०११ कैकेय्याः वरयाचना

एकादशः सर्गः

[वरद्वयनिर्बन्धः] ॥ २।११।१२ ॥

तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।

उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ १ ॥

नास्मि विप्रकृता देव केनचि१न्नावमानिता।

अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ २ ॥

अथ “व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरं” इति मन्थरोपदेशानुष्ठानम्। विप्रकृता–अभिभूता। मे कश्चिदभिप्रायः–अभिप्रार्थनीयोऽस्ति त्वदेकसम्पाद्यः तं त्वया कृतंसम्पादितं कर्तुं, इच्छामि ॥ २ ॥

१न्न विमानिताङ।

विप्रकृता–रोगग्रस्ता–गो। विप्रकृता–अपकृता ॥

॥ २।११।१२ ॥ ॥ २।११।३ ॥

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि।

अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ ३ ॥

यदि त्वं तं कर्तुमिच्छसि, तदा प्रतिज्ञां–अवश्यकर्तव्यविषयिणीं प्रतिजानीष्व यदि सम्प्रश्ने लोट्, अथ–अनन्तरं यन्मयाभिप्रार्थितं तद्व्याहरिष्यामि ॥ ३ ॥

॥ २।११।३ ॥ ॥ २।११।४ ॥

तामुवाच महाराजः कैकेयीमीषदुत्स्मितः।

कामी हस्तेन सङ्गृह्य मूर्धजेषु भुवि स्थिताम् ॥ ४ ॥

उत्स्मित इति। अभिप्रेतकरणमीषत् कृत्यमित्याशयेनोत्स्मयः। मूर्धजेषु सङ्गृह्योवाचेति। शिरोऽङ्के कृत्वोवाचेति यावत् ॥ ४ ॥

॥ २।११।४ ॥ ॥ २।११।५ ॥

अवलिप्ते न जानासि त्वत्तः प्रियतरो मम।

मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ ५ ॥

अन्यो मनुजो न विद्यत इति न जानासि? इति योजना ॥ ५ ॥

स्त्रीणां मध्ये त्वत्तः, पुंसां मध्ये रामादन्यःऽ इति योज्यम्। यद्वा–त्वत्तोऽधिकः (रामादन्यः) प्रियतरो नेत्यर्थः। रामेऽस्याः द्वेषमजानत इयमुक्तिः। राम एव त्वत्तोऽधिकः प्रिय इत्याशयः–ति। अवलिप्ते–सौभाग्यगर्विते स्त्रीणां मध्ये त्वत्तः प्रियतमा नास्ति, रामादन्यो मनुजः प्रियतमो न विद्यत इति न जानासि?–गो।

॥ २।११।५ ॥ ॥ २।११।६ ॥

तेनाजय्येन मुख्येन राघवेण महात्मना।

शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ ६ ॥

अजय्येनेति। अशक्यजयेनेत्यर्थः। क्षय्यजय्यौ शहक्यार्थेऽ इति निपातः। ते–तुभ्यम्। शप इति। शप उपालम्भेऽ इत्यात्मनेपदम्। जीवनार्हेण–मम जीवनसाधनभूतेन। एतेन परमप्रियत्वं प्रकाशितम् ॥ ६ ॥

शप आक्रोशेऽ इति धातोः स्वरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम्। अकर्तृगेऽपि फले अनेन वार्तिकेन आत्मनेपदं विहितम्।

जीवनार्हेण–जीवनादपि पूज्येन–गो।

॥ २।११।६ ॥ ॥ २।११।७ ॥

यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम्।

तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ ७ ॥

तदेव परमप्रियत्वं दर्शयति–यमित्यादि ॥ ७ ॥

॥ २।११।७ ॥ ॥ २।११।८ ॥

आत्मना वाऽऽत्मजैश्चान्यैः वृणे यं मनुजर्षभम्।

तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ ८ ॥

आत्मना–आत्मसुकृतेन आत्मजैः–तत्सुकृतपरिपाकैः अन्यैः–सर्वप्राणिसुकृतैश्च यं मनुजर्षभं अभिषेकेन भूष्णुं वृणे, तेनेत्यादि। वचनक्रियां–वचनानुष्ठानम् ॥ ८ ॥

आत्मना–स्वेन, अन्यैरात्मजैः पुत्रैरपि यं वृणे, असमं जाने। सर्वतोऽधिकं प्रियं जान इति यावत्–ति। आत्मना–स्वदेहेन। आत्मजैः भरतादिभिः, अन्यैश्च प्रियबंधुभिश्च, मूल्यभूतैरेतैर्यं रामं वृणे। सर्वान् परित्यज्यापि राममेव परिगृह्णामीति यावत्। गो। वस्तुतस्तु–वधार्ह इतिवत् जीवनाय–जीवनदानायापि–अर्हः–योग्यः इति जीवनार्ह इति स्यात्। न तावन्मात्रं, किन्तु सर्वस्वदानायाप्यर्ह इत्याह–आत्मनेत्यादीति।

॥ २।११।८ ॥ ॥ २।११।९ ॥

भद्रे हृदयमप्येतदनुमृश्योद्धरस्व १मे।

एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ ९ ॥

हे भद्रे यदेतन्मे हृदयं–अभिप्रायः, सर्वथा त्वद्वचनक्रियाविषयकं तत् अनुमृश्य–विचार्य, त्वदभीष्टकथनेन मामुद्धरस्व–अस्माद्दुःखादुद्धर। अपि च एतन्मदुद्धरणमपि कर्तव्यं? न वा? इति च समीक्ष्य–विचार्य, अतः परं यत्साधु मन्यसे तत् ब्रूहि। न हि वैधव्ये ते किञ्चित् सुखमस्ति। अतो मद्दुःखनिवृत्तये त्वदिष्टं ब्रूहि ॥

१माम्ङ।

एतत्–वाङ्मनसयोरैकरूप्यम्–गो। एतत्–रामस्य मत्प्रियतमत्वं समीक्ष्य यत्साधु मन्यसे तद्ब्रूहि–ति। अयमाशयः– भद्रे–त्वयि रामे च विद्यमानं मत्प्रीत्यतिशयं विचिन्त्य मम दुःखमुद्धरऽ इति प्रार्थितापि कैकेयी न स्वस्वभावं मुमोचेति। तदेतदुच्यते–सा तदर्थमना इत्यादिना। इति ॥

॥ २।११।९ ॥ ॥ २।११।१० ॥

बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि।

करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ १० ॥

नात्र सिद्धिशंका कर्तव्येत्याह–बलमित्यादि ॥ १० ॥

॥ २।११।१० ॥ ॥ २।११।११ ॥

सा तदर्थमना देवी तदभिप्रायमागतम्।

निर्माध्यस्थ्यात्प्रहर्षाच्च बभाषे १दुर्वचं वचः ॥ ११ ॥

तदर्थमनाः–तस्मिन्–निजाभिमतेऽर्थे मनः–यस्याः सा तथा, तदभिप्रायं–स्वाभिमतार्थसम्पादनाभिप्रायं आगतं–प्राप्तं ज्ञात्वा, दुर्वचमपि वचः निर्माध्यस्थ्यात्–स्वपुत्रपक्षपातात् सर्वथा राज्ञः स्ववशत्वदर्शनजात् हर्षाच्च बभाषे ॥ ११ ॥

१दुस्सहंङ।

॥ २।११।११ ॥ ॥ २।११।१२ ॥

तेन वाक्येन संहृष्टा तमभिप्राय १ मात्मनः।

व्याजहार महाघोरं अभ्यागतमिवान्तकम् ॥ १२ ॥

तेन वाक्येनेति। त्रिवाचा रामशपथपूर्वकस्ववचनक्रियाप्रतिज्ञावाक्येन संहृष्टा तं–उत्तररूपमात्मनोऽभिप्रायं अभ्यागतमन्तकमिव घोरं–राज्ञः प्राणहरं व्याजहार–व्याहर्तुं निश्चितवतीति यावत् ॥

१मागतं–ङ।

॥ २।११।१२ ॥ ॥ २।११।१३ ॥

यथाक्रमेण शपसि वरं मम ददासि च।

तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः १साग्निपुरोगमाः ॥ १३ ॥

अथ राजप्रतिज्ञायाः, तद्दुष्करघोरार्थविषयतः विपरिवृत्तिशंकया तत्प्रतिज्ञामशेषसाक्षीकरणेन स्थिरीकरोति–यथाक्रमेणेत्यादि। अतिप्रियपुत्रसुकृतादिपरिग्रहक्रमेण शपसि तत्पूर्वकं वरं मे ददासि च–अभीष्टं दातुं निश्चितवानसि नात्र सन्देहः किल। तदेतत्त्वन्निश्चयं देवादयः शृण्वन्तु ॥ १३ ॥

१सेन्द्रङ।

॥ २।११।१३ ॥ ॥ २।११।१४ ॥

चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।

जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥ १४ ॥

जगत्–परोक्षस्वर्गादिभुवनं, विष्टपं भुवनं जगत्ऽ, पृथिवीप्रत्यक्षभुवनदेवता ॥ १४ ॥

॥ २।११।१४ ॥ ॥ २।११।१५१७ ॥

निशाचराणि भूतानि गृहेषु गृहदेवताः।

यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ १५ ॥

सत्यसन्धो महातेजाः धर्मज्ञः सुसमाहितः।

वरं मम ददात्येषः तन्मे शृण्वन्तु देवताः ॥ १६ ॥

इति देवी महेष्वासं परिगृह्याभिशस्य च।

ततः परमुवाचेदं वरदं काममोहितम् ॥ १७ ॥

इति–उक्तप्रकारेण देवी, महेष्वासं–राजानं, पारगृह्यपरिवर्तनात् स्थिरीकृत्य अभिशस्य– सत्यसन्धःऽ इत्यादिना स्ववचनकृतिस्थैर्यायैवाभिशस्य च ॥ १७ ॥

॥ २।११।१५१७ ॥ ॥ २।११।१८ ॥

स्मर राजन् पुरावृत्तं तस्मिन् १दैवासुरे रणे।

तत्र २चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ १८ ॥

परमुवाचेति किमुवाचेत्यत्राह–स्मरेत्यादि। तत्र च रणे–रात्रियुद्धे, शत्रुः–शंबरः तव जीवितमन्तरा–प्राणं विना त्वां अच्यावयत्–प्रच्युतवीर्यमकरोत् ॥ १८ ॥

१देवासुरेङ। च।

२त्वां च्यावयत्–ङ। च।

अन्तरा–मध्ये तव जीवितं अच्यावयत्–अचालयत्। मूर्छां प्रापितवानित्यर्थःगो।

अडभावः आर्ष इति तिलके। गोविन्दराजीये तु तत्र त्वच्यावयत्ऽ इति पाठः।

॥ २।११।१८ ॥ ॥ २।११।१९ ॥

तत्र चापि मया देव यत्त्वं समभिरक्षितः।

जाग्रत्या यतमानायाः, ततो मे प्राददा वरौ ॥ १९ ॥

तत्र चापि जाग्रत्याः–त्वज्जीवनाय यतमानायाः, व्यत्ययात्पञ्चमी, मया हे देव त्वं समभिरक्षितोऽसीति यत्–तत एव हेतोः मे–मह्यं द्वौ वरौ प्राददाः ॥ १९ ॥

जाग्रत्या मया यद्यतः त्वं समभिरक्षितः ततः स्वजीवनाय ममऽ ति। यतमानायाः–सारथ्ये यत्नं

कुर्वाणायाःगो।

॥ २।११।१९ ॥ ॥ २।११।२० ॥

तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम्।

तवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥ २० ॥

त्वया दत्तौ तौ तु मे निक्षेपभूतौ वरौ अद्य उद्धर्तुं मृगयामि–अन्वेषयामि। हे सत्यसङ्गर ॥ २० ॥

तवैव सकाशे निक्षेपभूतौ–ति। गो।

॥ २।११।२० ॥ ॥ २।११।२१ ॥

तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम्।

अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २१ ॥

धर्मेण मे वरं प्रतिश्रुत्य तद्दास्यसि न चेत् तवैव सकाशे अद्यैव जीवितं प्रहास्यामि ॥ २१ ॥

॥ २।११।२१ ॥ ॥ २।११।२२ ॥

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः।

१प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २२ ॥

वागित्यादि। प्रचस्कन्द–स्कन्दिर् गतिशोषणयोः, इह गत्यर्थः। कैकेय्या स्वसुभगत्वनिमित्तकाममोहेन स्ववशे कृतो राजा वाङ्मात्रेण–पूर्वकालीनवरदानप्रतिवचनमात्रेणैव अप्रयासतः सिद्धं पाशं–सत्यपाशं आत्मन इह लोके नाशाय सम्पन्नं मृग इव प्रचस्कन्द–प्रगतवान्। अन्तर्भावितणित्वाश्रये तु–न्यायत एवं पाशं प्रापितवान् इति पाङ्क्तोऽर्थः ॥ २२ ॥

वाङ्मात्रेण–पूर्वदत्तवरस्मारकवचनमात्रेण स्ववशे कृतः राजा–मृगशब्दानुकारिणा लुब्धककथितेन वाङ्मात्रेण मृग इव बद्धः–गो।

१प्रविवेशङ।

प्रचस्कन्द–धर्मपाशं गतवान्। यद्वा वागुरां प्राप्तो मृग इव शोषणं प्राप्तःगो। तत्प्रतिवचनदानरूपं पाशं गतवान्ति।

॥ २।११।२२ ॥ ॥ २।११।२३ ॥

ततः परमुवाचेदं वरदं काममोहितम्।

वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥ २३ ॥

तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः।

तावद्यैव वक्ष्यामि– मे–मम दातव्यवराविमौऽ इति वक्ष्यामि। तन्मे वरवरणवचः शृणु ॥ २३ ॥

॥ २।११।२३ ॥ ॥ २।११।२४ ॥

योऽभिषेकसमारम्भो राघवस्योपकल्पितः ॥ २४ ॥

अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्।

किन्तदित्यतः–योऽभिषेक इत्यादि। यः कल्पितः अनेनैवेति योजना ॥ २४ ॥

॥ २।११।२४ ॥ ॥ २।११।२५२७ ॥

यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥ २५ ॥

तदा १दैवासुरे युद्धे तस्य कालोऽयमागतः।

नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ २६ ॥

चीराजिनजटाधारी रामो भवतु तापसः।

भरतो भजतामद्य यौवराज्यमकण्टकम् ॥ २७ ॥

चीरं–वल्कलम् ॥ २७ ॥

१देवासुरे–ङ। च।

रामवनवासवरणस्य फलं सूचयति–अकण्टकमिति ॥

॥ २।११।२५२७ ॥ ॥ २।११।२८ ॥

एष मे परमः कामो दत्तमेव वरं वृणे।

अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ २८ ॥

दत्तमेव वरं वृण इति। न त्वन्यायेन त्वां निर्बध्नामीदानीम्। न ह्युत्तमर्णेनाधमर्णात् (ऋण) ग्रहणं तस्य तत्काले पीडेत्येतावता न दोष इत्याशयः ॥ २८ ॥

॥ २।११।२८ ॥ ॥ २।११।२९ ॥

स राजराजो भव सत्यसङ्गरः

कुलं च शीलं च हि रक्ष जन्म च।

परत्र वासे हि वदन्त्यनुत्तमं

तपोधनाः सत्यवचो हितं नृणाम् ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकादशः सर्गः।

इममेवार्थं स्पष्टमुपदिशति–स राजराज इत्यादि। राजराजः–प्रसिद्धः। स त्वं सत्यसङ्गरो भव। तेनैव हेतुना कुलादिकं रक्ष। सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह–परत्रेत्यादि। धरा (२९) मानः सर्गः ॥ २९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकादशः सर्गः।

॥ २।११।२९ ॥