अष्टादशः सर्गः
[वनवासनिदेशः]
॥ २।१८।१ ॥
स ददर्शासने रामो १निषण्णं पितरं शुभे।
कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥
अथ प्रविष्टरामस्य पितृवैमुख्यशोकहेतुप्रश्ने कैकेय्योत्तरकथनम्। स ददर्शेत्यादि। परिशुष्यता मुखेनोपलक्षितम् ॥ १ ॥
आसने–पर्यङ्केगो।
१विषण्णं–ङ।
॥ २।१८।१ ॥ ॥ २।१८।२ ॥
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।
ततो ववन्दे चरणौ कैकेय्यास्सुसमाहितः ॥ २ ॥
विनीतवत्–विनीत १ एव ॥ २ ॥
विनीतवदिति। सर्वलोकोत्तमस्य रामस्य लोकशिक्षार्थमेव विनयप्रदर्शनमिति वतिना सूचितम्सत्य।
१स्सन्घ।
॥ २।१८।२ ॥ ॥ २।१८।३ ॥
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥
भाषितुं न शशाकेति। रामेत्यक्षरद्वयोच्चारणाभ्यधिकमिति शेषः ॥ ३ ॥
॥ २।१८।३ ॥ ॥ २।१८।४ ॥
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ ४ ॥
अपूर्वंइतः प्राक् अदृष्टपूर्वम्। भयावहं–विपत्तिशङ्काजननद्वारेणेति शेषः। पन्नगं पदा स्पृष्ट्वेव रामोऽपि स्वापराधशंकया भयमापन्नः ॥ ४ ॥
दशरथविषादस्य स्वापराधजन्यत्वशङ्कया भयं रामस्य–ति।
॥ २।१८।४ ॥ ॥ २।१८।५६ ॥
इन्दिरयैरप्रहृष्टैस्तं १क्लेशसन्तापकर्शितम्।
निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ॥
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।
उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ ६ ॥
अप्रहृष्टैःखिन्नैरिन्द्रियैरुपलक्षितं। क्लेशात्–मनःक्लेशात्। व्यथितं–खिन्नं आकुलं–सम्भ्रान्तं चेतो यस्य स
तथा। ऊर्मिमालाऽस्यास्तीति तथा, व्रीह्यादित्वादिनिः। अक्षोभ्यमपि स्वतो निमित्तविशेषवशात्क्षुभ्यन्तं सागरमिव स्थितम्। उपप्लुतं–केतुग्रस्तम्। उक्तं–अनृतं येन स तथा तद्वन्निस्तेजस्कमित्यर्थः। दृष्ट्वा भयमापन्न इत्यनुषङ्गः ॥
॥ २।१८।५६ ॥ ॥ २।१८।७ ॥
अचिन्त्यकल्पं हि पितुः तं शोकमुपधारयन्।
बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥
पितुस्तं शोकमचिन्त्यकल्पं–अत्यन्तासम्भाव्यं उपधारयन्चिन्तयन्। समुद्रः पर्वणीव संरब्धतरः–अतिशयेन क्षुभितः बभूव। यद्यपि समुद्रस्य पर्वणि चन्द्रोदये हर्षात्क्षोभ इति प्रसिद्धिः अथापि इह क्षोभमात्रे दृष्टान्तः ॥ ७ ॥
॥ २।१८।७ ॥ ॥ २।१८।८ ॥
चिन्तयामास च तदा रामः पितृहिते रतः।
किं स्विदद्यैव नृपतिः न मां प्रत्यभिनन्दति ॥ ८ ॥
किंस्वित्–किन्नु ॥ ८ ॥
॥ २।१८।८ ॥ ॥ २।१८।९ ॥
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।
तस्य मामद्य सम्प्रेक्ष्य १किमायासः प्रवर्तते ॥ ९ ॥
अद्यैवेत्येवकारव्यवच्छेद्यमुच्यते–अन्यदेत्यादि। तस्येति। तादृशस्य मद्दर्शने नित्यप्रीतिमत इत्यर्थः ॥ ९ ॥
१किमाश्वासःङ।
॥ २।१८।९ ॥ ॥ २।१८।१० ॥
स दीन इव शोकार्तो विषण्णवदनद्युतिः।
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० ॥
दीन इव–दीन एव। विषण्णवदनद्युतिः किं स्विदित्यनुकर्षः ॥
विषण्णवदनद्युतिः किन्नु? इति प्रत्येकं प्रश्नान्तरम्। तिलके तु–उत्तरार्धगतरामविशेषणमित्युक्तम्।
॥ २।१८।१० ॥ ॥ २।१८।११ ॥
कच्चिन्मया नापराद्धमज्ञानात्, येन मे पिता।
कुपितः, तन्ममाचक्ष्व, त्वमेवैनं प्रसादय ॥ ११ ॥
प्रसादयेति। मत्कृतापराधशान्त्या इति शेषः ॥ ११ ॥
॥ २।१८।११ ॥ ॥ २।१८।१२१३ ॥
अप्रसन्नमनाः किन्नु सदा मां प्रति वत्सलः।
१विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२ ॥
शारीरो मानसो वाऽपि कच्चिदेनं न बाधते।
सन्तापो वाऽभितापो वा दुर्लभं हि सदा सुखम् ॥ १३ ॥
शारीरःशरीरव्याधिजः सन्तापः। मानसःआधिजोऽभितापः। न बाधते कच्चित्। कुतस्तत्प्रसङ्ग इत्यतः–दुर्लभमित्यादि। मानुषतनोः पापपुण्यारब्धत्वादित्याशयः ॥ १३ ॥
सदा मां प्रति वत्सलोऽप्यद्याप्रसन्नमनाः, मां किन्नु नाभिभाषत इत्यन्वयः।
१विषण्णङ। च।
॥ २।१८।१२१३ ॥ ॥ २।१८।१४१५ ॥
कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने।
शत्रुघ्ने वा महासत्त्वे मातृ़णां ममाशुभम् ॥ १४ ॥
अतोषयन्महाराजमकुर्वन्वा पितुर्वचः।
मुहूर्तमपि नेच्छेयं १जीवितुं कुपिते नृपे ॥ १५ ॥
मातृ़णां वेति। विषय इति शेषः। अतोषयन्न कच्चिदित्यनुकर्षः ॥ १४१५ ॥
मातृ़णामिति निर्धारणे षष्ठी–गो। एतेषां विषये मम–मदीयं अशुभं–अपराधः न कच्चित्।
अतोषयन्नित्यादेरुत्तरार्धेण वान्वयः। हेतौ शतृ। कुपित इत्युक्तकोपे हेतुः। व्याख्यारीत्या तु अतोषयन्नित्यर्धं भिन्नं वाक्यम्।
१जीवितंङ।
॥ २।१८।१४१५ ॥ ॥ २।१८।१६ ॥
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ १६ ॥
यतोमूलमिति। अलुगार्षः। यो नरः इहात्मनः प्रादुर्भावंशरीरप्ररिग्रहं यन्मूलंयत्कारणकं पश्येत्–जानीयात् सोऽसौ विवेकी उक्तहेतोरेव प्रत्यक्षे दैवते सिद्धे सति तस्मिन् पितरि आनुकूल्ये कथं न वर्तेत ॥ १६ ॥
मूलंप्रवृत्तिहेतुभूतं, आत्मनः–स्वस्य, प्रादुर्भावं–प्राकट्यं, यतः–यस्मात्शि। प्रादुर्भावंजन्म, मूलं–स्वप्रादुर्भावापादकं तपआदि च यतःपितुस्सकाशात्पश्येत्–सत्य।
॥ २।१८।१६ ॥ ॥ २।१८।१७ ॥
कच्चित्ते परुषं किञ्चिदभिमानात्पिता मम।
उक्तो भवत्या १ रोषेण यत्रास्य लुलितं मनः ॥ १७ ॥
तेतव रोषेणकोपेन अभिमानात्–गर्वेण वा मम पिता परुषमुक्तो न कच्चित्। यत्रयेनास्य मनो लुलितम् ॥ १७ ॥
ते अभिमानात्तव वाल्लभ्यात्गो।
१कोपेन येनास्यङ।
लुलितंकलुषितं।
॥ २।१८।१७ ॥ ॥ २।१८।१८१९ ॥
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।
किं निमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥
एवमुक्ता तु कैकेयी राघवेण महात्मना।
उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १९ ॥
सुनिर्लज्जा–पत्युरेवं क्लेशकरणलज्जारहिता। धृष्टं–प्रत्यक्षतो वनं गच्छऽ इतिस्ववचनविषय १ कालुष्यापेतं यथा तथा। आत्महितं–स्वपुत्राभिषेकविषयकम् ॥ १९ ॥
सुनिर्लज्जा–यशःप्रख्यापनरूपपत्युपकारार्थं–त्यक्तव्रीडा। आत्महितं–जीवानामुपकारकम्। धृष्टं प्रागल्भ्यरहितंशि।
१दार्ढ्योपेतंघ।
॥ २।१८।१८१९ ॥ ॥ २।१८।२० ॥
न राजा कुपितो राम व्यसनं नास्य किञ्चन।
किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥ २० ॥
मनोगतमिति। त्वदप्रियकरमिति शेषः ॥ २० ॥
॥ २।१८।२० ॥ ॥ २।१८।२१ ॥
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते।
तदवश्यं त्वया कार्यं यदनेनाऽऽश्रुतं १ मयि ॥ २१ ॥
तदेव प्रदर्श्यते–प्रियमित्यादि। तदवश्यमिति। तदनेन मयि–मद्विषये आश्रुतं, तदप्रियमपि ते त्वयाऽवश्यं कार्यं यदि पितृसुखसम्पिपादयिषेति शेषः ॥ २१ ॥
१ममङ।
॥ २।१८।२१ ॥ ॥ २।१८।२२ ॥
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।
स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥
किं तदित्यपेक्षायामाह–एष इत्यादि। स पश्चादिति। प्रतिश्रुतवरदानकाल इति यावत् ॥ २२ ॥
॥ २।१८।२२ ॥ ॥ २।१८।२३ ॥
अतिसृज्य १ददानीति वरं मम विशाम्पतिः।
स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २३ ॥
गतजले सेतुं बन्धितुमिच्छतीति। दानस्य पूर्वमेव वृत्तत्वात्तत्प्रयुक्तव्यवहारपरिहारचिन्ताऽस्य व्यर्थेत्यर्थः ॥ २३ ॥
१ददामीतिङ।
॥ २।१८।२३ ॥ ॥ २।१८।२४ ॥
धर्ममूलमिदं राम विदितं च सतामपि।
तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥
सतां विदितमिति। क्तस्य च वर्तमानेऽ ति षष्ठी। मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। त्वत्कृतेमन्निमित्तत्वत्प्रयोजनान्तरायवशात् मयि कुपितो राजा कोपदोषेण तत्सत्यं यथा न त्यजेत्तथा कुर्विति भावः ॥ २४ ॥
मद्विवाहकाले हि त्वत्पित्रा मयि यो जायते तस्मै राज्यदानं प्रतिज्ञातम्। तादृशपूर्वप्रतिज्ञानिर्वर्तनायैव मयापीदानीं निर्बंध्यत इति वा भावः। तर्हि किमर्थं देवासुरसङ्ग्रामदत्तवरद्वयेन निर्बन्धनमिति चेदत्र वक्तव्यं–विवाहकाले तथोक्तत्वात् कदाचिद्राजा धार्ष्ट्यादुत्पथं गच्छेदित्यादि उत्तरत्र व्याख्यात्रैव वक्ष्यत इति (अयो।१०७,३श्लो।)।
॥ २।१८।२४ ॥ ॥ २।१८।२५ ॥
यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम्।
करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २५ ॥
तदर्थं राजा शुभं वा यदि वाशुभं वक्ष्यते तत्सर्वं त्वं यदि करिष्यसि ततोऽहं सर्वं पुनःविशिष्य आख्यास्यामीति। मत्प्रदत्तवरनिमित्तः क्लेश इति सामान्यत उक्तमेव ॥ २५ ॥
ब्रूञ् व्यक्तायां वाचिऽ इति धातोरुभयपदित्वात् लृटि वक्ष्यत इत्यपि रूपम्। केचित्तु वक्ष्यत इति कर्मणि रूपं, राजाऽ इति च तृतीयान्तमित्याहुः–सत्य।
॥ २।१८।२५ ॥ ॥ २।१८।२६ ॥
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।
ततोऽहमाभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २६ ॥
राज्ञाराजानुमत्या मया यदभिहितं, तत् त्वयि यदि न विपत्स्यतेन व्यर्थं भविष्यति ततोऽहमेवाभिधास्यामि। वक्तुं राजैवेत्यत्राह–न हीत्यादि। त्वदप्रियत्वात्त्वन्मुखमवलोक्येति शेषः ॥ २६ ॥
शुभं वाशुभंवा राजा यदि वक्ष्यति तर्हि करोम्येव। तर्हि किमर्थं आख्यास्यामि पुनस्त्वहंऽ इति उच्यते इति शंकां समाधत्ते यदि त्वभिहितमित्यादिना। राजा तु–साक्षान्न वक्ष्यत्येव। अतो राज्ञो विवक्षितमहमेव वक्ष्यामीत्यर्थः। राज्ञाऽभिहितं चेद्यदि करोषि, तमेवाभिप्रायमहमेव वक्ष्ये। वक्ता को वा भवतु। राज्ञस्त्वभिमतमेवेति भावः। एतदेवस्पष्टीकृतं श्रीरामेणापि तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्ऽ इति ॥
॥ २।१८।२६ ॥ ॥ २।१८।२७ ॥
एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।
उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २७ ॥
एवं रामेणाप्युक्तकरणव्यवस्थायां पृष्टायां रामोऽपि दशरथवद्वक्तव्यघोरापरिज्ञानात् यदि शक्यं तदा करोमिऽ इत्यनुक्त्वा सर्वथैव करिष्य इति प्रतिजानीते–एतत्त्वित्यादि ॥ २७ ॥
तमार्जवसमायुक्तंऽ इत्यनुपदं दर्शनात् एवं व्याख्यातम्
॥ २।१८।२७ ॥ ॥ २।१८।२८ ॥
अहो धिङ्नार्हसि देवि वक्तुं मामीदृशं वचः।
अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ २८ ॥
ईदृशमिति। यदि करोषिऽ इत्यकरणशङ्कावचनमित्यर्थः ॥
॥ २।१८।२८ ॥ ॥ २।१८।२९ ॥
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे।
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २९ ॥
गुरुणा–इहामुत्र हितोपदेष्ट्रा ॥ २९ ॥
॥ २।१८।२९ ॥ ॥ २।१८।३० ॥
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्।
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ ३० ॥
प्रतिजाने चेति। सर्वथा कृतसुकृतादिसाक्षितयेति शेषः। तदेव स्थिरीक्रियते–रामो द्विर्नाभिभाषत इति। प्रतिज्ञातार्थविषये द्विःप्रतिज्ञाप्रयोजनं सकृदुक्तत्वात्, तस्य पश्चादनिष्टताद्युपाधितो द्वितीयवारं तदभावविषयं न ब्रवीति। उक्तमुक्तमेव, न सर्वथा तद्वैपरीत्यप्रसङ्ग इत्यर्थः ॥ ३० ॥
॥ २।१८।३० ॥ ॥ २।१८।३१३२ ॥
तमार्जवसमायुक्तमनार्या सत्यवादिनम्।
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ ३१ ॥
पुरा दैवासुरे युद्धे पित्रा ते मम, राघव
रक्षितेन वरौ दत्तौ १विशल्येन २महारणे ॥ ३२ ॥
विशल्येन–पश्चाच्छल्यापाकरणपुर्वकं रक्षितेन ॥ ३२ ॥
देवासुरयुद्धान्तर्गते महारणे–दशरथकर्तृकावान्तरशम्बरासुरयुद्ध इत्यर्थः। तेन न पौनरुक्त्यम्। महारणे सशल्येन मया रक्षितेन ते पित्रा मम वरौ दत्तौ इत्यन्वयः।
१सशल्येनङ। च।
२मया रणेङ।
पूर्वं सशल्येनेति शेषः।
॥ २।१८।३१३२ ॥ ॥ २।१८।३३ ॥
तत्र मे याचितो राजा भरतस्याभिषेचनम्।
गमनं दण्डकारण्ये तव चाद्यैव, राघव ॥ ३३ ॥
तत्र म इति। मम तयोर्वरयोः एकेनेति शेषः। अद्यैवएतत्क्षण एवेत्यर्थः ॥ ३३ ॥
तत्र वरप्रदाननिमित्तंगो।
॥ २।१८।३३ ॥ ॥ २।१८।३४ ॥
यदि सत्यप्रतिज्ञं त्वं पितरं १ कर्तुमिच्छसि।
आत्मानं च, नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ ३४ ॥
आत्मानं चेति। त्वयाऽपि मदुक्तकृतेः सशपथं प्रतिज्ञातत्वादित्याशयः ॥ ३४ ॥
१कर्तुमर्हसिङ।
॥ २।१८।३४ ॥ ॥ २।१८।३५ ॥
१अनुदेशे पितुस्तिष्ठ २यथानेन प्रतिश्रुतम्।
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५ ॥
यथा तेन दशरथेन वरद्वयं प्रतिश्रुतं तस्मिन् पितुरनुदेशेनियोगसम्पादने तिष्ठव्यवस्थितो भव। अतःत्वयेत्यादि ॥ ३५ ॥
१सन्निदेशेसर्वत्र
२यदनेनङ।
॥ २।१८।३५ ॥ ॥ २।१८।३६४० ॥
भरतश्चाभिषिच्येत यदेतदभिषेचनम्।
त्वदर्थे विहितं राज्ञा तेन सर्वेण, राघव ॥ ३६ ॥
सप्त सप्तच वर्षाणि दण्डकारण्यमाश्रितः।
अभिषेकमिदं त्यक्त्वा १जटाचीरधरो भव ॥ ३७ ॥
भरतः कोसल २ पतेः प्रशास्तु वसुधामिमाम्।
नानारत्नसमाकीर्णां सवाजिरथ ३ कुञ्जराम् ॥ ३८ ॥
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।
शोकैः सङ्क्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३९ ॥
एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन
सत्येन महता, राम तारयस्व नरेश्वरम् ॥ ४० ॥
सत्येन–सत्यपरिपालनेन ॥ ४० ॥
अभिषेचनंअभिषेचनोपकरणं यदेतत् राज्ञा त्वदर्थे विहितं तेन सर्वेण भरतोऽभिषिच्येतेत्यन्वयः।
१जटाजिनङ।
२पुरेङ।
३सङ्कुलांङ। च।
एतेनएतत्कारणकेन, कारुण्येन–दैन्येन।
॥ २।१८।३६४० ॥ ॥ २।१८।४१ ॥
इतीव तस्यां परुषं वदन्त्यां
न चैव रामः प्रविवेश १ शोकम्।
प्रविव्यथे चापि महानुभावः
राजा तु पुत्रव्यसनाभितप्तः ॥ ४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टादशः सर्गः
इतिइत्येवं। राजा तुराजैव। पुत्रव्यसनं–भाविवियोगव्यसनम्। कवि (४१) मानः सर्गः ॥ ४१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयेध्याकाण्डे अष्टादशः सर्गः
॥ २।१८।४१ ॥