०१५ सुमन्त्रस्य रामगृहगमनम्

अथ पञ्चदशस्सर्गः

[रामाह्वानम्]

॥ २।१५।१ ॥

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः।

उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ १ ॥

अथ राजस्त्रिया राज्ञा च गुप्तहृदयतया प्रवर्त्यमानस्य सुमन्त्रस्य यथापूर्वं वृत्तिः–ते त्वित्यादि। उष्यउषित्वा। उपस्थानमिति। “कृत्यलुटो बहुलम्” इति अर्हार्थे ल्युट्। उपस्थानार्हं त्वां उपतस्थुरित्यर्थः ॥ १ ॥

सहयुगपत् ॥ उपस्थानं–सदःगो।

उष्ययापयित्वेत्यर्थः।

उपस्थानं–सदःति। गो।

॥ २।१५।१ ॥ ॥ २।१५।२६ ॥

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च।

राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ २ ॥

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि।

लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥ ३ ॥

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्।

काञ्चना जलकुम्भाश्च भद्रपीठं स्वलङ्कृतम् ॥ ४ ॥

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा।

गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम् ॥ ५ ॥

याश्चान्याः सरितः पुण्याः हृदाः कूपाः सरांसि च।

प्राग्वाहाश्चोर्ध्ववाहाश्च १ तिर्यग्वाहाश्च क्षीरिणः ॥ ६ ॥

प्राग्वाहा इत्यादि। नद्य इति शेषः। पर्वतघट्टनोपाधिनोर्ध्वप्रवाहवत्प्रदेशवत्य ऊर्ध्ववाहाः। तिर्यग्वाहाः–दक्षिणोत्तरप्रवाहदेशवत्यः। क्षीरिणः–क्षीरपूर्णाः ॥ ६ ॥

निगमस्यपुरस्य– “निगमो निश्चये वेदे पुरे” इति वैजयन्तीगो।

यस्मिन् लग्ने रामस्य जन्म–तस्मिन् कर्कटके स्थिते सतीति योजना।

१तिर्यग्वाहाः समाहिताः–ङ।

प्राग्वाहाः–पूर्वाभिमुखप्रवाहाः–गोदावर्यादयः ॥ ऊर्ध्ववाहाः ऊर्ध्वोद्गतप्रवाहाः–नैमिशारण्यस्थब्रह्मावर्तादिसरोविशेषाः। ऊर्ध्ववाहाः–प्रत्यग्वाहा इति केचित्। ऊर्ध्वाद्वहन्तीत्यूर्ध्ववाहाः निर्झरा इति केचित्–गो।

क्षीरंजलम्।

॥ २।१५।२६ ॥ ॥ २।१५।७१० ॥

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः।

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ७ ॥

१अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।

२सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ ८ ॥

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा।

चन्द्रांशुविकचप्रख्यं पाण्डरं रत्नभूषितम् ॥ ९ ॥

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्।

चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् ॥ १० ॥

सज्जं द्युतिकरं श्रीम दभिषेकपुरस्कृतम्।

अभिषेकपुरस्कृतमिति। प्रक्षालितमिति यावत् ॥ १० ॥

१इदमर्धमधिकं। किञ्चेदं कुत्रचित् क्षौद्रं दधिऽ इत्यादेः पूर्वमेव। तथा वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः। लीलावत्यः सुभ्रुवश्च लोलनेत्राश्च सर्वशः। इत्यधिकं चङ।ऽ

२सलाजाःङ।

अभिषेकाय पुरस्कृतंगो। अभिषेकसामग्रीमुख्यंति

॥ २।१५।७१० ॥ ॥ २।१५।१११४ ॥

पाण्डुरश्च वृषस्सज्जः पाण्डुरोऽश्वश्च संस्थितः ॥ ११ ॥

वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे।

इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥ १२ ॥

तथाजातीयमादाय राजपुत्राभिषेचनम्।

ते राजवचनात्तत्र समवेता महीपतिम् ॥ १३ ॥

अपश्यन्तोऽब्रुवन्, को नु राज्ञो नः प्रतिवेदयेत्।

न पश्यामश्च राजानमुदितश्च दिवाकरः ॥ १४ ॥

यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः।

राजपुत्राभिषेचनं–तत्साधनमादाय समवेतास्ते ब्राह्मणादयो महीपतिमपश्यन्तोऽब्रुवन्। किमब्रुवन्नित्यत्राह–को न्वित्यादि। सज्जःसज्जपरिकर इति यावत् ॥ १४ ॥

एतच्छलोकानन्तरं “प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते। अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥ " इत्यधिकंङ।

॥ २।१५।१११४ ॥ ॥ २।१५।१५१६ ॥

इति तेषु ब्रुवाणेषु १सर्वांस्तांश्च महीपतीन् ॥ १५ ॥

अब्रवीत्तानिदं वाक्यं सुमन्त्रो राजसत्कृतः।

रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम् ॥ १६ ॥

प्रस्थितो ह्यहमिति। आनेतुमिति शेषः ॥ १६ ॥

१सर्वान् भौमान् महीपतीन्ङ।

रामं, अभि प्रस्थित इत्यन्वयः। राममानेतुं प्रस्थित इति तात्पर्यम्। ग्रामं प्रस्थित इतिवत्प्रयोगः।

॥ २।१५।१५१६ ॥ ॥ २।१५।१७१८ ॥

पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः।

१अहं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥ १७ ॥

राज्ञः सम्प्रति बुद्धस्य चानागमनकारणम्।

इत्युक्त्वाऽन्तःपुरद्वारमाजगाम पुराणवित् ॥ १८ ॥

अथाप्यहं व्याघुट्य प्रविश्यायुष्मतां युष्माकं वचनाद्राज्ञाः सुखं पृच्छामि। सर्वे समेत्य राज्ञः सुखं कच्चिदिति पृच्छन्तीति विज्ञापयामीत्यर्थः। व्याघुट्यापि विज्ञापनहेतुः पूज्या इत्यादि। अपि च यत्सम्प्रति–उदयसमये सर्वथा बुद्धस्याप्यनागमनंबहिर्निर्गमाभावकारणं तत्पृच्छामि इत्युक्त्वान्तःपुरद्वारं जगाम। पुराणवित्–चिरकालकथाभिज्ञः–चिरवृद्ध इति यावत् ॥ १८ ॥

१अयं पृच्छामिङ।

सम्प्रतिबुद्धस्येत्येकं पदं वा।

पुराणविदिति साभिप्रायवचनम्। सुमंत्रस्य विदितपूर्ववृत्तान्तत्वमनेन सूच्यते। दशरथस्य पुत्रशोकान्मरणरूपशापकथा, कैकेयीविवाहकाले कैकेय्यां जातायैव राज्यदानरूपप्रतिज्ञा च सुमन्त्रेण ज्ञाते एव। अत एव पूर्वं सुमंत्रश्चिन्तयामासेऽत्युक्तिः। २८ तमश्लोकटिप्पणी द्रष्टव्या।

॥ २।१५।१७१८ ॥ ॥ २।१५।१९ ॥

सदाऽसक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह।

तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ॥ १९ ॥

असक्तं–अनिरोधम्। तुष्टावेति। वक्ष्यमाणरीत्येति शेषः। वेश्मप्रविश्य वंशं तुष्टावेति योजना ॥ १९ ॥

॥ २।१५।१९ ॥ ॥ २।१५।२० ॥

शयनीयं नरेन्द्रस्य तदाऽऽसाद्य व्यतिष्ठत।

सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ॥ २० ॥

शयनीयमप्यासाद्य व्यतिष्ठत। ननु कथं तल्पपर्यन्तगमनमित्यत्राह–सोऽत्यासाद्येत्यादि। तिरस्करणिं–यवनिकामात्रं अन्तरा कृत्वा–व्यवधानं कृत्वा अत्यासाद्य–अतिसमीपमागत्य तुष्टावेति योजना। पुनश्च स्तवो राजविज्ञापनस्य स्तुतिपूर्वकतयैव प्रवृत्तेः सूतनिसर्गधर्मत्वात् ॥ २० ॥

शयनीयं–शयनयोग्यं गृहम्–गो।

यवनिकापर्यन्तगमनं सूतानामनुमतमिति भावः।

राज्ञ आह्वानमन्तरा स्वयमन्तःपुरे राजदर्शनस्यानुचितत्वात् स्वागमनसूचनाय स्तवः। तेन च राजा स्वयमाह्वयेदिति भावः।

॥ २।१५।२० ॥ ॥ २।१५।२१२४ ॥

आशीर्भिर्गुणयुक्ताभिः अभितुष्टाव राघवम्।

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ २१ ॥

१वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते।

गता भगवती २रात्रिः कृतं कृत्यमिदं तव ॥ २२ ॥

बुध्यस्व नरशार्दूल कुरु कार्यमनन्तरम्।

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥ २३ ॥

दर्शनं ३प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव

स्तुवन्तं तं तदा सूतं सुमंत्रं मन्त्रकोविदम् ॥ २४ ॥

प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्।

प्रतिबुध्येति। यवनिकान्तर्हितमपि स्तोत्रध्वनिनेति शेषः ॥

१एतदनन्तरं–यथा साङ्गाश्च वेदा वै ब्रह्माणं बोधयन्ति ते। तथा त्वां धीर बोध्यामि ह्युत्तिष्ठ पुरुषर्षभ–इत्यधिकम्ङ।

२रात्रिः अहश्शिवमुपस्थितम्ङ। च।

३तेऽभिकाङ्क्षन्तेङ।

प्रतिबुध्यज्ञात्वा। यवनिकान्तर्हितमपि तं ध्वनिना सुमन्त्रं प्रत्यागतं ज्ञात्वेति यावत्।

॥ २।१५।२१२४ ॥ ॥ २।१५।२५ ॥

राममानय सूतेति यदस्यभिहितोऽनया।

१किंकारणमिदं येन ममाज्ञा प्रतिहन्यते ॥ २५ ॥

इदमब्रवीदिति किमब्रवीदित्यत्राह–राममित्यादि। हे सूत राममानयेत्यनया कैकेय्या अभिहितोऽसीति यत् तस्यैवाप्रतिषिद्धमनुमतमिति न्यायेन मदाज्ञात्वात्, सेयं ममाज्ञा प्रतिहन्यते–नानुष्ठीयत इतीदं किंकारणं–किंकारणकमित्यर्थः ॥ २५ ॥

तिलके– अभिहितो मयाऽ इति पाठः। आनयेति पाठे तु उपलक्षणं मया चेत्यस्य। पूर्वं राज्ञा स्वयमप्युक्तेःऽ इति चोक्तम्। एतत्परिशीलने–पूर्वसर्गे नात्र कार्या विचारणाऽ इत्यन्तकैकेय्युक्त्यनन्तरं अश्रुत्वा राजवचनं कथं गच्छामि भामिनि। तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्। सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।ऽ इत्यधिकः पाठः तिलकसम्मतः। इदं तु न कतकसम्मतमिति स्पष्टम्। गोविन्दराजस्याप्यसम्मतमेव। अत्र तिलके कतकव्याख्यामनूद्य, उत्तरश्लोके पुनःऽ पदास्वारस्यं दूषणमुक्तं। कैकेय्याज्ञायाः स्वेष्टत्वेन पुनःऽ इत्यपि युज्यत एव। अत एव पूर्वं सुमन्त्रश्चिन्तयामासऽ इत्यपि स्वरसम् ॥

१किमिदं कारणंङ। च। झ।

॥ २।१५।२५ ॥ ॥ २।१५।२६ ॥

न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥ २६ ॥

इति राजा दशरथः सूतं तत्रान्वशात्पुनः।

न च निद्रापरवशस्य राज्ञ इदमनुमतं न वेति संशयितव्यं त्वयेत्याह–न चैवेत्यादि। यदेवमतः आशु राघवमिहानयऽ इत्येवं राजा पुनश्च तत्रैव–कैकेयीविनियुक्तकार्य एव अन्वशात्–अनुशास्ति स्म। शासेः “तिप्यनस्तेः” इति सकारस्य दकारे हल्ङ्याब्भ्यःऽ –इत्यादिना सुलोपः ॥ २६ ॥

॥ २।१५।२६ ॥ ॥ २।१५।२७ ॥

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ २७ ॥

निर्जगाम नृपावासात् मन्यमानः प्रियं महत्।

प्रियं मन्यमान इति हार्दाभिप्रायापरिज्ञानात् ॥ २७ ॥

कैकेयीविवाहकाले तत्पुत्रायैव राज्याभिषेचनं यद्दशरथेन प्रतिज्ञातं–तत् ज्ञातमेव सुमन्त्रेणापि। एवञ्च कैकेयीसम्मतिमन्तरा रामाभिषेचनमसम्भवि। कैकेयी चैतावता रामविषयेऽतिहृष्टैव वर्तते। यतस्तया रामे वा भरते वापि विशेषं नोपलक्षयेऽ इत्युक्तम्। एवञ्चेदानीं कैकेय्या अनुमतिप्राप्त्यर्थमेव रामं राजाऽऽनयतीति मन्यते सुमन्त्रः। अत उक्तं प्रियं महत्ऽ इति। यद्वा–श्रीरामावतारो यदर्थः, स इदानीं सम्पत्स्यत इत्यभिप्रायो वा तस्य स्यात्।

॥ २।१५।२७ ॥ ॥ २।१५।२८ ॥

प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ॥ २८ ॥

हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्।

राजमार्गं विलोकयन्निति सम्बन्धः ॥ २८ ॥

प्रसन्नोङ।

॥ २।१५।२८ ॥ ॥ २।१५।२९ ॥

स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ २९ ॥

अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत्।

रामाधिकरणाःरामविषयिणीः। अभिषेचनेति। तत्प्रसङ्गेति यावत्। हृष्टवत्–हृष्टो भूत्वा ॥ २९ ॥

स्वार्थे वतिःगो।

॥ २।१५।२९ ॥ ॥ २।१५।३०३१ ॥

ततो ददर्श रुचिरं कैलाससदृशप्रभम् ॥ ३० ॥

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्।

महाकपाटपिहितं वितर्दिशतशोभितम् ॥ ३१ ॥

वितर्दिःवेदिका ॥ ३१ ॥

महाकवाटविहितंऽ इत्यपि पाठः। निर्मितमहाकवाटमित्यर्थःगो। प्रातस्समयत्वान्महाकवाटपिहितं।

महाकवाटगतस्वल्पद्वारस्यैवोद्घाटितत्वात्ति।

॥ २।१५।३०३१ ॥ ॥ २।१५।३२ ॥

काञ्चनप्रतिमै काग्रं मणिविद्रुमतोरणम्।

शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥ ३२ ॥

काञ्चनप्रतिमाभिः एकाभिः–मुख्याभिः अग्रं–समग्रम्। शारदाभ्रघनः व्याकृतचरः ॥ ३२ ॥

एकं प्रधानं अग्रंपुरोभागः यस्यति। एकाग्रं–निरन्तरं। यद्वा काञ्चनप्रतिमाभिरेकानि मुख्यानि अग्राणिशिखराणि यस्मिन्गो।

शरत्कालिकाकाशगतमेघवदुन्नतं स्वच्छं च।

पञ्चमस्य पञ्चमे श्लोकेअभ्रे विद्यमानो घनो मेघः। शारदपदेनानन्तरं कर्मधारयः इति यावत्इत्युक्तम्। अधिकं तत्रैव द्रष्टव्यम्।

॥ २।१५।३२ ॥ ॥ २।१५।३३ ॥

मणिभिर्वर १ माल्यानां सुमहद्भिरलङ्कृतम्।

मुक्तामणिभिराकीर्णं चन्दनागरुधूपितम् ॥ ३३ ॥

गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा।

वरमाल्यानां–स्वर्णपुष्पमाल्यानामन्तरालवर्तिभिः सुमहद्भिः–महादीप्तिमद्भिः मणिभिरलङ्कृतम्। दार्दुरं, दर्दुरो मलयसन्निकृष्टश्चन्दनगिरिः ॥ ३३ ॥

१माल्यैश्चङ।

॥ २।१५।३३ ॥ ॥ २।१५।३४ ॥

सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥ ३४ ॥

सुकृतेहामृगाकीर्णं सूत्कीर्णं भक्तिभिस्तदा।

सुकृतैःसुष्ठुनिर्मितैः ईहामृगैःवृकैः, “कोकस्त्वीहामृगो वृकः”। भक्तयःवर्धकिनां सूक्ष्मं चित्रशिल्पम् ॥ ३४ ॥

॥ २।१५।३४ ॥ ॥ २।१५।३५३९ ॥

मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥ ३५ ॥

चन्द्रभास्करसङ्काशं कुबेरभवनोपमम्।

महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥ ३६ ॥

मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह।

उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः ॥ ३७ ॥

उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः।

रामाभिषेकसुमुखैरुन्मुखैस्समलङ्कृतम् ॥ ३८ ॥

महामेघसमप्रख्यमुदग्रं सुविराजितम्।

नानारत्नसमाकीर्णं १कुब्जकैरपि चावृतम् ॥ ३९ ॥

उपादाय–उपदा इति शेषः। उदग्रं–प्रशस्तम् ॥ ३९ ॥

तिग्मतेजसाअतिशयितशोभया। यद्वा प्रतिबिम्बितसूर्यकिरणैःति।

अतितेजसा सूर्यसदृशमपि चक्षुष आवर्जनेन चन्द्रसदृशं चेति भावः।

इदं क्रियापदं एकोनचत्वारिंशच्छ्लोकपर्यन्तं सम्बध्यते।

आदरात्पुनरपि रामवेश्मवर्णनम्।

उन्मुखैः–उत्सुकैः–ति। गो।

कुब्जकैरातकावृतंऽ इत्यपि पाठःगो। कैरातकः–किरातसमूहः।

१कुब्जकैरातकावृतम्ङ।

॥ २।१५।३५३९ ॥ ॥ २।१५।४० ॥

स वाजियुक्तेन रथेन सारथिः

समाकुलं १राजकुलं विलोकयन्।

वरूथिना २ राजगृहाभिपातिना

३पुरस्य सर्वस्य मनांसि रञ्जयन् ॥ ४० ॥

राजकुलं–राजमार्गं। रथगुप्तिर्वरूथः, तद्वता ॥ ४० ॥

१राजपथंङ।

पराभिघातरक्षार्थावरणं वरूथः। तृतीयान्तं सर्वं रथविशेषणम्। पुरस्य–पौरस्य

२रामगृहाङ।

३जनस्यङ।

॥ २।१५।४० ॥ ॥ २।१५।४१ ॥

ततः समासाद्य महाधनं महत्

प्रहृष्टरोमा स बभूव सारथिः।

मृगैर्मयूरैश्च समाकुलो ल्बणं

गृहं वरार्हस्य शचीपतेरिव ॥ ४१ ॥

महत् धनं यस्मिन् तत्–महाधनम्। समाकुलैः–इतस्ततः प्रसृतैः उल्बणं। वरार्हस्य–उत्तमवस्त्वर्हस्य ॥ ४१ ॥

उल्बणं–व्याप्तं। यद्वा बण शब्द इति धातुः। शब्देन विशिष्टं ॥ समाकुलं अत एवोल्बणमित्यर्थः। उल्बणंअधिकशोभावत्ति।

॥ २।१५।४१ ॥ ॥ २।१५।४२४३ ॥

स तत्र कैलासनिभाः स्वलङ्कृताः

प्रविश्य कक्ष्याः त्रिदशालयोपामाः।

प्रियान्नरान् राममते स्थितान् बहून्

अपोह्य शुद्धान्तमुपस्थितो रथी ॥ ४२ ॥

स तत्र शुश्राव च हर्षयुक्ताः

रामाभिषेकार्थकृतां जनानाम्।

नरेन्द्रसूनोरभिमङ्गलार्थाः

सर्वस्य लोकस्य गिरः प्रहृष्टाः ॥ ४३ ॥

रामाभिषेकप्रयोजनं कर्म कुर्वन्तीति रामाभिषेकार्थकृतः–तेषां गिरः शुश्रावेति योजना। अभितो मङ्गलप्रतिपादनमर्थो यासां गिरां–तास्तथा। सर्वलोकस्य च गिरः शुश्राव ॥ ४३ ॥

रामाभिषेकार्थकृताःऽ इत्यपि पाठःगो। रामाभिषेकार्थं प्रयुक्ताः इत्यर्थः। तत्सम्बन्धिनीरिति यावत्। इदं गिर इत्यस्य विशेषणम् ॥

॥ २।१५।४२४३ ॥ ॥ २।१५।४४४५ ॥

महेन्द्रसद्मप्रतिमं च वेश्म

रामस्य रम्यं मृगपक्षिजुष्टम्।

ददर्श मेरोरिव शृङ्गमुच्चं

विभ्राजमानं प्रभया सुमन्त्रः ॥ ४४ ॥

उपस्थितैरञ्जलिकारिभिश्च

सोपायनैर्जानपदैर्जनैश्च।

कोट्या परार्धैश्च विमुक्तयानैः

समाकुलं द्वारपथं ददर्श ॥ ४५ ॥

कोट्या–तत्संख्यया। परार्धैः–तत्संख्यया, सर्वान्ता संख्या परार्धः, उपलक्षितैर्जनैस्समाकुलम्। अनेनातिसम्मर्दो दर्शितः ॥ ४५ ॥

॥ २।१५।४४४५ ॥ ॥ २।१५।४६४७ ॥

ततो महामेघमहीधराभं

प्रभिन्नमत्यङ्कुशमप्रसह्यम्।

रामौपवाह्यं रुचिरं ददर्श

शत्रुञ्जयं नागमुदग्रकायम् ॥ ४६ ॥

स्वलङ्कृतान् साश्वरथान् सकुञ्जरान्

अमात्यमुख्यांश्च ददर्श वल्लभान्।

व्यपोह्य सूतान् सहितान् समन्ततः

समृद्धमन्तःपुरमाविवेश ह ॥ ४७ ॥

वल्लभान्–राज्ञ इति यावत्। सहितान्–व्याप्तान् ॥ ४७ ॥

महामेघाधिरूढपर्वतसदृशंति। महामेघतुल्यं, महीधरतुल्यं चेति वार्थः। आकारे महीधरतुल्यं। न तावन्मात्रम् यतो महीधरो निश्चलः। अतो महामेघतुन्यं चेत्युक्तं। महीधरो ह्यगः, अयं तु नागः। नअगः।

प्रभिन्नंमत्तं। प्रभिन्नो गर्जितो मत्तःऽ इत्यमरः।

॥ २।१५।४६४७ ॥ ॥ २।१५।४८ ॥

१तदेन्द्रकूटाचलमेघसन्निभं

महाविमानोपमवेश्मसंयुतम्।

अवार्यमाणः प्रविवेश सारथिः

प्रभूतरत्नं मकरो यथार्णवम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चदशः सर्गः

इन्द्रकूटस्य–इन्द्रगृहस्य अचलमेघस्यस्थिरमहामेघस्य च सन्निभं तत्तथा। महाविमानानां उत्तमवेश्मनां सङ्घोऽस्यास्तीति तथा। “विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि”। देव (४८) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकाया अयोध्याकाण्डे पञ्चदशः सर्गः

१तदद्रिङ। ततोऽद्रिच।

अद्रिकूटाचलऽ इति पाठे–अद्रिशिखरेण, अचलमेघेन च सन्निभमित्यर्थःगो। तिलके तु अद्रिशृङ्गे आरूढो योऽचलो मेघःऽ इत्युक्तम्।

॥ २।१५।४८ ॥