिद्यत इति शेषः ॥ ४१ ॥
पुनःअनन्तरंति। गो।
कौसल्याया व्यसनं त्वदपेक्षया ममैवातिदुःखकरमिति साभिप्रायमाहममेति।
मम मातुर्यन्महद्दुःशं तत् सत्यशमयोरभिप्रायमविज्ञाय। तत्त्वज्ञस्य तवेदृशं वाक्यमनुचितमित्यर्थःति। गो।
॥ २।२१।३९४१ ॥ ॥ २।२१।४२ ॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ ४२ ॥
धर्मसंश्रितमिति। प्रतिश्रुतसत्यपरिपालनरूपं इत्यर्थः ॥ ४२ ॥
॥ २।२१।४२ ॥ ॥ २।२१।४३ ॥
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।
न कर्तव्यं वृथा, वीर धर्ममाश्रित्य तिष्ठता ॥ ४३ ॥
वृथा न कर्तव्यंन मोघीकर्तव्यमित्यर्थः ॥ ४३ ॥
॥ २।२१।४३ ॥ ॥ २।२१।४४४५ ॥
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्।
पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ ४४ ॥
तदेनां विसृजानार्यां श्रत्त्रधर्माश्रितां मतिम्।
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ४५ ॥
अनार्यांअशुभाम्। एनां मतिंपिरतमपि हत्वा राज्यं कुर्यामित्यादिलक्षणाम् ॥ ४५ ॥
पितृवचनत्वाभावं परिहरतिपितुरितिगो।
क्षत्त्रधर्माश्रितांकेवलक्रूरधर्माश्रिताम्। रौद्रशाठ्यसहितक्षत्त्रधर्माश्रितामिति वार्थः। क्षत्त्रधर्मस्य तथात्वं प्रतिपादितं हि महाभारते राजधर्मे क्षत्त्रधर्मो महारौद्रः शठकृत्य इति स्मृतःऽ इति। लोकायतवत्केवलनीतिर्नाश्रयणीया। किन्तु धर्ममाश्रिता नीतिरित्यर्थःगो।
॥ २।२१।४४४५ ॥ ॥ २।२१।४६४७ ॥
तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः।
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसाऽऽनतः ॥ ४६ ॥
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।
शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ ४७ ॥
शापिताऽसि मम प्राणैरिति। गमननिरोधं मा कुर्विति शेषः ॥ ४७ ॥
॥ २।२१।४६४७ ॥ ॥ २।२१।४८ ॥
तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४८ ॥
हित्वेति। भूमौ पतितः पुनर्भूमिं हित्वेत्यर्थः ॥ ४८ ॥
प्रथमप्राप्तं पितृवचनं प्रथमं कृत्वानन्तरप्राप्तं त्वद्वचनमप्यनन्तरमेव करोमीत्याहतीर्णेत्यादि।
स्वर्गाद्भ्रष्टः ययातिः यथा पुनरपि स्वर्गमवाप तथेत्यर्थः। महाभारते उद्योगपर्वणि १२१ अध्याये इयं कथा द्रष्टव्या। यद्यपि ययातेः स्वर्गभ्रंशः देवर्ष्याद्यपचारमूलकः, न तथा रामस्य राज्यभ्रंशः। तथाऽपि यावत्सम्भवं दृष्टान्तोऽयमिति।
॥ २।२१।४८ ॥ ॥ २।२१।४९५१ ॥
शोकः सन्धार्यतां मातः हृदये साधु, मा शुचः।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ ४९ ॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।
पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ५० ॥
अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च।
वनवासकृता बुद्धिर्मम धर्म्याऽनु १ वर्त्यताम् ॥ ५१ ॥
सम्भारान्अभिषेकसम्भारान् ॥ ५१ ॥
पुनः इहैष्यामीत्यन्वयः।
सम्भारान्मच्छ्रेयःप्राप्तये त्वयानुष्ठीयमानान् इत्यर्थः।
१गम्यताम्ङ।
॥ २।२१।४९५१ ॥ ॥ २।२१।५२ ॥
एतद्वचस्तस्य निशम्य माता
सुधर्म्यमव्यग्रमविक्लबं च।
मृतेव संज्ञां प्रतिदभ्य देवी
समीक्ष्य रामं पुनरित्युवाच ॥ ५२ ॥
मृतेवमृतवन्मूर्छितेति यावत् ॥ ५२ ॥
अव्यग्रंअनाकुलम्। अविक्लबंअविह्वलम्गो।
मृतेव भूत्वा पुनस्संज्ञां प्रतिलभ्य इत्यन्वयः।
॥ २।२१।५२ ॥ ॥ २।२१।५३ ॥
यथैव ते, पुत्र पिता, तथाऽहं
गुरुः स्वधर्मेण सुहृत्तया च।
न त्वाऽनुजानामि, न मां विहाय
सुदुःखितामर्हसि गन्तुमेवम् ॥ ५३ ॥
सुहृत्तयातलन्तोऽयम् ॥ ५३ ॥
स्वधर्मेणपालनादिरूपमातृधर्मेण। सुहृत्तयास्नेहेनति।
॥ २।२१।५३ ॥ ॥ २।२१।५४ ॥
किं जीवितेनेह विना त्वया मे
लोकेन वा किं सुधयाऽमृतेन।
श्रेयो मुहूर्तं तव सन्निधानं
ममेह कृत्स्नादपि जीवलोकात् ॥ ५४ ॥
अमृतेनअमृतत्त्वसाधनेन। जीवलोकादिति। नित्यसन्निहितादपीति शेषः ॥ ५४ ॥
स्वधयाऽमृतेनेति पाठान्तरम्गो। स्वधयापितृलोकप्राप्यया, अमृतेनदेवलोकेप्राप्येन इत्यर्थः।
त्वद्व्यतिरिक्तनिखिलजनसन्निधानेऽपि न मे निर्वृतिरिति भावः।
॥ २।२१।५४ ॥ ॥ २।२१।५५ ॥
नरैरिवोल्काभिरपोह्यमानो
महागजोऽध्वा१नमनुप्रविष्टः।
भूयः प्रजज्वाल विलापमेनं
निशम्य रामः करुणं जनन्याः ॥ ५५ ॥
नरैःगजग्राहिभिः रात्रावुल्काभिरपोह्यमानो महागजः अध्वानमभिप्रविष्टो भूत्वा भीत्या यथा बृंहितेन प्रज्वलतिप्रवर्धते एवं तस्या विलापशब्दादभ्यधिकं प्रजज्वाल ॥ ५५ ॥
पूर्वमेव परितप्तो रामः भूयः सन्तप्तोऽभूदित्यर्थः। प्रजज्वालकिमिदम्? यन्मामधर्मे प्रवर्तयितुं विलपतीति क्रोधःति। अपोह्यमानःनिवार्यमाणोऽपि अध्वानंमार्गं अनुप्रविष्टो महाराज इव मात्रादिवाक्येन वार्यमाणोऽपि धर्ममनुप्रविष्टो रामः भूयः प्रजज्वालसंरब्धोऽभूत्, स्वमार्ग एव स्थितोऽभूदित्यर्थःगो।
१न्तमनुङ। च।
॥ २।२१।५५ ॥ ॥ २।२१।५६ ॥
स मातरं चैव विसंज्ञकल्पां
आर्तं च सौमित्रिमभिप्रतप्तम्।
धर्मे स्थितो धर्म्यमुवाच वाक्यं
यथा स एवार्हति तत्र वक्तुम् ॥ ५६ ॥
रामस्य धर्मनिष्ठावैभवं वाल्मीकिः श्लाघतेयथेत्यादि। तत्रतथाविधघोरदशायांस यथा धर्मं वक्तितथा तादृग्दशायां धर्मं वक्तुं पुनश्च स एव धर्मविग्रहोऽनन्तकल्याणगुणगणो भगवान् ब्रह्मा राम एवार्हति ॥ ५६ ॥
॥ २।२१।५६ ॥ ॥ २।२१।५७ ॥
अहं हि ते लक्ष्मण नित्यमेव
जानामि भक्तिं च पराक्रमं च।
मम त्वभिप्रायमसन्निरीक्ष्य
मात्र सहाभ्यर्दसि मा सुदुःखम् ॥ ५७ ॥
ब्रह्मस्वभावत्वादेव भगवतः क्षत्त्रव्यापारो न रोचते अत एव क्षत्त्राश्रितां मतिं १ त्यजेत्युपदिशति। श्रुतविश्वामित्रकथत्वाच्च। मम त्वभिप्रायमिति। धर्मैकनित्यप्रतिष्ठत्वरूपमित्यर्थः। अभ्यर्दसिखेदयसि। एवं २सुदुःखं मा कुरु ॥ ५७ ॥
एवं मातुर्दुःखं लक्ष्मणेनैव प्रवर्धितमिति प्रथमं लक्ष्मणमेवाह।
तदेनां विसृजानार्यां क्षत्त्रधर्माश्रितामित्युक्तत्वादिति भावः।
१त्यजेत्याद्युपदिशतिघ।
२सुतरां दुःखंघ।
॥ २।२१।५७ ॥ ॥ २।२१।५८ ॥
धर्मार्थ १ कामान् किल, तात लोके
२समीक्षितान् धर्मफलोदयेषु।
ते तत्र सर्वे स्युरसंशयं मे
भार्येव वश्याऽभिमता ३ सुपुत्रा ॥ ५८ ॥
अथ धर्मानुष्ठाने सति सन्देहविषये निर्णयं वक्तुं सन्देहस्थलेऽनुष्ठानप्रकारं तावदाहधर्मेत्यादि। हे तात लोके खलु धर्मफलोदयेषुविद्यैश्वर्यानन्दादिलक्षणशुभफलप्रादुर्भावादिलक्षणकार्येषु यथा धमार्थकामानेव समीक्षितान्सम्यङ्निश्चितहेतून् वदन्ति। ये चेमे त्रयश्शुभफलहेतव उक्ताः, ते सर्वे यत्र स्युःयस्मिन् पुरुषेऽविरोधेन सम्भवन्ति तत्रतस्मिन् पुरुषे सर्वाणि च स्युःधर्मादित्रयप्राप्यसर्वशुभफलानि चासंशयं हेतुपौष्कल्यात्प्रादुर्भवेयुरिति मे निश्चयः। अथैकाश्रयतयानेकशुभप्रादुर्भावे दृष्टान्तःभार्येत्यादि। यथैकैव भार्या पुरुषवशंवदत्वरूपवश्यत्वधर्मेणौपासनदेवपूजादिगृहस्थधर्मसाधनं भवति, अभिमतात्वेन सौख्यसम्पादनसाधनं भवति, सुपुत्रात्वेन पितृलोकसम्पादनसाधनं च भवति तद्वदित्यर्थः ॥ ५८ ॥
१कामाःङ। च।
लोक इति मोक्षव्यावृत्तिः। धर्मफलोदयेषुधर्मस्य फलभूतानां सौख्यादीनामुदयेषुप्राप्तिषु समीक्षिताःउपायत्वेन निश्चिताः ये धर्मार्थकामाः ते सर्वे, तत्रधर्मे स्युः (सर्वस्यापि मूलभूतो धर्म एवेत्याशयः)गो। (कतकव्याख्यारीत्या तुकेवलार्थकामौ त्याज्यौकिन्तु धर्मार्थकामास्त्रय एव मिलिताः सुखहेतुरित्यर्थः) यद्वालोके फलसाधनत्वेन समीक्षिता धर्मादयः ते सर्वे तत्र फलोदयेषु स्युःसमर्थाः स्युःगो।
२समीक्षिताःङ। च।
३सपुत्राङ। च।
सुपुत्रा सती अर्थंगो।
॥ २।२१।५८ ॥ ॥ २।२१।५९ ॥
यस्मिंस्तु सर्वे स्युरसन्निविष्टाः
धर्मो यतः स्यात्तदुपक्रमेत।
द्वेष्यो भवत्यर्थपरो हि लोके,
१कामार्थता २खल्वपि न प्रशस्ता ॥ ५९ ॥
भवत्वेवं यत्राविरोधेनोक्तहेतुत्रयप्रवृत्तिः तत्रास्तु यथायोगानुष्ठानं यत्र तु विरोधस्तत्र किं कर्तव्यमित्यत्राहयस्मिन्नित्यादि। यस्मिन्पुरुषे सर्वेधर्मादिशुभहेतवः असन्निविष्टाःअशक्यानुष्ठानतोऽसन्निहिताः स हि पुरुषः यतःयेन साधनेन धर्मः स्यात् तदेव साधनमादाय धर्ममेवोपक्रमेत, न तु धर्मविरुद्धमर्थं कामं वा। कुत एवमित्यत्राहद्वेष्य इत्यादि। हियस्मात्, अर्थपरो लोके द्वेष्यो भवति, यथाअस्मास्वेव। इह लोके कामार्थताकामप्रयोजनता धर्मविरुद्धा न प्रशस्तागर्हिता राज्ञ इव ॥ ५९ ॥
यस्मिन्कर्मण्याश्रीयमाणे सर्वेअर्थादयः त्रयः असन्निविष्टाःन प्रविशन्ति न सम्भवन्तीति यावत् तदा यतो धर्मःधर्म एव स्यात् तदारभेत। अथवा यस्मिन् कर्मणि सर्वेधर्मार्थकामा असन्निविष्टाः स्युःअविद्यमाना भवेयुःतत्कर्म नोपक्रमेत। यतःयस्मात्कर्मणःधर्मः स्यात्तदुपक्रमेतगो। एवं वाऽर्थःते तत्र सर्वे स्युरिति पूर्वं एकस्यैव कर्मणः फलत्रयसाधनत्वमुक्तम्। यस्मिंस्तु कर्मणि पूर्वोक्तरीत्या धर्मादयः सर्वे न सन्निविष्टा भवन्तिकिन्त्वेकैकफलमात्रं, तदा यस्मात् धर्मः स्यात्तदेवोपक्रमेत इति।
१कामात्मताङ। च।
२खल्वतिङ। च।
॥ २।२१।५९ ॥ ॥ २।२१।६० ॥
गुरुश्च राजा च पिता च वृद्धः
क्रोधात्प्रहर्षाद्यदि वाऽपि १कामात्।
यद्व्यादिशेत् कार्यमवेक्ष्य धर्मं
कस्तं न कुर्यादनृशंसवृत्तिः ॥ ६० ॥
यदेवंअतःगुरुश्चेत्यादि। धर्ममवेक्ष्यसत्यपरिपालनरूपं धर्ममवेक्ष्य यत् कार्यमादिशेत् ॥ ६० ॥
१मोहात्ङ।
यत् व्यादिशेत् तत् धर्ममवेक्ष्यपितृवचनकरणं धर्म इति ज्ञात्वाति।
॥ २।२१।६० ॥ ॥ २।२१।६१ ॥
स वै न शक्नोमि पितुः प्रतिज्ञा
मिमामकर्तुं सकलां यथावत्।
स ह्यावयोस्तात गुरुर्नियोगे
देव्याश्च भर्ता १ स गतिः स धर्मः ॥ ६१ ॥
यथावत्कृतामिमां प्रतिज्ञां सकलांसम्पूर्णां कर्तुम्। नियोग इति। प्रभुरिति शेषः। अत एव स गतिः। तद्वचनक्रियैव धर्मः ॥ ६१ ॥
नियोगे गुरुःप्रभुःगो।
देव्याश्च भर्तेत्यनेनमातृवचनापेक्षया पितृवचनमेवावश्यं कर्तव्यम्स हि पिता मातुरपि पूज्यः इत्यर्थः सूच्यते। उत्तरश्लोकोपक्षेपश्च।
१स गतिश्चङ।
॥ २।२१।६१ ॥ ॥ २।२१।६२ ॥
तस्मिन् पुनर्जीवति धर्मराजे
विशेषतः स्वे पथि वर्तमाने।
देवी मया सार्धमितोऽभिगच्छेत्
कथं स्विदन्या विधवेव नारी ॥ ६२ ॥
विशेषतः स्वे पथिइष्टं पुत्रं परित्यज्यापि सत्यं रक्षणीयमित्येवंलक्षणे सत्यमार्ग इत्यर्थः। अन्येत्यस्यैव विवरणम्विधवेति ॥
कौसल्यायाः स्वानुगमनं वारयतितस्मिन्नित्यादि।
भर्ता रक्षति यौवने। रक्षन्ति स्थाविरे पुत्राःऽ इति भर्तृहीनानामेव पुत्रेण वर्तनं युक्तमित्याशयः।
॥ २।२१।६२ ॥ ॥ २।२१।६३ ॥
सा माऽनुमन्यस्व वनं व्रजन्तं
कुरुष्व नः स्वस्त्ययनानि, देवि
यथा समाप्ते पुनराव्रजेयं
यथा हि सत्येन पुनर्ययातिः ॥ ६३ ॥
मामामिति यावत् ॥ ६३ ॥
इतः पूर्वं वनगमनं प्रति सीताभिप्रायस्यापरिज्ञातत्वात्, दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ ऽ इत्युक्त्या लक्ष्मणाभिप्रायस्य ज्ञातत्वाच्च नःऽ इत्येतदावयोरित्यस्मिन्नर्थे वर्तते। ৷৷। एवं च सति अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहंऽ इति वक्ष्यमाणलक्ष्मणवचनं चोपपद्यतेगो।
॥ २।२१।६३ ॥
॥ २।२१।६४ ॥
यशो ह्यहं केवलराज्यकारणात्
न पृष्ठतः कर्तुमलं महोदयम्।
अदीर्घकाले न तु, देवि जीविते
वृणेऽवरामद्य महीमधर्मतः ॥ ६४ ॥
यशो ह्यहमति। प्राप्तमपि राज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवं रूपम्। देवि मानुषे जीविते अदीर्घकालेअल्पकालतया निश्चिते सति कथं जीवनार्थं अवरांअवरप्रयोजनभूतां महीं अधर्मतःपरमपुरुषार्थत्यागेन वृणे ॥ ६४ ॥
निमित्तसप्तमीयंतटिद्वच्चञ्चलजीवितनिमित्तम्गो।
॥ २।२१।६४ ॥ ॥ २।२१।६५ ॥
प्रसादयन्नरवृषभः स्वमातरं
पराक्रमाज्जिगमिषुरेव दण्डकान्।
अथानुजं भृशमनुशास्य दर्शनं
चकार तां हृदि जननीं प्रदक्षिणम् ॥ ६५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकविंशः सर्गः
दर्शनंधर्मरहस्यज्ञानम्। तां जननीं प्रदक्षिणं कृत्वा हृदि गन्तुं मनश्चकार इत्यर्थः। गति (६३) (?) मानः सर्गः ॥ ६५ ॥
हृदि प्रदक्षिणं चकारप्रदक्षिणं कर्तुं सङ्कल्पितवानित्यर्थःगो।
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकविंशः सर्गः
॥ २।२१।६५ ॥