नवमः सर्गः
रामप्रवासनाध्यवसायः
॥ २।९।१ ॥
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना।
दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ १ ॥
एवं तृतीयपर्याये–च्यैष्ठ्यक्रमप्राप्तियुक्तेः भरतराज्यभ्रंशहेतोः उपदेशात्, वैरनिर्यातनरूपस्य स्वदास्यप्राप्तिहेतोश्चोपदेशात्, जन्मप्रभृतिमन्थराया अपि निजहितैषित्वाविशयात्, तादृश्या तया त्रिर्वाचा चोपदिश्यमानत्वात्, दीक्षितपशुगृहन्यायेन पुनःपुनः श्रवणे परमस्वस्थस्याप्यभ्यस्यमानार्थे तात्त्विकत्वबुद्धेः लोकस्वाभाव्यात्, अन्ततः स्वकार्याय देवैरेव चित्तक्षोभस्य सम्पादनाच्च मन्थरावासक्यानुष्ठानमेव हितम्मन्यमाना तन्निर्वाहोपायमनुतिष्ठति। एवमुक्ता त्वित्यादि। क्रोधेन–दास्यप्राप्तिश्रवणजेन ॥ १ ॥
॥ २।९।१ ॥ ॥ २।९।२ ॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।
यौवराज्येन भरतं १क्षिप्रमेवाभिषेचये ॥ २ ॥
प्रस्थापयामि–प्रस्थापयितुमुद्युक्ताऽस्मि। तथा– अभिषेचयऽ इत्यपि ॥ २ ॥
क्षिप्रमद्याभि–ङ। च।
॥ २।९।२ ॥ ॥ २।९।३ ॥
इदं त्विदानीं सम्पश्य केनोपाये १ मन्थरे
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ३ ॥
केवलोत्साहस्याकिञ्चित्करत्वात्तन्निर्वाहोपायं पृच्छति–इदं त्वित्यादि। रामो ज्येष्ठपुत्रः राज्ञोऽतिप्रियश्च। ततस्तस्य विवासनं युष्मदस्मदुत्साहमात्रासाध्यं अत इहोपायं चिन्तयेत्यर्थः ॥ ३ ॥
साधयेङ।
॥ २।९।३ ॥ ॥ २।९।४ ॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी।
रामार्थमुप १ हिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥
रामार्थं–रामाभिषेकरूपप्रयोजनम् ॥ ४ ॥
हिंसन्तींङ।
॥ २।९।४ ॥ ॥ २।९।५ ॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ ५ ॥
ते पुत्र एव केवलं प्राप्स्यति न तु राम इत्यर्थः ॥ ५ ॥
केवलं राज्यं–कृत्स्नं राज्यम्। निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोःऽ–गो।
॥ २।९।५ ॥ ॥ २।९।६ ॥
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ ६ ॥
अहं वक्ष्याम्येवोपायं अपि तु त्वमविज्ञाय पृज्छसि? ज्ञात्वापि मन्मुखाच्छ्रोतुं गोपयसि वा? इति पृच्छति–किं नेत्यादि। उच्यमानमात्मार्थमिति। आत्मप्रयोजनं प्रत्युपायमिति शेषः ॥ ६ ॥
॥ २।९।६ ॥ ॥ २।९।७ ॥
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि
श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ ७ ॥
भवतु यथा तथा वा। मयोच्यमानं तदुपायतत्त्वं श्रोतुं छन्दः–इच्छा यदि, तदा श्रूयताम्। १ छन्द इच्छा वेदपद्येऽ इति कोशः ॥ ७ ॥
१ छन्दः पद्येऽभिलाषे चऽ इत्यमरः।
॥ २।९।७ ॥ ॥ २।९।८ ॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी।
किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥
श्रवणे, श्रुतार्थानुष्ठाने चोत्साहो दर्शितः–उत्थायेत्यादिना ॥ ८ ॥
उत्थानहेतुर्न शय्यादोष इत्याह–स्वास्तीर्णादिति–गो।
॥ २।९।८ ॥ ॥ २।९।९११ ॥
कथय त्वं १ममोपायं केनोपायेन मन्थरे
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ९ ॥
एवमुक्ता तु कैकेय्या मन्थरा पापदर्शिनी।
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ १० ॥
२पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः।
अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत् ॥ ११ ॥
देवासुर इति। येषां च विरोधःऽ इत्येकत्वम्। तत्संबन्धिनीति यावत्। दण्डकान् प्रत्यगच्छत् ॥ ११ ॥
१महोपायंङ।
२पुरा दैवासुरेङ।
अत्र परत्वात् विभाषावृक्षमृगऽ (२४१२) इति प्राप्तं चकारेण बाध्यत इति दीक्षितः। अनेन नित्यत्वमुक्तम्। व्याख्यायां च देवासुराःऽ इत्यत्र नायमेकवद्भावः। तद्विरोधस्य कादाचित्कत्वात्। अमृतादिप्रयुक्तः खलु कादाचित्क एव हि तेषां विरोधः। अमृतमथनकाले तेषां विरोधाभावात्ऽ इत्युक्तम्। युद्धकाण्डे च देवासुराणां क्रुद्धानांऽ (९०२५) इति दृश्यते। अतोऽत्र दैवासुरेऽ इति पाठ एव श्रेयान् देवासुरेऽ इत्येकवद्भावाप्रसक्तेरिति। तयोर्विरोधस्य स्वाभाविकत्वे युक्त एकवद्भावः।
॥ २।९।९११ ॥ ॥ २।९।१२ ॥
दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति।
वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ ॥
यत्र–दण्डकेषु, वैजयन्तमिति पुरं ख्यातम्। तत्र तिमिध्वजो नामाभूत् ॥ १२ ॥
॥ २।९।१२ ॥ ॥ २।९।१३ ॥
स शम्बर इति ख्यातः शतमायो महासुरः।
ददौ शक्रस्य सङ्ग्रामं देङ्सङ्घै १ रनिर्जितः ॥ १३ ॥
स एव लोकप्रसिद्धमायावी शम्बरश्च शक्रस्य सङ्ग्रामं ददाविति–शक्रेण प्रतियुद्धमकरोदित्यर्थः ॥ १३ ॥
१रनिन्दितःङ।
॥ २।९।१३ ॥ ॥ २।९।१४ ॥
तस्मिन् महति सङ्ग्रामे पुरुषान् क्षतविक्षतान्।
रात्रौ प्रसुप्तान् घ्नन्ति स्म १तरसाऽऽसाद्य राक्षसाः ॥ १४ ॥
क्षतविक्षतशब्दौ क्रमाद्भावकर्मणोः। औक्षणु हिंसायाम्। तस्मान्निष्ठायामिडभावः। विक्षतेः टित्वात् अनुदात्तोपदेश–ऽइत्यनुनासिकलोपः। क्षतैः–अस्त्रशस्त्रवधैः विशेषेण विद्धा इत्यर्थः। रात्रौ प्रसुप्तान्–दिवायुद्धश्रान्त्या। तरसा–बलेन ॥ १४ ॥
क्षताः–बाणशूलादिभिः सङ्जातव्रणाः, विक्षताः–खड्गपरशुपट्टसादिभिर्विविधं प्रहृताः। तान् प्रसुप्तान् इत्यभिधानात् क्षतविक्षतत्वं दिवायुद्धकृतमित्यवगम्यते–गो।
१तरसापास्यङ।
२क्षणु हिंसायाम्। नपुंसके भावं क्तःऽ इति क्तप्रत्यये– क्षतंऽ इति रूपम् ॥
॥ २।९।१४ ॥ ॥ २।९।१५ ॥
तत्राकरोन्महद्युद्धं राजा दशरथस्तदा।
असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ १५ ॥
तत्रेति। तद्रात्र्यामित्यर्थः। शकलीकृत इति। सर्वाङ्गेषु प्रहृत इत्यर्थः ॥ १५ ॥
॥ २।९।१५ ॥ ॥ २।९।१६ ॥
अपवाह्य त्वया देवि सङग्रामान्नष्टचेतनः।
तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ १६ ॥
त्वया–सारथ्यं कुर्वाणया सङ्ग्रामादन्यतोऽपवाह्य नष्टचेतनः–मूर्छितः राजा रक्षितः। यत्र रक्ष्यते, तत्रापि पुनः शस्त्रैर्विक्षतः, ततोऽप्यपवाह्य रक्षितः ॥ १६ ॥
॥ २।९।१६ ॥ ॥ २।९।१७ ॥
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने
स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥ १७ ॥
गृह्णीयामिति, तत्तेन तथेत्युक्तं महात्मना।
तेन–एवं द्विः प्राणरक्षणेन हेतुना तुष्टेन तेन राज्ञा इत्यर्थः। तत्तेनेति। तत्–त्वदुक्तं वचनम्। तेन–राज्ञेत्यर्थः ॥ १७ ॥
॥ २।९।१७ ॥ ॥ २।९।१८ ॥
१अनभिज्ञाऽसि तद्देवि त्वयैव २कथिता पुरा ॥ १८ ॥
अनभिज्ञाऽसि–विस्मृताऽसि। चिरकालवशात् ॥ १८ ॥
१अनभिशा ह्यहं–ङ। च।
पाठान्तरे–अहं अनभिज्ञा, कथं तर्हि ज्ञातमित्यत्र–त्वयैवेति। अहं कथितेत्यन्वयः।
२कथितंङ। च।
॥ २।९।१८ ॥ ॥ २।९।१९ ॥
१तथैषा तव तु स्नेहान्मनसा धार्यते मया।
रामाभिषेकसम्भारान्निगृह्य विनिवर्तय ॥ १९ ॥
यथा कथिता, तथैषा कथेति योजना। अभिषेकसम्भारात् वरबलेन निगृह्य–निरुध्य, अभिषेकं विनिवर्तय ॥ १९ ॥
१कथैषा–ङ। च।
॥ २।९।१९ ॥ ॥ २।९।२० ॥
तौ च याचस्व भर्तारं भरतस्याभिषेचनम्।
प्रव्राजनं च रामस्य वर्षाणि तु चतुर्दश ॥ २० ॥
निवर्तनप्रकारमाह–तौ वरावित्यादि। भर्तारं तौ वरौ याचस्व। याचिर्द्विकर्मकः। तेन दानेऽनुमते, तयोरेकेन भरतस्याभिषेचनं, अपरेण रामस्य प्रव्राजनं च वृणु इति शेषः ॥ २० ॥
प्रव्राजनं चेत्येवरूपौ तौ वरौ याचस्वेति वाऽन्वयः।
॥ २।९।२० ॥ ॥ २।९।२१ ॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।
प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥ २१ ॥
चतुर्दशसङ्ख्या किमर्थेत्यत्राह–चतुर्दशेत्यादि। प्रजानां भावगतः–आन्तरगतो यः स्नेहः–त्वत्पुत्रोऽनुरागः तेन हेतुना स्थिरस्तथा ॥
प्रजाभावगतः स्नेहः–यस्य स तथोक्तः–गो। ति।
॥ २।९।२१ ॥ ॥ २।९।२२ ॥
क्रोधागारं प्रविस्याद्य क्रुद्धेवाश्वपतेः सुते
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ २२ ॥
एवमुपायमुपदिश्य तत्प्रवर्तनोपायमप्याह–क्रोधागारमित्यादि। राज्ञा कलहे यद्गृहं स्त्रियः प्रविशन्ति–तत् क्रोधागारम्। क्रुद्धेव–क्रुद्धैव सती–क्रोधहेतुमस्मदुपदिष्टं तत्सान्त्वनेऽप्यविस्मरन्तीति यावत्। अयमेवार्थो विव्रियते–शेष्वानन्तर्हितायामित्यादिना। अनन्तर्हितायां–अनास्तृतायाम् ॥ २२ ॥
॥ २।९।२२ ॥ ॥ २।९।२३ ॥
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः।
रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा ॥ २३ ॥
जगत्यां–भुवि। शेष्वेति शेषः ॥ २३ ॥
॥ २।९।२३ ॥ ॥ २।९।२४ ॥
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः।
त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ २४ ॥
एवं सति कार्यसिद्धिर्भवत्येवेत्याह–दयितेत्यादि। त्वत्कृतेत्वत्प्रीणननिमित्तम् ॥ २४ ॥
॥ २।९।२४ ॥ ॥ २।९।२५२६ ॥
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ २५ ॥
मणिमुक्तासुवर्णानि रत्नानि विविधानि च।
दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ २६ ॥
वरदानव्यतिरिक्तानशेषाननुनयान् मा स्वीकुरुऽ इत्युपदिशति–मणीत्यादि ॥ २६ ॥
इदं श्लोकं सर्वत्र न ह्यतिक्रमितुंऽ इत्यस्यानन्तरं उपलभ्यते ॥
॥ २।९।२५२६ ॥ ॥ २।९।२७ ॥
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः।
मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः ॥ २७ ॥
नन्वनुनयानङ्गीकारे मम धिक्कारो भविष्यतीति भयं त्याजयति–मन्देत्यादिना। त्वत्सौभाग्य १ विस्मयं अविस्मृत्य धिक्कारभयं दूरे त्यजेत्यर्थः ॥ २७ ॥
१वैभवं विस्मत्य–क।
॥ २।९।२७ ॥ ॥ २।९।२८ ॥
यो तौ १दैवासुरे युद्धे वरौ दशरथो ददौ।
तौ स्मारय महाभागे सोऽर्थो न २ त्वामतिक्रमेत् ॥
सर्वानुनये धिक्कृते किं मया कर्तव्यम्ऽ इति राजप्रश्ने प्राप्ते कर्तव्यमुत्तरमुपदिशति–यौ तौ इत्यादि। सोऽर्थ इति–वरप्राप्तिरूपोऽर्थ इत्यर्थः। नातिक्रमेदिति। सर्वथा सिद्ध्यत्येव, राज्ञः सत्यप्रतिज्ञत्वादित्याशयः ॥ २८ ॥
अत्र ११ तमपद्य इव देवासुर इति कुत्रचित्पाठो दृश्यते ॥ परन्तु पूर्वोक्तरीत्या समाहारासम्भवात्–युद्धकाण्डे देवासुराणांऽ – (९०२५) इत्येव सर्वकोशेषु पाठोपलब्धेः–समाहारे देवासुराणांऽ इति बहुवचनासम्भवात्– देवासुरेऽ इति पाठे तत्पदस्य देवासुरसम्बन्धिनि लक्षणाया वक्तव्यत्वात् च दैवासुरेऽ इत्येव पाठः स्यादिति विभावयामः।
१देवासुरे–ङ। च।
सोऽर्थो न त्वा क्रमेदति–सोऽर्थो मा त्वामतिक्रमेत्–इति पाठान्तरे।
२त्वा क्रमेदपिङ।
॥ २।९।२८ ॥ ॥ २।९।२९ ॥
यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः।
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २९ ॥
व्यवस्थाप्य–शपथैः आवश्यकप्रदानकं कृत्वा इत्यर्थः ॥ २९ ॥
उत्थाप्य–भूमौ शयानां त्वामिति शेषः।
॥ २।९।२९ ॥ ॥ २।९।३०३१ ॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ॥ ३० ॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ ३१ ॥
प्रव्राजनस्य चतुर्दशसङ्ख्यावैशिष्ट्यवरणमात्रेण कार्यासिद्धिर्भवत्येव। सर्वथा प्रव्राजनन्त्वतिघोरतया, अशेषलोकविरुद्धमित्याशयेनाह–चतुर्दश हीत्यादि। यथा महावृक्षः चतुर्दशवर्षं परिपालितः प्ररूढमहाशाखः कृतमूलः, सिद्धदृढमूलावरोहश्च भवति एवं प्रतिष्ठिताशेषबाह्याभ्यन्तरराज्यपरिकरः भवति। अतः परं, शेषं–यावज्जीवं वृक्षवदेव स्वत एवाशक्योन्मूलनश्च भवतीत्यर्थः ॥ ३१ ॥
पार्थिवर्षभ इत्यनन्तरं इति शब्द ऊह्यः।
कृतमूलः–स्ववशीकृतमूलबलः–गो।
सर्वथा प्रव्राजनावरणे आशयमाह–प्रव्राजनस्येति।
ते सुत इति शेषः।
॥ २।९।३०३१ ॥ ॥ २।९।३२ ॥
रामप्रव्राजनं चैव देवि याचस्व तं वरम्।
एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥ ३२ ॥
यदेवं अतः–रामेत्यादि। चाद्भरताभिषेकः ह ॥ ३२ ॥
॥ २।९।३२ ॥ ॥ २।९।३३ ॥
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति।
भरतश्च हतामित्रः तव राजा भविष्यति ॥ ३३ ॥
अराम इति। अप्रियो भविष्यतीत्यर्थः ॥ ३३ ॥
“यद्वा रामो भविष्यति–एक एव भविष्यतीत्यर्थः”–गो। रमयत्यानन्दयतीति रामः–मुनीनिति शेषः–ती। वस्तुतस्तु– पिताऽपिता भवतिऽ इत्यादाविव–राम इति व्यपदेशार्ह एव स न भवति ॥ यतः सः वनंगतः नामरूपरहितः–क्रमेण जनानामविदितप्रायः स्यादितिभावः।
तव भरत इत्यन्वयः।
॥ २।९।३३ ॥ ॥ २।९।३४ ॥
येन कालेन रामश्च वनात् प्रत्यागमिष्यति।
१अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति ॥ ३४ ॥
सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्।
अन्तर्बहिरिति। प्रकृतीनामितिशेषः। स्नेहः प्रवासाश्रयःऽ इति न्यायेन प्रजानां तद्गतस्नेहः चिरविप्रयोगतो नश्यतीत्यर्थः। कृतमूलत्वस्यैव विवरणं–सङ्गृहीतेत्यादि। सम्यक् परिपालनेन सङ्गृहीताः–अनुरञ्जिताः मनुष्याः–पौरा जानपदाश्च येन स तथा। तत्र हेतुः–आत्मवानित्यादिः ॥ ३४ ॥
१तेन कालेन–ङ।
कृतमूलः–रूढमूलः–गो।
॥ २।९।३४ ॥ ॥ २।९।३५ ॥
प्राप्तकालन्तु ते मन्ये राजानं वीतसाध्वसा ॥ ३५ ॥
रामाभिषेक१सम्भारान्निगृह्य विनिवर्तय।
उपदिष्टमुपदेशं निगमयति–प्राप्तेत्यादि। राजानं प्रति वीतसाध्वसा सती विनिवर्तय इति। वरबलादिति शेषः ॥ ३५ ॥
कैकेयीविशेषणमिदं।
१सङ्कल्पाङ।
॥ २।९।३५ ॥ ॥ २।९।३६३७ ॥
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥ ३६ ॥
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्।
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ॥ ३७ ॥
कैकेयी विस्मयं प्राप्ता परं परमदर्शना।
एवं स्थिते कविः स्वदृशाऽऽह–अनर्थमित्यादि। प्रतीता–इण् गतौ। सर्वे गत्यर्था ज्ञानार्थाः। तदुक्तं हिततया प्रतिगृहीतवतीति यावत्। परमदर्शनेत्यन्तविशेषणवती सा कैकेयी मन्थरामिदमब्रवीदिति योजना। किशोरी–बालबडबा ॥ ३७ ॥
बालः किशोरःऽ इत्यमरः।
॥ २।९।३६३७ ॥ ॥ २।९।३८ ॥
कुब्जे त्वां १नावजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ॥
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥
अथोपदिष्टकार्यपारप्राप्तये तामेव कुब्जां मानयति–कुब्जेत्यादिना। नावजानामीत्यत्र हेतुः–श्रेष्ठाभिधायिनीति। कुब्जानां–कुब्जत्वधर्मविशिष्टराजभुजिष्यानां मध्ये। कुब्जत्वादिकिञ्चिद्विकृता एव राजमहिषीणां दास्य इष्टाः सुरूपासु खलु सापत्न्यस्फूर्तिर्भवति ॥ ३८ ॥
१नाभिजानामि–ङ।
अनेन कुब्जानां प्रायेण बुद्धितैक्ष्ण्यमस्तीति द्योतितम्–गो।
भुजिष्या–परिचारिका। नियोज्यकिंङ्करप्रेष्यभुजिष्यपरिचारकाःऽ इत्यमरः।
॥ २।९।३८ ॥ ॥ २।९।३९ ॥
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥ ३९ ॥
नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्।
त्वमेवेति। न तु दास्यन्तरम्। नावबुध्येयमिति। त्वद्बोधनाभाव इति शेषः ॥ ३९ ॥
॥ २।९।३९ ॥ ॥ २।९।४० ॥
सन्ति दुस्संस्थिताः कुब्जा वक्राः १परमपापिकाः ॥ ४० ॥
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना।
स्वां कुब्जां कुब्जत्वांशव्यतिरेकेण सुस्त्रीलक्षणवतीमालक्ष्य स्तौति–सन्तीत्यादि। दुस्संस्थिताः–कुत्सितावयवसन्निवेशाः। त्वद्व्यतिरिक्ता इति शेषः। अत एव परमपापिकाः–पापदर्शनाः। कश्मलदर्शना इति यावत्। नैवं त्वमित्याह–त्वमित्यादि। वातेन पद्ममिव केवला सन्नता अथापि प्रियदर्शना ॥ ४० ॥
१परमदारुणाःङ।
वातेन–वायुना सन्नतं–सम्यक् नामितं पद्ममिव त्वं वातेन रोगेण सन्नता सती प्रियदर्शना।
सम्यक्, नता इत्यर्थः
॥ २।९।४० ॥ ॥ २।९।४१ ॥
उरस्तेऽभिनिविष्टं वै यावत्स्कन्धं समुन्नतं ॥ ४१ ॥
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम्।
उरः–स्तनयोर्बहिः हृदयादुपरिप्रदेशः। तत् स्थगुनाभिनिविष्टम्। अत एव यावत्स्कन्धात्समुन्नतत्वमुरसः। एतेन पुरःस्थगुमत्कुब्जत्वं प्रतिपादितम्। शातं–कृशं शाच्छोरन्यतरस्यांऽ इति पाक्षिक इत्वाभावः श्यतेः निष्ठायाम्। सुनाभं–शोभना नाभिर्यस्योदरस्य, तत्तथा। अच्ऽ इति योगविभागात् अच्। लज्जितमिवेति। स्थगोरधस्थाद्वर्तनजया लज्जया लज्जितमिव शातमिति योजना ॥
उरस उन्नतिं दृष्ट्वा लज्जितमिवेति–तिलके गोविन्दराजीये च।
॥ २।९।४१ ॥ ॥ २।९।४२४३ ॥
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥ ४२ ॥
विमलेन्दुसमं वक्त्रं अहो राजसि मन्थरे
जघनं तव १निर्मृष्टं रशनादामशोभितम् ॥ ४३ ॥
जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ।
निर्मृष्टं–शोधितम्। रोमादिकश्मलहीनमितियावत्। उपन्यस्त इति। जान्वोरिति शेषः ॥ ४३ ॥
१निर्घुष्टंच।
निर्घुष्टं–रशनाक्षुद्रघण्डादिभिः शब्दायमानम्–ति। निर्मृष्टं–अमांसलं।
संश्लिष्ट इति यावत्।
॥ २।९।४२४३ ॥ ॥ २।९।४४ ॥
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ॥ ४४ ॥
अग्रतो मम गच्छन्ती राजहंसीव राजसे।
सक्थिभ्यां–पृष्ठफलकाभ्याम् ॥ ४४ ॥
॥ २।९।४४ ॥ ॥ २।९।४५ ॥
आसन् याः शम्बरे मायाः सहस्रमसुराधिपे ॥ ४५ ॥
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः।
एवं स्थगुव्यतिरिक्तानां स्वत एवादोषत्वमुक्त्वा स्थग्वपि सद्गुणमूलमित्युत्प्रेक्षया स्तौति–आसन् या इत्यादि। या माया निविष्टा हृदये–तदेव ते हृदयस्थस्थग्वित्युत्तरत्र योजना। अत्र विधेयलिङ्गग्रहस्तदिति सर्वनाम्ना। अन्याः मायाः–लौकिक्यः ॥ ४५ ॥
॥ २।९।४५ ॥ ॥ २।९।४६ ॥
तदेव स्थगु यद्दीर्घं रथघोणमिवायतम् ॥ ४६ ॥
मतयः क्षत्त्रविद्याश्च मायाश्चात्र वसन्ति ते।
रथघोणं–रथचक्रपिण्डिका, तद्वदायतं दीर्घं चयत् स्थगुमांसविशेषोऽस्ति, अत्र मत्यादिकं
वसति ॥ ४६ ॥
स्थगुउरोनिस्सृतोन्नतविकृतावयवविशेषः–गो।
॥ २।९।४६ ॥ ॥ २।९।४७ ॥
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्यमयीम् ॥ ४७ ॥
अभिषिक्ते च भरते राघवे च वनं गते।
यदेवं अतः–अत्र त इत्यादि ॥ ४७ ॥
॥ २।९।४७ ॥ ॥ २।९।४८ ॥
जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि ॥ ४८ ॥
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु।
जात्येनेति। उत्तमस्वर्णजातौ भवं जात्यम्, दिगादित्वाद्यत्। जाम्बूनदत्वादिप्रशस्तजातिमता सुनिष्टप्तेन–सुद्रुतेन सुवर्णेन निर्मितां हिरण्मयीं मालामिति सम्बन्धः। अपि च ते स्थगु लेपयिष्यामि–जात्येन, चन्दनेनेति शेषः ॥ ४८ ॥
स्वर्णखचितं करोमीति लोकोक्तया कथ्यते।
॥ २।९।४८ ॥ ॥ २।९।४९५१ ॥
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ ४९ ॥
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च।
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ ५० ॥
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।
गमिष्यसि गतिं मुख्यां १गर्वयन्ती २द्विषज्जने ॥ ५१ ॥
आह्वयमानेनेति। स्पर्धायामाङःऽ इति शानच्। द्विषज्जनविषये मुख्यां गतिं–श्रैष्ठ्यगतिमिति यावत्। गर्वयन्ती। मामकविशेषपरिग्रहजं स्थाने पातितं गर्वं कुर्वन्ती–गर्वशब्दात् तत्करोतीति ण्यन्तात् शत्रादि ॥ ५१ ॥
गतिं–पादविन्यासविशेषं गमिष्यसि–करिष्यसि, ओदनपाकं पञ्चतीतिवन्निर्देशः–गो।
द्विषज्जनं–मत्सपत्नीजनं प्रति गर्वयन्ती–गो।
१गर्हयन्ती–ङ।
२द्विषज्जनम्–ङ।
॥ २।९।४९५१ ॥ ॥ २।९।५२ ॥
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ ५२ ॥
कुब्जायास्तवापि कुब्जाः–दास्य इति यावत् ॥ ५२ ॥
॥ २।९।५२ ॥ ॥ २।९।५३ ॥
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ ५३ ॥
वेद्यां–उत्तरवेद्याम् ॥ ५३ ॥
॥ २।९।५३ ॥ ॥ २।९।५४ ॥
गतोदके सेतुबन्धो न कल्याणि विधीयते।
उत्तिष्ठ कुरु सल्याणि राजानमनुदर्शय ॥ ५४ ॥
एवं वृथाजल्पैः कालात्ययो मास्त्विति त्वरयति–गतेत्यादिना। अभिषेके श्वो निर्वृत्ते पश्चाद्वग्रहादिरभिमतातिरिक्तविषयत्वाद्व्यर्थः। यदवं, अतः–उत्तिष्ठेत्यादि। अनुदर्शयेति। क्रोधागारमिति शेषः ॥ ५४ ॥
“राजानमनुदर्शय। क्रोधागारे। आत्मानमिति शेषः” ति। “राजानमनुदर्शय। क्रोधागारमिति शेषः। यद्वा–अनुदर्शहय प्रतीक्षस्वेत्यर्थः” गो।
॥ २।९।५४ ॥ ॥ २।९।५५५७ ॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ५५ ॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।
अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ ५६ ॥
ततो हेमोपमा तत्र कुब्जावाक्यवशं गता।
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ ५७ ॥
अनेकशतसाहस्रं–बहुमूल्यामिति यावत्। “शतमानविंशतिक–” इत्यादिना क्रीतार्थे अण्। “परिमाणान्तस्यासंज्ञाशाणयोः” इत्युत्तरपदवृद्धिः। हेमोपमा–अकल्मषस्वर्णवर्णा ॥ ५७ ॥
न केवलं शरीरसौन्दर्यमात्रेण तस्याः सुवर्णसादृश्यं, किन्तु सर्वांशेऽपि। विमलं हि तदीयं मनो यत्किमपि संस्थानमापादयितुं शक्यं सुवर्णवदेवेति भावः।
॥ २।९।५५५७ ॥ ॥ २।९।५८ ॥
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।
वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ५८ ॥
कैकेयी स्वकार्यसाधनदार्ढ्यं चाञ्चल्यशङ्काभीतायै मन्थरायै प्रकटयति–इह वेत्यादिना। इह–क्रोधागार एव मदभीष्टासिद्धौ मदुपेक्षकाय नृपाय मां मृतामावेदयिष्यसि। यदि मे सान्त्वनं तदा
राघवे वनं प्राप्ते भरतः क्षितिं प्राप्स्यति। न तु पक्षान्तरमित्यर्थः ॥ ५८ ॥
राज्ञः स्वतोऽनागमने तदानयनार्थं वा एवमुक्तिः। ६३श्लोकस्वारस्यात्।
॥ २।९।५८ ॥ ॥ २।९।५९६० ॥
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भोजनैः।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ४९ ॥
अथो पुनस्तां महिषीं महीक्षितः
वचोभिरत्यर्थमहापराक्रमैः।
उवाच कुब्जा भरतस्य मातरं
हितं वचो राममुपेत्य चाहितम् ॥ ६० ॥
एवं कैकेय्या निश्चयमेव स्थिरीकरोति कुब्जा–अथो पुनरित्यादि ॥ ६० ॥
राममुद्दिश्येत्यर्थः गो।
॥ २।९।५९६० ॥ ॥ २।९।६१६२ ॥
प्रपत्स्यते राज्यमिदं हि राघवः
यदि ध्रुवं त्वं ससुता च तप्यसे।
अतो हि कल्याणि यतस्व तत्तथा
यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ ६१ ॥
तथातिविद्धा महिषी तु कुब्जया
समाहता वागिषुभिर्मुहुर्मुहुः।
निधाय हस्तौ हृदयेऽतिविस्मिता
शशंस कुब्जां कुपिता पुनः पुनः ॥ ६२ ॥
अतिविद्धा–कृतवेधा। अतिविस्मितेति। अतिसक्तो राजा कथं मदनिष्टं करोतीति विस्मयः ॥ ६२ ॥
अतिविद्धा–अतिदुःखिताऽ गो। (समाहता इति पृथक् सत्वादिति आशयः) निधाय हस्तौ हृदये इति स्त्रीस्वभावोक्तिः।
॥ २।९।६१६२ ॥ ॥ २।९।६३ ॥
यमस्य वा मां विषयं गतामितो
निशाम्य कुब्जे प्रतिवेदयिष्यसि।
वनं गते वा सुचिराय राघवे
समृद्धकामो भरतो भविष्यति ॥ ६३ ॥
निशाम्य–दृष्ट्वा ॥ ६३ ॥
यमस्य विषयं–देशं गतामित्यन्वयः।
॥ २।९।६३ ॥ ॥ २।९।६४६५ ॥
अहं हि नैवास्तरणानि न स्रजो
न चन्दनं नाञ्जनपानभोजनम्।
न किञ्चिदिच्छामि न चेह जीवितं
न चेदितो गच्छति राघवो वनम् ॥ ६४ ॥
अथैतदुक्त्वा वचनं सुदारुणं
निधाय सर्वाभरणानि भामिनी।
असंवृतामास्तरणेन मेदिनीं
तदाऽधिशिश्ये पतितेव किन्नरी ॥ ६५ ॥
मेदिनीमधिशिश्य इति। “अधिशीङ्” इत्यादिना कर्मत्वम् ॥
॥ २।९।६४६५ ॥ ॥ २।९।६६ ॥
उदीर्णसंरंभतमोवृतानना
तथावमुक्तोत्तममाल्यभूषणा।
नरेन्द्रपत्नी विमना बभूव सा
तमोवृता द्यौरिव मग्नतारका ॥ ६६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे नवमः सर्गः
उदीर्णः–उत्कटः संरंभः–कोप एव तमः तेन वृतं–व्याप्तं आननं यस्याः सा तथा। तर्ष (६६) मानः सर्गः ॥
॥ २।९।६६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे नवमः सर्गः ॥