द्वादशः सर्गः
[दशरथप्रार्थना]
॥ २।१२।१ ॥
ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः।
चिन्तामभिसमापेदे मुहूर्तं प्रतताप च ॥ १ ॥
अथ सत्यपाशबद्धस्य दशरथस्य घोरशोकः। तत इत्यादि। चिन्तामभिसमापेद इति। श्रुतार्थस्य वास्तवत्वासम्भावनया भ्रम इत्येव निश्चित्य किंदोषजोऽयं भ्रमःऽ इति चिन्तां प्राप। मुहूर्तं–क्षणं प्रतताप
च–भ्रमप्रतीताहिकण्टकाद्यर्थस्य तत्काले किञ्चित्कार्यकारकत्वात्, तत्काले परितापः ॥ १ ॥
चिन्ताप्रकारः–किं न्वित्यादिना, सन्तापप्रकारः इति सञ्चिन्त्यऽ इत्यादिना च विव्रियत इति–गो।
॥ २।१२।१ ॥ ॥ २।१२।२ ॥
किन्नु मे १यदि वा स्वप्नः? चित्तमोहोऽपि वा मम?
अनु भूतोपसर्गो वा २मनसो वाऽप्युपद्रवः ॥ २ ॥
अथापि भ्रमत्वनिश्चयात् त्यक्ततापो भ्रमहेतुभेदानेव चिन्तयति– किन्नु म इत्यादि। स्वप्नार्थस्य प्रत्यक्षार्थापेक्षया सर्वार्थासमर्थत्वात् भ्रमत्वम्। अथवा जाग्रत्यपि दुरदृष्टजः चित्तमोहः–वैचित्यं तत्त्वज्ञानासामर्थ्यम्। अनु–पश्चात्। अथवा उपसर्गाणामनेकार्थत्वात् अथवार्थः, अथवा भूतोपसर्गः–महाग्रहजचित्तवैवश्यं वा। अथवा मनस उपद्रवः आधिव्याधिजनितोपप्लवो वा। अन्यः–अनुभूतोपसर्गःसुषुप्तिः इत्याह। बत –सुषुप्तौ कुतो विचारप्रसङ्गः। एवमादौ बह्वसङ्गतं ब्रूते। तत्सर्वमस्मदुच्यमानव्याख्यानतः सुमतिसुबोधम् ॥ २ ॥
१ऽयं दिवाङ।च।
२मानसो–ङ।
अत्र किन्नु मेऽयं दिवा स्वप्नःऽ इति तिलके पाठः। व्याख्यायि चैवं तत्र। स्वप्नोऽपि कदाचित् संवादीत्यतो दिवेति। दिवा स्वप्नो न कदापि संवादीति भावः। अथवा–वस्तुतत्त्वज्ञानासामर्थ्यमनुपश्चात् जातः चित्तमोहो वा। इति च।
जाग्रतोऽपिऽ इति स्यात्–मम–इत्यनुरोधात्। मयीत्यध्याहार्यं वा।
अनुभूतोपसर्गः–जन्मान्तरानुभूतानां अर्थानां–उपसर्गः–स्मरणम्–गो। ग्रहावेशकृतवैक्लव्यमित्यपि कश्चित्।
अनुभूतानां पदार्थानामुपसर्गः–नाशः, सुषुप्तिरित्यर्थः–ती।
॥ २।१२।२ ॥ ॥ २।१२।३६ ॥
इति सञ्चिन्त्य तद्राजा नाध्यगच्छत्तदाऽसुखम्।
प्रतिलभ्य १ ततः संज्ञां कैकेयीवाक्यताडितः ॥ ३ ॥
व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः।
असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ॥ ४ ॥
मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः।
अहो धिगिति सामर्षः वाचमुक्त्वा नराधिपः ॥ ५ ॥
मोहमापेदिवान् भूयः शोकोपहतचेतनः।
चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ॥ ६ ॥
कैकेयीमब्रवीत् क्रुद्धः निर्दहन्निव २ चेतसा।
इति–एवंप्रकारतः तत्–श्रुतार्थं सञ्चिन्त्य नाध्यगच्छत् तदन्यतरत्वं। अतस्तदा वास्तवत्वज्ञानात्, असुखं–परममूर्छाकरं–महद्दुःखं चाध्यगच्छत्। ततः संज्ञां–स्मृतिं प्रतिलभ्य कैकेयीवाक्यस्मरणताडितः उच्यमानविशेषणकः– अहो धिक्ऽ इत्युक्त्वा भूयः शोकमापेदिवान्–इति योजना। विक्लबः–दीनः। मण्डल इति। विषस्तम्भनयन्त्रमण्डल इत्यर्थः। चेतसा निर्दहन्निवेत्यनेन व्याघ्रीमृगवत् चक्षुरादिना कोपप्रकाशस्याशक्यता द्योत्यते ॥ ३६ ॥
इत्येवं सञ्चिन्त्य राजा तदा–सुखंशर्मशान्तिमिति यावत्–नाध्यगच्छत्– न प्राप,
भ्रमत्वानिश्चयादिति भावः। व्याख्यारीत्या तु–नाध्यगच्छदिति अस्य प्रथमं कर्मपदाध्याहारः। असुखमध्यगच्छदिति क्रियावृत्तिश्च। तिलके तु–तत्भ्रमकारणं–इति तत्पदं कर्मवाचकमुक्तम् ॥
१चिरात्ङ।
२चक्षुषाङ।
तदन्यतमत्वं–तदन्यतमसत्वं–तदन्यतमतत्वं–इति वा स्यात्।
अतस्तदवास्तवत्वाज्ञानादिति स्यात्।
व्याध्रीं दृष्ट्वा यथा मृगःऽ इत्युक्त्या व्याघ्र्यां मृगवदित्यर्थः।
॥ २।१२।३६ ॥ ॥ २।१२।७ ॥
नृशंसे दृष्टचारित्रे कुलस्यास्य विनाशिनि ॥ ७ ॥
किं कृतं तव रामेण पापे पापं मयाऽपि वा।
किं पापं–अनिष्टं कृतमिति योजना ॥ ७ ॥
॥ २।१२।७ ॥ ॥ २।१२।८ ॥
१यदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ ८ ॥
तस्यैव त्मनर्थाय किंनिमित्तमिहोद्यता।
यदा–यस्मात् ते–तव विषये जननीतुल्यां वृत्तिमावहति २तस्मात् अनर्थचिन्तानर्हस्य तस्यैवानर्थाय किं निमित्तं इह–इदानीं उद्यता ॥ ८ ॥
१सदाङ।
यदैव जननीतुल्यां वृत्तिं वहति तदैव तस्यैवानर्थाय किन्निमित्तमुद्यता–गो।
२यस्मात्क।
॥ २।१२।८ ॥ ॥ २।१२।९ ॥
त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता ॥ ९ ॥
अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा।
अयं स्वयंकृतानर्थमूल एवेत्याह–त्वमित्यादि। अविज्ञानादिति–इष्टसाधनत्वभ्रान्त्येत्यर्थः ॥ ९ ॥
अत्र नृपसुतेत्यनन्तरमितिकरणं द्रष्टव्यमिति गोविन्दराजीयम् ॥ भवत्स्वभावमविज्ञाय नृपसुतेति मत्वा स्वं भवनं निवेशितेत्यर्थः।
॥ २।१२।९ ॥ ॥ २।१२।१० ॥
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ १० ॥
अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्।
यदा–यस्मात्। उद्दिश्य–व्याजीकृत्य। न त्वेव त्यजेयमित्यनुकर्षः ॥ १० ॥
जीवलोकः सर्वोऽपि यदा रामं स्तौति–तदा–तस्य विवासने मम को वाधिकार इति भावः ॥ यदेत्यनेन रामगुणस्तवस्य भूतपूर्वत्वं नास्तीत्युच्यते ॥
॥ २।१२।१० ॥ ॥ २।१२।१११५ ॥
कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम् ॥ ११ ॥
जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम्।
परा भवति मे प्रीतिः दृष्ट्वा तनयमग्रजम् ॥ १२ ॥
अपश्यतस्तु मे रामं नष्टा भवति चेतना।
तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ १३ ॥
न तु रामं विना देहे तिष्टेत्तु मम जीवितम्।
तदलं त्यज्यतामेष निश्चयः पापनिश्चये ॥ १४ ॥
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे।
किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ १५ ॥
तदलमिति। यस्मात् मद्विनाशे ते वैधव्यप्राप्तिः तस्मादित्याशयः। चरणावपीति। त्वत्प्रीत्यर्थमिति शेषः ॥ १५ ॥
॥ २।१२।१११५ ॥ ॥ २।१२।१६१८ ॥
अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये।
अस्तु, यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ १६ ॥
१स च ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे।
त्वया ते प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ १७ ॥
तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्।
आविष्टाऽसि गृहे शून्ये सा त्वं परवशं गता ॥ १८ ॥
अथेत्यादि। अथेति प्रश्ने। भरतोऽभिषिच्यतां–रामोविवास्यतामित्युक्ते, राजा भरतं प्रत्यभिषेकादिरूपं प्रियं वदिष्यति न वेति भरतविषयकप्रियाप्रियविषये मां जिज्ञाससे–परीक्षसेऽथ? अथापि रामो विवास्यतामिति नैतद्युक्तं वक्तुम्। कुतः? यत्–यस्मात् त्वया पूर्वं–पूर्वकाले श्रीमान् धर्मज्येष्ठः स च–स एव मे ज्येष्ठसुतः, अनन्तरं भरत इति यत् परमप्रियत्वमुक्तं, तस्यैवेदानीं विवासनवादे ते व्याघातप्रसङ्गः। अपि च रामविषये प्रियवादिन्या त्वया यत् ज्येष्ठसुतत्वादिकमुक्तं तत्सर्वं मच्चित्तानुवर्तनेन मम सेवार्थमेव केवलं, ते तत्कथितं–भावे निष्ठा–कथनम् वस्तुतस्तु सर्वथा रामविरसैवेत्यवगम्यसे। यत्–यस्मात्, इदानीं, तत्–रामाभिषेचनं श्रुत्वा शोकसन्तप्ता सती विना वरमशक्याभिषेकनिर्वर्तनं मामपि निर्बन्धेन निवारयन्ती भृशं तापयसि, अतः केवलं मद्वञ्चनार्थस्ते राघवसाधुवाद इति इदानीं जानीम इत्यर्थः। एवं जिज्ञासया एवं वादायोगे तात्त्विकत्वे च रामाभिषेकनिवारणस्य (च) स्वस्थचित्ताया अयुक्तत्वात् प्रायेण ग्रहाविष्टैवेत्याह– आविष्टैवेत्यादि ॥ १८ ॥
अथेत्यादिश्लोकत्रयमेकान्वयम्–गो। भरतप्रियाप्रियविषये यदि मां जिज्ञाससे, तदास्तु राघवं–भरतं प्रति यत्त्वया व्याहृतं तत्सर्वं भरतस्य, रामविवासनन्त्वयोग्यमेवेति शेषः–ति। त्वया पूर्वं राघवं प्रति स मे ज्येष्ठः सुतःऽ इत्यादि यत् व्याहृतं, तत् प्रियवादिन्या त्वया, सेवार्थं–मम मनोरञ्जनार्थं–रामकृतशुश्रूषार्थं वा कथितं भवेत्–गो। इतीव–इत्येतत्प्रकारं यत् त्वया कथितं पूर्वं तन्मच्चित्तावर्जनेन सेवार्थमेव–मया स्वसेवाकरणार्थमेव भवेत्–ति।
१स मेङ। च
अत्र तत् त्वयेऽति स्थाने– त्वया तेऽ इति व्याख्यापाठः स्यात् ॥ अत एव पूर्वश्लोकगतेन व्याहृतंऽ इत्यनेन त्वयेत्यस्यान्वये अनन्तरं ते इत्यस्य कथितमित्यनेनान्वयो वाच्यः ॥ एवञ्च कथितमिति भावे क्तः।
आविष्टासीत्येव सर्वत्र पाठो दृश्यते। अत्रआविष्टासीत्यस्योपपादकं यत्र ते विकृता मतिःऽ इत्यन्तम्। न श्रद्दधामीऽत्यस्योपपादकंइक्ष्वाकूणामित्यादि।
॥ २।१२।१६१८ ॥ ॥ २।१२।१९२० ॥
इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्।
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ १९ ॥
न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम।
अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते ॥ २० ॥
कुत आविष्टतामूल एवंवाद इत्यत्र, अस्मदुक्तरामाभिषेकवारणहेतोरेवेत्याह–इक्ष्वाकूणामित्यादि। यत्र–यस्मिन् नयसम्पन्ने रामे ते यतो विकृता मतिरुत्पन्ना। इतश्च तन्मूलो महानयमनयः–ज्येष्ठे गुणवति ज्येष्ठाभिषेकनिवृत्तिरूपोऽनयः सम्पाद्यते तस्मादेव ते न श्रद्दधामीति। इदानीं क्रियमाणं विप्रियादिकमपि वास्तवमिति न श्रद्दधामीति शेषः ॥ २० ॥
यत इक्ष्वाकुकुले महानयमनयः–ज्येष्ठाभिषेकनिवृत्तिरूपः सम्प्राप्तः, हे नयसम्पन्ने यत्रानये ते तव विकृता मतिः कारणमिति शेषः। अतस्त्वं ग्रहाविष्टेति भावः ॥ ति। नयसम्पन्ने–एतावत्कालं नीतिशालिनि यत्र–इक्ष्वाकुकुलमध्ये ते मतिरेवमिदानीं विकृता जाता–तत्र कुले, अयं सन्निहितः सुमहाननयः–अनर्थः सम्प्राप्तः–गो।
॥ २।१२।१९२० ॥ ॥ २।१२।२१ ॥
ननु १ते राघवस्तुल्यः भरतेन महात्मना।
बहुशो हि स्म बाले त्वं कथाः कथयसे मम ॥ २१ ॥
तदेव समर्थयते–नन्वित्यादि। आमन्त्रणे ननुशब्दः। कथयसे स्मेति योजना ॥ २१ ॥
१मेङ।
रामो मम भरततुल्य इति भवतैव कथितमित्याह–बहुश इति।
॥ २।१२।२१ ॥ ॥ २।१२।२२ ॥
तस्य धर्मात्मनो देवि वने वासं यशस्विनः।
कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २२ ॥
तस्येति–तथाप्रियस्येत्यर्थः ॥ २२ ॥
॥ २।१२।२२ ॥ ॥ २।१२।२३२५ ॥
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः।
कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥
रोचयस्यभिरामस्य रामस्य शुभलोचने
तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥
रामोऽपि भरताद्भूयः तव शुश्रूषते सदा।
विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ॥
तव शुश्रूषमाणस्येति। न लोकऽ इति षष्ठीनिषेधाभाव आर्षः। तथा तव शुश्रूषतेऽ इति षष्ठ्यपि आर्षी ॥ २४२५ ॥
॥ २।१२।२३२५ ॥ ॥ २।१२।२६ ॥
शुश्रूषां गौरवं चैव प्रमाणं वजनक्रियाम्।
कस्ते भूयस्तरां कुर्यात् अन्यत्र मनुजर्षभात् ॥ २६ ॥
प्रमाणं–प्रतिपत्तिः। वजनक्रिया–उक्तकरणम् ॥ २६ ॥
गौरवं–प्रतिपत्तिः। प्रमाणं–पूजा–गो।
॥ २।१२।२६ ॥ ॥ २।१२।२७ ॥
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्।
परिवादोऽपवादो वा राघवे नोपपद्यते ॥ २७ ॥
बहूनां स्त्रीसहस्राणां मध्ये एकयापि कृतः परिवादः, तथोपजीविनां च मध्ये एकेनापि कृतोऽपवादः–अपयशः राघवे नोपपद्यते ॥
परिवादः–अपयशः, अपवादः–निन्दा–गो। परिवादः–समूलमयशः। अपवादः–निर्मूलमयशः–ति।
॥ २।१२।२७ ॥ ॥ २।१२।२८ ॥
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा।
गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २८ ॥
कुतो अन्यत्र नोपपद्यत इत्यत्राह–सान्त्वयन्नित्यादि ॥
प्रियैः, अभीष्टदानैः।
॥ २।१२।२८ ॥ ॥ २।१२।२९ ॥
सत्येन लोकान् जयति दीनान् दानेन राघवः।
गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २९ ॥
दानं–पारलौकिकम्। त्यागः–प्रीत्यर्थः ऐहिकप्रयोजनः ॥
वीर इति सर्वत्र सम्बध्यते। दयावीरः, त्यागवीरः, विद्यावीरः, पराक्रमवीर इत्येवम्। चोलमहीपतिः कदाचित् सन्निहितं मध्यमवीथिभट्टारकं प्रति आत्मानं मानुषं मन्येऽ इति वदन् रामः कथं जटायुषोमोक्षं दत्तवान् इति पप्रच्छ। सोऽपि सत्येन लोकान्ऽ इत्युक्त्या महतीं बहुमतिं अवाप्तवानित्यैतिह्यमत्र ज्ञेयम्–गो।
॥ २।१२।२९ ॥ ॥ २।१२।३०३२ ॥
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्।
विद्या च गुरूशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्।
पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः।
स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ ३२ ॥
अप्रियं वाक्यमिति– रामकर्तृकं रामविषयकं वेति शेषः। कुत एवमित्यत आह–प्रियवादिन इति। त्वत्कृते–त्वद्वचनक्रियासम्पादनार्थम्। अप्रियं वक्ष्यामीति। निर्निमित्तमिति शेषः ॥ ३२ ॥
लोकस्य–लोकं प्रति, प्रियवादिनः स्वस्य कं प्रत्यप्युक्तमप्रियं वाक्यं न स्मरामि–सोऽहं त्वत्कृते प्रियं
राममप्रियं कथं वक्ष्यामि–ति। न स्मरामि–स्मर्तुमपि न शक्नोमि, सः–तादृशोऽहं–गो।
प्रियं राममित्यन्वयः।
इदं तिलकेऽनूदितम्।
॥ २।१२।३०३२ ॥ ॥ २।१२।३३३४ ॥
क्षमा यस्मिन् तपस्त्यागः सत्यं धर्मः कृतज्ञता।
१अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ ३३ ॥
मम बृद्धस्य कैकेयि गतान्तस्य तपस्विनः।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥
गतान्तस्येति। सम्प्राप्तचरमकालस्येत्यर्थः। तपस्विनः–एवं शोचनीयावस्थस्य ॥ ३४ ॥
१अविहिंसाङ।
गतः–प्राप्तः निश्चितो वा अन्तः, चरमकालः यस्य सः।
॥ २।१२।३३३४ ॥ ॥ २।१२।३५३६ ॥
पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते।
तत्सर्वं तव दास्यामि मा च १त्वां मन्युराविशेत् ॥ ३५ ॥
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते।
शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥ ३६ ॥
कुर्मि–करोमि, उत्वविकरणप्रत्ययलोपावार्षौ। शरणं–रक्षिका भव। इह–रामाभिषेके अधर्मो मां मा स्पृशेत्। त्वदनुमत्येति शेषः ॥ ३६ ॥
१त्वं मृत्युमाविशेः–ङ। त्वं मृत्युमाविश–च।
अधर्मः–प्रतिज्ञाभङ्गरूपः–गो। अधर्मः–ज्यैष्ठ्यातिक्रमकृतः, निरपराधस्य त्यागकृतश्च–ति।
॥ २।१२।३५३६ ॥ ॥ २।१२।३७३९ ॥
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम्।
घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ ३७ ॥
पारं शोकार्णवस्याशु प्रार्थयन्तं १पुनःपुनः।
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥
यदि दत्त्वा वलौ राजन् पुनः प्रत्यनुतप्यसे।
धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ ३९ ॥
अनुतप्यस इति। निर्वर्तनाशक्त्येति शेषः ॥ ३९ ॥
१अचेतनम्ङ।
कथयिष्यसि। लोकैरिति शेषः। स्वार्थण्यन्तात् हेतुमण्णौ रूपम्–ति।
॥ २।१२।३७३९ ॥ ॥ २।१२।४० ॥
यदा समेता बहवः त्वया राजर्षयः सह।
कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥
यदा पृथिव्यां राजर्षयस्त्वया सह समेता भवन्ति, तदा तत्समाजे त्वं त्वदीयं धार्मिकत्वं कथयिष्यसि ते च मद्विषयवरदानादिप्रसङ्गं यदा कथयिष्यन्ति, तदा तान् प्रति किं प्रतिवक्ष्यसि? धर्मज्ञेति व्यङ्ग्योक्तिः ॥ ४० ॥
उपकारिण्याः कैकेय्याः किं प्रत्युपकृतमिति यदा कथयिष्यन्ति तदा किं प्रतिवक्ष्यसि–गो।
॥ २।१२।४० ॥ ॥ २।१२।४१ ॥
यस्याः प्रसादे जीवामि या च मामभ्यपालयत्।
तस्याः १कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ ४१ ॥
न किमपि प्रतिवचनं शक्यमित्याह–यस्या इत्यादि। प्रसादे–शम्बरमायानिवर्तनलक्षणानुग्रहे सति। पश्चात्–या च प्रच्यावितवीर्यं मामभ्यपालयच्च, तस्याः कैकेय्याः मया मिथ्या कृता–मिथ्याप्रतिज्ञा कृता–इति वक्ष्यसि किम्? नैवं शक्यवादं किलेति शेषः ॥ ४१ ॥
प्रसादात्, प्रयत्नेङ। प्रसादमेवाह–या चेति।
१कृतंङ। झ।
॥ २।१२।४१ ॥ ॥ २।१२।४२ ॥
किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥
किल्बिषत्वमिति। मत्वर्थीयाजन्ताद्भावप्रत्ययः, किल्बिषवत्त्वमिति यावत्। नरेन्द्राणामिति। त्वद्वंश्यानामिति शेषः। तवासत्यसङ्गरत्वे प्राणादिभिरपि पालितसत्यानां त्वद्वंश्यानां अपयशः त्वयासम्पाद्यत इति ॥ ४२ ॥
किल्बिषत्वमिति। अत्र किल्बिषं त्वंऽ इति क्वचित्–च। पाठो दृश्यते। एतत्पाठे मत्वर्थीयाजन्तात् भावप्रत्ययाश्रयणक्लेशोऽपि नास्ति।
सजातीयेष्वेकेन कृतमपयशः सर्वानपि स्पृशति– सर्वे राजान एवं विधोऽ इति–गो।
॥ २।१२।४२ ॥ ॥ २।१२।४३ ॥
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ।
अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ ४३ ॥
सत्यपरिपालनशेषतया दुष्करस्यापि प्रतिश्रुतस्य परिपालनं दर्शयति–शैब्य इत्यादि। त्वद्वंश्यः शैब्यः सत्यपरिपालनशेषतया दत्ताभयकपोतरक्षणार्थं तन्मांसार्थिने श्येनाय स्वमांसमेव प्रतिनिधित्वेन ददौ न तु कपोतमिति श्येनकपोतीये आख्याने श्रूयते। तथाहि–इन्द्राग्नी श्येनकपोतरूपौ भूत्वा शैब्यौदार्यजिज्ञासया भक्षकभक्ष्यभावापन्नौ शैब्यसमीपमागतौ। तत्र कपोतोऽभयार्थी शैब्याङ्कं प्रविवेश। तस्मै च सोऽभयं ददौ। ततः श्येनेन मद्भक्षणं दैवविहितं त्यजऽ इत्युक्ते नाहं त्यजेयं, अपि तु तत्प्रतिनिधिमांसमेव ददामिऽइत्युक्ते तर्हि त्वन्मांसमेव मे प्रयच्छ, नान्यत्ऽ इत्युक्ते स्वमांसमपि सर्वं दत्तवानिति कथा। तथा अलर्कश्च राजर्षिः ब्राह्मणायान्धाय वरं प्रतिश्रुत्य, तेन राजचक्षुषा स्वचक्षु प्रतिसन्धाने पृष्टे, स्वचक्षुषी च दत्तवान् ॥ ४३ ॥
इदं चाख्यानं महाभारते वनपर्वणि श्रूयते। श्येनकपोतीये–श्येनकपोतयोः विरोधे प्राप्ते इति गोविन्दराजीये ॥
प्रथमं कपोतप्रतिनिधित्वेन तत्तुल्यं स्वमांसं तुलायां निक्षिप्तवान्। तस्मिन्नपर्याप्ते च अन्ततः स्वयमेव तुलामारोहेति।
राजा–अलर्कः।
॥ २।१२।४३ ॥ ॥ २।१२।४४ ॥
सागरः समयं कृत्वा न वेलामतिवर्तते।
समयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन् ॥ ४४ ॥
सागरः–समुद्रः देवैः प्रार्थितो वेलानतिलङ्घनाय तत् तेभ्यः प्रतिश्रुत्य न वेलामद्याप्यतिवर्तते। अत्र सागरस्य स्ववंश्यखातत्वेन स्ववंश्यत्वाभिमानादुपन्यासः। यदेवं अतः–समयमित्यादि। पूर्ववृत्तं–शैब्यादिवृत्तम् ॥ ४४ ॥
॥ २।१२।४४ ॥ ॥ २।१२।४५४६ ॥
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च।
सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ ॥
भवत्वधर्मो धर्मो वा सहत्यं वा यदि वाऽनृतम्।
यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ ४६ ॥
सिद्धान्दमाह–भवत्वित्यादि। व्यतिक्रमो नास्तीति–अकरणमित्यर्थः ॥ ४६ ॥
सत्यं–समीचीनं, अनृतं–असमीचीनं–गो। नन्वियं रत्यर्था मिथ्यैव मे प्रतिज्ञा तादृशकाले मिथ्यावचनस्य शास्त्रानुमतत्वादिति चेत्तत्राह–सत्यमित्यादि–ति।
॥ २।१२।४५४६ ॥ ॥ २।१२।४७ ॥
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः।
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥
विपक्षे बाधकमाह–अहं हीत्यादि ॥ ४७ ॥
॥ २।१२।४७ ॥ ॥ २।१२।४८ ॥
एकाहमपि पश्येयं यद्यहं राममातरम्।
अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥
अञ्जलिं प्रतिगृह्णन्तीमिति। राजमातृत्वेन सर्वलोकानामिति शेषः ॥ ४८ ॥
॥ २।१२।४८ ॥ ॥ २।१२।४९५२ ॥
भरतेनात्मना चाहं शपे ते मनुजाधिप
यथा नान्येन तुष्येयं ऋते रामविवासनात् ॥ ४९ ॥
एतावदुक्त्वा वचनं कैकेयी विरराम ह।
विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥
श्रुत्वा तु राजा कैकेया वाक्यं परमशोभनम्।
रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ ५१ ॥
नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः।
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥
प्रैक्षतेति। क्रोधादिति शेषः ॥ ५२ ॥
तेतव समीपे, आत्मना–प्राणभूतेत भरतेन शपेऽ इति तिलके। एवं सति भरतेनात्मना वाहंऽ इति पाठः। अन्यथा चकारस्यान्यार्थकत्वं वक्तव्यम्।
परं, अशोभनमिति पदविभागः।
॥ २।१२।४९५२ ॥ ॥ २।१२।५३५४ ॥
तां हि वज्रसमां वाचमाकर्ण्य हृदयच्छिदम्।
दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३ ॥
स देव्या व्यवसायं च घोरं च शपथं कृतम्।
ध्यात्वा रामेति निःश्वस्य छिन्नस्तरुरिवापतत् ॥ ५४ ॥
निःश्वस्येति। अशक्यप्रतिक्रियत्वादिति भावः ॥ ५४ ॥
घोरमिति पूर्वेणान्वेति। तिलके तु–घोरं शपथं–भरतशपथं (भरतेनात्मना वाहं इत्यत्रोक्तं) स्वकृतरामसुकृतादिशपथं वेत्युक्तम्।
॥ २।१२।५३५४ ॥ ॥ २।१२।५५ ॥
नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽऽतुरः।
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ ५५ ॥
विपरीत इति। त्रिदोषजप्रकृतिवैपरीत्य इत्यर्थः। हृततेजा इति। मन्त्रेणेति शेषः ॥ ५५ ॥
॥ २।१२।५५ ॥ ॥ २।१२।५६ ॥
दीनयाऽऽतुरया वाचा इति होवाच कैकयीम्।
अनर्थमिममर्थाभं केन त्वमुपदर्शिता ॥ ५६ ॥
भूतोपहतहचित्तेव ब्रुवन्ती मां न लज्जसे।
न लज्जस इति। पत्युः समक्षमेतादृग्व्यवहारो लोकविगर्हित इति लज्जारहितेति यावत् ॥ ५६ ॥
॥ २।१२।५६ ॥ ॥ २।१२।५७ ॥
शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ ५७ ॥
बालायास्तत्त्विदानीं ते लक्षये विपरीतवत्।
शीलस्य पतिपत्नीप्रयुक्तस्वचरित्रस्य विशेषेण असनं–निरसनम् इदानीं क्रियामाणम् पुरा नाभिजानामि–दुश्शीलेति न जानामि अपि तु सुशीलामेव जानामि। यदेवं पूर्वं ज्ञातं तत् इदानीमेव,विपरीतवत्, स्वार्थे वतिः, बहुश इह विपरीतं लक्षये कार्यवशेनेति शेषः ॥ ५७ ॥
शीलविअसनमिति पदच्छेदो व्याख्यातुरभिमतः। शीलव्यसनं–सद्वृत्तभ्रंशं। व्यसनं विपदि भ्रंशेऽ इत्यमरः–गो। बालाया इति पूर्वार्धेऽन्वेति।
इदानीं–प्रौढावस्थायामपि विपरीतवदित्यर्हार्थे वतिः, विपरीतार्हं–दुश्शीलार्हं लक्षये–ति।
॥ २।१२।५७ ॥ ॥ २।१२।५८ ॥
कुतो वा ते भयं जातं या त्वमेवंविधं नरम् ॥ ५८ ॥
राष्ट्रे भरतमासीनं वृणीषे राघवं वने।
भयं जातमिति। रामादिति शेषः ॥ ५८ ॥
॥ २।१२।५८ ॥ ॥ २।१२।५९ ॥
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ ५९ ॥
यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च।
एतेन–निर्धूतपतिपत्नीभावलक्षणेन भावेन उपलक्षिता त्वं अतो विरम। यदि भर्तुः, लोकस्य, भरतस्य च प्रियं कार्यं–कर्तव्यं इच्छसि। अपि वा त्वं एतेन–अशक्यार्थवरणद्वारकेण अनृतेन–ममानृतसम्पादनकर्मणा सर्वानर्थमूलेन उपलक्षिता त्वं ततो वा विरम, यदि भर्तुः लोकस्य भरतस्य च प्रियं कार्यं–कर्तव्यमिच्छसि। अत्र यद्वा भट्टो बहु जल्पति। तत्र न किञ्चिदपि सङ्गतं पश्यामः। पतञ्जलिवत् प्रौढपक्षान्तरोपन्यास एव तु विपश्चित्प्रेयान् ॥ ५९ ॥
अनृतेन–अनृतपदवाच्येन–गो। पतिविप्रियत्वादिति शेषः।
॥ २।१२।५९ ॥ ॥ २।१२।६० ॥
नृशंसे पापसङ्कल्पे क्षुद्रे दुष्सृतकारिणि ॥ ६० ॥
किन्नु दुःखमलीकं वा मयि रामे च पश्यसि?
अलीकं–अपराधः ॥ ६० ॥
दुःखं–दुःखनिमित्तम्। अलीकं–अप्रियम्गो। दुःखनिमित्तं अलीकं–अपराधम्–ति।
॥ २।१२।६० ॥ ॥ २।१२।६१ ॥
न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ॥ ६१ ॥
रामादपि हि तं मन्ये धर्मतो बलवत्तरम्।
व्यर्थं चेदं मत्कर्शनमित्याह–न कथञ्चिदित्यादि। ऋते रामाद्राज्यं नावसेदित्यनेन यथाभागशः चतुर्णामेव राज्यमनुमन्यस्व, यद्वा भरतस्याभिषेकं, रामस्य केवलं वृद्धस्य मम समीपेऽवस्थानं वाऽनुमन्यस्व, नान्यथा त्वत्प्रयोजनं इत्युपदेशः। नावसेदित्यत्र हेतुः–रामादित्यादि। हीऽ ति पदं ॥ ६१ ॥
धरामतो बलवत्तरंअतिशयेन धर्मवन्तम्–ति
अपिहितंऽ इत्यादिपदच्छेदभ्रान्तिनिवृत्त्यर्थमाह–हीति पदमिति।
॥ २।१२।६१ ॥ ॥ २।१२।६२ ॥
कथं १द्रक्ष्यामि रामस्य, वनं गच्छेति भाषिते ॥ ६२ ॥
मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम्।
उपप्लुतःराहुग्रस्तः ॥ ६२ ॥
रामस्य विवर्णं मुखवर्णं कथं द्रक्ष्यामीत्यन्वयः।
१वक्ष्यसिङ।
॥ २।१२।६२ ॥ ॥ २।१२।६३ ॥
तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ ६३ ॥
कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्।
सुकृतां–सम्यक् प्रवर्तिताम्। तत्र हेतुः–सुहृद्भिः सह निश्चितामिति। बुद्धिं–रामाभिषेकविषयिणीम्। अपावृत्तां–पराभूताम् ॥ ६३ ॥
अपावृत्तां–अधरोत्तरीकृतां, कथं द्रक्ष्यामि अनुभविष्यामि–गो।
॥ २।१२।६३ ॥ ॥ २।१२।६४६५ ॥
किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः।
बालो बतायमैक्ष्वाकः चिरं राज्यमकारयत्।
यदा तु बहवो वृद्धाः गुणवन्तो बहुश्रुताः ॥ ६५ ॥
१परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा।
बालः बत–अज्ञः अयमैक्ष्वाकः चिरं राज्यमकारयत् इति यत् तद्दैवगत्या घुणाक्षरन्यायेन इत्येव वदिष्यन्तीति शेषः। परिप्रक्ष्यन्ति काकुत्स्थमिति। क्व राम इति प्रातरिति च शेषः ॥ ६४६५ ॥
बाल ऐक्ष्वाकः, बत, तादृशः चिरं राज्यमकारयत्किमिति वक्ष्यन्तीत्यर्थः। वस्तुतस्तु पूर्वश्लोकः, छिद्रान्वेषिणां तुल्यकक्ष्याणां राज्ञां, परिहासगर्भितवाक्यरूपः। यदा तुऽ इति द्वितीयश्लोकस्तु स्वहितैषिणां गुणिनां वृद्धानां सानुतापप्रश्नरुपः। एवञ्च प्रथमदिने अभिषेकनिश्चयः, द्वितीयदिन एव प्रवासनं इति समीचीनम् इति परिहासेन बत। अयं बालो रामः चिरं राज्यमकारयत् इत्यादिकं किं वा मां वक्ष्यन्ति इति लज्जा सूचिता। सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यतेऽ इति न्यायात्।ऽ
१परिपृच्छन्ति–ङ।
किमित्यधिक्षेपार्थकः। एवञ्चायमर्थः तात्पर्यवशाल्लभ्यते।
॥ २।१२।६४६५ ॥ ॥ २।१२।६६ ॥
कैकेय्या क्लिश्यमानेन १पुत्रः प्रव्राजितो मया ॥ ६६ ॥
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति।
सत्यपरिपालनवशात् प्रव्राजित इति ब्रूहीत्यत्र–लोकस्तद्वास्तवं न प्रतिगृह्णाति, किन्तु कामहतस्त्रीवचसा प्रव्राजितवानित्येव वदिष्यतीत्याह–कैकेय्येत्यादि। क्लिश्यमानेनेति। प्रव्राजनवरवरणेनेति शेषः। यदि सत्यं ब्रवीमीति। यद्यपि सत्यमेव ब्रवीमि अथापि तदसत्यमेव भविष्यति लोकस्तु न श्रद्दध्यादित्यर्थः ॥ ६६ ॥
१रामःङ।
यद्यपि कैकेय्या क्लिश्यमानेन मया पुत्रः वनं प्रव्राजितः न तु स्वबुध्येति सत्यमेव ब्रवीमि तथापि तदानीं तत्–राममभिषेक्ष्यामीति वचनं असत्यं भविष्यति। तत्तु न युक्तं पूर्वमुक्तत्वात्–गो।
किन्तु स्त्रीव्यामोहेन तथा कृतवानित्येव लोको वदेत् इति भावः।
॥ २।१२।६६ ॥ ॥ २।१२।६७ ॥
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ ६७ ॥
किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्।
किं मामित्यादि। हे राजन् मया मत्पुत्रेण वा किं तेऽपराद्धम्? इति यदा वक्ष्यति तदा एनां प्रति निरुत्तरमेवेत्यर्थः। किञ्चकिन्विति यावत् ॥ ६७ ॥
॥ २।१२।६७ ॥ ॥ २।१२।६८ ॥
यदा यदा च कौसल्या दासीवच्च सखीव च ॥ ६८ ॥
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति।
दासीवदिति–अभिमतान्नपानसम्पादने सखीवदिति–क्रीडायाम् भार्यावदिति–अग्निहोत्रादिधर्मानुष्ठाने भगिनीवदिति–ज्ञानयोगानुष्ठाने मातृवदिति–तत्त्वकथने। उपतिष्ठते–सेवते ॥ ६८ ॥
श्लोकद्वयमेकान्वयम्। यदा यदोपतिष्ठति–तत्तदुचितकृत्येनोपास्ते, तदा तदा सत्कारार्हा त्वत्कृते न सत्कृतेत्यन्वयः–गो।
तिलके एतदनूद्य एवं व्याख्यातम्। दासीव रतिव्यवहारे, सखीवद्रहस्यकथने, भार्यावद्धर्माचरणे, भगिनीवद्धिताशंसने, मातृवद्भोजनदाने इति। गोविन्दराजीये त्वेवं व्याख्यातम्–परिचर्याकाले दासीवत्परिचरति न महिषीत्वं पुरस्करोति। द्यूतक्रीडादिसमये सखीवद्व्यवहरति। धर्मानुष्ठानसमये भार्यावत्–भार्यया यथा वर्तितव्यं तथा वर्तते, न तु महिषीत्वाभिमानेन जोषमास्ते। भार्यान्तरविवाहसमये भगिनीवत्–सोदरीवोपलालयति (न तु त्वमिवाभ्यसूयतीति भावः)। शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीति।
॥ २।१२।६८ ॥ ॥ २।१२।६९ ॥
सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ॥ ६९ ॥
न मया सत्कृता देवी सत्कारार्हा कृते तव।
अस्मत्प्रियः–कामः यस्याः सा तथा। प्रियः पुत्रः यस्याः सा तथा। उक्तस्वभावैः सततं विशेषसत्कारार्हापि, त्वत्कृते–तव वैमनस्यपरिहाराय न सत्कृता ॥ ६९ ॥
अनेन भवतीव कौसल्या न कदापि मे विप्रियमिच्छत्यपीत्युक्तम्।
॥ २।१२।६९ ॥ ॥ २।१२।७० ॥
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ ७० ॥
अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्।
इतानीं–रामविवासने सति। यत् मया, त्वयि सुकृतं–शोभनं कर्म, शुश्रूषालक्षणं कृतं तत् अपथ्यव्यञ्जनोपेतं सद्भुक्तं अन्नं यथा आतुरं–रुग्णं तपति–अन्तर्भावितणिः, तापयति तथा तापयतीति शेषः ॥ ७० ॥
॥ २।१२।७० ॥ ॥ २।१२।७१ ॥
विप्रकारं च रामस्य सम्प्रयाणं वनस्य च ॥ ७१ ॥
सुमित्राऽवेक्ष्य वै भीता कथं मे विश्वसिष्यति।
रामस्य च विप्रकारं–विरोधं त्वन्निमित्तं, वनस्य सम्प्रयाणं च सुमित्रावेक्ष्य रामस्यैवैवंदशत्वे मत्पुत्रस्य का गतिः? इति भीता सती कथं मे वचनं– त्वं सपुत्रा सुखेन तिष्ठऽ इत्यादिवचनं विश्वसिष्यति–न कथमपि ॥ ७१ ॥
विप्रकारं–अभिषेकनिवृत्तिम्–ति। विपरीतप्रकारं–गो। अयं भावः–रामस्य यौवराज्याभिषेके निश्चिते तद्विपरीततया भरताभिषेचनं, न तन्मात्रं रामस्य वनवासं च प्रेक्ष्येति।
॥ २।१२।७१ ॥ ॥ २।१२।७२ ॥
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ ७२ ॥
मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्।
श्रोष्यतीति यत् तत् कृपणं–कष्टं बतेति योजना ॥ ७२ ॥
अप्रियद्वयमेवाह–मां चेत्यादि–ति
॥ २।१२।७२ ॥ ॥ २।१२।७३ ॥
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥ ७३ ॥
हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी।
तदेव सीताकार्पण्यं प्रदर्श्यते–वैदेहीत्यादि। मे–मम रामविवासनादिव्यापारेणं शोचन्ती प्राणान् क्षपयिष्यति ॥ ७३ ॥
मेमदर्थम्। उपलक्षणमेतत्। रामार्थमित्यस्यापिति।
एतच्चाध्याहारमितिभावः
॥ २।१२।७३ ॥ ॥ २।१२।७४ ॥
न हि राममहं दृष्ट्वा १प्रविशन्तं महावने ॥ ७४ ॥
चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्।
सीताया इव ममापि प्राणक्षपणं प्राप्तमित्याह–न हीत्यादि ॥
१प्रवसन्तंङ। च।
॥ २।१२।७४ ॥ ॥ २।१२।७५ ॥
१सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ७५ ॥
सा नूनमिति। सात्वं नूनंध्रुवमित्यर्थः ॥ ७५ ॥
१एतदनन्तरं न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे।ऽ इत्यधिकम्ङ।
॥ २।१२।७५ ॥ ॥ २।१२।७६ ॥
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्।
रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ ७६ ॥
सतीं असतीमिति। पतिमारकत्वेन सर्वथाऽसतीम्। विषसम्पन्नां रूपिणीं–दृष्टिप्रियाम् ॥ ७६ ॥
पूर्वं सतीत्वेन ज्ञातां–इदानीमनेन व्यापारेण असतीं सतीं–असतीत्वेन स्थितां, व्यवस्यामि, कथमिव–रूपिणींदृष्टिप्रियां विषसंयुक्तां मदिरां पीत्वा, नरः, अनन्तरं विकारादिना यथा असतींदुष्टां अध्यवस्यति–गो। ति।
॥ २।१२।७६ ॥ ॥ २।१२।७७ ॥
अनृतैर्बत मां सान्त्वैः सान्त्वयन्तीव १ स्म भाषसे।
गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः ॥ ७७ ॥
सान्त्वैः–इष्टवचनैः। गीतशब्देन–गीतध्वनिना ॥ ७७ ॥
नास्मि विप्रकृता देवऽ इत्यादिवचनानि पूर्वसर्गोक्तान्यत्र विवक्षितानि।
१वङ।
॥ २।१२।७७ ॥ ॥ २।१२।७८ ॥
अनार्य इति मामार्याः पुत्र १विक्रायकं ध्रुवम्।
२विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ ७८ ॥
अनार्यः–पापी इति रथ्यासु विकरिष्यन्तीति। वदिष्यन्तीति यावत्। तत्र हेतुः–पुत्रविक्रायकमिति। ण्वुलि वृद्धावायादेशः। पुत्रेण मूल्येन स्त्रीसुखं क्रीतवानित्यर्थः ॥ ७८ ॥
१विक्रयिणं–ङ।
२धिक्करिष्यन्तिङ।
॥ २।१२।७८ ॥ ॥ २।१२।७९ ॥
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव।
दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ ७९ ॥
यत्र–एतादृशे विषयेऽपि तव वाचः क्षमे यतः अतः पुराकृतमशुभमेव, एवंविधदुःखं–दुःखपरिणामं सत्प्राप्तम् ॥ ७९ ॥
दुःखं कष्टं, कृच्छ्रं कष्टं, अहो कष्टम् अहो कष्टम् इति यावत्ति। वाच इति द्वितीयाबहुवचनान्तम्। क्षमे इति लट उत्तमैकवचनान्तम्। पुरा कृतमशुभं यथा सह्यं, तथा भवद्वाक्यश्रवणमपि मम प्राप्तम्।
इव शब्द एवार्थे। अशुभं–अशुभफलम्ति। गो।
॥ २।१२।७९ ॥ ॥ २।१२।८०८१ ॥
चिरं खलु १मया पापे त्वं पापेनाभिरक्षिता।
अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ ८० ॥
रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये।
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८१ ॥
बाल इवेति योजना ॥ ८१ ॥
१महापापेङ।
॥ २।१२८०।८१ ॥ ॥ २।१२।८२ ॥
मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना।
तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति ॥ ८२ ॥
मयेत्यादि। हि–यस्मात् मया दुरात्मना महात्मा पुत्रः अपितृकःपितृप्रयुक्तराज्यरहितः कृतः, तस्मात् तं–तादृशं तु मामेवायं लोको नूनमाक्रोष्टुमर्हति। आक्रोशो–निन्दा ॥ ८२ ॥
अपितृकः–पितृकृतरक्षणादिरहितःगो। (पित्रभावे यथा स्यात्तथा सम्पन्नमिति भावः।
॥ २।१२।८२ ॥ ॥ २।१२।८३ ॥
बालिशो बत कामात्मा राजा दशरथो भृशम्।
स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ ८३ ॥
तस्या एव प्रकारः–बालिश इत्यादि। प्रस्थापयिष्यति, प्रस्थापयति, प्रातिष्ठिपदिति त्रिकाले च निन्दा द्रष्टव्या ॥ ८३ ॥
॥ २।१२।८३ ॥ ॥ २।१२।८४ ॥
१व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः।
भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८४ ॥
उपकर्शितः–प्रापितकार्श्यः। कृच्छ्रं–जटाद्युपेततया वने तपःक्लेशम् ॥ ८४ ॥
१वेदैश्चङ। च।
॥ २।१२।८४ ॥ ॥ २।१२।८५ ॥
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्।
१स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८५ ॥
नालमित्यादि। प्रव्रजेत्युक्तोऽसौ प्रव्रजामिऽ इत्येतदन्यत् द्वितीयं वचनं वक्तुं नालम्, अहमिव धर्मयन्त्रितत्वात्। अतो बाढमित्येव वक्ष्यति। न तु–“हन्त त्वयाहमिमं यजा इति– स ह नेत्युक्त्वा धनुरादायारण्यमुपादस्थौ” इत्यादिप्रसिद्धरोहितादिराजकुमारवत् पितृवचनलङ्घनं करिष्यतीत्यर्थः ॥ ७५ ॥
१इदमर्धं झ। पुस्तके नास्ति।
ऐतरेयब्राह्मणमिदम् (३३२)। इयमाख्यायिका ऐतरेयब्राह्मणे त्रयस्त्रिंशाध्याये द्वितीयखण्डे दृश्यते। एवं भागवते नवमस्य सप्तमेऽध्यायेऽपि। इयञ्च साऽऽख्यायिका–ऐक्ष्वाको हरिश्चन्द्रो नाम राजा अनपत्यतया दूयमान आसीत्। नारदस्तमभ्येत्योवाच, त्वं पुत्रार्थं वरुणं प्रार्थय “मम पुत्रो यदि जायेत तेनैव पशुना त्वं यजामीति” इति। हरिश्चन्द्रोऽप्येवं प्रार्थयामास। अथ च तस्य पुत्रोऽजनि। तस्य रोहित इति नाम कृतम्। तदवगत्य वरुणः– “सुतो जातः खलु ते, तेन मां यज त्वद्वचनरीत्या” इति पप्रच्छ। हरिश्चन्द्रस्तु पुत्रप्रेम्णा यष्टुमनिछ्छन् “इदानीमेव जातः पुत्रः। दशदिनपर्यन्तमाशौचेन स अशुद्धः। तदनन्तरं यजामि” इत्यवदत्। दशदिनानन्तरं वरुणः पुनरागत्य पप्रच्छ। हरिश्चन्द्रस्तु–पुत्रस्य दन्ताः जायेरन् तदानीमेव सर्वावयवपूर्त्या स यागयोग्यो भवेदित्यवदत्। वरुणः पुनरपि पप्रच्छ दन्तोत्पत्त्यनन्तरम्। तदापि सः इमे दन्ताः न स्थिराः, एतेषां पतनानन्तरं पुनरन्ये दृढा दन्ता जायेरन्। तदा यजामीत्यवदत्। तथैव वरुणः पुनरागच्छत्। तदानीमपि हरिश्चन्द्रः–अयं च बालः। यदायं तरुणः पूर्णवृद्धर्भवति तदैव समीचीनो यागायेत्यब्रवीत्। सोऽपि वरुणः तथैव पुनरागच्छत्। तदानीं तु व्याजान्तरं वक्तुमसमर्थो हरिश्चन्द्रः स्वपुत्रं रोहितमाहूय सर्वं वृत्तान्तमकथयत्। स तु रोहितः पित्रे क्रुद्धः पितृवचनमुल्लंघ्य धनुरादायारण्यं प्रत्यगच्छदिति ॥
॥ २।१२।८५ ॥ ॥ २।१२।८६८७ ॥
यदि मे राघवः कुर्यात् वनं गच्छेति भाषिते।
प्रतिकूलं प्रियं मे स्यात् न तु वत्सः करिष्यति ॥ ८६ ॥
राघवे हि वनं प्राप्त सर्वलोकस्य धिक्कृतम्।
मृत्युरक्षमणीयं मा नयिष्यति यमक्षयम् ॥ ८७ ॥
ततश्च किमित्यत्राह–राघव इत्यादि। अक्षमणीयं–दुस्सहवृत्तम् ॥ ८७ ॥
॥ २।१२।८६८७ ॥ ॥ २।१२।८८ ॥
मृते मयि गते रामे वनं मनुजपुङ्गवे।
१इष्टो मम जनः शेषः किं पापं प्रतिपत्स्यते ॥ ८८ ॥
किं पापं–कीदृशं दुःखम्। मनोवागगोचरमिति यावत् ॥
१इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसेङ। च।
शेषे–अवशिष्टे ममेष्टे कौसल्यादिरूपे जने किं पापंदुःखसाधनं प्रतिपत्स्यसे–करिष्यसि–ति। पापं–अन्यायं प्रतिपत्स्यसे—-चिन्तयसि–गो।
॥ २।१२।८८ ॥ ॥ २।१२।८९ ॥
१कौसल्या मां च रामं च पुत्रौ च यदि हास्यति।
दुःखान्यसहती देवी मामेवानुमरिष्यति ॥ ८९ ॥
तदेव दुःखं दर्शयति–कौसल्येत्यादिना। पुत्रौ चेति। लक्ष्मणशत्रुघ्नाविति यावत्। कौसल्या मां रामं च यदा हास्यति तदा दुःखान्यसहती मामेवानुमरिष्यति, देवी सुमित्रा च लक्ष्मणस्य रामनियतसहगमनात्, इतरस्य च दैवादद्य भरतेन सह गतत्वाच्च, ताभ्यां मया च रहिता सा मामेवानुमरिष्यति ॥ ८९ ॥
१कौसल्यां सुमित्राङ।
हास्यति–हीना भविष्यति। चात्सुमित्रा। यदि पुत्रौ च, चाद्रामं मां च, एतैर्यदि हीना भविष्यति तदा देवी–कौसल्या सुमित्रा चति। गोविन्दराजीये तु–कौसल्यां–इति पाठः। देवी सुमित्रा ॥ अत्र वाक्यशैलीपर्यालोचनायां ९० तमश्लोकदर्शने च त्रयाणां विवक्षा अङ्गीकरणीया। तत्र राघवे हिऽ इत्यत्र स्वदुर्गतिः, मृते मयिऽ इत्यत्र कौसल्यादुर्गतिः, कौसल्यां मां चऽ इत्यत्र सुमित्रादुर्गतिश्चोच्यत इति युक्तम्। एवञ्च कौसल्यांऽ इति पाठः स्वरस इव। एवञ्च जनः–कौसल्यारूपः विवक्षितः। अन्यथा पुत्रौऽ इति द्विवचनान्वयार्थं वाक्यभेदाश्रयणं, देवीऽ पदस्य सुमित्रापरत्वं च शपथमात्रनिर्णेयं स्यादिति।
राज्ञः शोकाविष्टत्वाद्विसंष्ठुलवाक्यप्रयोगो न दोषाय–ति। एवं च वाक्यद्वयात्मकमिदं श्लोकमिति भावः।
॥ २।१२।८९ ॥ ॥ २।१२।९० ॥
कौसल्यां च सुमित्रां च मां च पुत्रैः त्रिभिस्सह।
प्रक्षिप्य नरके स त्वं कैकेयि सुखिता भव ॥ ९० ॥
एवञ्च सति–कौसल्यामित्यादि ॥ ९० ॥
अत्र नरकशब्देन दुःखं लक्ष्यते–गो।
॥ २।१२।९० ॥ ॥ २।१२।९१ ॥
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।
इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ ९१ ॥
मया रामेणेत्यादिः व्यङ्ग्योक्तिः ॥ ९१ ॥
एतावता अक्षोभ्यंइदानीं आकुलं क्षुभितम्। एवं इतरत्रापि।
॥ २।१२।९१ ॥ ॥ २।१२।९२ ॥
प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत्।
१मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ ९२ ॥
रामप्रव्राजनस्य भरतानुमतौ स तु मे शत्रुरेवेत्याशयेनाह–मा कार्षीत्प्रेतकृत्यमिति ॥ ९२ ॥
१एतदनन्तरं– हन्तानार्ये ममामित्रे सकामा भव कैकयिऽ इत्यधिकं–ङ।
॥ २।१२।९२ ॥ ॥ २।१२।९३९४ ॥
मृते मयि गते रामे वनं पुरुषपुङ्गवे।
सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ९३ ॥
त्वं राजपुत्रि दैवेन न्यवसेर्मम वेश्मनि।
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे।
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९४ ॥
राजा पुत्रो यस्याः सा राजपुत्री, तस्याः सम्बुद्धिः। सूतोग्रेऽ इत्यादिना पुत्रार्थपुत्रट्प्रातिपदिकान्तत्वेन दीर्घः। इयमपि व्यङ्ग्योक्तिः। दैवेन मामकदुरदृष्टवशात् मम वेश्मनि न्यवसेर्यदि, अट्ऽ आर्षः, तदा लोके–अप्रत्यक्षोऽपयशः अकीर्तिः परिभवः–महाजनसमक्षं धिक्कारः अवज्ञा–अवमतिः–क्षुद्रत्वेन प्रतिपत्तिः। पापकृतः–महापापकृतः ॥ ९४ ॥
त्वं राजपुत्रीवादेनऽ इति गोविन्दराजीयपाठः ॥ अकीर्त्यादित्रयरूपा त्वं राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवसः–गो।
अत्र न्यवसःऽ इति–तिलके–गोविन्दराजीये च पाठः। यतो न्यवसः–अतः अकीर्तिरित्याद्येतत्सर्वं भविष्यतीति शेषः–ति।
॥ २।१२।९३९४ ॥ ॥ २।१२।९५९६ ॥
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः।
पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९५ ॥
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः।
अहंपूर्वाः पचन्ति स्म १प्रशस्तं पानभोजनम् ॥ ९६ ॥
सूदाः–पाचकाः ॥ ९६ ॥
१प्रसन्नाः–ङ। च
॥ २।१२।९५९६ ॥ ॥ २।१२।९७९९ ॥
स कथं नु कषायाणि तिक्तानि कटुकानि च।
भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति ॥ ९७ ॥
महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः।
काषायपरिधानस्तु कथं रामो भविष्यति ॥ ९८ ॥
कस्यैतद्दारुणं वाक्यं एवंविध २ मचिन्तितम्।
रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ ९९ ॥
रामस्यारण्यगमनं, भरतस्याभिषेचनमित्येवंविधमचिन्तितमेतद्दारुणं वाक्यं–वाक्यश्रवणं, कस्य–कीदृशस्य मम दुष्कर्मणः फलम् ॥ ९९ ॥
कस्य–केनोपदिष्टं, यद्वा–कस्य सह्यमिति शेषःगो। वस्तुतस्तुएतादृशं दारुणं वाक्यं कस्य वा स्यात्–न कस्यापीत्यर्थः। दुःखातिशयादर्धोक्त एव विरामः।
१मपीरितंङ। च।
॥ २।१२।९७९९ ॥ ॥ २।१२।१०० ॥
धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा।
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ १०० ॥
धिगस्त्विति। एवंक्रूरवचना इति शेषः। तमेव विशेषमभिप्रेत्याह–न ब्रवीमीत्यादि ॥ १०० ॥
कौसल्यास्मरणेनाह–ह ब्रवीमीत्यादि।
॥ २।१२।१०० ॥ ॥ २।१२।१०१ ॥
अनर्थभावेऽर्थपरे नृशंसे
ममानुतापाय निविष्टभावे
किमप्रियं पश्यसि १मानिमित्तं
हितानुकारिण्यथ वापि रामे ॥ १०१ ॥
स्वपरानर्थसाधने भावो यस्याः सा तथा। निविष्टोनिवेशितो दुर्भावो यस्याः सा तथा। मन्निमित्तमिति। मन्निमित्तमिति यावत् ॥ १०१ ॥
१अत्र मन्निमित्तमित्येव प्रायः पाठःङ।
॥ २।१२।१०१ ॥ ॥ २।१२।१०२ ॥
परित्यजेयुः पितरोऽपि पुत्रान्
भार्याः पतींश्चापि १ कृतानुरागान्।
कृत्स्नं हि सर्वं कुपितं जगत्स्यात्
दृष्ट्वैव रामं व्यसने निमग्नम् ॥ १०२ ॥
कृतानुरागशब्दः पुत्रपतिभार्याणां त्यागानौचित्यहेतुः–यथोचितविपरिणामः पुत्रादिषु योज्यः। कृतानुरागान्–पुत्रान् त्यजेयुः किं? चऽ अपिऽ शब्दात् पतयश्च कृतानुरागा भार्यास्त्यजेयुः किं? इति योज्यम्। कृत्स्नं रामप्रवाससाधकं त्वद्व्यापारं दृष्ट्वा–रामं च तद्वशाद्व्यसने निमग्नं दृष्ट्वा सर्वं जगत् त्वां प्रत्येव कुपितं स्यात् ॥ १०२ ॥
कुपितं जगत्स्यादित्यत्रोक्तकोपप्रकारमाह–परित्यजेयुरित्यादि। अनेन अनर्थसाधनभाववत्तोपपादिता–ति।
१कृतानुरागाः–ङ।
त्वां प्रतीति शेषः गो।
॥ २।१२।१०२ ॥ ॥ २।१२।१०३ ॥
अहं पुनर्देवकुमाररूपं
अलङ्कृतं तं सुतमाव्रजन्तम्।
नन्दामि १पश्यन्नपि दर्शनेन
भवामि दृष्ट्वा च पुनर्युवेव ॥ १०३ ॥
अन्ततः स्वस्य रामं विना जीवनव्यतिरेकं दर्शयिष्यन् तदन्वये स्वजीवनान्वयं दर्शयति–अहमित्यादि। आव्रजन्तं पश्यन्नहं दर्शनेन तस्य दूरदर्शनेनापि नन्दामि। आगतं अन्तिके दृष्ट्वा चिरवृद्धोऽहं पुनर्युवेव भवामि–युववदतिहृष्टपुष्टान्दर्बहिः परिकरो भवामि ॥ १०३ ॥
१पश्यन्निव–ङ। च।
आव्रजन्तं मत्समीपे आगच्छन्तं श्रुत्वेति शेषः। आगच्छन्तं श्रुत्वा दर्शनेन–चक्षुषा पश्यन्निव नन्दामि–ति। आव्रजन्तं दर्शनेन–मानसज्ञानेन पश्यन्नपि नन्दामि–गो। मत्तमातङ्गगामिनंऽ इत्याद्युक्तरीत्या। अथवा दर्शनेन–चक्षुषा इत्यर्थः। आगच्छन्तं तं मनसा स्मरन्नपि नन्दामीति भावः।
॥ २।१२।१०३ ॥ ॥ २।१२।१०४ ॥
१विना हि सूर्येण भवेत् प्रवृत्तिः
अवर्षता वज्रधरेण वाऽपि।
रामं तु गच्छन्तमितः समीक्ष्य
जीवेन्न कश्चित्त्वति चेतना मे ॥ १०४ ॥
हि शब्दो यद्यप्यर्थे। सूर्येण विना यद्यपि प्रवृत्तिः स्यात्, तथा वज्रधरेणावर्षतापि जीवनमपि यद्यपि स्यात् अथापि राममितो गच्छन्तं वीक्ष्य न कश्चिदप्यनुभूतरामस्वभावो लोको जीवेदिति तु मे चेतना–धीः। लोकस्यैवैवंदशत्वे मदजीवनं कैमुतिकसिद्धम् ॥ १०४ ॥
१विनाऽपिङ। झ।
हिशब्दो अपीत्यर्थेति।
प्रवृत्तिः–सञ्चारः, वज्रधरपक्षे–जीवनविषयप्रवृत्तिः–गो।
॥ २।१२।१०४ ॥ ॥ २।१२।१०५ ॥
विनाशकामामहिताममित्रां
आवासयं मृत्युमिवात्मनस्त्वाम्।
चिरं बताङ्केन भृताऽसि सर्पी
महाविषा तेन हतोऽस्मि मोहात् ॥ १०५ ॥
सर्पी–जातिलक्षणो ङीष्। मोहादङ्केन भृताऽसि इति योजना। तेन अङ्कभरणेन हेतुना ॥ १०५ ॥
॥ २।१२।१०५ ॥ ॥ २।१२।१०६१०७ ॥
मया च रामेण च लक्ष्मणेन
प्रशास्तु हीनो भरतस्त्वया सह।
पुरं च राष्ट्रं च महीं सपर्वतां
ममाहितानां च १ भवाभिहर्षिणी ॥ १०६ ॥
नृशंसवृत्ते व्यसनप्रहारिणि
प्रसह्य वाक्यं यदिहाद्य भाषसे।
न नाम ते केन मुखात्पतन्त्यधः
विशीर्यमाणा २दशनाः सहस्रधा ॥ १०७ ॥
इह–देशे अद्य–काले प्रसह्य–पतिपत्नीभावं तिरस्कृत्य क्रूरं वाक्यं भाषसे यत्, अतोऽवश्यप्राप्तविशरणाः दन्ताः केन नाम हेतुना ते मुखाद्विशीर्यमाणा न पतन्तीति न जान इति शेषः ॥
अहितानां–शत्रूणां अभिभाषणशीला भव, मदाप्तानामभावात्। अभिहर्षिणीति पाठेतेषां हर्षदा भवति।
१भवाभिभाषिणीङ। च।
व्यसनप्रहारिणि–वार्धक्यरूपापदि पुत्रवियोगकारिणिति। व्यसनेरामविरहे पुनः पुनः प्रेरणंप्रहारःगो।
२रसनाङ।
॥ २।१२।१०६१०७ ॥ ॥ २।१२।१०८१०९ ॥
न किञ्चिदाहाहितमप्रियं वचो
न वेत्ति रामः परुषाणि भाषितुम्।
कथं नु रामे ह्यभिरामवादिनि
ब्रवीषि दोषान् गुणनित्यसम्मते ॥ १०८ ॥
प्रताम्य वा प्रज्वल वा प्रणश्य वा
सहस्रशो वा १ स्फुटिता महीं व्रज।
न ते करिष्यामि वचस्सुदारुणं
समाहितं केकयराजपांसने ॥ १०९ ॥
महीं व्रज–अथापि न ते वचः करिष्यामि। आकाशखण्डनवदशक्यार्थत्वादित्याशयः ॥ १०९ ॥
गुणैर्नित्यं सर्वेषां सम्मते।
प्रताम्य–ग्लानिं भज। ताम्यतेर्लोण्मध्यमपुरुषैकवचनम्। एवं प्रज्वल–कुपिता भव। प्रणश्य–नष्टा भव। सहस्रशः स्फुटिता सती, महीं व्रज–मृगोः पत वागो। प्रताम्य–ग्लायस्व। प्रज्वल–अग्निप्रवेशेन प्रणश्यविषेण। कुद्दालप्रहारैः सहस्रशः स्फुटितांकृतगर्तां महीं व्रज वाति।
१स्फुटितांङ। च।
॥ २।१२।१०८१०९ ॥
॥ २।१२।११० ॥
क्षुरोपमां नित्य मसत्प्रियंवदां
प्रदुष्टभावां स्वकुलोपघातिनीम्।
न १ जीवितुं त्वां विषहे २मनोऽरमां
दिधक्षमाणां हृदयं सबन्धनम् ॥ ११० ॥
असत्प्रियंवदां–मिथ्याप्रियवादिनीम्। तदेव प्रकटीकरोति–प्रदुष्टभावामिति। मनसस्त्वरमा–मनोऽरमा। हृदयं सबन्धनमिति। सप्राणं मन इति यावत्, प्राणबन्धनं हि सौम्य मनःऽ इति श्रुतेः, प्राणबन्धनसहितमिति भावः।
त्वां जीवितुं न विषहे। एतादृशी स्त्री नश्यत्वित्येवाशास इति यावत् ॥ ११० ॥
एतावता यत् प्रियंवदत्वं आसीत्, तत् मिथ्येत्यर्थः।
१जीवतींङ।
२ ऽमनोरमांङ।
अमनोरमामिति पदच्छेदः–गो।
॥ २।१२।११० ॥ ॥ २।१२।१११ ॥
न जीवितं मेऽस्ति कुतः पुनः सुखं
विनाऽऽत्मजेना १ त्मवतः कुतो रतिः।
ममाहितं देवि न कर्तुमर्हसि
स्पृशामि पादावपि ते प्रसीद मे ॥ १११ ॥
कुतो रतिरिति–त्वया सहेति शेषः। यदेवं अतो–ममेत्यादि ॥
त्मवताङ।
॥ २।१२।१११ ॥ ॥ २।१२।११२ ॥
स भूमिपालो विलपन्ननाथवत्
स्त्रिया गृहीतो हृदयेऽतिमात्रया।
पपात देव्याश्चरणौ प्रसारितौ
उभावसम्प्राप्य, यथातुरस्तथा ॥ ११२ ॥
इत्यार्षे, श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वादशः सर्गः
स्त्रिया–स्त्रीमूलव्यथया। देव्याः प्रसारितौ चरणावित्यनेन, पत्यौ राजनि चाधमर्णदासदृष्टिरिति द्योत्यते। असम्प्राप्य पपातेत्यनेन पस्पृक्षोरपि चित्तमूर्छाजनितवैवश्यं द्योतितम्। आखुकाय (११२ १२) मानः सर्गः ॥ ११२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वादशः सर्गः।
॥ २।१२।११२ ॥