दशमः सर्गः
[कैकेय्यनुनयः]
॥ २।१०।१ ॥
विदर्शिता यदा देवी कुब्जया पापया भृशम्।
तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥ १ ॥
अथ उक्तक्रोधानुवादपूर्वं राज्ञः कैकेयीदर्शनतदनुनयप्रतिपादनम्–विदर्शितेत्यादि। विपरीतं बोधिता। दिग्धा–विषलिप्ता, विद्धा–कृतशस्त्रादिवेधा, दिग्धा चाकौ विद्धा च दिग्धविद्धा, मयूरव्यंसकादित्वात्समासः। किन्नरी–कामभोगप्रधानदिव्यरूपदेवजातिविशेषः ॥
दिग्धविद्धा–विषदिग्धबाणविद्धा–ति। गो। विषाक्ते दिग्धलिप्तकौऽ इत्यमरः। कतककारोऽपि अत्रैव २६ श्लोके एवमेव व्याचख्यौ।
॥ २।१०।१ ॥ ॥ २।१०।२ ॥
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी।
मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २ ॥
निश्चित्येत्यादि। सा मन्थरोक्तं कृत्यं सम्यगिति निश्चित्य मन्थरायै वचसा च “त्वदुक्तमेव हितम्” इत्याचचक्ष इत्यर्थः ॥ २ ॥
॥ २।१०।२ ॥ ॥ २।१०।३ ॥
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता।
नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ ३ ॥
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्।
अस्यैव प्रपञ्चनं–सा दीनेत्यादि। मार्गं–मन्थरोक्तमार्गं आत्मसुखावहमिति मुहूर्तं मनसा चिन्तयामास। वाचा च तदोवाच। मन्थराया इति शेषः ॥ ३ ॥
दीना–दैववञ्चिता स्वानर्थमपि न जानातीति।
सा दीना निश्चयं कृत्वाऽ इत्यारभ्य एतत्पर्यन्तं पादत्रयं “निश्चित्य मनसा कृत्यं৷৷৷৷ ৷৷। आचचक्षे विचक्षणा” ॥ २ ॥ इति श्लोकात्पूर्वं निवेशनीयम्। तच्छलोक “आचचक्षे” इति स्थितेः। उत्तरश्लोके निशम्यऽ इति स्थितेश्च–गो।
॥ २।१०।३ ॥ ॥ २।१०।४ ॥
सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥ ४ ॥
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा।
यदेवमुवाच, अतः सा तन्निशम्य परमप्रीता बभूव। सिद्धिः–रस १ साधनादिसिद्धिः ॥ ४ ॥
सिद्धिं–निश्चयफलम्–गो।
१रसायनादिसिद्धिः–क।
॥ २।१०।४ ॥ ॥ २।१०।५ ॥
अथ साऽमर्षिता देवी सम्यक्कृत्वा विनिश्चयम् ॥ ५ ॥
संविवेशाबला भूमौ निवेश्य भ्रकुटीं मुखे।
भ्रुकुटी–क्रोधजो मुखविकारविशेषः ॥ ५ ॥
॥ २।१०।५ ॥ ॥ २।१०।६७ ॥
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ ६ ॥
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे।
तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ ७ ॥
अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥
कैकेय्या अपविद्धानि–उत्सृष्टानि, यान्यपविद्धानि तानीति योजना ॥ ७ ॥
॥ २।१०।६७ ॥ ॥ २।१०।८ ॥
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥ ८ ॥
एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी।
गतसत्त्वा–क्षीणबला ॥ ८ ॥
॥ २।१०।८ ॥ ॥ २।१०।९ ॥
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ॥ ९ ॥
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्।
एवं राज्याभिषेकदिवसात् पूर्वरात्रिप्रदोषवर्तिकैकेयीवृत्तान्तमुपवर्ण्य तत्रत्यं राजवृत्तान्तं वर्णयितुमुपक्रमते–आज्ञाप्येत्यादिना। अभिषेचनमिति। श्वोऽभिषेचनं यदाज्ञापनीयं–तत्सर्वमिति शेषः। उपस्थानमिति। १कृतप्रस्थापनमन्त्रिपुरोहितादेः २तत्कालं स्वस्वगृहं प्रत्यु पस्थापनं गमनं–अनुज्ञाप्य स्वनिवेशनं प्रविवेश ॥ ९ ॥
१कृताज्ञापनमन्त्रि–क।
२तावत्कालं–ग।
उपस्थानं–आस्थानं–सद इत्यर्थः–गो। ति। यद्वा पञ्चमसर्गे वसिष्ठेनाभ्यनुज्ञातःऽ इत्युक्तत्वात् वसिष्ठ एवोपस्थानशब्देनोच्यते–गो। अथवा वसिष्ठात् स्वोपस्थानमनुज्ञाप्य–स्वप्रस्थानाय वसिष्ठानुमतिं प्राप्येति यावत्।
॥ २।१०।९ ॥ ॥ २।१०।१० ॥
अद्य रामाभिषेको वैप्रसिद्ध इति जज्ञिवान् ॥ १० ॥
१प्रियार्हा प्रियमाख्यातुं विवेशान्तःपुरं वशी।
अद्येति–श्वः सन्निहितो रामाभिषेककालः परामृश्यते। अद्य एव रामाभिषेकः प्रसिद्धः–सर्वथा निश्चित इति जज्ञिवान्। अत एव निश्चितप्रियार्हां–कैकेयीं प्रति तत्प्रियमाख्यातुं अन्तःपुरं प्रविवेश। वशीति स्वस्त्रीव्यतिरिक्तविषये ॥ १० ॥
प्रसिद्ध इति। अद्यैव रामाभिषेकः प्रसिद्धः इतः पूर्वं कैकेय्याः श्रोतुमवकाशो नास्तीति तस्या आख्यातुं जगाम–गो।
१प्रियायै–ङ।
निश्चितस्य रामाभिषेकस्य कथनाय अर्हामित्यर्थः।
वशीति। वशः–इच्छा कामःवशकान्तौभावे अप्–वशिरण्योरुपसङ्ख्यानंऽ, स अस्यास्तीति वशीकामी सकामबलसंयुक्तःऽ इत्युत्तरानुसारात्।
॥ २।१०।१० ॥ ॥ २।१०।११ ॥
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥ ११ ॥
पाण्डराभ्रमिवा १ काशं राहुमुक्तो निशाकरः।
आ समन्तात् काशमानं पाण्डराभ्रं–श्वेताभ्रमिव, राहुमुक्तो निशाकर इव च भासमानम्। अभ्यां सुधाधावल्याह्लादकत्वं ख्यापितम् ॥ ११ ॥
पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरःऽ इत्येव बहुषु पाठः। अत्र गृहस्य रुष्टकैकेयीयुक्ततया सुधाधवलतया च राहुयुक्तपाण्डराभ्राकाशसादृश्यंऽ –ति। स्वबाधककैकेयीयुक्तत्वाद्राहुयुक्तमित्युक्तंऽ–गो। राहुश्चन्द्रमसमिव कैकेयी राजानं ग्रसिष्यतीति सूच्यते ॥
१काशे–ङ
॥ २।१०।११ ॥ ॥ २।१०।१२ ॥
शुकबर्हिणसङ्घुष्टं कौञ्चहंसरुतायुतम् ॥ १२ ॥
वादित्ररवसंङ्घुष्टं कुब्जा १ वामनकायुतम्।
आयुतं–अत्यन्तसम्पृक्तम्। कुब्जाभिः वामनकैश्च आयुतं–तथा ॥ १२ ॥
अथ दशरथस्य कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्तःपुरे दर्शयति–शुकेत्यादि। संघुष्टं–अनुनादितम्–गो।
१वामनिका–ङ।
॥ २।१०।१२ ॥ ॥ २।१०।१३१५ ॥
लतागृहैश्चित्रगृहैः चम्पकाशोकशोभितैः ॥ १३ ॥
दान्तराजतसौवर्णवेदिकाभिः समायुतम्।
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥ १४ ॥
दान्तराजतसौवर्णैः संवृतं परमासनैः।
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ १५ ॥
१उपपन्नं महार्हैश्च भूषणैस्त्रिदिवौपमम्।
दन्तादिविकाराः वेदिकास्तथा। नित्यपुष्पादिमत्वं वृक्षाणां दशरथस्य देवसाह्यकृन्महाराजत्वात्, स्वर्गादेवानीतदिव्यवृक्षत्वात् तदपि सम्भाव्यं, कृष्णपारिजातानयनवत् ॥ १५ ॥
नित्यपुष्पफलैरिति–वृक्षाणां नित्यपुष्पफलत्वं च देवराजसाहाय्यकरणेन तत्प्रसादात्–ति।
नित्यपुष्पफलैरिति। दोहदविशेषादिति ज्ञेयम्–गो।
१एतदनन्तरं विवेशान्तःपुरं राजा सिंहो गिरिगुहामिवऽ इत्यधिकं–ङ।
॥ २।१०।१३१५ ॥ ॥ २।१०।१६१७ ॥
तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ १६ ॥
न ददर्श प्रियां भार्यां कैकेयीं शयनोत्तमे।
स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥ १७ ॥
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च।
कामबलं–काममोहबलं तत्संयुक्तस्तथा। अत एव रत्यर्थमन्विष्य दयितां अपश्यन् पप्रच्छ, विषसाद चेति ॥ १७ ॥
उद्दीपनदर्शनादुचितकालत्वाच्च कामबलसंयुक्तः–गो।
॥ २।१०।१६१७ ॥ ॥ २।१०।१८ ॥
न हि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ १८ ॥
न च राजा गृहं शून्यं प्रविवेश कदाचन।
तां वेलामिति। कामवसात् स्वशयनागमनवेलामिति यावत् ॥
विषादहेतुमाह–नहिति।
॥ २।१०।१८ ॥ ॥ २।१०।१९ ॥
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ १९ ॥
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम्।
अपण्डितां कैकेयीं स्वार्थलिप्सुमविज्ञाय, यथापुरं–अनतिक्रमेऽव्ययम्, “अव्ययीभावश्च” इति नपुंसकत्वाद्ध्रस्वत्वम्, यथापूर्वं–यथा अदर्शनकाले पृच्छति तथा प्रतीहारीं पृच्छति स्म ॥
अपण्डितां कार्याकार्यविवेकरहितां–ति। स्वव्यापारस्य कीदृशं फलं स्यादिति विवेकशून्यामिति यावत्।
॥ २।१०।१९ ॥ ॥ २।१०।२०२१ ॥
प्रतीहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः ॥ २० ॥
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता।
प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥ २१ ॥
विषसाद पुनर्भुयो लुलितव्याकुलेन्द्रियः।
भूयःअभ्यधिकं विषसादेति। अदर्शनमात्रेण प्रथमं प्राप्तविषादस्य क्रोधागारप्रवेशश्रवणाद्विषादाधिक्यम्।
लुलितत्वं चक्षुरादेरिन्द्रियस्य। व्याकुलितत्वमान्तरेन्द्रियस्य। इष्टाया अदर्शनजो विषादश्चक्षुरादेः। चित्तस्य तु, किन्निमित्तजः क्रोध इति १शोकाकुलि तत्वम् ॥ २१ ॥
लुलितानि–घूर्णितानि, व्याकुलानि–स्वविषयग्रहणासमर्थानि–गो।
१शंकाकुलितत्वम्ग।
॥ २।१०।२०२१ ॥ ॥ २।१०।२२ ॥
तत्र तां पतितां भूमौ शयानामतथोचिताम् ॥ २२ ॥
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः।
अतथोचिताम्–तथाशयनानुचितामिति यावत् ॥ २२ ॥
॥ २।१०।२२ ॥ २३मिस्सेद्
॥ २।१०।२४ ॥
स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्।
अपापः पापसङ्कल्पां ददर्श धरणीतले।
लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ २४ ॥
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा।
विनिष्कृत्तां–छिन्नाम्, सुडार्षः। निर्धूताम्–धूञ् कम्पने, पतितामिति यावत् ॥ २४ ॥
रामाभिषेकसंरंभे सपत्नीमातुः क्रोधस्तन्निमित्त एवेत्यपि कुतो राजा न ज्ञातवानित्यत्राह–स वृद्ध इत्यादि। अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भावः–गो।
॥ २।१०।२४ ॥
॥ २।१०।२५२६ ॥
१मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥ २५ ॥
करेणुमिव दिग्धेन विद्धां मृगयुना वने।
महागज इवारण्ये स्नेहात् २परिममर्श ताम् ॥ २६ ॥
संयताम्–बद्धाम्। दिग्धेन–विषलिप्तबाणेन ॥ २६ ॥
१वामीमिव–ङ।
मृगयुना–व्याधेन–गो।
महागज इति। करेणुमित्यनुषज्यते।
२परमदुःखिताम्–ङ।
॥ २।१०।२५२६ ॥ ॥ २।१०।२७ ॥
१परिमृश्य च पाणिभ्यां अभिसन्त्रस्तचेतनः।
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥
किं वदिष्यति? किं करिष्यति? इत्यभिसन्त्रस्ता चेतना–धीर्यस्य स तथा ॥ २७ ॥
१परिमृज्यङ।
॥ २।१०।२७ ॥ ॥ २।१०।२८ ॥
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्।
देवि केनाभि १ युक्ताऽसि केन वाऽस्यवमानिता ॥ २८ ॥
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु।
क्रोधं–क्रोधकारणम्। आत्मनि–मयि। अभियुक्ता–कृताभियोगा। अभियोगः–पराभवः। अवमानं–निन्दा मम दुःखसम्पादनाय शेष इति यदिदमस्ति, अतः केनाभियुक्तेत्यादि योजना ॥ २८ ॥
१शप्ताऽसि–ङ।
अभिशप्ता–परुषिता–गो। अभियोगः–कलहाह्वानंऽ इति सुधा। अभियुक्ताकलहाय आहूता हठादित्यर्थः ॥
॥ २।१०।२८ ॥ ॥ २।१०।२९ ॥
भूमौ शेषे किमर्थं त्वं मयि१कल्याणचेतसि ॥ २९ ॥
भूतोपहतचित्तेव मम चित्तप्रमाथिनी।
कल्याणचेतसीति। अनपकारिणिऽ इति यावत्। भूतोपहतचित्तेव–ग्रहाभिविष्टेव ॥ २९ ॥
१कल्याणि जीवति–ङ।
मयि कल्याणचेतसि सतिऽ इति सतिसप्तमी। मयि निरपराधे सति किमर्थं मम दुःखाय पांसुषु शेषेऽ इत्यर्थः ॥
॥ २।१०।२९ ॥ ॥ २।१०।३० ॥
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ ३० ॥
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि
कुशलाः–सर्वव्याधिनिवारणकुशलाः। अभितुष्टाः–मदीयसत्कारैरिति शेषः। सर्वशः–सर्वप्रकारेण।
व्याधिमाचक्ष्वेति। व्याधिप्रयुक्तं चेच्छयनमिति शेषः ॥ ३० ॥
॥ २।१०।३० ॥ ॥ २।१०।३१ ॥
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ॥ ३१ ॥
शयनहेतुपक्षान्तरोपन्यासः–कस्य वेत्यादि ॥ ३१ ॥
क्रोधपक्षे परिहारमाह–कस्य वेति। कस्येति तृतीयार्थे षष्ठी। केन वा तेऽप्रियं कृतमित्यर्थः। प्रियाप्रियकारिणोः फलमाह–कः प्रियमिति–गो।
॥ २।१०।३१ ॥ ॥ २।१०।३२ ॥
कः प्रियं लभतामद्य को वा सुमहदप्रियम्।
मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ॥ ३२ ॥
पक्षद्वयनिमित्तोऽपि क्रोधो मास्त्वित्याह–कः प्रियमित्यादि। त्वत्प्रियो दरिद्र इति शेषः। तथा सुमहदप्रियं लभतां–त्वद्विप्रियकारीति शेषः। परिशोषणं–कायक्लेशम् ॥ ३२ ॥
मा रौत्सीः–आत्मनोऽभिप्रायं रुद्धं–गुप्तं मा कार्षीः–ति।
॥ २।१०।३२ ॥ ॥ २।१०।३३३४ ॥
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्।
दरिद्रः को भवेदाढ्यो द्रव्यवान् वाऽप्यकिञ्चनः ॥ ३३ ॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः।
न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ३४ ॥
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि।
आत्मनो जीवितेनापि निर्जीवनेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सहे ॥ ३४ ॥
इदं पदं क। पुस्तके नास्ति।
॥ २।१०।३३३४ ॥ ॥ २।१०।३५ ॥
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ ३५ ॥
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे।
आत्मनि–मयि बलं–दुष्करस्यापि सम्पादनसामर्थ्यं शङ्कितुं–न सिध्यति? वा? इति शङ्कां कर्तुम् ॥ ३५ ॥
बलमिति। आत्मनि–स्वस्मिन्, बलं–मत्प्रेमरूपं जानन्ती अयं मदुक्तं करिष्यति न वा?ऽ इति मां शङ्कितुं नार्हसि ॥ ति। आत्मनि बलं–त्वयि विद्यमानं वाल्लभ्यबलं–गो।
॥ २।१०।३५ ॥ ॥ २।१०।३६ ॥
यावदावर्तते चक्रं तावती मे वसुन्धरा ॥ ३६ ॥
१प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः।
तदेव सामर्थ्यं दर्शयति–यावदावर्तत इति। चक्रंभूचक्रम् ॥ ३६ ॥
चक्रंसूर्यस्य रथचक्रं–आज्ञा वा। गो। चक्रंसूर्यमण्डलं, आवर्ततेप्रकाशयतिति।
१द्राविडाः सिन्धुसौवीराःऽ इति पाठान्तरम्। ङ। च।
॥ २।१०।३६ ॥ ॥ २।१०।३७४० ॥
वङ्गाङ्गमागधा मत्स्याः समृद्धाः काशिकोसलाः ॥ ३७ ॥
तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्।
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ ३८ ॥
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने।
तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥ ३९ ॥
तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान्।
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ॥ ४० ॥
परिपीडयितुं भूयो भर्तारमुपचक्रमे ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे दशमः सर्गः।
समाश्वस्ता–सम्प्रापितस्वार्थसिद्धिविस्रम्भा। भूयः पीडयितुमिति। निजभूशयनादिना पीडितमेव पुर्वम्। नव (४०) मानः सर्गः ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे दशमः सर्गः।
॥ २।१०।३७४० ॥