विंशः सर्गः
[कौसल्याऽऽक्रन्दनम्] ॥ २।२०।१ ॥
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।
आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा ॥ १ ॥
अथ रामेण मातुर्वृत्तान्तनिवेदनम्। तस्मिन्नित्यादि ॥ १ ॥
कैकेय्यन्तःपुरगतस्त्रीणामित्यर्थः। पूर्वोत्तरश्लोकपरिशीलनायामिदं स्पष्टम्।
॥ २।२०।१ ॥ ॥ २।२०।२ ॥
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।
गतिर्यः शरणं चासीत्, स १रामोऽद्य प्रवत्स्यति ॥ २ ॥
अचोदित इति। अचोदितोऽपि कर्तेति शेषः ॥ २ ॥
गतिःस्वेष्टसाधकत्वेन प्राप्यः। शरणंरक्षकःगो।
१सुतोऽद्यङ।
॥ २।२०।२ ॥ ॥ २।२०।३४ ॥
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३ ॥
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्।
क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ ४ ॥
अभिशप्तःकृतवाक्पारुष्यः। क्रोधनीयानिक्रोधार्हाणि च अनुकम्पया वर्जयन्तद्विषयक्रोधमकुर्वन् ॥ ४ ॥
क्रोधनीयानिक्रोधहेतुकर्माणिगो।
॥ २।२०।३४ ॥ ॥ २।२०।५ ॥
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।
यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ ५ ॥
जीवलोकं चरतिसर्वप्रजाजातं भक्षयतिनाशयतीति यावत् ॥ ५ ॥
जीवलोकंमूर्खजनं चरतिअनुगच्छतिकेचित्।
॥ २।२०।५ ॥ ॥ २।२०।६ ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।
पतिमाचुक्रुशुश्चैव सस्वनं चापि चुक्रुशुः ॥ ६ ॥
आचुक्रुशुःनिनिन्दुः। चुक्रुशुःक्रन्दन्ति स्म ॥ ६ ॥
कृताभिषेका महिषीऽ इति तूत्सर्गः, यतः महिषी नृपयोषितिऽ इति हेमचन्द्र आह।
॥ २।२०।६ ॥ ॥ २।२०।७ ॥
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः।
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥ ७ ॥
आसन एव व्यालीयतविलीनोऽभूत् देहमवकुण्ठ्यावाङ्मुख उपविष्टोऽभूदित्यर्थः ॥ ७ ॥
व्यालीयतलज्जादुःखभरेण शय्यायां विलीनोऽभूत्गो।
॥ २।२०।७ ॥ ॥ २।२०।८ ॥
रामस्तु भृश १ मायस्तो २निस्वनन्निव कुञ्जरः।
जगाम सहिता भ्रात्रा मातुरन्तःपुरं वशी ॥ ८ ॥
आयस्तःस्वजनदुःखतः प्राप्तखेदः कुञ्जर इव निस्वनन् ॥
१मायत्तोङ।
२निश्वसन्सर्वत्र।
निस्वनन्उच्चैराक्रन्दन्नित्यर्थः।
॥ २।२०।८ ॥ ॥ २।२०।९ ॥
सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्।
उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् ॥ ९ ॥
पुरुषं–द्वाराध्यक्षम् ॥ ९ ॥
तिष्ठतश्चापरान् बहून्ऽ इति। तिष्ठतःअनुपविष्टान्। अस्यैकस्यैवोपवेशने हेतुःवृद्धं परमपूजितमिति।
॥ २।२०।९ ॥ ॥ २।२०।१० ॥
दृष्वैव तु तदा रामं ते सर्वे १समुपस्थिताः।
२जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥ १० ॥
जयेन विजयी भवऽ इति विजयशब्देनेत्यर्थः ॥ १० ॥
१सहसोत्थिताःङ।
२जयेतिङ।
॥ २।२०।१० ॥ ॥ २।२०।११ ॥
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।
ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाऽभिसत्कृतान् ॥ ११ ॥
राज्ञा अभिसत्कृतास्तथा ॥ ११ ॥
॥ २।२०।११ ॥ ॥ २।२०।१२१३ ॥
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।
स्त्रियो १बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः ॥ १२ ॥
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।
न्यवेदयन्त त्वरितं राममातुः प्रियं तदा ॥ १३ ॥
वर्धयित्वेति। जयशब्देनेति शेषः ॥ १३ ॥
१बालांश्च वृद्धांश्चङ।
द्वाररक्षणे नियुक्ताः स्त्रियः। तासु काश्चिद्बालाःअल्पवयस्काः। काश्चित्तु वृद्धाः इत्यर्थः। द्वाररक्षणतत्परा इति भिन्नं विशेष्यं वा।
२प्रियंरामागमनरूपम्।
॥ २।२०।१२१३ ॥ ॥ २।२०।१४१६ ॥
कौसल्याऽपि तदा देवी रात्रिं स्थित्वा समाहिता।
प्रभाते चाकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ १४ ॥
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।
१अग्निहोत्रं जुहोति स्म मन्त्रवत्कृतमङगला ॥ १५ ॥
प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम्।
ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ १६ ॥
अग्निहोत्रं जुहोति स्मेति। ज्येष्ठपत्नीत्वादृत्विङ्मुखेनेति शेषः। तदेवोक्तंहावयन्तीमिति ॥ १६ ॥
रात्रिंरात्रौ कालाध्वनोरत्यन्तसंयोगेऽ इत्यत्यन्तसंयोगे द्वितीया। यावद्रात्रीत्यर्थः।
उत्तमजातिस्त्रीणां वैदिककर्मस्वधिकारो वर्तते आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिकेऽ इति स्मृतेःसत्य।
१अग्निं जुहोति स्म तदाऽ इत्येव सर्वत्र पाठो दृश्यते।
॥ २।२०।१४१६ ॥ ॥ २।२०।१७२० ॥
देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम्।
दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ १७ ॥
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।
समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १८ ॥
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।
तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम् ॥ १९ ॥
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।
अभिचक्राम संहृष्टा किशोरं बडबा यथा ॥ २० ॥
किशोरःअश्वपोतः ॥ २० ॥
कृसरंतिलौदनम्गो।
अभिचक्रामअभिमुखमं जगाम
॥ २।२०।१७२० ॥ ॥ २।२०।२१ ॥
१स मातर मभिक्रान्तामभिसङ्गृह्य राघवः।
परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥ २१ ॥
अभिसङ्गृह्यनमस्कृत्य ॥ २१ ॥
१एतदनन्तरं पर्यष्वजत धर्मात्मा मात्रा चैव परन्तपःऽ इत्यधिकम्ङ
अभिक्रान्तांअभिमुखमागतवतीम्।
॥ २।२०।२१ ॥ ॥ २।२०।२२२३ ॥
तमुवाच दुराधर्षं राघवं सुतमात्मनः।
कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ॥ २३ ॥
कुलेकुलविषये ॥ २३ ॥
चाप्युचितं कुलेऽ इति पाठान्तरम्। कुलस्योचितमित्यर्थः।
॥ २।२०।२२२३ ॥ ॥ २।२०।२४ ॥
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।
अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥
राजानं पश्येति। गत्वेति शेषः। रामस्य राजनिवेशगमनादिव्यापारानभिज्ञानात्कौसल्यायाः राजदर्शननियोजनादि ॥ २४ ॥
सत्यप्रतिज्ञमिति अभिषेक्ष्यतीत्यत्र हेतुः। इदानीमप्यभिषेको नारब्ध इति नाशङ्कनीयमिति भावःगो।
पश्यजानीहिगो। अयमेव स्वरसः। लोकोक्तिषु बहुलमुपलम्भात्प्रकृतानुगुण्याच्च
॥ २।२०।२४ ॥ ॥ २।२०।२५ ॥
दत्तमासनमालभ्य १भोजने तु निमन्त्रितः।
मातरं राघवः २किञ्चि द्व्रीलात् प्राञ्जलिरब्रवीत् ॥ २५ ॥
आसनं दत्वा अत्रोपविश्य भुक्त्वा राजानं द्रष्टुं गच्छऽ इति भोजने–तद्धेतवे निमन्त्रितो राघवः केवलमासनमालभ्यस्पृष्ट्वैव केवलं नोपविष्टो भूत्वा किञ्चिद्व्रीलात् किञ्चिदवाङ्मुख इति शेषः ॥ २५ ॥
दत्तासने उपवेशनाभावेऽपि स्पर्शमात्रं कार्यमित्यागमात्गो।
१भोजनेनङ।
२किञ्चित्प्रसाद्याञ्जलिमब्रवीत्ङ। किञ्चित्प्रसार्याञ्जलिमब्रङ। च।
व्रीडःऽ इति घञन्तः पुल्लिङ्गोऽप्यस्ति।
पूर्वश्लोकव्याख्यानानुरोधेनैवं वर्णितम्। वस्तुतस्तु यथाश्रुतमेव स्वरसम्
॥ २।२०।२५ ॥ ॥ २।२०।२६ ॥
स स्वभावविनीतश्च गौरवाच्च तदाऽऽनतः।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६ ॥
गौरवात्मातृत्वप्रयुक्तगौरवाच्च। प्रस्थितःनिश्चितप्रस्थानः। आप्रष्टुंअभ्यनुज्ञां कारयितुमुपचक्रमे ॥ २६ ॥
॥ २।२०।२६ ॥ ॥ २।२०।२७ ॥
देवि नूनं न जानीषे महद्भयमुपस्थितम्।
इदं च तव दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७ ॥
इदं च भयं युष्मदादीनां त्रयाणामेव विशिष्य दुःखाय न मम दुःखलेशोऽपीत्यर्थः ॥ २७ ॥
॥ २।२०।२७ ॥ ॥ २।२०।२८ ॥
गमिष्ये दण्डकारण्यं किमनेनासनेन मे।
विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८ ॥
विष्टरःतपस्विनामासनविशेषः। वामावर्तपञ्चविंशतिदर्भनिर्मितः। पञ्चाशद्भिर्भवेद्ब्राह्मस्तदर्धेन तु विष्टरःऽ इति स्मृतिः ॥ २८ ॥
॥ २।२०।२८ ॥ ॥ २।२०।२९ ॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने।
१कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ २९ ॥
हित्वा मुनिवदामिषमिति। एतेनविशिष्टसंस्कारसंस्कृतमांसोपेतभोजने निमन्त्रणं मातृकृतमपि प्रत्याख्यातम्। मुनिवदित्युक्तत्वादेव श्राद्धाय मांसग्रहो न विरुद्धः इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निनाऽ इति वक्ष्यमाणः ॥ २९ ॥
१मधुमूलङ।
आमिषंराजभोग्यं वस्तु आमिषं पुनपुंसकम्। भोग्यवस्तुनि सम्भोगेऽ इति मेदिनीशि। आमिषंसम्भोगं, राज्यलोभं, सुन्दररूपं वा आमिषं पलले लोभे सम्भोगोत्कोचयोरपिऽ इति विश्वःसत्य। अत्रामिषशब्देन सूतैः
संस्कृतं मांसमुच्यते। केवलमांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निनाऽ (अयो। ९६२) इतिगो।
॥ २।२०।२९ ॥ ॥ २।२०।३०३२ ॥
भरताय महाराजो यौवराज्यं प्रयच्छति।
मां पुनर्दण्डकारण्यं विवासयति तापसम् ॥ ३० ॥
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।
आसेवमानो १वन्यानि फलमूलैश्च वर्तयन् ॥ ३१ ॥
सा निकृत्तेव सालस्य यष्टिः परशुना२वने।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ ३२ ॥
यष्टिःशाखा ॥ ३२ ॥
१वन्यानिवानप्रस्थयोग्यानि कर्माणिगो। वल्कलानिति।
२नगरे तथा छेदनाभावात् वनेऽ इत्युक्तम्गो। दुःखानर्हत्वसूचकं वेदम्। प्रष्टुरभावाद्वा तथोक्तम्।
॥ २।२०।३२ ॥
॥ २।२०।३१ ॥
॥ २।२०।३० ॥ ॥ २।२०।३३ ॥
॥ २।२०।३४ ॥
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।
रामस्तुत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥
उपावृत्त्योत्थितां दीनां वडबामिव वाहिताम्।
पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४ ॥
वाहितांपूर्वं प्रापितवाहनव्यापारां पश्चाच्छ्रमातिवहनहेतवे लुठनायविसृष्टां अत एवोपावृत्त्यलुठित्वोत्थिताम् ॥ ३४ ॥
॥ २।२०।३४ ॥
॥ २।२०।३३ ॥ ॥ २।२०।३५ ॥
सा राघवमुपासीन१मसुखार्ता सुखोचिता।
उवाच पुरुषव्याघ्र२मुपशृण्वति लक्ष्मणे ॥ ३५ ॥
असुखेनदुःखेन आर्ताखिन्ना ॥ ३५ ॥
१मदुःखार्हाङ।
२अनन्तरसर्गोपक्षेपसूचनायेदमुक्तम्।
॥ २।२०।३५ ॥ ॥ २।२०।३६ ॥
यदि पुत्र न जायेथा मम शोकाय राघव।
न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६ ॥
अप्रजाःवन्ध्येत्येतस्मात् भूयःअभ्यधिकं दुःखं न पश्येयमिष्टपुत्रवियोगजम् ॥ ३६ ॥
हे पुत्र त्वं यदि न जायेथाः, अतःअजननात् भूयःअतिशयितं दुःखंइष्टपुत्रविश्लेषजं न पश्येयम्गो। यदि मम शोकाय न जायेथाः अतस्तर्हि अप्रजा अप्यहं भूयः–बहुतरमेवंविधं दुःखं न पश्येयम्ती। यद्वा यदि त्वं मम शोकफलाय केवलं न जायेथाः तदा अप्रजा इत्यतो भूयःअधिकं दुःखं न पश्येयमित्यर्थः। यद्वा पूर्वार्धमेकं वाक्यं, उत्तरार्घं चापरम्। मम शोकाय शोकफलार्थं न जायेथा यदि तव जन्म यदि न स्याद्वा, तदा वरमिति भावः। जन्मनो वृत्तत्वेन तत्प्रतिबन्धासंभवाद्यदीत्युक्तम्। यदि रामस्य जन्मैव न स्यात्तदा अनपत्यताप्रयुक्तः शोको तेऽस्त्येवेत्यत्राहन स्मेति। तव जन्माभावे अप्रजा इत्यतोऽधिकं दुःखं न स्म पश्येयंन स्म पश्येयं खलु इत्यर्थः। तदेव स्पष्टयतिएक इत्यादि। वन्ध्यायाः शोको मानस एव, स च एकःएकरूपः। मम त्विदानीं गर्भधारणप्रसवप्रभृत्यनेकः शारीरः शोकः, मानसोऽपि। स च नैकः, अपि तु बहुविधः। अतः तवाजननमेव श्रेयः स्यादिति।
॥ २।२०।३६ ॥ ॥ २।२०।३७ ॥
एक एव हि वन्ध्यायाः शोको भवति मानसः।
अप्रजाऽस्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ ३७ ॥
अप्रजास्त्वदुःखमेतदपेक्षया सुसहमित्याहएक इत्यादि। मानसशोकस्याभिनयःअप्रजाऽस्मीति।
सन्धिश्छान्दसः। अन्यःइष्टपुत्रवियोगजः ॥ ३७ ॥
॥ २।२०।३७ ॥ ॥ २।२०।३८ ॥
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।
अपि पुत्रे तु पश्येयमिति रामास्थितं मया ॥ ३८ ॥
स्वस्याः सदा दुःखित्वमिति शोचतिन दृष्टेत्यादि। पत्युः पौरुषंअनुरागकृतो रञ्जनविशेषः, तस्मिन् सति यत्प्राप्यं कल्याणंप्रशस्तवस्त्राभरणादिजसौभाग्याधिक्यं, तथा सुखं वा पतिसंभोगजं मया न दृष्टपूर्वम्। अथाऽपि पुत्रेऽपि चोत्पन्ने तदुभयं पश्येयमिति मया आस्थितम्एवं प्रत्याशया स्थितवती ॥ ३८ ॥
अथापि पुत्रेऽपि चोत्पन्ने पुत्रनिबन्धनं तदुभयं पतिकर्तृकं पश्येयमितिती। पुत्रे जाते तदुभयमुक्तकल्याणं पुत्रदर्शनजं सुखं च पश्येयंति। पुत्रे सति तद्वलात्पश्येयंगो। वस्तुतस्तु लोके अपुत्राणां स्त्रीणां पतिसम्माननाभावः, पुत्रोत्पत्तौ पतिसम्माननं च प्रसिद्धमेवेति तीर्थोक्तं समीचीनम्।
॥ २।२०।३८ ॥ ॥ २।२०।३९ ॥
१सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।
अहं श्रोष्ये सपत्नीनां २अवराणां वरा सती ॥ ३९ ॥
साऽहं अवराणांसुमित्रादीनां सर्वासां कनिष्ठराजस्त्रीणां त्वद्बलादिदानीं वरा सती, पुनश्च त्वद्वियोगे तव मुखमपश्यन्ती, हृदयच्छिदांहृदयाविदारिकाणां सपत्नीनां बहून्यमनोज्ञानि वाक्यानि एवं जीर्णाऽपि श्रोष्ये ॥ ३९ ॥
१भूतदुःखमुक्त्वा भविष्यद्दुःखमाहसेतिगो।
२अवराणां सपत्नीनामिति वाऽन्वयः।
॥ २।२०।३९ ॥ ॥ २।२०।४० ॥
अतो दुःखतरं किन्नु प्रमदानां भविष्यति?।
मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४० ॥
अतो दुःखतरंसपत्नीधिक्कारवाक्यश्रवणजात्परं दुःखं स्त्रियो नास्ति। मम तु तादृशशोकमूलविलापो यादृशः तादृश एव वाचामगोचरोऽनन्तक एव ॥ ४० ॥
॥ २।२०।४० ॥ ॥ २।२०।४१ ॥
त्वयि सन्निहितेऽप्येवमहमासं निराकृता।
किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ ४१ ॥
एवं त्वयि सन्निहितेऽप्यहं सपत्नीभिर्निराकृता। त्वयि विप्रोषिते किं पुनः अतो मे मरणमेव ध्रुवंप्राप्तम् ॥ ४१ ॥
संप्राप्तभवदभिषेकनिरोधेनेत्यर्थः।
॥ २।२०।४१ ॥ ॥ २।२०।४२ ॥
अत्यन्तं निगृहीताऽस्मि भर्तुर्नित्य१मसंमता।
परिवारेण कैकेय्याः समा वाऽप्यथवाऽवरा ॥ ४२ ॥
ध्रुवमित्यत्र हेतुमाहअत्यन्तमित्यादि। परिवारेणदासीजनेन समा वाअथवा अवराततोऽपि निकृष्टा वा स्याम् ॥ ४२ ॥
अतन्त्रिताअप्रधानीकृतागो।
१मतन्त्रिताङ।
॥ २।२०।४२ ॥ ॥ २।२०।४३ ॥
यो हि मा सेवते कश्चिदथवाऽप्यनुवर्तते।
कैयेय्याः पुत्रमन्वीक्ष्य १स जनो २नाभिभाषते ॥ ४३ ॥
अपि च त्वयि प्रोषिते ३भरते राजनि तं कैकेय्याः पुत्रमन्वीक्ष्य, यो हीदानीं मां सेवते कश्चित्, अथवाप्यनुवर्तते मदिष्टं, स सर्वोऽपि जनो मां नाभिभाषतेनाभिभाषेतापि, सेवादिस्तु दूरे ॥ ४३ ॥
भरतः स्वयौवराज्यप्राप्तये स्वयमेव स्वमातरं कैकेयीं रहसि प्रतिबोध्य स्वस्य निर्दुष्टताख्यापनाय बुद्धिपूर्वकमेव स्वमातुलगृहे वर्तत इति कौसल्या मन्यते स्मवक्ष्यति च सा आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः। तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्ऽ (अयो। ७५५) इति। अत्र दीर्घदर्शिनमिति पदं पूर्वोक्ताभिप्रायेणैवोक्तमिति स्पष्टम्। अत एवेदानीमपि कैकेय्याः पुत्रंऽ इत्युक्तम्। स हि सपत्नीपुत्रः सर्वोपायैरपि मां पीडयितुमुद्यत इति कौसल्या मन्यते स्म।
१स्वजनोङ।
२अतिसन्निहितत्वाभिप्रायेण नाभिभाषतेऽ इत्युक्तम्।
३मृते च राजनिग।
॥ २।२०।४३ ॥ ॥ २।२०।४४ ॥
नित्यक्रोधतया तस्याः कथं नु १खरवादिनम्।
कैकेय्या वदनं द्रष्टुं, पुत्र शक्ष्यामि दुर्गता ॥ ४४ ॥
अपि च मद्विषये तस्या नित्यक्रोधतया खरवादिनं स्वमोःऽ इति २लुगभाव आर्षः, परुषवदनशीलं वदनं कथं नु द्रष्टुं शक्ष्यामि? दुर्गतादुर्दशापन्ना ॥ ४४ ॥
१खरवादि तत्ङ।
२खरवादि तत्ऽ इति पाठे (गो।) तु नायं क्लेशः।
॥ २।२०।४४ ॥ ॥ २।२०।४५ ॥
१दश सप्त च वर्षाणि जातस्य तव राघव
२अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ ४५ ॥
जातस्येति। द्वितीयजन्मनेति शेषः। अतीतानिऽ इति पूर्वेण सन्बन्धः। अतः परं तव यथाप्राप्तेन यौवराज्येन दुःखपरिक्षयं प्रकाङ्क्षन्त्या मया तस्या वदनं कथं नु द्रष्टुं शक्यमित्यनुकर्षः ॥ ४५ ॥
१ननु ऊनषोडशवर्षो मे रामःऽ (वा। २०१) इति विश्वामित्रं प्रति दशरथवचनात्, उषित्वा द्वादश समाःऽ (अर। ४७४) इत्यपरि सीतया वक्ष्यमाणत्वाच्च रामस्य अष्टाविंशतिवर्षाणि वर्तन्ते, अत्र तु दश सप्त च वर्षाणिऽ इत्युच्यते। नैष दोषः। अत्र जातस्येत्युक्तिः द्वितीयजन्मापेक्षया। गर्भैकादशेषु राजन्यंऽ इति बहुवचनेन गर्भनवममारभ्य क्षत्रियस्योपनयनकालत्वोक्तेःगो। यद्वा तव जातस्य त्वयि जाते, उपनयनानन्तरं दश सप्त च वर्षाणि दुःखपरिक्षयं प्रकांक्षन्त्या मयाऽऽसितानि। उपनयनप्रभृति सुताः परिणमन्त इति मातृ़णां मनसो निर्वृतिर्भवति ৷৷। ৷৷৷৷ राजवर्यस्य रघुनाथस्य गर्भनवमे शुद्धाष्टमे वर्षे उपनयनं कृतम्। अतः उपनयनानन्तरं सप्तदशवर्षाणि जातानिती। जातस्यउपनयनाख्यद्वितीयजन्मनेति शेषः। ऊनषोडशवर्षःऽ इति विश्वामित्रं प्रति दशरथोक्त्या विवाहकाले पञ्चदशवर्षत्वोक्तेः। तत्र द्वादशवर्षाणि राघवः सह सीतया। रमयामासऽ इति पाद्मोक्तेश्च। उपनयनं च गर्भैकादशे ৷৷৷৷৷৷।। द्विर्दशऽ इति वाक्यस्यार्थे दशऽ इति वाक्यैकदेशप्रयोगोऽयम्। द्विरावृत्ता दशविंशतिः सप्त चेत्यर्थः। ৷৷৷৷৷৷। तादृशप्रयोगश्च कौसल्यायाः पुत्रवियोगदुःखार्ततया, वाल्मीकेश्च वर्णनीयमयीभावेन न दोषायेति बोध्यम्ति।
३आसितानिङ। ट।
॥ २।२०।४५ ॥ ॥ २।२०।४६ ॥
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्।
विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव ॥ ४६ ॥
दुःखमिति। त्वद्विप्रयोगजमिति शेषः ॥ ४६ ॥
दुःखं त्वद्वियोगजं, अक्षयंतव राज्यनाशात् क्षयसंभावनारहितमपि अपि च एवं जीर्णा सपत्नीनां विप्रकारं सहितुं नोत्सहे।ति जीर्णाऽपिसपत्नीदुर्वाक्यश्रवणदुःखेन जीर्णाऽपि। विप्रकारंअपकाररूपं दुःखमित्यन्वयःगो। एवं जीर्णाऽपिसापत्न्यकथायोग्यवयोबलक्षयं प्राप्ताऽपि अक्षयंनिरवधिकं दुःखं सपत्नीनां विप्रकारंनिराकरणं च सहितुं चिरं नोत्सहेती।
॥ २।२०।४६ ॥ ॥ २।२०।४७ ॥
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।
कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥ ४७ ॥
कृपणजीविकाशोच्यजीवना ॥ ४७ ॥
कृपणजीविकाम्ङ।
॥ २।२०।४७ ॥ ॥ २।२०।४८ ॥
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।
१दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४८ ॥
दुःखं यथातथा मोघंव्यर्थं संवर्धितोऽसि। यदिविप्रवत्स्यसीति शेषः ॥ ४८ ॥
मोघं यथातथा दुःखेन संवर्धितः इत्यन्वयः।
१दुःखसंवर्धितां, दुःखं प्रवर्ततेङ।
॥ २।२०।४८ ॥ ॥ २।२०।४९ ॥
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते।
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ ४९ ॥
न दीर्यत इति यदिति। त्वद्विप्रयोगश्रवणेऽपीति शेषः ॥ ४९ ॥
शतधाङ।
॥ २।२०।४९ ॥ ॥ २।२०।५० ॥
ममैव जनूनं मरणं न विद्यते
न चावकाशोऽस्ति यमक्षयेऽपि वा।
यदन्तकोऽद्यैव न मां जिहीर्षति
प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥
ममैवेत्यादि। लौकिकातिवृद्धोक्तिजातिरियम् ॥ ५० ॥
स्ववत्सविपत्त्यादिदर्शनेन रुदतीं मृगीं प्रसह्य सिंहो यथा हन्यादिति। स्वपुत्रक्लेशदर्शनापेक्षया मातुः मरणमेव वरमित्यर्थः।
॥ २।२०।५० ॥ ॥ २।२०।५१ ॥
स्थिरं हि नूनं हृदयं ममायसं
न भिद्यते यद्भुवि नो विदीर्यते।
अनेन दुःखेन च देहमर्पितं
ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१ ॥
अयसा निर्मितंआयसम्। अनेन च दुःखेनार्पितमपि देहं देहः क्लीबपुंसोःऽ हि यस्मात् न विदीर्यते अतोऽकालेईश्वरकल्पितकालव्यतिरिक्तकाले मरणं न विद्यते, न लभ्यते च लाभार्थकविदेर्यत् तन्त्राभिप्रायत उभयम् ॥ ५१ ॥
भेदःद्विधाभवनं, विधारणंअनेकछिद्ररेखावत्वम्ति।
एतातृशेन दुःखेन अर्पितंव्याप्तं देहं च न भिद्यत इति यदित्याद्यन्वयः
॥ २।२०।५१ ॥ ॥ २।२०।५२ ॥
इदं तु दुःखं यतनर्थकगानि मे
व्रतानि दानानि च संयमाश्च हि।
तपश्च तप्तं यदपत्य१कारणात्
सुनिष्फलं बीजमिवोप्तमूषरे ॥ ५२ ॥
यत् व्रतादीनिअनर्थकानि जातानि, तदिदं तु महद्दुःखम्। आनर्थक्ये दृष्टान्तःऊषरे उप्तं, अत एव सुनिष्फलं बीजमिवेति ॥
तुपूर्वदुःखेभ्यो विलक्षणम्गो।
१काम्ययाङ।
॥ २।२०।५२ ॥ ॥ २।२०।५३ ॥
यदि ह्यकाले मरणं स्वयेच्छया
लभेत कश्चिद्गुरुदुःखकर्शितः।
गताऽहमद्यैव परेतसंसदं
विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥
यदीत्यादि। गुरुदुःखकर्शितः कश्चिदपि स्वेच्छया अकाले उक्तार्थः, मरणं लभेत यदि तदा ह्यहमद्यैव त्वया विनाभूता परेतसंसदंयमसभां गता स्यां, तत्तु न लभ्यत इति शेषः ॥ ५३ ॥
ध्रुवं ह्यकाले मरणं न विद्यतेऽ इत्येतत् सकार्यं दर्शयतियदीतिगो।
५१ तमश्लोकव्याख्यानावसरे इति शेषः।
॥ २।२०।५३ ॥ ॥ २।२०।५४ ॥
अथापि किं जीवितमद्य मे वृथा
त्वया विना चन्द्रनिभाननप्रभ।
अनुव्रजिष्यामि वनं त्वयैव गौः
सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥
अथापि किं जीवितंकुत्सितं जीवितं वृथाव्यर्थम्। अतःअनुव्रजिष्यामीत्यादि। अनुकाङ्क्षयास्नेहेन ॥ ५४ ॥
॥ २।२०।५४ ॥ ॥ २।२०।५५ ॥
भृशमसुखममर्षिता तदा
बहु विललाप समीक्ष्य राघवम्।
व्यसनमुपनिशाम्य सा महत्
सुतमिव बद्धमवेक्ष्य किन्नरी ॥ ५५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे विंशः सर्गः
भृशं असुखंदुःखं अमर्षिताअसहमाना राघवं समीक्ष्य तदा बहु विललाप। अपि च भावि महद्व्यसनं च रामवियोगमूलं सपत्न्यादिसम्पादनीयमुपनिशाम्यपर्यालोच्य च सत्यपाशबद्धं राघवं सुतमवेक्ष्य किन्नरीवयथोक्तनिमित्तवती किन्नरीव विललाप। अधर्ममानः (५९१२) सर्गः ॥ ५५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे विंशः सर्गः
॥ २।२०।५५ ॥