००८ मन्थरादुर्बोधः

अष्टमः सर्गः

[मन्थरोपदेशः]

॥ २।८।१ ॥

मन्थरा १त्वभ्यसूयैनामुत्सृज्याभरणं हि तत्।

उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥

अथ– किन्तु चित्तं मनुष्याणांऽ इतिन्यायेन (अयो।४।२७) द्विस्त्रिर्लोकमर्यादावलम्बनेन मन्थरया हितवत् बोधनात् भद्रबुद्धेरपि कैकैय्याश्चित्तं चलितमित्युच्यते। मन्थरेत्यादि। अभ्यसूय–कण्ड्वादेरसूयतेर्ल्यप्, यगभाव आर्षः, असूयां कृत्वेत्यर्थः। एनां प्रतीति शेषः। आङः सुपांसुलुक्ऽ इत्यादिना पूर्वसवर्णाश्रयणे सति अभ्यसूयेति पाङ्क्तोऽर्थः। कोपदुःखेति। हितं न शृणोतीति कोपः, अहितमस्या जायत इति दुःखम् ॥ १ ॥

१त्वभ्यसूय्यैनां–ङ। च।

॥ २।८।१ ॥ ॥ २।८।२ ॥

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे

शोकसागर १मध्यस्थं नात्मानमवबुध्यसे ॥ २ ॥

अस्थाने–अनुचितकाले। बालिशे–अज्ञे ॥ २ ॥

किमिदमिति प्रत्येकं वाक्यम्।

१मध्यस्थाङ।

॥ २।८।२ ॥ ॥ २।८।३ ॥

मनसा १प्रहसामि त्वां देवि दुःखार्दिता सती।

यच्छोचितव्ये हृष्टाऽसि प्राप्य त्वं व्यसनं महत् ॥ ३ ॥

शोचितव्ये हृष्टाऽसीति यत् अतो मनसा त्वां प्रहसामि, उन्मत्तदर्शनेनेव स्वदशापरिहासास्पदभूतासीत्यर्थः ॥ ३ ॥

१प्रसहामिङ।च।़

॥ २।८।३ ॥ ॥ २।८।४ ॥

शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्।

अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥ ४ ॥

तदेवाह–शोचामीत्यादि। ते दुर्मतित्वं शोचामि। का हि प्राज्ञा–बुद्धिमती मृत्योर्वृद्धिमिवागतां अरेः सपत्नीपुत्रस्य वृद्धिं प्रहर्षयेत्–उपलालयेत् ॥ ४ ॥

वृद्धिंदृष्ट्वेति शेषः। प्रहर्षयेत्–प्रहृष्येत्–ति। प्रहर्षयेत्–प्रहर्षसाधनं कुर्यात्। लालयेदिति वा–गो।

॥ २।८।४ ॥ ॥ २।८।५ ॥

भरतादेव रामस्य राज्यसाधारणाद्भयम्।

तद्विचिन्त्य विषण्णाऽस्मि भयं भीताद्धि जायते ॥ ५ ॥

अथ महद्व्यसनमिति यदुक्तं तद्दर्शयति–भरतादित्यादिना। रामस्य भरताद्भयमस्ति। भीताद्रामाद्भरतस्य च महद्भयमावश्यकम्। यथा सर्पपुरुषव्याघ्रपुरुषादेः। ननु रामस्य भरतात्, तस्मादस्य च भयं किं निमित्तमित्यत्रोक्तम्–राज्यसाधारणादिति। राज्यरूपं यत् साधारणभोग्यं तस्मादेव हेतोरित्यर्थः। आशाया आनन्त्यात्, ममैवास्तु राज्यं, ममैवास्तु राज्यंऽ इति परस्परजिगीषा भवति। ततोऽन्योन्यस्य भयं भवतीत्यर्थः ॥ ५ ॥

राज्यं साधारणं यस्य तस्माद्भरतादिति–गो।

॥ २।८।५ ॥ ॥ २।८।६ ॥

लक्ष्मणो हि महेष्वासो रामं सर्वात्मना १गतः।

शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ ६ ॥

ननु भरतादेवेति कथमवधारणमित्यत्राह–लक्ष्मणो हीत्यादि। रामं सर्वात्मना गत इति। मनोवाक्वायिकसर्वव्यापारै रामेणैक्यं गतः। अतो भेदाभावादेव न तयोरन्योन्य२भीप्रसङ्ग इत्यर्थः। तर्हि शत्रुघ्नाद्वा कुतो न भीतिरित्यत्र रामलक्ष्मणवत् शत्रुघ्नभरतयोरैक्यात् शत्रुघ्नस्य भरतशेषत्वाच्च न तत्प्रयुक्तप्रातिस्विकभीप्रसङ्ग इत्याशये नाह–शत्रुघ्नश्चापीति ॥ ६ ॥

१श्रितः–ङ।

२भीति–घ।

॥ २।८।६ ॥ ॥ २।८।७ ॥

प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि

राज्यक्रमो विप्रकृष्टस्तयोस्तावद्यवीयसोः ॥ ७ ॥

भरतादेवेत्यत्र हेत्वन्तरमाह–प्रत्यासन्नेति। प्रत्यासन्नः–समीपभूतो यः क्रमः–उत्पत्तिक्रमः तेनापि हेतुना भरतस्यैव रामात्प्रत्यासन्नं राज्यम्। तयोस्तु विप्रकृष्टो राज्यागमः। कुत इत्यतः–यवीयसोरिति। कनिष्ठत्वादेव तयो राज्यागमो विप्रकृष्ट इत्यर्थः। भरतो लक्ष्मणाज्ज्यायानिति–पुनर्वस्वादिचतुर्नक्षत्रेषु रामभरतलक्ष्मणशत्रुघ्नानां क्रमाज्जननस्य बालकाण्ड एवोक्तत्वाद्यथोक्तज्यैष्ठ्यकानिष्ट्यनिश्चयः ॥ ७ ॥

॥ २।८।७ ॥ ॥ २।८।८ ॥

विदुषः क्षत्त्रचारित्रे प्राज्ञस्य प्राप्तकारिणः।

भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ ८ ॥

उक्तं रामभयमुपसंहारेणाह–विदुष इत्यादि। सर्वशास्त्रवैदुष्यवतः, विशिष्य क्षत्त्रचारित्रे–मूलादिषड्विधबलसम्पादनसन्धिविग्रहादिषट्कर्मप्रयोगरूपे प्राज्ञस्य–यथाकालं प्रयोगसमर्थस्य, उत्साहादिशक्तित्रयसमर्थत्वात् प्राप्तकारिणः–षट्कर्मणो द्रागेव करणशीलस्य रामस्य त्वदात्मजं प्रति भाव्यनर्थं चिन्तयन्ती तन्निमित्ताद्भयात् प्रवेपे।

रामस्य भयात्–षष्ठी चात्र सम्बन्धसामान्ये–गो।

॥ २।८।८ ॥ ॥ २।८।९ ॥

सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।

यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ९ ॥

एवं पुत्रानर्थं प्रदर्श्य तस्या अप्यनर्थं प्रदर्शियितुं कौसल्यावृद्धिमाह–सुभगेत्यादिभिः ॥ ९ ॥

कैकेय्या असूयोत्पादनाय कौसल्यासौभाग्यं दर्शयति–सुभगेत्यादिना–गो।

॥ २।८।९ ॥ ॥ २।८।१० ॥

प्राप्तां १वसुमतीं प्रीतिं प्रतीतां हतविद्विषाम्।

उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥ १० ॥

रामाद्भरतस्येव कौसल्यातः कैकेय्या अनर्थं दर्शयति–प्राप्तामिति। वसुमतीं, वसुमतीप्राप्तिनिमित्तप्रीतिं च प्राप्तां। हताः विद्विषः–युष्मदादिसपत्नीरूपाः यया स तथा। उपस्थास्यसि–गत्वा सेविष्यस इत्यर्थः ॥ १० ॥

१सुमहतीं–ङ।

॥ २।८।१० ॥ ॥ २।८।११ ॥

१एवञ्चेत् त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि।

पुत्रश्च तव रामस्य २प्रेष्यत्वं हि गमिष्यति ॥ ११ ॥

एवञ्चेत्–एवमुपस्थानं तव प्राप्तं चेत्। न केवलं त्वमेकादासीत्याह–सहेत्यादि ॥ ११ ॥

१एवञ्चङ।

२प्रेष्यभावं

॥ २।८।११ ॥ ॥ २।८।१२ ॥

हष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः।

अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ १२ ॥

रामस्य स्त्रिय इति। तत्पार्श्वपतिता इति शेषः। भरतस्य क्षये–प्रभावक्षये। दासभावापत्ताविति यावत् ॥ १२ ॥

राममहिष्या एकत्वेऽपि रामस्य परमाः स्त्रिय इति बहुवचननिर्देशः परिचारिकाभिप्रायेण। नन्वत्र स्त्रीशब्दो भार्यापर एव, स्नुषास्ते भरतक्षयेऽ इति स्नुषाशब्दसाहचर्यात्। अत एव सुन्दरकाण्डे सीतयोच्यते– स्त्रीभिश्च मन्ये विपुलेक्षणाभिः त्वं रंस्यसे वीतभयः कृतार्थःऽ (२८१४) इति। युद्धकाण्डे च– भुजैः परमनारीणामभिमृष्टमनेकधाऽ (२१३) इत्युक्तम्। न हि भुजैर्भुजाभिमर्शो भार्याभ्योऽन्यत्र सम्भवति। उत्तरकाण्डे चाश्वमेधोपक्रमे मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि चऽ (९१२४) मम मातृ़स्तथा सर्वाः कुमारान्तःपुराणि चऽ इत्यपि पाठः इति दर्शितम्। अतस्स्त्रीगणकुमारव्यपदेशः विना सीतातिरिक्तभार्यासद्भावं न सम्भवति। किञ्च श्रुतार्थापत्तिरपि रामस्य सीतातिरिक्तधर्मदारसद्भावे प्रमाणम्। न ह्यपत्नीकस्य यज्ञानुष्ठानं सम्भवति। भोगदारान्तराभावे न रामस्यैकदारव्रतत्वं भृगुशापपालनं च। सीताप्रतिकृतिकरणं तु सीतास्नेहबहुमानात्–अत्रोच्यते–रामस्यैकदारव्रतत्वं सर्वसिद्धम् तच्च पत्न्यन्तरसम्भवे न सङ्गच्छते। न च यज्ञकरणानुपपत्तिः, सीताप्रतिकृतिकरणेन तदुपपत्तेः (न हि तदा रामः अपत्नीक इति भावः)। उत्तरत्र न सीतायाः परां भार्या वव्रे स रघुनन्दनःऽ (उत्त। ९९८) इत्युक्तेश्च। यथा हेमाद्रौ– दूरभार्योऽननुकूलभार्यश्च दर्भपिञ्जूलैर्भार्याप्रतिनिधिं विधाय पार्वणं कुर्यात्ऽ इति ৷৷৷৷৷৷। पत्नीविनाशाभावान्नाग्नेर्विनाशः। ৷৷৷৷৷৷। मातरश्चऽ – इत्यत्र मे मातरः भरतादीनां कुमाराः स्त्रियश्चेत्यर्थः। दारान्तराङ्गीकारेऽपि तेषां धर्मार्थत्वेन प्रजार्थत्वाभावात् रामस्य कुमाराभावात् तत्सहचरितस्त्रीगणाश्च भरतादीनामेवेति सुव्यक्तम्। ৷৷। अतः परमाः स्त्रियःऽ इति परिचारिकान्तर्भावेन। स्त्रीभिश्च मन्येऽ इति स्वविनाशे स्त्र्यन्तरसम्भावनया। परमनारीणांऽ इत्यस्य कविवचनत्वेन श्रीभूम्याद्यभिमर्शविषयत्वाच्चेति दिक्–गो।

कतककृतस्तु परमनारीणां–उत्तमधात्रीजनानां भुजैः अनेकधा–स्नपनालंक्रियादिकालेषु स्पृष्टम्ऽ इति व्याख्यास्यन्ति। स्त्रिय इति बहुवचनेन सीतासख्यः–ति।

नन्वेवमपि– स्नुषाःऽ इति साहचर्यात्– इत्याक्षेपस्य किं समाधानम्?

उच्यते–परिचारिकास्वपि कैकेय्याः प्रीत्यतिशयविवक्षया तथोक्तिः। तस्य च कैकेय्युद्वेजनमेवोद्देश्यम्। सर्वत्र पूजायां वा बहुवचनम्।

भरतक्षये –भरतगृहे–ती।

॥ २।८।१२ ॥ ॥ २।८।१३ ॥

तां दृष्ट्वा १परमप्रीता ब्रुवन्तीं मन्थरां ततः।

रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ १३ ॥

एवं दुर्युक्तिपुरस्सरं कृतोपजापाऽपि कैकेयी निसर्गपुण्यस्वभावत्वात् न चचालेत्युच्यते–तामित्यादिना। ब्रुवन्तीमिति। तथोपजापं ब्रुवन्तीमित्यर्थः। परमप्रीतेति। राम इति शेषः। अत एव देवीति। पुण्यस्वभावेति यावत् ॥ १३ ॥

१परमप्रीतां–ङ। च।

इदं च कैकेयीविशेषणम्। –गोविन्दराजीये तु मंथराविशेषणम्। परं अप्रीतां इति पदविभागः

॥ २।८।१३ ॥ ॥ २।८।१४ ॥

धर्मज्ञो १गुणवान् दान्तः कृतज्ञः २सत्यवाक् शुचिः।

रामो राज्ञः सुतो ज्योष्ठो यौवराज्यं ततोऽर्हति ॥ १४ ॥

मन्थरोपजापयुक्तिं प्रतिक्षिपति–धर्मज्ञ इत्यादिभिः। तत इति। यतो धर्मज्ञत्वादिभिः ज्यैष्ठ्यं च तदभिषेकसामग्री तत एवेत्यर्थः ॥ १४ ॥

मन्थरोक्तं राज्यसाधारण्यं निवर्तयति–धर्मश इति। गुरुभिः दान्तः–शिक्षितः–सो।

१गुरुभिः–ङ।

२सत्यवान्ङ।

॥ २।८।१४ ॥ ॥ २।८।१५ ॥

भ्रातृ़न् भृत्यांश्च दीर्घायुः १पितृवत् पालयिष्यति।

सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ १५ ॥

एवं रामाभिषेकस्यैव न्याय्यत्वं स्वसम्मतत्वं च प्रदर्श्य स्वपुत्राद्यनर्थप्रसक्तिशङ्कामपि परिहरति–भ्रातृ़नित्यादिना। कथमिति। कस्मात् इत्यर्थः। व्यर्थमेवेति यावत् ॥ १५ ॥

१पुत्रवत्ङ।

॥ २।८।१५ ॥ ॥ २।८।१६ ॥

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्।

पितृपैतामहं राज्य१मवाप्ता पुरुषर्षभः ॥ १६ ॥

पितृवत् भ्रातृ़नविभागेन परिपालयतो रामस्य पितृवदेव वर्षशतात्परमपि यदा विबिभाजयिषा भवति तदा भरतो राज्यमवाप्ता–प्रपत्स्यत इति ध्रुवम्। अपि शब्दाल्लक्ष्मणशत्रुघ्नयोरपि राज्यप्राप्तिर्ध्रुवेत्यर्थः ॥ १६ ॥

१मवाप्स्यति नरर्षभः–ङ।

॥ २।८।१६ ॥ ॥ २।८।१७ ॥

सा त्वमभ्युदये प्राप्ते १वर्तमाने च मन्थरे

भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ १७ ॥

कल्याण इति। रामाभिषेकलक्षण इत्यर्थः ॥ १७ ॥

प्राप्ते–उचिते अभ्युदये–समाभिषेकरूपे–वर्तमाने च प्रत्यासन्ने सति–कल्याणे–भरताभिषेकरूपे–भविष्यति च किमर्थं परितप्यसे–गो। ॥ कालत्रयेऽपि कल्याणे सति किमर्थं तप्यस इति भावः ॥ पूर्वश्लोकानुसाराच्च ॥ कल्याणे–भरताभिषेके–भविष्यति–कियता कालेन– (इदानीं किमर्थं परितप्यसेः –ति।

१दह्यमानेव–ङ।

॥ २।८।१७ ॥ ॥ २।८।१८ ॥

यथा मे भरतो मान्यः तथा भूयोऽपि राघवः।

कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् ॥ १८ ।

मान्य इति। प्रार्थनीयश्रेयस्क इति यावत्। अतिरिक्तं–अभ्यधिकम् ॥ १८ ॥

मान्यः–बहुमान्यः–गो।

॥ २।८।१८ ॥ ॥ २।८।१९२० ॥

राज्यं च यदि रामस्य भरतस्यापि तत्तदा।

मन्यते हि यथाऽऽत्मानं तथा भ्रातृ़ंश्च राघवः ॥ १९ ॥

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःशिता।

दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ २० ॥

एवं रामाद्भरतस्य राज्यापहारोपजापं परिहृतवतीं कैकेयीं मन्थरा तृतीयपर्यायेण सर्वथा राज्यभ्रंशो भवितेति भेदयति–कैकेय्या वचनमित्यादिना ॥ २० ॥

॥ २।८।१९२० ॥ ॥ २।८।२१ ॥

अनर्थदर्शिनी मौर्ख्यात् नात्मानमवबुध्यसे।

शोकव्यसनविस्तीर्णे १मञ्जन्ती दुःखसागरे ॥ २१ ॥

अनर्थदर्शिनी। अनर्थस्यैवार्थत्वेन दर्शनशीलेति यावत्। शोकः–इष्टवियोगानिष्टसम्प्रयोगजः।

व्यसनं तु–अभीष्टानाप्त्यनिष्टापरिहारजम्। शोकव्यसनजलोर्मिभ्यां विस्तीर्णे–व्याप्ते– उक्तोभयसामस्त्यात्मकदुःखसागरे मज्जन्तीमात्मानं मौर्ख्यान्नावबुध्यसे–न जानीषे ॥ २१ ॥

विलाहपहेतुः शोकः, व्यसनं विपत्। यद्वा शोकः इष्टवियोगजं दुःखं, व्यसनं स्वस्य सुखाद्भ्रंशः–गो।

१मज्जन्तं–ङ।

॥ २।८।२१ ॥ ॥ २।८।२२ ॥

भविता राघवो राजा राघवस्य च यः सुतः।

राजवंशात्तु भरतः कैकेयि परिहास्यते ॥ २२ ॥

कुत एवं त्रिवारं कथयसीत्यत्राह–भवितेत्यादि। परिहास्यत इति–ओ हाङो लृट् ॥ २२ ॥

परिहास्यते–निर्वास्यते ॥ गत्यर्थाद्धसेर्णिजन्तात्कर्मणिलट्–गो। ॥ हीनोभविष्यति–ति।

॥ २।८।२२ ॥ ॥ २।८।२३ ॥

न हि राजसुताः सर्वे राज्ये तिष्ठन्ति भामिनि

स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ २३ ॥

ननु राघवसुतवत् भरततत्सुताः कुतो राज्यं न प्राप्नुयुः? इत्यत्राह–न हि राजसुतेत्यादि। कुतः सर्वे न तिष्ठन्तीत्यत्राह–स्थाप्यमान इत्यादि। अनयः–परस्परपीडालक्षणः ॥ २३ ॥

न हि राज्ञा सुताःऽ इति सर्वत्र पाठ उपलभ्यते।

अनयः–नातिविरोधः–गो।

॥ २।८।२३ ॥ ॥ २।८।२४ ॥

तस्मात् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः।

स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च ॥ २४ ॥

यस्मादेवं तस्मात्–राज्यतन्त्राणि–राज्याधिकारादिव्यापारापेक्षितप्राधान्यानीत्यर्थः। तन्त्रं प्रधाने सिद्धान्तेऽ। इतरेषु–कनीयस्सु ॥ २४ ॥

राज्यतन्त्राणि–राज्यपरिपालनादिव्यापारान्। तन्त्रं स्वराष्ट्रव्यापारेऽ इति वैजयन्ती–गो।

॥ २।८।२४ ॥ ॥ २।८।२५ ॥

असावत्यन्तनिर्भग्नः तव पुत्रो भविष्यति।

अनाथवत्सुखेभ्यश्च राजवंशाच्च हास्यते ॥ २५ ॥

यदेवं अतः–असावित्यादि ॥ २५ ॥

॥ २।८।२५ ॥ ॥ २।८।२६ ॥

साऽहं त्वदर्थे सम्प्राप्ता, त्वं तु मां नावबुध्यसे।

सपत्नि१वृद्धौ यन्मे त्वं प्रदेयं दातुमिच्छसि ॥ २६ ॥

वृद्धिकामे त्वं–ङ।

ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्।

देशान्तरं नाययिता लोकान्तरमथापि वा ॥ २७ ॥

त्वदर्थ इति। उक्तरीत्या त्वत्पुत्रराज्यभ्रंशे प्राप्ते तत्परिहारकथनप्रयोजनार्थमित्यर्थः। नावबुध्यस इति। हितार्थमागतामिति शेषः। सपत्न्याः वृद्धिः–सपत्निवृद्धिः। ङ्यापोःऽ इति ह्रस्वः। यत्–यस्मात् प्रदेयं–पारितोषिकं दातुमिच्छसि तस्मात्–ध्रुवमित्यादि। लोकान्तरमिति। हनिष्यतीति यावत् ॥ २७ ॥

॥ २।८।२७ ॥ ॥ २।८।२८ ॥

बाल एव हि मातुल्यं भरतो नायितस्त्वया।

सन्निकर्षाच्च सौहार्दं जायते १ह्यवरेष्वपि ॥ २८ ॥

अथ–दशरथस्य रामे पक्षपातः राज्याभिषेकप्रयोजकः भरतासन्निधानादेव। तदपि दैवात् त्वया कृतं इत्याह–बाल एवेति। मातुलस्येदं मातुल्यं–मातुलदेशमिति यावत्। बाले तस्मिन् गते, स्थिते वा किं? इत्यत्राह–सन्निकर्षादित्यादि। सन्निकर्षाद्धेतोः अवरेष्वपि सुतेषु पितृ़णां स्नेहो जायत इति लोकप्रसिद्धम्। अतो भरते स्थिते रामस्येव भरतस्यापि राजा राज्यं विभज्य दास्यति। दुरदृष्टवशाद्भरतसन्निकर्षो न सम्पन्न इति ॥ २८ ॥

अत्र त्वयाऽ इत्यनेन भरते राजस्नेहप्रयोजकं सान्निध्यं त्वयैव विघटितमिति, भवतोऽपि भरते प्रीतिर्नास्त्येवेति मर्मताडनं वा।

अत्र पाठान्तरे–सान्निध्यात् स्थावरेष्वप्यन्योन्यं सौहार्दं जायत इत्यर्थः, ३० श्लोकानुसारात्।

१स्थावरेष्विव, स्थावरेष्वपि–ङ।

॥ २।८।२८ ॥ ॥ २।८।२९ ॥

भरतस्याप्यनु१वशः शत्रुघ्नोऽपि समं गतः।

लक्ष्मणो हि यथा रामं तथाऽसौ भरतं गतः ॥ २९ ॥

यदि भरतैकहृदयः शत्रुघ्नोऽत्र तिष्ठेत् तदाऽपि भरतकार्यस्यानपायः सोऽपि दैवाद्गत इत्याह–भरतस्यापीति। भरतं गत इति। एकहृदयतयेति शेषः ॥ २९ ॥

१मतः–ङ।

समं–भरतेन सह।

॥ २।८।२९ ॥ ॥ २।८।३० ॥

श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः।

सन्निकर्षादिषीकाभिः मोचितः परमाद्भयात् ॥ ३० ॥

किञ्चित्सन्निकर्षात् किञ्चिदनर्थनिवृत्तिर्लोके दृष्टेत्याह–श्रूयत इत्यादि। वनजीविभिः–वनवृक्षच्छेदादिव्यापारजीविभिः छेत्तव्यः–प्राप्तछेदनकालः तस्मात्परमाद्भयात् इषीकाभिः–इषीककण्टकबहुगुल्मैः सन्निकर्षात्–परितः परिवारणरूपात् मोचित इति श्रूयते। हीति नित्यान्तःपुरवर्तित्वेनश्रवणानुभवकथनम् ॥ ३० ॥

स्थावरेष्वपीत्युक्तमुपपादयति–श्रूयते हीति ॥ गो।

तदनुभवासम्भवादिति भावः।

॥ २।८।३० ॥ ॥ २।८।३१३२ ॥

गोप्ता हि रामं सौमित्रिः लक्ष्मणं चापि राघवः।

अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ ३१ ॥

तस्मान्न लक्ष्मणे रामः पापं किञ्चित् करिष्यति।

रामस्तु भरते पापं कुर्यादेव न संशयः ॥ ३२ ॥

पापमिति। वधमिति यावत् ॥ ३२ ॥

॥ २।८।३१३२ ॥ ॥ २।८।३३ ॥

तस्माद्राजगृहादेव वनं गच्छतु ते सुतः।

एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ ३३ ॥

एवं १च ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति।

रामाभिषेकविघ्नाप्रवृत्तावन्ततो वक्तव्यमाह–तस्मादित्यादि। यस्माद्वधो रामात् प्राप्तः–तस्मात् राजगृहादेव–मातुलगृहादेव वनं गच्छतु–नात्रागत्य म्रियताम्। एतद्धि मह्यं अन्ततो वक्तव्यंऽ इति भृशं रोचते। जीवन् भद्राणि पश्यतिऽ–(सुन्द।–१३४७) इति न्यायेन तवापि पुत्रस्य जीवनानपायतो हितं। एवं च–दुरदृष्टजदुर्मतिवशाभिरुचितं, ते ज्ञातिपक्षस्य श्रेयश्च, अप्रतिहतं भविष्यतीति शेषः ॥ ३३ ॥

केकयराजनगरस्य राजगृहम्ऽ इति नाम। पुरं राजगृहं गत्वाऽ (अयो।– (६८६) इत्युक्तेः।

भरतो राज्यं यद्यवाप्स्यति–एवञ्चेत् ते ज्ञातिपक्षस्य, बन्धुवर्गस्य, श्रेयश्चापि भविष्यति–गो।ति। एवं–एवं सति, मातुलगृहादेव वनगमने सति ते ज्ञातिपक्षस्यास्मदादेः श्रेयश्च भविष्यत्येव, श्रेयः–जीवनरूपं कल्याणम्। ৷৷। ৷৷৷৷ यदि चेदिति। यदि वेत्यर्थः। धर्मात् पितृदीयमानत्वरूपात्। तदा वा ज्ञातिपक्षस्य श्रेय इत्यर्थः। यद्वा एवमेव ते पक्षस्य श्रेयो भविष्यति। एवमेवेत्येतदुपपादयति–यदि चेदिति–ति।

अथवा रामानन्तरं ज्यैष्ठ्यक्रमाद्धर्मादेव पूर्वोक्तरीत्या यदि भरतो राज्यं आप्नुयाच्चेत् एवं सति ते ज्ञातिपक्षस्य–कौसल्यादेरेव श्रेयो भविष्यति। रामानन्तरं भरतराज्यप्राप्तिरसम्भावितैव। यतो रामानन्तरं तत्पुत्राणामेव राज्यार्हताऽनुपदमुक्तेत्यर्थः। कतकरीत्या एवं चेत्यादि पूर्वान्वयि, यदि चेत्याद्युत्तरान्वयि। इतरव्याख्यारीत्या एवञ्चऽ यदि चेत्ऽ इत्यर्धद्वयमेकं वाक्यम्।

१तेङ।

॥ २।८।३३ ॥ ॥ २।८।३४३५ ॥

यदि चेत् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥ ३४ ॥

स ते सुखोचितो बालो रामस्य सहजो रिपुः।

समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ ३५ ॥

ननु भरताभिषेकसाधनेऽपि कथं रामज १ नाशप्रसङ्गनिवृत्तिरित्यत्र राज्ये सति त्वत्पुत्रस्य प्राबल्यात् स्वयमेव नाशो २ भरताद्भविष्यतीत्याह–यदीति। धर्मादिति। पितृदीयमानत्वरूपादिति यावत्। रामस्य सहजो रिपुरिति। भविष्यतीति शेषः। किं तत इत्यत्राह–समृद्धेत्यादि। समृद्धार्थस्य त्वत्पुत्रस्य वशे स्थितः नष्टार्थो रामः कथं जीविष्यति? स्वयमेव शनैर्नङ्क्ष्यतीत्यर्थः ॥ ३५ ॥

राज्यानवाप्तावनिष्टमाह–स इति। सहजो रिपुः–सपत्नीपुत्रत्वात्सहजः शत्रुः। ते बालः–भरतः रामस्य वशे कथं जीविष्यति–गो।

१नाशाप्रवृत्तिक।

२भरतादेर्भविग।

॥ २।८।३४३५ ॥ ॥ २।८।३६ ॥

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्।

प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ॥

यदेवं अतो रामवृद्धिं निवार्य रक्षणीयस्तव पुत्र इत्याह–अभिद्रुतमिति। अरण्ये सिंहेनाभिद्रुतं गजयूथपमिव रामेण–राज्यप्राप्त्याप्रबलेन प्रच्छाद्यमानं–अभिभूयमानं परतं तदभिषेकनिरोधेन त्रातुमर्हसि ॥ ३६ ॥

॥ २।८।३६ ॥ ॥ २।८।३७ ॥

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया।

राममाता सपत्नी ते कथं वैरं न यातयेत्? ॥ ३७ ॥

अन्यथा सर्वथैव प्राप्तानर्थं त्वदात्मानमपि त्रातुमर्हसीत्याह–दर्पादित्यादि। कथं वैरं न यातयेदिति। वैरयातनं–वैरशुद्धिं त्वद्दास्यताऽऽपादनेन सम्पादयेदेवेत्यर्थः ॥ ३७ ॥

वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च साऽ इत्यमरः।

॥ २।८।३७ ॥ ॥ २।८।३८ ॥

यदा हि रामः पृथिवीमवाप्स्यति

प्रभूतरत्नाकरशैलपत्तनाम्।

तदा गमिष्यस्यशुभं पराभवं

सहैव दीना भरतेन भामिनि ॥ ३८ ॥

उपसंहरति–यदा हीत्यादि। पराभवं–दास्यरूपम् ॥ ३८ ॥

॥ २।८।३८ ॥ ॥ २।८।३९ ॥

यदा हि रामः पृथिवीमवाप्स्यति

ध्रुवं प्रनष्टो भरतो भविष्यति।

अतो हि सञ्चिन्तय राज्यमात्मजे

परस्य चाद्यैव विवासकारणम् ॥ ३९ ॥

इत्यार्षे श्रीमद्रामयणे वाल्मीकीये अयोध्याकाण्डे अष्टमः सर्गः।

यतो जोषमवस्थाने सपुत्रायास्तेऽनर्थः, अत एव यथा स्यादात्मजे राज्यं तथा चिन्तय। अपि च शत्रुशेषो हि न स्थाप्यःऽ इति न्यायेन अद्यैव परस्य विवासकारणं च चिन्तय। धीगौ (३९) मानः सर्गः ॥ ३९ ॥

कैकेय्यनर्थमुक्त्वा भरतानर्थमाह–यदा हीति–गो।

स्वोपजापपराकाष्ठां सूचयति–विवासेति ॥

॥ २।८।३९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डेऽष्टमः सर्गः।