सप्तदशः सर्गः
[कैकेय्यन्तःपुरप्रवेशः]
॥ २।१७।१ ॥
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः।
पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ॥ १ ॥
अपश्यन्नगरं श्रीमीन्नानाजनसमन्वितम्।
अथ रामस्य राजसमीपगमनम्। स राम इत्यादि ॥ १ ॥
अलङ्कारार्थाः चिह्नरहिताः–पताकाः। राजचिह्नसहितानिध्वजानि।
॥ २।१७।१ ॥ ॥ २।१७।२ ॥
स गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् ॥
राजमार्गं ययौ रामो मध्येनागरुधूपितम् ॥ २ ॥
अभ्रसङ्काशैः–पाण्डरमेघसदृशैः। मध्येन–उभयवीथीमध्यप्रदेशेन। प्रकृत्यादित्वात् तृतीया ॥ २ ॥
मध्येन–तत्र तत्रइति वार्थः। प्रथमश्लोके महार्हागरुधूपितंऽ इति वर्णनं नगरसामान्यस्य। द्वितीयश्लोके तु विशिष्य राजमार्गस्यातिशयविवक्षयेति न पौनरुक्त्यम्।
॥ २।१७।२ ॥ ॥ २।१७।३४ ॥
चन्दनानां च मुख्यानामगरूणां च सञ्चयैः।
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ॥ ३ ॥
१आविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि।
शोभमानमसंबाधैस्तं राजपथमुत्तमम् ॥ ४ ॥
कौशाम्बरं–कौशेयम्। आविद्धाभिः–मालायै कृतरंध्राभिः। असम्बाधैःविविच्यस्थापितैः ॥ ४ ॥
कौशम्बरस्य च सञ्चयैःशोभमानंइत्यन्वयः
अविद्धाभिःअकृतरंध्राभिःनूतनाभिरिति यावत्गो
१अविद्धाभिश्चङ।
असम्बाधं–विस्तीर्णंति।
असम्बाधैरित्युत्तरत्राप्यन्वेति।
॥ २।१७।३४ ॥ ॥ २।१७।५ ॥
संवृतं विविधैः १पण्यैः भक्ष्यैरुच्चावचैरपि।
ददर्शं तं राजपथं दिवि देव २ पथं यथा ॥ ५ ॥
पण्यादिभिः संवृतं–व्याप्तम् ॥ ५ ॥
१पुष्पैःङ। च।
२पतिर्यथाङ। च।
॥ २।१७।५ ॥ ॥ २।१७।६ ॥
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः।
नानामाल्योपगन्धैश्च सदाभ्यर्चितसत्पथम् ॥ ६ ॥
उपगन्धःहरिचन्दनादिः ॥ ६ ॥
॥ २।१७।६ ॥ ॥ २।१७।७ ॥
अशीर्वादान् बहून् शृण्वन् सुहृद्भिस्समुदीरितान्।
यथार्हं वाऽपि सम्पूज्य सर्वानेव नरान् ययौ ॥ ७ ॥
यथार्हं वा–यथार्हमेव। ईक्षणभ्रूभेपवचनाञ्जलिभिर्यथोचितमित्यर्थः ॥ ७ ॥
॥ २।१७।७ ॥ ॥ २।१७।८ ॥
पितामहैराचरितं तथैव प्रपितामहैः।
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥
आचरितंअनुष्ठितम्। अभिषिक्तोऽनुपालयेति वृद्धानां वादः ॥
॥ २।१७।८ ॥ ॥ २।१७।९ ॥
[यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः।
ततस्सुखतरं सर्वे रामे वत्स्याम राजनि ॥ ]
१अर्थैरलं हि भुक्तैर्नः परमार्थैरलं च नः।
यथा पश्येम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ ९ ॥
अर्थैरित्यादि। रामं राज्ये प्रतिष्ठितं–अभिषिक्तं राजमार्गे निर्यान्तं पश्येम यथा–साक्षात्कुर्मो यदि–एतत्सुखलाभो यदि अर्थैर्हि प्रसिद्धैः ऐहिकविषयैर्भुक्तैः तद्भोगजसुखैर्नोऽस्माकं अलं, तथा परमैः–श्रेष्ठैः
स्वर्गाद्यर्थैः तत्सुखैश्च नः–अस्माकं अलं–मा स्तु ॥ ९ ॥
ततः–तस्मात्–तदपेक्षया सुखतरं वत्स्याम इति भावः।
१अलमद्यहि भुक्तेनङ।
भुक्तेनऐहिकविषयभोगजसुखेन। परमार्थैःपरमार्थस्वर्गसाधनैश्चति। परमार्थैःपरमपुरुषार्थसाधनभूतैःगो। मोक्षसुखमपि मास्तु–ततोऽप्यस्य रामदर्शनस्य सुखतरत्वादित्याशयः।
॥ २।१७।९ ॥ ॥ २।१७।१० ॥
ततो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति।
यथाऽभिषेको रामस्य राज्येनामिततेजसः ॥ १० ॥
कथमेवमित्यत्रततो हीत्यादि। भूमानन्दब्रह्मरामसाक्षात्कारजसुखादित्यर्थः। प्रियतरं–प्रेमातिशयास्पदं अन्यन्न किञ्चित्सुखं भविष्यति। १यथा ह्यमिततेजसो रामस्य राज्येन–राज्यप्राप्तिहेतवे अभिषेकः २तथा राज्ये प्रतिष्ठितमित्यादिपूर्वेणान्वयः ॥ १० ॥
यथाऽभिषेकं इतिति। गो। पाठः। यथा प्रियतरः न तथान्यत्प्रियतरमस्तीति भावः।
१यदाक।
२तदाक।
॥ २।१७।१० ॥ ॥ २।१७।११ ॥
एताश्चान्याश्च सुहृदां उदासीनः कथाः शुभाः।
आत्मसम्पूजनीः शृण्वन् यतौ रामो महापथम् ॥ ११ ॥
उदासीनश्शृण्वन्निति। स्तुतिजातहर्षविकाररहित इति यावत्। अनुत्तमं यथातथोच्यमाना आत्मसम्पूजनीर्वाचः शृण्वन्निति योजना ॥ ११ ॥
उदासीन इति। धीरोदात्तत्वादिति भावः।
आत्मसम्पूजाजननीरित्यर्थः–गो।
॥ २।१७।११ ॥ ॥ २।१७।१२ ॥
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥ १२ ॥
अतिक्रान्तेऽपीति। दृष्टिपथमिति शेषः ॥ १२ ॥
॥ २।१७।१२ ॥ ॥ २।१७।१३ ॥
यश्च रामं न पश्येत्तु यं च रामो न पश्यति।
निन्दितः १स वसेल्लोके २ स्वात्माऽप्येनं विगर्हते ॥ १३ ॥
यश्च रामं स्वदेशस्थं न पश्येत्, यं च स्वदेशस्थमत एव रामोऽपि न पश्यति सोऽसावपरोक्षब्रह्मरामानुभवादृष्टहीन इहामुत्र च लोके सर्वलोकैर्निन्दितो वसेत्। अप्रयासेन भगवदपरोक्षीकृतिमात्रेण मुक्तिसम्पादनादृष्टाभावान्नास्य कदाऽपि संसारोत्तार इत्यर्थः। अत एवास्यात्मा–अन्तर्यामी भगवानादिगुरुर्ब्रह्माप्येनं विगर्हते–पापिष्ठोऽयं मन्मूर्तिमपि साक्षात्कृत्य न जन्मोद्धृतवानिति ॥ १३ ॥
१स भवेल्लोकेसर्वलोकेषुङ।
स्वात्माप्येनं विगर्हते–स्वान्तःकरणमप्येनं विशेषेण गर्हतेगो।
॥ २।१७।१३ ॥ ॥ २।१७।१४ ॥
सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम्।
चतुर्णां हि वयस्स्थानां तेन ते तमनुव्रताः ॥ १४ ॥
दयामिति। मुक्तिपर्यन्तानुग्रहमित्यर्थः ॥ १४ ॥
चतुर्णां वर्णानां मध्ये सर्वेषामपि वयःस्थानां–वयः स्थानं प्रमाणं यस्याः सा–तादृशीं वयोऽनुरूपामिति यावत्–दयां कुरुतेगो। ति। वयस्थानां वृद्धानां इति वागो। वस्तुतस्तु वयःपदं वयस्सामान्यवाची। तत्तद्वयसि स्थितानां तत्तद्वयोऽनुगुणं पुरस्कारादिकं ददातीत्यर्थः। वृद्धानां पुत्र इव, बानानां पितेव, समानां सखेव च वर्तत इति यावत्। “बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता।” “पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।” “पिता पुत्रानिवौरसान्” “पितेव परितुष्यति” इति खलूक्तम्। चक्रवर्तिकुमारस्य एवं वर्तनं हि सौलभ्यसूचकं इत्यभिप्रायेण दयांऽ इत्युक्तम्।
॥ २।१७।१४ ॥ ॥ २।१७।१५ ॥
चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च।
प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ १५ ॥
प्रदक्षिणं परिहरन्निति। चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्नित्यर्थः ॥ १५ ॥
अप्रदश्रक्षिणं परिहरन् प्रदक्षिणं यथा तथा जगाम–गो। चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्ति। वस्तुतः–प्रदक्षिणं यथा तथा चतुष्पथादीन् स्वदक्षिणभागे परिहरन्–त्यजन् जगामेत्यर्थः।
॥ २।१७।१५ ॥ ॥ २।१७।१६ ॥
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः।
[प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥
आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः।]
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ १६ ॥
वर्धमानगृहैः–क्रीडागृहैः। परिष्कृतैरुपेतं तत्पितुर्वेश्मेति योजना ॥ १६ ॥
वर्धमानगृहैः–वर्धमानलक्षणाधिष्ठानसमेतगृहैः–गो। अत्युन्नतनिर्माणायारब्धगृहैःती। वर्धमानगृहैःदक्षिणद्वाररहितैः। उस्तं च– पश्चिमद्वारहीनं तु नन्द्यावर्तं प्रचक्षते। दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् इतिसत्य।ऽ
॥ २।१७।१६ ॥ ॥ २।१७।१७ ॥
[तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम्।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः।]
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।
१सन्निवर्त्य जनं सर्वं २शुद्धान्तं पुनरभ्यगात् ॥ १७ ॥
स सर्वा इति। उक्तपञ्चकक्ष्या इत्यर्थः ॥ १७ ॥
१सन्नियम्यङ।
२शुद्धान्तःपुरङ। च।
॥ २।१७।१७ ॥ ॥ २।१७।१८ ॥
ततः प्रविष्टे पितुरन्तिकं तदा
जनस्स सर्वो मुदिते नृपात्मजे।
प्रतीक्षते तस्य पुनर्विनिर्गमं
यथोदयं चन्द्रमसः सरित्पतिः ॥ १८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तदशः सर्गः
अन्तिके प्रविष्ट इति। अन्तिकदेशे प्रविश्य स्थित इत्यर्थः। दया(१८)मानः सर्गः ॥ १८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तदशः सर्गः
मातृकासु अस्मिन् सर्गे १८ श्लोका निर्दिष्टाः। दृश्यन्ते च सर्वत्र २२ श्लोकाः। अतश्च व्याख्यागतिपरिशीलनयाऽधिकपाठाः कुण्डलिताः।
॥ २।१७।१८ ॥