०१६ रामप्रस्थानम्

षोडशः सर्गः

[रामागमनम्]

॥ २।१६।१ ॥

स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।

१प्रविविक्तां ततः कक्ष्यां आससाद पुराणवित् ॥ १ ॥

अथ रामस्य राजभवनोपस्थानम्। स तदित्यादि ॥ १ ॥

प्रविविक्तांजनसम्बाधरहिताम्।

१प्रविभक्तांङ।

॥ २।१६।१ ॥ ॥ २।१६।२ ॥

१प्रासकार्मुकबिभ्राद्भिर्युवभिर्मृष्टकुण्डलैः।

अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २ ॥

प्रासकार्मुकानि बिभ्रतीति प्रासकार्मुकबिभ्रतः, तैस्तथा। द्विर्वचनं छान्दसम्। मृष्टकुण्डलैः–सूत्तेजितसमग्रकर्णाभरणैः ॥ २ ॥

प्रासकार्मुकऽ इत्यत्र सुपां सुलुक्ऽ इति द्वितीयालुक्–ती। मृष्टं–शोधितं।

१प्राप्तकार्मुकङ।

॥ २।१६।२ ॥ ॥ २।१६।३५ ॥

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान्।

ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान्सुसमाहितान् ॥ ३ ॥

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।

सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससम्भ्रमाः ॥ ४ ॥

तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।

क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥ ५ ॥

प्रकर्षेण दक्षिणः–समर्थस्तथा ॥ ५ ॥

काषायिणःकाषायवस्त्रधारिणः। रामप्रीत्यर्थमलङ्कारकञ्चुकालंकृतानित्यर्थःगो।

स्त्र्यध्यक्षाः–अन्तःपुराध्यक्षाः–कञ्चुकिन इति यावत्।

एतदनन्तरं इति करणं द्रष्टव्यम्।

॥ २।१६।३५ ॥ ॥ २।१६।६७ ॥

ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।

सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥

प्रतिवेदितमाज्ञाय सूत १ मभ्यन्तरं पितुः।

तत्रैवानाययामास २ राघवः प्रियकाम्यया ॥ ७ ॥

प्रतिवेदितं द्वारपालैर्विज्ञापितं सूतं पितुरभ्यन्तरं–अन्तरङ्गं आज्ञाय–ज्ञात्वा। तत्रैव–सीतया सहावस्थितिस्थल एवेत्यर्थः ॥ ७ ॥

१मभ्यागतंङ।

२राघवप्रियङ।

प्रियकाम्ययेति। पितुरिति शेषः।

॥ २।१६।६७ ॥ ॥ २।१६।८९ ॥

तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्।

ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥

वराहरुधिरामेण शुचिना च सुगन्धिना।

अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ ९ ॥

वराहरुधिरवदतिरक्तमित्यर्थः ॥ ९ ॥

॥ २।१६।८९ ॥ ॥ २।१६।१०११ ॥

१स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।

उपेतं सीतया भूयः चित्रया शशिनं यथा ॥ १० ॥

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।

ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥

विनीतवत्–विनीतस्सन् ॥ ११ ॥

१सीतयाङ।

चैत्रपौर्णमास्यां चित्राख्यतारकोपेतं उदितं शशिनमिव स्थितंगो।

॥ २।१६।१०११ ॥ ॥ २।१६।१२१३ ॥

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने।

राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥

कौसल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति।

महिष्या सह कैकेय्या, गम्यतां तत्र मा चिरम् ॥ १३ ॥

कौसल्यासुप्रजारामेति कौसल्यासुप्रजादेवेति च गतवत् ॥ १३ ॥

विहारशयनासन इति द्वंद्वैकवद्भावःगो। विहारःआहारादिसर्वे व्यापाराः, तेषुतद्विषय इत्यर्थः। सुखं पृष्ट्वेत्यन्वयः।

गतवत्–बाल–२३ सर्गे द्वितायश्लोकवत् इत्यर्थः।

॥ २।१६।१२१३ ॥ ॥ २।१६।१४१५ ॥

एवमुक्तस्तु संहृष्टो नरसिह्मो महाद्युतिः।

ततस्संमानयामास सीतामिदमुवाच ह ॥ १४ ॥

देवि देवश्च देवी च समागम्य मदन्तरे।

मन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम् ॥ १५ ॥

देवश्च देवी च–मातापितराविति यावत्। मदन्तरे–मदर्थे, “अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये”, अभिषेचनसंहितं–अभिषेचनोपयुक्तं किञ्चिद्विचारोपेतं ध्रुवं मन्त्रयेते–विचारं कुर्वाते ॥ १५ ॥

देवी च इति कथनात् एवं वा रामस्याशयः स्यात् ॥ उत्तरत्र– “पुरा भ्रातः पिता नस्स मातरं ते समुद्वहन्। मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ " (अयो। १०७३) इति हि रामो वक्ष्यति ॥ न ह्येतदिदानीं विस्मृतं स्यात्। विप्रोषितश्च भरतो यावदेव पुरादितः। तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ ऽ इति दशरथवाक्येऽ(अयो। ४२५) प्ययमर्थः स्पष्टः। अत एवेदानीं निगूढमुच्यते–लक्षयित्वेति ॥ भरतासन्निधौ रामाभिषेचनरूपं राज्ञोऽभिप्रायं ज्ञात्वा राजानं सत्यप्रतिज्ञं कर्तुकामा– अत एव सुदक्षिणा मद्धितार्थं–ममावतारप्रयोजनसिद्धये वा राजानं समीचीनमार्गे सञ्चोदयति इत्यर्थः। अस्य गूढोक्तिरूपत्वात् यौवराज्येऽभिषेक्ष्यति इत्यनेन न विरोधः ॥ यद्वा–वालिवधसमये स्वस्यभरतादेशानुवर्तित्वेन प्रकटनात्तथोक्तमिति।ऽ

अभिषेचनसंहितं–अभिषेचनसम्बन्धि–गो।

॥ २।१६।१४१५ ॥ ॥ २।१६।१६ ॥

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।

सञ्चोदयति राजान १ मदर्थमसितेक्षणा ॥ १६ ॥

अथ महिष्या सहेत्युक्तत्वादुन्नयनार्हमर्थमुन्नयति–लक्षयित्वेत्यादि। “वृद्धेन मयाऽविलम्बेन रामाभिषेकः कार्यः” इति राज्ञोऽभिप्रायमालक्ष्य सुदक्षिणा–समर्था अत एव राज्ञः प्रियकामा सती “भरतासन्निधौ रामाभिषेकस्त्वत्सम्मतो न वा” इति प्रष्टारं पितरं सुदक्षिणात्वाद्राजानं मदर्थं प्रति–मदभिषेकं प्रति सञ्चोदयति। भरतः अभिषेकोत्सवमनन्तरं श्रोष्यति। तत्र चिन्ता न कर्तव्या। शीघ्रमभिषेकः कार्यतामिति चोदयतीति मन्य इत्यर्थः ॥ १६ ॥

॥ २।१६।१६ ॥ ॥ २।१६।१७ ॥

सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।

जननी चार्थकामा मे केकयाधिपतेस्सुता ॥ १७ ॥

हितकामानुवर्तिनी–स्वस्या राजसौमुख्यादिप्रयोजनार्थतयैवानुवर्तनशीला। तथा जननी च। मे

अर्थकामा–मदर्थसिद्ध्यपेक्षिणी ॥ १७ ॥

महाराजंऽ इति पदं तिलके पूर्वश्लोकेनान्वितम्। महाराजंऽ राजानंऽ (१६ श्लो।) इति हर्षवशात्पुनरुक्तिरदोषाय इति समर्थितं च। हितकामा–लोकस्येति शेषः। महाराजं–भर्तारं अनुवर्तिनी मे अर्थकामा भवतीति शेषः। पूर्वश्लोकादारभ्य यादृशीपरिषत्तत्रऽ इति पर्यन्तश्लोकस्वारस्यपरिशीलने रामेण निगूढं किञ्चिदुच्यत एवेति स्पष्टं विमर्शकानाम्। निगूढमुक्तोर्थ एवोत्तरत्र अयो। १०७३ श्लोके रामेण स्पष्टीकृत इति ॥

॥ २।१६।१७ ॥ ॥ २।१६।१८ ॥

दिष्ट्या खलु महाराजो महिष्या प्रियया सह।

सुमन्त्रं प्राहिणोद्दूतमर्थकाम १करं मम ॥ १८ ॥

कुत एवं निश्चय इत्यत्राह–दिष्ट्या खल्वित्यादि। ममार्थकरं सुमन्त्रं प्राहिणोदिति यत् अतो मत्प्रयोजनार्थं प्राहिणोदित्यर्थः ॥ १८ ॥

१परंङ।

॥ २।१६।१८ ॥ ॥ २।१६।१९ ॥

यादृशी परिषत्तत्र तादृशो दूत आगतः।

ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥

स एव हेतुर्विंव्रियते–यादृशीत्यादिना। तत्रराजान्तःपुरे यादृशीमदर्थैकप्रयोजना परिषत्तादृशःमदर्थैकप्रयोजनो दूत आगत इति यतः अस्मादेव निश्चय इत्यर्थः ॥ १९ ॥

॥ २।१६।१९ ॥ ॥ २।१६।२०२१ ॥

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।

सह त्वं परिवारेण सुखमास्व रमस्व च ॥ २० ॥

पतिसम्मानिता सीता भर्तारमसितेक्षणा।

आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥

अभिदध्युषी–ध्यायतेः क्वसौ आर्षत्वात् वस्वेकाच्ऽ इति इडभावे सत्यपीटि वा उगितश्चऽ इति ङीपि भत्वात् वसोः सम्प्रसारणम्ऽ इति सम्प्रसारणे निर्निमित्तेटोऽपि लोपे षत्वे च रूपम्। अभिध्यातवतीति यावत् ॥ २१ ॥

एभिर्विशेषणैः सीताया अपि वनगमनं ज्ञातमेवेति सूच्यत इति तिलके।

॥ २।१६।२०२१ ॥ ॥ २।१६।२२२४ ॥

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।

कर्तुमर्हसि ते राजा वासवस्येव लोककृत् ॥ २२ ॥

दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।

कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।

वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥

अथ सीताया मङ्गलानुष्ठानमिदानीम्। राज्यं–राज्यसिद्धिं प्रति द्विजातिभिर्जुष्टमभिषेचनं–यौवराज्याभिषेचनं कर्तुमर्हति। कालान्तरे राजसूयार्हमहाराज्याभिषेचनमपि करोतु, वासवस्य श्रीमदादिगुरुर्भगवानिव। ततो राजसूययागे दीक्षितत्वादिधर्मकं त्वां भजामि भजिष्य इत्यर्थः ॥ २२२४ ॥

लोककृत्ब्रह्मगो। राजसूये योऽभिषेकः तदर्हं कर्तुं इत्यर्थः। राज्यं कर्तुमित्यत्र कर्तुं–दातुमित्यर्थः।

॥ २।१६।२२२४ ॥ ॥ २।१६।२५ ॥

अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।

निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥

कृतकौतुकमङ्गलःकृतोत्सवमङ्गलानुष्ठानः ॥ २५ ॥

॥ २।१६।२५ ॥ ॥ २।१६।२६२७ ॥

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।

लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ॥ २६ ॥

अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः।

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥

अर्थिन इति। रामदर्शनार्थिन इति यावत् ॥ २७ ॥

प्रह्वत्वसूचकाञ्जलिपुटवन्तंति। अञ्जलिपुट इति मत्वर्थीयोऽच्प्रत्ययः। प्रह्वश्चासावञ्जलिपुटश्चेति कर्मधारयः। प्रह्णं अञ्जलिपुटं यस्येति बाहुव्रीहिर्वा। राज्ञां निर्गमनसमये भृत्याः खलु स्वाञ्जलिपुटमधः प्रदर्श्य “इत इतः” इति मार्गं प्रदर्शयन्तीति राजमर्यादा। लक्ष्मणस्त्वात्मानं रामदासमेव मन्यते स्मेति प्रसिद्धम्। अत एव द्वारीत्यपि स्वरसम्।

॥ २।१६।२६२७ ॥ ॥ २।१६।२८ ॥

ततः पावकसङ्काशमारुरोह रथोत्तमम्।

वैय्याघ्रं पुरुषव्याघ्रो १ राजतं राजनन्दनः ॥ २८ ॥

वैय्याघ्रं–व्याघ्रचर्मपरिवृतम्। द्वैपवैय्याघ्रादञ्ऽ ॥ २८ ॥

१ राजन्तंङ।

॥ २।१६।२८ ॥ ॥ २।१६।२९ ॥

मेघनादमसम्बाधं मणिहेमविभूषितम्।

मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २९ ॥

मेघस्येव नादो यस्य रथस्य स तथा ॥ २९ ॥

असम्बाधं–विशालम्।

॥ २।१६।२९ ॥ ॥ २।१६।३० ॥

करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ ३० ॥

प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।

करेणुशिशुकल्पैरित्यनेन हृष्टपुष्टोन्नतमहाबलवत्त्वं सूच्यते ॥ ३० ॥

॥ २।१६।३० ॥ ॥ २।१६।३१ ॥

स पर्जन्य इवाकाशे स्वनवा १नभिनादयन् ॥ ३१ ॥

निकेतान्निर्ययौ श्रीमान् २महेन्द्रादिव चन्द्रमाः।

आकाशे स्वनवान्–नादवान् पर्जन्य इव मेधस्थानीयरथस्वनेन दिशो नादयन्निकेतनान्निर्ययौ ॥ ३१ ॥

आकाशे स्वनवान् पर्जन्य इव दिशोऽभिनादयन् महेन्द्राच्चन्द्रमा इव निकेतान्निर्ययाविति।

रथारूढत्वादाद्यमुदाहरणम्। सौन्दर्यवत्त्वे द्वितीयमुदाहरणम्।

१नभिनन्दयन्ङ।

२महाभ्रादिवङ। च।

॥ २।१६।३१ ॥ ॥ २।१६।३२३३ ॥

१छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ ३२ ॥

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।

ततो हलहलाशब्दस्तुमुलस्समजायत ॥ ३३ ॥

तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।

हलहलेत्यनुकारः। तस्येति। तस्मिन्निष्क्रममाण इति यावत् ॥ ३३ ॥

१चित्र, चन्द्रङ।

जुगोप–आतपादिभ्य इति भावः–गो।

तस्य निष्क्रममाणस्य, पुरतःऽ इति शेषः। जनौघस्य हलहलाशब्द इत्यन्वयःति।

॥ २।१६।३२३३ ॥ ॥ २।१६३४३५ ॥

ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥ ३४ ॥

अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।

अग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः ॥ ३५ ॥

खड्गचापधराश्शूरा जग्मुराशंसवो जनाः।

आशंसव इति। श्रेय इति शेषः ॥ ३५ ॥

हयनागशब्दौ तदारूढपरौ–गो।

॥ २।१६।३४३५ ॥ ॥ २।१६।३६३८ ॥

ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ ३६ ॥

सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि।

हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ॥ ३७ ॥

कीर्यमाणः सुपुष्पोघैर्ययौ स्त्रीभिररिन्दमः।

रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ ३८ ॥

वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।

ववन्दिर इति। वन्दिरिह स्तुत्यर्थः, आशीर्वादमकुर्वन्नित्यर्थः ॥

वदि अभिवादनस्तुत्योरिति धातुः।

॥ २।१६।३६३८ ॥ ॥ २।१६।३९ ॥

नूनं नन्दति ते माता कौसल्यामातृनन्दन ॥ ३९ ॥

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्य १ मवस्थितम्।

स एव प्रदर्श्यते–नूनमित्यादिना। नन्दति–नन्दत्विति यावत्। सिद्धयात्रंसिद्धकार्ययात्रम्। अत एव पित्र्यं

राज्यमवस्थितं–अधितिष्ठन्तम् ॥ ३९ ॥

नन्दतीति समीष्यान्निर्देशः।

सिद्धयात्रंसिद्धगमनंसिद्धगमनप्रयोजनं।

१मुपस्थितम्ङ। च।

॥ २।१६।३९ ॥ ॥ २।१६।४० ॥

सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तनीं वराम् ॥ ४० ॥

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।

हि ताः इति पदच्छेदः ॥ ४० ॥

॥ २।१६।४० ॥ ॥ २।१६।४१ ॥

तया सुचरितं देव्या पुरा नूनं महत्तपः ॥ ४१ ॥

रोहिणीव शशाङ्केन रामसंयोगमाप या।

सुचरितं–स्वनुष्ठितम् ॥ ४१ ॥

॥ २।१६।४१ ॥ ॥ २।१६।४२४८ ॥

इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥ ४२ ॥

शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः।

१आत्मसम्पूजनैः शृण्वन् ययौ रामो महापथम् ॥ ४३ ॥

स राघवस्तत्र कथाप्रपञ्चान्

शुश्राव लोकस्य समागतस्य।

आत्माधिकारा विविधाश्च वाचः

प्रहृष्टरूपस्य पुरे जनस्य ॥ ४४ ॥

एष श्रियं गच्छति राघवोऽद्य

राजप्रसादाद्विपुलां गमिष्यन्।

एते वयं सर्वसमृद्धकामाः

येषामयं नो भविता प्रशास्ता ॥ ४५ ॥

लाभो जनस्यास्य यदेष सर्वं

प्रपत्स्यते राज्यमिदं चिराय।

न ह्यप्रियं किञ्चन जातु कश्चित्

पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४६ ॥

स घोषवद्भिश्च हयैर्मतङ्गजैः

पुरस्सरैः स्वस्तिकसूतमागधैः।

महीयमानः प्रवरश्च वादकैः

अभिष्टुतो वैश्रवणो यथा ययौ ॥ ४७ ॥

करेणुमातङ्गरथाश्वसङ्कुलं

महाजनौघप्रतिपूर्णचत्वरम्।

प्रभूतरत्नं बहुपण्यसञ्चयं

ददर्श रामो रुचिरं महापथम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षोडशस्सर्गः

मनुजाधिपेऽस्मिन् सतीति शेषः।राम(५२)सर्गः ॥ ४८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षोडशस्सर्गः

राजमार्गस्थःगमनकाल इति भावः।

उपलक्षणे तृतीया। आत्मसम्पूजनविशिष्टा वाच इत्यर्थः।

१इदमर्धंङ। च। पुस्तकयोर्नास्ति।

आत्माधिकाराः–आत्मानमधिकृत्य प्रवृत्ताः।

श्रियं गमिष्यन् गच्छति–श्रियं प्राप्तुं गच्छतीति यावत्। गमिष्यन् राजगृहं, राजप्रसादाद्विपुलां श्रियं गच्छति–प्राप्नोति। राजगृहं गच्छन् श्रियं अवाप्स्यतीतिवक्तव्ये व्यत्येयेन कथनं, राजगृहगमनपर्यन्तमेव विलम्बः, राजगृहप्राप्तौ तत्क्षण एव श्रियः प्राप्तिरिति सूचनाय।

मातृकास्वेवं दृश्यते। दृश्यन्ते तु सर्वत्र ४८ श्लोकाः।

॥ २।१६।४२४८ ॥