चतुर्दशः सर्गः
[कैकेय्युपालम्भः]
॥ २।१४।१ ॥
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि।
विवेष्टमानमुद्वीक्ष्य १सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥
अथैवंदशेऽपि राजनि कैकेयी मान्नेमित्ततो राजा वा म्रियतां, तन्निमित्ततोऽहं वा म्रिये इति सर्वथा निश्चिनोति। पुत्रेति ॥ १ ॥
विचेष्टमानमिति कुत्रचित्पाठः। तदा विशब्दो विप्रियमित्यादाविव नञर्थः। अचेष्टमानमित्यर्थःस।
१ऐक्ष्वाकङ। च।
॥ २।१४।१ ॥ ॥ २।१४।२ ॥
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥
मम संश्रवं–वरदानप्रतिज्ञां संश्रुत्य–अङ्गीकृत्य तदकरणरूपं पापं कृत्वेव–कृत्वैव सन्नः–अवसन्नः क्षितितले शेष इति किमिदं–न किमपि प्रयोजनम्। अतः स्थित्यां–सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि। न त्वन्यायतः सत्यपरिपालने प्राणसंशयो युक्त इति भावः ॥ २ ॥
अत्रइवशब्द एवार्थे, गोविन्दराजीये तु कृत्वैवऽ इत्येव पाठः।
॥ २।१४।२ ॥ ॥ २।१४।३ ॥
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।
सत्यं संश्रुत्य हि मया त्वं च धर्मे प्रचोदितः ॥ ३ ॥
सत्यपरिपालने प्राणसंशये जाते प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाह–सत्यं संश्रुत्येत्यादि। गतार्थम् ॥ ३ ॥
॥ २।१४।३ ॥ ॥ २।१४।४६ ॥
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः।
प्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ ४ ॥
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।
१याचमाने स्वके नेत्रे २उद्धृत्याविमना ददौ ॥ ५ ॥
सरितां तु पतिः स्वल्पां मर्यादां ३सत्यमन्वितः।
सत्यानुरोधात्समयं वेलां स्वां नातिवर्तते ॥ ६ ॥
सरितां पतिः सत्यमनुसत्यमनुप्राप्य सूक्ष्मां सत्यस्य मर्यादां इतः–प्राप्तस्सन् सत्यानुरोधात्–सत्यपरिपालनहेतोरेव स्वां वेलांतीरं स्वं समयं–प्रतिज्ञां च नातिवर्तते ॥ ६ ॥
१याच्यमानःङ।
२उद्धृत्य सुमनाङ।
सत्यमन्वितःसत्यं प्राप्तः सत्यानुरोधात्सत्यत्यागभयात्, स्वल्पां मर्यादां सुलङ्घ्यामपि वेलां समये चन्द्रोदयरूपे वृद्धिसमयेऽपि नातिवर्ततेति।
३सत्यसस्मितःङ।
स्वांऽ इति पुल्लिङ्गान्ततया परिणतमाकृष्टमस्य विशेषणम्।
॥ २।१४।४६ ॥ ॥ २।१४।७८ ॥
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः।
सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७ ॥
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः।
स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ ८ ॥
एकपदंएकवाक्यत्वलक्षणं सत्यमेव ब्रह्म। सत्यमेवावलम्ब्य परं पदं प्राप्यते। यदेवं अतस्सत्यमेवानुवर्तस्व ॥ ८ ॥
एकपदं–प्रणवरूपैकपदवाच्यत्वात् प्रणवरूपं ब्रह्मति। एकंमुख्यं, पदं–पद्यत इति पदं परमप्राप्यं ब्रह्म यद्वा–एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा। ओमित्येकाक्षरं ब्रह्मऽ इत्यादिस्मृतेः–गो।
॥ २।१४।७८ ॥ ॥ २।१४।९ ॥
१स धर्मस्याभिकामार्थं मम चैवाभिचोदनात्।
प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥
परमं कर्तव्यं सिद्धान्तन्यायोपेतमाह–स धर्मस्येत्यादि। स त्वं त्वल्लोकसिद्धिप्रयोजनकस्य धर्मस्यैव, अभिकामार्थं–पालनार्थं क्रियमाणान्ममाभिचोदनात्–नियोगात् सुतं रामं प्रव्राजय। एवं त्वामहं खलु त्रिर्ब्रवीमि। अतो नाहमस्मात्स्ववरग्रहात्सर्वथा निवर्तय इति शेषः ॥
अभिकामार्थं प्रीत्यर्थंधर्माभिवृध्यर्थमिति यावत्गो।
१धर्मस्यैवाभि, धर्मस्य हितङ। च।
॥ २।१४।९ ॥ ॥ २।१४।१० ॥
समयं च १ ममार्येमं यदि त्वं न करिष्यसि।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥
विपक्षे स्त्रीवधदोषश्चाधिकस्ते पतिष्यतीत्याह–समयं चेत्यादि। परित्यक्ता–उपेक्षिता, त्वयेति शेषः ॥ १० ॥
१ममाद्येमंङ। झ।
॥ २।१४।१० ॥ ॥ २।१४।११ ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया।
नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ११ ॥
एवं–न्यायोपेततयेति यावत्। पाशं–सत्यपाशबन्धनम्। उन्मोक्तुं–उन्मोचयितुम्। बलिः इन्द्रकृतंउपेन्द्रवामनकृतं पदत्रयप्रतिश्रवरूपं पाशं यथा मोक्तुं नाशकत् तद्वदित्यर्थः ॥ ११ ॥
उपेन्द्रद्वारा इन्द्रकृतंगो।
॥ २।१४।११ ॥ ॥ २।१४।१२ ॥
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्।
स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं १यथा ॥ १२ ॥
सः–दशरथः युगचक्रान्तरं प्राप्य परिस्पन्दन्–तिर्यक्परिस्पन्दमानो धुर्यः, हेतौ शतृ, अत एवोद्भ्रान्तहृदयत्वादिधर्मको यथा भवति तद्वदित्यर्थः ॥ १२ ॥
युगचक्रयोरन्तरं मध्यं प्राप्य परिभ्रमन् धुर्यो यथा अनड्वानिवति। युगचक्रयोरन्तरं परिस्पन्दन्–गच्छन्गो।
१गतःङ।
॥ २।१४।१२ ॥ ॥ २।१४।१३ ॥
१विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः।
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥
संस्तभ्येति। विह्वलं चित्तमिति शेषः ॥ १३ ॥
१विकलाभ्यांङ। च। विकृताभ्यांङ।
॥ २।१४।१३ ॥ ॥ २।१४।१४ ॥
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः।
तं त्यजाभि स्वज चैव तव पुत्रं सह त्वया ॥ १४ ॥
अथानिष्टाया अनिष्टपुत्रस्य च त्याग एव न्यायतो धर्मतश्च कर्तव्य इति मन्वान आह–यस्त इत्यादि। हे पापे अग्नौअग्निसन्निधौ यस्ते पाणिः मन्त्रकृतः– “गृभ्णामि ते” इति मन्त्रकृतभरणो मया मृतश्च तं त्यजामि स्वजं तमपि तव पुत्रं त्वया सह त्यजामि। हेतुः प्रागेवोक्तः ॥ १४ ॥
॥ २।१४।१४ ॥ ॥ २।१४।१५ ॥
प्रभाता रजनी देवि सूर्यस्योदयनं प्रति।
१अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥
अथ दीर्घरज्जुभ्रमितकन्तुकवन्महतायत्नेन प्रवर्तितकार्यो मयाऽशक्यनिवारण इत्याशयेनाह–प्रभातेत्यादि। उदयनं प्रतीति–उदयं प्रतिलभ्येति यावत् ॥ १५ ॥
पूर्वर्धे विद्यमानं प्रतिऽ इति पदं देहलीदीपनयेन अभिषेकमित्यनेनाप्यन्वेति। अभिषेकं प्रति मां त्वरयिष्यतीत्यन्वयः।
१अभिषेकाय हि जनःङ। झ।
॥ २।१४।१५ ॥ ॥ २।१४।१६ ॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥
तदर्थंअभिषेकार्थं उपकल्पितै रामाभिषेकसम्भारै रामस्याभिषेकं प्रति गुरूजनो मां त्वरयिष्यति ध्रुवम्। ततो रामः कृताभिषेकः कारयितव्यः कुर्वन् गुरुजनानुरोधो मया कर्तव्यः, तस्यापि न्यायप्राप्तत्वात् इत्यर्थः। एवं सति रुष्टया त्वया मत्सलिलक्रिया न कर्तव्येत्याह–मृतस्येत्यादि ॥ १६ ॥
पूर्वश्लोकादारभ्य रामः कारयितव्यो मेऽ इत्यन्तमेकं वाक्यमिति व्याख्यातृ़णामाशयः। वस्तुतस्तु–रामाभिषेककालः सन्निहितः, देवि त्वयाऽत्र न विघ्नः कार्य इति पूर्वश्लोकेन राजा कैकेयीं प्रार्थयामास। पुनस्तस्या दृढमध्यवसायं स्वस्य सत्यपाशबद्धतां चालोच्याह–रामाभिषेकेत्यादि। श्लोकद्वयमेकान्वयि। एवं सत्यपि, अशुभाचारे रामाभिषेचनं यदि व्याहन्तासि–वरनिबन्धं यदि न जहासि, तदापि न भरताभिषेचनसम्भवः, यतोऽहं रामाभिषेकविघ्नमसहमानो म्रिये। रामाभिषेकार्थमुपकल्पितैः सम्भारैः मम सलिलक्रियैव सम्पद्येत। तथा च अनेनेवाभिषेकेनऽ (११२५) इति रीत्या न भवदिष्टसिद्धिः। तत्रापि राम एव मत्सलिलक्रियां कारयितव्यः, न तु त्वत्पुत्रेण सलिलक्रिया कार्या इत्यर्थः इति।
यदि रुष्टा त्वमिति शेषः।
॥ २।१४।१६ ॥ ॥ २।१४।१७१८ ॥
सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया।
व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ १७ ॥
न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्।
हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम् ॥ १८ ॥
व्याहन्तासीति लुण्मध्यमः। व्याहन्त्री यदि तदा त्वद्वचनमनुतिष्ठन्नहं तदा पूर्वं तथामुखं दृष्ट्वाऽद्यवाङ्मुखं तं द्रष्टुमशक्तोऽस्मि ॥ १८ ॥
लुट्, मध्यमपुरुषैकवचन्।
तथामुखमिति बहुव्रीहिः, तथामुखवन्तमित्यर्थः। तथासुखमिति गोविन्दराजीये पाठः। तादृशसुखयुक्तमित्यर्थः।
अत्र जनऽ परदर्शनेन–पूर्वमपि १५तमे श्लेके अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रृवम्ऽ इति पाठः स्वरस इव। प्रजाभिप्रायविरुद्धतया नाहं किञ्चित्कर्तुं शक्नोमीति सूच्यते।
॥ २।१४।१७१८ ॥ ॥ २।१४।१९ ॥
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशीलिनी ॥ १९ ॥
तथा ब्रुवत इति। अशक्यानुष्ठानतया ब्रुवत इत्यर्थः ॥ १९ ॥
पुण्याप्रभाता पुण्यसाधनप्रभातकालावच्छिन्ना। यद्वा निरन्तररामचिन्तासमेतत्वात्पुण्याति। पुण्येत्युक्तिः अनन्तरं रामदर्शनसम्भवात्–गो। अथवा–पुण्या–मनोज्ञा “पुण्यस्त्रिषु मनोज्ञे स्यात्” इति विश्वः।
अथवा–परिपूता “पुण्यं तु सुन्दरे। सुकृते पावने धर्मे” इति कोशात्। यतः सा शर्वरी पुण्याअत एव राज्ञो नाधर्मे प्रवृत्तिरासीत्। अथापि कैकेय्या अधर्म एव प्रवृत्तिरासीदिति “पापसमाचारा” इत्यनेनोच्यते। प्रायः प्रभाते हि सर्वप्राणिनां धर्माभिरुचिः स्वाभाविकीति भावः ॥
॥ २।१४।१९ ॥ ॥ २।१४।२०२१ ॥
ततः पापसमाचारा कैकेयी पार्थिवं पुनः।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ २० ॥
किमिदं भाषसे राजन् वाक्यमङ्ग रुजोपमम्।
आनाययितु माक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥
अथ यथाऽतिकृच्छ्रनिर्यातनीयमधमर्णं अतिनिष्ठुरपरमनिर्घृणोत्तमर्णस्तु वदति तथा बलादेव स्वमृणं निर्यात्य गच्छत्याह–किमित्यादि। अङ्गेत्यामन्त्रणे। रुजाशूलः। अङ्ग राजन्हे राजन् मम शूलतोदनोपमं इदंअशक्यतावाक्यं किं भाषसे–व्यर्थमेव भाषसे। अतः–आनाययितुमित्यादि ॥ २१ ॥
वाक्यं गररुजोपममित्यपि पाठः। विषजनितव्याधिसदृशमिति भावः। सन्निपातादाविव किमिदं पूर्वापरविरुद्धं भाषस इति यावत्।
अक्लिष्टंभावे क्तः। क्रियाविशेषणं वा। क्लेशो यथा न स्यात्तथेत्यर्थः।
॥ २।१४।२०२१ ॥ ॥ २।१४।२२२४ ॥
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्।
निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२ ॥
स १तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः।
राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत् ॥ २३ ॥
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ॥
यस्याप्यस्ति शिक्षणसमये प्रतोदः–राजाऽप्युक्तदृष्टान्तवदेव त्वया करणीयः। तत्कुर्वित्येवान्तत आह–धर्मेत्यादि। द्रष्टुमिच्छामि। गमनात्पूर्वमिति शेषः ॥ २४ ॥
१नुन्नङ।
अनेन रामाविवासन गत्यन्तराभावान्मनागनुज्ञातमिव। स तु रामो मद्वचन नोल्लङ्घयेदित्यभिप्रयन्नाह–धार्मिकमिति।
॥ २।१४।२२२४ ॥ ॥ २।१४।२५२६ ॥
ततः प्रभातां रजनीमुदिते च दिवाकरे।
पुण्ये नक्षत्रयोगे च मुहूर्ते च १ समागते ॥ २५ ॥
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा।
उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ २६ ॥
पुरोत्तमं प्रविवेशेति। सरय्वां कृतप्राभातिक इति शेषः ॥ २६ ॥
प्रभातां रजनींप्रभातायां रजन्यांगो। प्रभातां रजनीं दृष्ट्वाऽ इति शेषः। कवेरपि वर्णनीयमयीभावेन शोकाविष्टत्वान्न्यूनपदादिकं न दोषायति।
१समाहितेङ।
॥ २।१४।२५२६ ॥ ॥ २।१४।२७ ॥
१सिक्तसम्मार्जितपथां पताकोत्तमभूपिताम्।
संहृष्टमनुजोपेतां समृद्ध विपणापणाम् ॥ २७ ॥
समृद्धविपणाः–समृद्धक्रेयपदार्थवन्तः आपणाः यस्यां सा तथा ॥ २७ ॥
१एतदनन्तरं “विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम्” इति अधिकंङ।
विपणः–विक्रयणक्रिया “विपणो विक्रयः” इत्यमरः। पदार्थानां समृद्धत्वात् विक्रयणक्रियाया अपि समृद्धत्वं–समृद्धविक्रयणक्रियाविशिष्टापणशालिनीमित्यर्थः। बहुव्रीहिगर्भबहुव्रीहिः।
॥ २।१४।२७ ॥ ॥ २।१४।२८ ॥
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्।
चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् ॥ २८ ॥
समुत्सुकां–समुत्सुकप्रजायुक्ताम् ॥ २८ ॥
॥ २।१४।२८ ॥ ॥ २।१४।२९३२ ॥
तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम्।
ददर्शान्तःपुरं१ श्रीमान्नानाध्वजगणायुतम् ॥ २९ ॥
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।
यज्ञविद्भिः सुसम्पूर्णं २ सदस्यैः परमद्विजैः ॥ ३० ॥
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्।
वसिष्ठः परमप्रीतः ३ परमर्षिर्विवेश च ॥ ३१ ॥
स त्वपश्य द्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।
द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ ३२ ॥
विनिष्क्रान्तमिति। अन्तःपुरादिति शेषः। द्वारेअन्तःपुरद्वारे। अपश्यदिति योजना ॥ ३२ ॥
१अन्तःपुरं श्रेष्ठंङ।
यष्टिमद्भिःऽ इति पाठान्तरम्। इदं ब्राह्मणविशेषणम्। धारयेद्वैणवीं यष्टिंऽ इति स्नातकधर्मप्रकरणोक्तेः। यद्वायष्टिधरै राजसेवकैरित्यर्थः–ति।
२सदश्वैः परमाचितैः, सदस्यैः परमार्चितैःङ।
३परमर्षिभिरावृतःङ।
विनिष्क्रान्तं स्वगृहादिति शेषः। प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलङ्कृत्यागत इति सूचितम्गो। युक्तं चैतद्व्याख्यानम् प्रविवेशऽ इत्युत्तरत्र (४३) उत्तेः।
॥ २।१४।२९३२ ॥ ॥ २।१४।३३३४ ॥
तमुवाच महातेजाः सूतपुत्रं विशारदम्।
वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ ३३ ॥
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।
औदुम्बरं भद्रपीठं अभिषेकार्थमाहृतम् ॥ ३४ ॥
सागरेभ्य इति आहृतोदकपूर्णा इति शेषः। काञ्चनाः–स्वर्णनिर्मिताः। औदुम्बरं भद्रपीठमिति। “औदुम्बर्यासन्दी, तस्यै प्रादेशमात्राः पादाः स्युः” इति राजाभिषेकबह्वृचब्राह्मणप्रसिद्धा एवमादिपदार्थाः ॥ ३४ ॥
वसिष्ठः तमुवाचेति पूर्वेणान्वयः।
आहृतमिति वचनलिङ्गव्यत्ययेन यथायोग्यं सर्वत्रान्वेति,
॥ २।१४।३३३४ ॥ ॥ २।१४।३५३६ ॥
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।
क्षौद्र दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ३५ ॥
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।
चतुरश्वो रथः श्रीमान्निस्त्रिंशो धनुरुत्तमम् ॥ ३६ ॥
निस्त्रिंशः–खड्गः ॥ ३६ ॥
क्षोद्रं–मधु मधुक्षौद्रंऽ इत्यमरः।
॥ २।१४।३५३६ ॥ ॥ २।१४।३७ ॥
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम्।
श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ ३७ ॥
नरसंयुक्तं वाहनं शिबिकादि। भृङ्गारः–कनकालुका ॥ ३७ ॥
॥ २।१४।३७ ॥ ॥ २।१४।३८ ॥
हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः।
केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८ ॥
चतुर्दंष्ट्रत्वादेव हरिश्रेष्ठत्वम् ॥ ३८ ॥
केसरी–प्रशस्तकेसरः हरिश्रेष्ठः–अश्वोत्तमःगो। ति।
॥ २।१४।३८ ॥ ॥ २।१४।३९ ॥
सिंहासनं व्याघ्रतनुः १समिधश्च हुताशनः।
सर्ववादित्रसङ्घश्च वेश्याश्चालङ्कृताः स्त्रियः ॥ ३९ ॥
व्याघ्रतनुः–साङ्गव्याघ्रचर्म ॥ ३९ ॥
१समिद्धश्च हुताशनःऽङ।
व्याघ्रचर्मेत्यर्थः–गो।
॥ २।१४।३९ ॥ ॥ २।१४।४० ॥
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ ४० ॥
नैगमाः–वणिजः। गणैः–स्वस्वीयैः ॥ ४० ॥
नैगमो वणिजा वणिक्ऽ इत्यमरः
॥ २।१४।४० ॥ ॥ २।१४।४१४२ ॥
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः।
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ ४१ ॥
त्वरयस्व महाराजं यथा समुदितेऽहनि।
१पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ ४२ ॥
यथासमुदिते–यथोचितं सम्प्राप्ते ॥ ४२ ॥
समुदिते–मुहूर्तगुणैरिति शेषः। यथा रामो राज्यमवाप्नुयात् तथा राजानं त्वरयस्वति। समुदिते–सम्यगभिव्यक्ते–गो। वस्तुतस्तु यथासमुदिते–यथोक्त एवऽ इत्यर्थः स्यात्।(ऽउक्तं भाषितमुदितंऽ इत्यमरः) वचने सम्यक्त्वऽपुण्येऽ इत्यादिनोच्यते। पूर्वनिर्दिष्ट एव सुमुहूर्त इति यावत्। मा भूच्छुभकालातिक्रम इति भावः।
१पुष्येङ।
॥ २।१४।४१४२ ॥ ॥ २।१४।४३४४ ॥
इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः।
स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ ४३ ॥
तं तु पूर्वोदितं वृद्धं द्वारस्था राज १ सम्मतम्।
न शोकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥
पूर्वोदितं–पूर्वमेव राज्ञा कस्मिन्नप्यवसरे अकर्तव्यनिरोधतया उदितं–कृताज्ञम्। एवमाज्ञाप्रदाने हेतुः–वृद्धमिति। वयसा तपसा मन्त्रादिना च वृद्धमित्यर्थः ॥ ४४ ॥
सम्मताः–ङ।
॥ २।१४।४३४४ ॥ ॥ २।१४।४५ ॥
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।
वाग्भिः परम १ तुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥
एवमनुरोधतः स्त्र्यगारस्य समीपं गत्वा तत्समीपे स्थितः स सुमन्त्रो राज्ञस्तामवस्थां–यथोक्तरूपामतिघोरां अजज्ञिवान्अज्ञातवान्। “वस्वेकाजात्” इति घसेरिट्। अत एव यथापूर्वं स्तोतुमुपचक्रमे ॥ ४५ ॥
१ हृद्याभिःङ।
॥ २।१४।४५ ॥ ॥ २।१४।४६४७ ॥
ततः सूतो १यथापूर्वं पार्थिवस्य निवेशने।
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ ४६ ॥
यथा नन्दति देजस्वी सागरो भास्करोदये।
प्रीतः प्रीतेन मनसा २तथाऽऽनन्दघनस्ततः ॥ ४७ ॥
सागरो यथा भास्करोदयकाले प्रत्यूर्मिप्रतिफलितसूर्यतेजसा तेजस्वीभूत्वा नन्दति–तथा प्रीतेन मनसा प्रतिफलितसूर्यस्थानीयेन प्रीतः, तत एव हेतोरानन्दघनःआनन्दपूर्ण ३ स्सन् नन्द–नन्दय। नन्द, आनन्दघन इति च तत्राभिप्रायतः पदच्छेदः। अन्यस्तु– भास्करोदयेचन्द्रोदयेऽ इत्याह–तत्तु प्रसिद्धिविरोधात् तेजस्वी इति विशेषणाच्चोपेक्ष्यम् ॥ ४७ ॥
१यथाकालंङ। झ।
२तथाऽऽनन्दय नङ। च।
३स्त्वंक।
इद च महेश्वरतीर्थीये गोविन्दराजीये च दृश्यते। शिरोमणिस्तु– अभास्करोदय इति च्छेदः। भास्करसदृश इत्यर्थः। स च चन्द्र एवऽ इत्याह। अब्राह्मणमानयेत्यादौ ब्राह्मणसदृशमानयेति बोधस्य वैयाकरणैरभिधानादिति तदाशयः। तिलके तु भास्करोदये–तत्काले प्रत्यूर्मिप्रतिफलिततेजसा तेजस्वी सागरो यथा स्नातुकामान् नन्दतिनन्दयति (अन्तर्भावितण्यंतः) तथा नोऽस्मान् प्रीतेन मनसा प्रीतःअस्मद्विषयकप्रीत्याश्रयस्सन् नन्दय इत्युक्तम्। स्वरसं चेतदेव।
॥ २।१४।४६४७ ॥ ॥ २।१४।४८ ॥
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।
१सोऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ ४८ ॥
अस्यां तु वेलायामिति। उदयवेलायामित्यर्थः ॥ ४८ ॥
१योऽङ।
॥ २।१४।४८ ॥ ॥ २।१४।४९ ॥
वेदाः साङ्गाश्च विद्याश्च यथा ह्यात्मभुवं प्रभुम्।
ब्राह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ ४९ ॥
ब्रह्माणं बोधयन्तीति। “ब्रह्मा त्वं राजन् ब्रह्माऽसि सवितासि सत्यसवः” इत्यादि “सत्यराजान्” इत्यन्तैर्भगवदहरादौ सवित्रादिसृष्टये वेदादिभिः भगवत्स्तुतिः ॥ ४९ ॥
॥ २।१४।४९ ॥ ॥ २।१४।५० ॥
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्।
बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ ५० ॥
बोधयत्यद्य पृथिवीमिति। उदयास्तमयाभ्यामिति शेषः ॥ ५० ॥
“भूतधरां–सर्वप्राणिधरां पृथिवीं बोधयति। विशेषणद्वारा पृथिवीबोधनं (विशेषणमत्र सर्वप्राणिवगः)। अद्य बोधयामीत्यन्वयः"गो।
॥ २।१४।५० ॥ ॥ २।१४।५१ ॥
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः।
विराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५१ ॥
कृतकौतुकमङ्गलः–कृतोत्सवार्थमङ्गलानुष्ठानः। विचित्रवस्त्राभरणादिपरिग्रहरूपं मङ्गलानुष्ठानम्, “कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः” अत एव वपुषा विराजमानस्त्वं मेरोर्दिवाकर इव उत्तिष्ठेति योजना ॥ ५१ ॥
कर्तव्यस्यातिशैघ्र्यविवक्षया कृतकौतुकेति निर्देशः।
॥ २।१४।५१ ॥ ॥ २।१४।५२५३ ॥
१सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२ ॥
गता भगवती रात्रिः २ कृतं कृत्यमिदं तव।
३बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ ५३ ॥
कृतमिति। यत्कृत्यं कर्तव्यं रामाभिषेकायास्मदादिभिः तदिदं सर्वं कृतम् ॥ ५३ ॥
१इदं श्लोकद्वयं कतिपयग्रन्थेषु (ङ। च।) नोपलभ्यते।
२अहर्निशमुपस्थितंङ।
३प्रतिबुध्यस्व राजर्षेङ।
॥ २।१४।५२५३ ॥ ॥ २।१४।५४ ॥
१उदतिष्ठत रामस्य समग्रमभिषेचनम्।
पौरजानपदश्चापि नैगमश्च कृताञ्जलिः ॥ ५४ ॥
तदेव दर्शयति–उदतिष्ठतेत्यादि। उदतिष्ठत–उत्थितं सम्पन्नमभूदित्यर्थः। नैगमःवणिग्वर्गः ॥ ५४ ॥
१उपतिष्ठतिङ।
अभिषेचनंअभिषेकसामग्री।
॥ २।१४।५४ ॥ ॥ २।१४।५५५६ ॥
१अयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति।
क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ ५५ ॥
यथा ह्यपालाः पशवो यथा सेना ह्यनायका।
यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ ५६ ॥
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते।
भवितेति लुट्। अतः शीघ्रं सन्निधेहीति शेषः ॥ ५६ ॥
१स्वयंङ।
पूर्वं दशरथेन “अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्” (अयो।४१६) इत्यादिना स्वस्य राज्येऽभिलाषानिवृत्तिपूर्वकं रामाभिषेचनस्य प्रतिज्ञातत्वात्, इदानीमनभिषेचने अराजकत्वं स्यादित्याशयेनैवं सुमंत्रेणोक्तम्। अथवा “दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्। आचचक्षेऽथ मेघावी शरीरे चात्मनो जराम्” (अयो। १४३) प्रायेण च निमित्तानामीदृशानां समुद्भवे। राजा हि मृत्युमाप्नोति (अयो। ४१९) इत्यादिभिः, सुमन्त्रेणापि दशरथमरणस्य सन्निहितत्वेन ज्ञातत्त्वाद्रामानभिषेचने अराजकं राज्यं स्यादित्युक्तमिति।
॥ २।१४।५५५६ ॥ ॥ २।१४।५७ ॥
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ॥ ५७ ॥
अभ्यकीर्यत शोकेन भूय एव महीपतिः।
सान्त्वपूर्वम् अर्थवदिवअर्थवदेव च ॥ ५७ ॥
॥ २।१४।५७ ॥ ॥ २।१४।५८ ॥
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ ५८ ॥
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः।
शोकरक्तेति। शोकजरोदनरक्तेति यावत् ॥ ५८ ॥
॥ २।१४।५८ ॥ ॥ २।१४।५९ ॥
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ ५९ ॥
भूयो निकृन्तसीति। कैकेयीवाक्यैः कृत्तमर्माणं पुनरभ्यघिकं स्तुतिवाक्यैर्निकृन्तसि। अनुचितकाले प्रयुज्यमानत्वादिति शेषः ॥ ५९ ॥
॥ २।१४।५९ ॥ ॥ २।१४।६० ॥
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्।
प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ ६० ॥
अपाक्रमदिति। भीत इति शेषः ॥ ६० ॥
करुणं–दीनवाक्यंगो। शृण्वतां करुणाजनकमिति यावत्। क्रियाविशेषणं वेदम्।
॥ २।१४।६० ॥ ॥ २।१४।६१ ॥
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ ६१ ॥
दैन्यं–सत्यपाशबन्धजं कैकेयीविषयकम्। मन्त्रज्ञा–स्वकार्ये वक्तव्यविचारज्ञा ॥ ६१ ॥
॥ २।१४।६१ ॥ ॥ २।१४।६२ ॥
सुमन्त्र राजा रजनीं १रामहर्षसमुत्सुकः।
प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ॥ ६२ ॥
अत एव मिथ्यामप्याह–रामहर्षेति। रामाभिषेकहर्षेति यावत् ॥
सोपहासवाक्यमिदम्। अथवाइष्टवियोगजन्यत्वाद्दुःखस्य, इच्छातारतम्यानुविधायित्वाद्दुःखतारतम्यस्य च, रामाभिषेके यावत्यघिकेच्छऽऽसीद्राज्ञः, तद्विच्छेदेऽपि तावदेव दुःखमभूत्। एवञ्च यतो राजा रामहर्षसमुत्सुक आसीत्, तत एवेदानीं प्रजागरपरिश्रान्तो वर्तते, तद्विच्छेदादिति सोपहासं निगूढं चोच्यते कैकेय्या।
कामहर्षङ।
॥ २।१४।६२ ॥ ॥ २।१४।६३६४ ॥
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।
१राममानय, भद्रं ते, नात्र भार्या विचारणा ॥ ६३ ॥
स मन्यमानः कल्याणं हृदयेन ननन्द च।
निर्जगाम च सम्प्रीत्या त्वरितराजशासनात् ॥ ६४ ॥
स मन्यमानः कल्याणमिति। नात्र कार्या विचारणाऽ इति मायाविन्या तयोक्तत्वेन विश्वासात् ॥ ६४ ॥
१एतदनन्दरं अश्रुत्वा राजवचन कथं गच्छामि भामिनि। तच्छ्रुत्वा मन्त्रिणो वाक्य राजा मन्त्रिणमब्रवीत् ॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।ऽ इत्यधिकम्ङ।
राजशासनादित्युक्तिः, अप्रतिषिद्धमनुमतमिति न्यायात्। अत एव चिन्तयामासेत्युक्तिः। कुतस्साक्षाद्राज्ञैव नोक्तमिति चिन्ता। अनन्तरसर्गे २५तमश्लोकोऽत्र द्रष्टव्यः।
॥ २।१४।६३६४ ॥ ॥ २।१४।६५६७ ॥
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया।
व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ ६५ ॥
इति सूतो मतिं कृत्वा हर्षेण महता वृतः।
निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ ६६ ॥
सागरहृदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात्।
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ ६७ ॥
सागरान्तर्वर्तिह्रदस्तथा–इदं तु पुरान्दर्वर्तित्वादन्तःपुरस्य ॥
॥ २।१४।६५६७ ॥ ॥ २।१४।६८ ॥
ततः पुरस्तात्सहसा विनिर्गतो
महीपतीन् द्वारगतान् विलोकयन्।
ददर्श पौरान् विविधान् महाधनान्
उपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ ६८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्दशः सर्गः।
सार (६८) मानः सर्गः (?) ॥ ६८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्दशः सर्गः।
॥ २।१४।६८ ॥