त्रयोदशः सर्गः
[दशरथविलापः]
॥ २।१३।१ ॥
अतदर्हं महाराजं शयानमतथोचितम्।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥
अथ सत्यपाशबद्धत्वेन न ते करिष्यामि वचःऽ इति दृढं वक्तुमशक्नुवन्, पुनरपि प्रसादयति–अतदर्हमित्यादि। अतदर्हं–स्त्रीप्रणामानर्हं। अतथोचितं–भूशयनानर्हम् ॥ १ ॥
तादृशदुःखानर्हं–गो।
॥ २।१३।१ ॥ ॥ २।१३।२ ॥
अनर्थरूपाऽसिद्धार्था ह्यभीता १भयदर्शिनी।
पुनराकारयामास तमेव वरमङ्गना ॥ २ ॥
अनर्थरूपेति। कुलस्येति शेषः। भयदर्शिनीति। राज्ञ इति शेषः। तमेव वरं आकारयामास–दातव्यत्वेन ग्राहयामास ॥ २ ॥
अनर्थरूपा–पापरूपागो। अभीता–लोकापवादाभीता। भयदर्शिनी–दशरथस्येति शेषः। यद्वा अभयदर्शिनी–दशरथस्य (प्राण) भयमपश्यन्ती वरमुद्दिश्य आकारयामास–संबोधयामास–गो। भयदर्शिनी–रामाद्भरतस्येति शेषः–(ति)।
१पापदर्शिनीङ।
॥ २।१३।२ ॥ ॥ २।१३।३ ॥
त्वं १कथ्यसे महाराज सत्यवादी दृढव्रतः।
मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ ३ ॥
तदेवोच्यते–कथ्यस इत्यादि।विधारयितुमिति–ऋणत्वेनेति शेषः ॥ ३ ॥
१कत्थसेङ।
कथ्यसे–जनैरिति शेषः ॥ कत्थसे–इतिपाठे श्लाघसे इत्यर्थः।
नाशयितुमिति वाऽर्थः।
॥ २।१३।३ ॥ ॥ २।१३।४६ ॥
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥ ४ ॥
मृते मयि गते रामे वनं मनुजपुङ्गवे।
हन्तानार्ये ममामित्रे सकामा १सुखिनी भव ॥ ५ ॥
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्।
प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥ ६ ॥
इह रामप्रवासनदुःखमृतस्य मृत्वा स्वर्गेऽपि सौख्यं नास्ति। अतस्त्वदिष्टं कृत्वा मरणापेक्षया रामाभिषेचनमेव मे हितमित्याशयेनाह–स्वर्ग इत्यादि। त्वद्वचनं कृत्वा मृत्वा मयि स्वर्गं गते स्वर्गेऽपि दैवतैः रामस्य कुशलं पृष्टोऽहं प्रत्याख्यातवानस्मि रामंऽ इति कथं प्रत्युत्तरं वदिष्ये। अथ प्रत्यादेशात्–त्वदिष्टसम्पादनाय रामप्रत्यादेशाद्धेतोः देवैर्यदभिहितं भविष्यति–किं मूढ ज्येष्ठं श्रेष्ठगुणैर्युक्तं कथं प्रत्याख्यातवानसिऽ इति–तदेतदभिहितं कथं देवसभायां धारयिष्ये, बत अतस्तदप्रत्याख्यानमेव वरमिति मन्य इत्याशयः ॥ ६ ॥
१सुखिता भवङ। भव कैकयिझ।
एतद्व्याख्यारीत्या–पूर्वार्धमेकं वाक्यम्। तत्र, पृष्टः कथं प्रत्युत्तरं वदिष्ये–इति शेषः। द्वितीयार्धं तु भिन्नं वाक्यम्। गोविन्दराजीयरीत्या, सर्वमेकवाक्यं–रामस्य कुशलं प्रति पृष्टोऽहं मदुक्तात्प्रत्यादेशात्तैरभिहितनिन्दादिकं कथं धारयिष्ये–इति।
॥ २।१३।४६ ॥ ॥ २।१३।७ ॥
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया।
यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति ॥ ७ ॥
ननु सत्यवशात्प्रत्यादिष्टवान्ऽ इत्युत्तरं ब्रूहीत्यत्राह–कैकेय्या इत्यादि। गतार्थम् ॥ ७ ॥
मयेत्यनन्तरं इतिकरणं द्रष्टव्यं–गो।
तदसत्यं भविष्यति– “श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तप” इति पूर्वोक्तमसत्यं भविष्यति–गो। प्रियकामेन–प्रियेण वरेण। असत्यं भविष्यति–असत्यं मंस्यन्त इत्यर्थः। कामुकतया प्रत्याख्यात इत्येव मंस्यन्त इत्यर्थः–ति
पूर्वस्मिन्नेव सर्गे व्याकृतत्वादित्यर्थः।
॥ २।१३।७ ॥ ॥ २।१३।८११ ॥
अपुत्रेण मया पुत्रः श्रमेण महता महान्।
रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ ८ ॥
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥ ९ ॥
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्।
अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ १० ॥
सुखानामुचितस्यैव दुःखैरनुचितस्य च।
दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ ११ ॥
दुःखैरनुचितस्येति। षष्ठ्यर्थे तृतीया ॥ ११ ॥
॥ २।१३।८११ ॥ ॥ २।१३।१२ ॥
यदि दुःखमकृत्वाऽद्य मम सङ्क्रमणं भवेत्।
अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ १२ ॥
सर्वथा रामस्य दुःखाकरणमेव स्वहितमित्याह–यदीत्यादि। अदुःखार्हस्य रामस्य अद्य दुःखमकृत्वा इह सुखितस्य मम कालान्तरे स्वर्गस्य सङ्क्रमणं भवेद्यदि तदा स्वर्गेऽपि सुखमाप्नुयाम्। तस्या वरं एतद्व्यतिरिक्तकिञ्चिदर्थेन कृतार्थीकर्तव्यम्। अस्यादानेऽप्यशक्यार्थत्वाद्दोषो न भविष्यतीत्याशयः ॥ १२ ॥
अदुःखार्हस्य रामस्य दुःखमकृत्वैव यद्यद्यैव मम मरणं भवेत्–तदानीं सुखमवाप्नुयां–एवं मरणे वराप्रदानजन्यदोषोऽपि न। जीवतो हि सा प्रतिज्ञा–ति। गो। स्वर्गेऽपि खलु रामस्यऽ (६ श्लो।) इत्येतच्छेषभूतोऽयं श्लोकः।
॥ २।१३।१२ ॥ ॥ २।१३।१३१५ ॥
नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम्।
किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ १३ ॥
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे।
तथा विलपतस्तस्य परिभ्रमितचेतसः ॥ १४ ॥
अस्तमभ्यागमत्सूर्यो रजनी चाभ्यवर्तत।
सा त्रियामा तथाऽऽर्तस्य चन्द्रमण्डलमण्डिता ॥ १५ ॥
राज्ञो विलपमानस्य न व्यभासत शर्वरी।
अस्तमित्यादि। यदा राज्ञः स्वनिवेशप्रवेशकालात्पूर्वं सूर्योऽस्तमभ्यागमत् रजनीचाभ्यवर्तत, सा त्रियामा–रजनी विलपमानस्य राज्ञो न व्यभासत। विलापनेनैव रात्रिकालो व्यतीत इत्यर्थः। अत सा शर्वरी व्यभासत विभाता च इत्यावृत्त्य योजना ॥ १५ ॥
किंकिमर्थंगो।
अत्रियामायामत्रयवत्वं विहायातिदीर्घागो।
न प्रभातं त्वयेच्छामिऽ इत्युत्तरत्र प्रार्थनानुरोधेन एवमावृत्त्य योजना कृता ॥
॥ २।१३।१३१५ ॥ ॥ २।१३।१६ ॥
तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ॥ १६ ॥
विललापार्तवद्दुःखं गगनासक्तलोचनः।
आर्तवत्–स्वार्थे वतिरित्युक्तम् ॥ १६ ॥
द्वादशसर्गे अष्टपञ्चाशश्लोके विपरीतवत्ऽ इत्यत्र स्वार्थे वतिरिति व्याख्यातम् ॥ आर्तवत्–रोगपीडित इव इत्यपि योजना कृता–ति। गो।
॥ २।१३।१६ ॥ ॥ २।१३।१७ ॥
न प्रभातं १त्वयेच्छामि निशे नक्षत्रभूषिते ॥ १७ ॥
क्रियतां मे दया भद्रे मयाऽयं रचितोऽञ्जलिः।
अथ दुःखवशाद्रात्र्या अव्युष्टिं प्रार्थयते–न प्रभातमित्यादि। भावे निष्ठा। त्वया प्रभातमिति। त्वत्कर्तृकप्रभातमिति यावत्। मे–मह्यम् ॥ १७ ॥
रात्रिं प्रति प्रार्थयते–न प्रभातमिति ॥ अन्यथा निशेऽ इत्यस्यासाधुतापत्तेः। अतस्तिलकोक्तव्याख्यानं श्रेयः। तथा हि–हे निशे (तवेच्छामिऽ इति पाठः) तव प्रभातं नेच्छामि। हे भद्रे निशे एवं हि तस्याः कल्याणदत्वम्। प्रभाते रामविवासनभयादिति भावः। मेमह्यं दया क्रियताम्।
१तवेच्छामिङ। च।
॥ २।१३।१७ ॥ ॥ २।१३।१८ ॥
अथावा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ १८ ॥
नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत्।
अथवा गम्यतां शीघ्रमिति। रात्रिरिति शेषः। स्त्रीदर्शनं रात्रावेव भवति। तदत्यये प्रजा आयान्ति राज्ञः सकाशम्। अतोऽस्यास्तु दर्शनपरिहारो भविष्यतीत्याशयः ॥ १८ ॥
अथवा त्वया गम्यताम्। (निर्घृणायाः कैकेय्या दर्शनापेक्षया प्रभाते मम मरणमपि श्रेय इति भावः) रात्र्यपगमे हि प्रजासन्निधानेनैतद्दर्शनं न स्यात्। यद्वा–रामविवासनेन मरणे वा मम, तस्य दर्शनं न स्यादिति
भावः–ति। त्वयेति पाठेत्वया गतया जायमानं प्रभातमित्यर्थःति।
॥ २।१३।१८ ॥ ॥ २।१३।१९२० ॥
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ॥ १९ ॥
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्।
साधु १ वृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ॥ २० ॥
प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः।
त्वद्गतस्येति। सत्यवशात् त्वद्वशगस्येत्यर्थः ॥ २० ॥
१वृद्धस्यङ।
त्वद्गतस्य–त्वदेकशरणस्येत्यर्थःगो। गतायुषः–अल्पावशेषमतीतायुषः। गतप्रायायुष इति वा।
॥ २।१३।१९२० ॥ ॥ २।१३।२१ ॥
शून्येन खलु सुश्रोणि मयेदं १समुदाहृतम् ॥ २१ ॥
कुरु साधुप्रसादं मे बाले सहृदया ह्यसि।
शून्येनेति। प्रणष्टसर्वाहंभावेनेति यावत् ॥ २१ ॥
शून्येनिर्जनप्रदेशे “शून्यं बिन्दौ च निर्जने” इति हैमः। इदं रामाभिषेचनं रहसि न समुदाहृतम्। अपि तु सर्वजनसन्निधावित्यर्थःगो। ति। यद्वा शून्येनदीनेन मया। यद्वा–त्वद्गतस्येत्युक्तरीत्या गत्यन्तरशून्येनेत्यर्थः।
यद्वाशून्येदयादिगुणशून्ये न समुदाहृतम्। न ह्यरण्यरुदितं कृतं, अपि तु गुणवत्येवेत्यर्थः। तदेतदाह–सहृदया ह्यसीति ॥
१समुपाहृतंङ।
॥ २।१३।२१ ॥ ॥ २।१३।२२ ॥
प्रसीद देवि १रामो मे त्वद्दत्तं राज्यमव्ययम् ॥ २२ ॥
लभतामसितापाङ्गे यशः पर २ मवाप्स्यसि।
तदेव दर्शयन्नाह–त्वद्दत्तमिति। त्वया वरबलाद्गृहीतमेव राज्यं मत्प्रीत्यर्थः रामाय देहीत्यर्थः ॥ २२ ॥
१रामोऽपिङ।
२मवाप्नुहिङ।
॥ २।१३।२२ ॥ ॥ २।१३।२३ ॥
मम रामस्य लोकस्य गुरूणां भरतस्य च ॥ २३ ॥
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे
गुर्वी श्रोणिः यस्याः सा तथा ॥ २३ ॥
॥ २।१३।२३ ॥ ॥ २।१३।२४ ॥
विशुद्धभावस्य हि दुष्टभावा
ताम्रेक्षणास्याश्रुकलस्य राज्ञः।
श्रुत्वा विचित्रं करुणं विलापं
भर्तुर्नृशंसा न चकार वाक्यम् ॥ २४ ॥
अश्रुकलः–अश्रुपूर्णः, कलिः–कामधेनुः ॥ २४ ॥
ताम्रेक्षणस्य। दुःखातिशयेनेति शेषःगो।
॥ २।१३।२४ ॥ ॥ २।१३।२५ ॥
ततः स राजा १पुनरेव मूर्छितः
२ प्रियामदुष्टां प्रतिकूलभाषिणीम्।
समीक्ष्य पुत्रस्य विवासनं प्रति
क्षितौ विसंज्ञो निपपात दुःखितः ॥ २५ ॥
ततस्स इत्यादि। तद्रात्रेः प्राक् नित्यमदुष्टां–पतिव्रतां, तत्काले दैवात्प्रतिकूलभाषिणीं तां समीक्ष्य पुत्रस्य विवासनं प्रति क्रियमाणं ३तद्वचनं च वीक्ष्य चिरपरिचितप्रेमत्वात् तां धिक्कर्तुं, अतिप्रयासलब्धसुगुण ४पुत्रत्वात्तं च त्यक्तुमशक्नुवन् कर्तव्यमूढो मूर्छितः क्षितौ निस्संज्ञः पपात ॥ २५ ॥
१भयमोहमूर्छितःङ।
अतुष्टां इति तिलके पाठः। एतावदुक्त्यापि अतुष्टां रामविवासने बद्धश्रद्धामिति यावत्। वस्तुतस्तु– अदुष्टामित्येव स्वरसः पाठः। तस्या धिक्करणहेत्वभावोऽनेनोक्तः। मया प्रतिज्ञातं वरं खलु याचते सा, अतः कथं सा दुष्टा, प्रत्युत तदुल्लवने अहमेव दुष्ट स्यामिति सत्यपाशबद्धस्य राज्ञ आशयः।
२प्रियामतुष्टांङ। च। झ।
३तद्वरंघ।
४पुत्ररत्नंघ।
॥ २।१३।२५ ॥ ॥ २।१३।२६ ॥
इतीव राज्ञो व्यथितस्य सा निशा
जगाम घोरं श्वसतो मनस्विनः।
विबोध्यमानः प्रतिबोधनं तदा
निवारयामास स राजसत्तमः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोदशः सर्गः।
श्वसत इति। दीर्घमुष्णं विनिश्वसत इति यावत्। विबोध्यमानः–सूतमागधवन्दिभिर्वादित्रोपेतैरिति शेषः। प्रतिबोधनं निवारयामासेति। तादृग्व्यवहारस्य दुःखानर्हत्वादेव। अचिर (२६१२) मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयोदशः सर्गः
॥ २।१३।२६ ॥