सप्तमः सर्गः
[मन्थरोपजापः]
॥ २।७।१ ॥
ज्ञातिदासी १यतो नित्यं कैकेय्यास्तु सहोषिता।
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥ १ ॥
अथ देवकार्याय रावणनाशाय देवैरावेशितदुर्मत्याः मन्थराया रामाभिषेकविघ्ने प्रवृत्तिः। वाचः क्रमवर्तित्वात् वाल्मीकिः रामाभिषेकनिश्चितदिवसस्य प्रातः स्नानप्रभृतिवृत्तान्तमुपवर्ण्य, पूर्वरात्रिप्रवृत्तराजभवनवृत्तान्तं वर्णयितुमुपक्रमते–ज्ञातीति। यतो–यस्मात् मन्थरा ज्ञातिदासी–रामज्ञातेर्भरतस्य दासी यतश्च कैकेय्या सह नित्यमुषिता तस्मात्सा रामाभिषेकवचनं श्रुत्वा कोपेन दह्यमाना सती कैकेयीमिदं वचनमब्रवीत् इत्यग्रेण (१३श्लो।) सम्बन्धः। लोकस्थित्या स्वस्वीयाभ्युदयस्यैव (सर्व) इष्टत्वात्, ज्ञातिश्रैष्ठ्यासूयायाश्चानादिसिद्धत्वात्, दुःखेन तद्विघटने प्रवृत्तिः। –“कैकेय्याः ज्ञातीनां दासी यतो जाता–यतः कुतश्चिज्जाता, तस्या जन्म न ज्ञायत इत्यर्थः” इत्यादिकं यद्वा भट्टः कथयति। तत्सर्वं रामश्रद्धाजाड्यजमन्थरारोषमूलप्रलापमात्रम्। प्रासादमित्यादि–यदृच्छयाऽऽरुरोहेति। ज्ञातिदासीत्यनुकर्षः ॥ १ ॥
ज्ञातिदासी–कैकेय्या बन्धुदासी–यतो जाता–यत्रकुत्रचिज्जाता, अविज्ञातदेशमातापितृकेत्यर्थः। अतः कैकेय्या ज्ञातिदासीत्वमपि स्वोदरप्रपूरणार्थं कृतमित्यवगन्तव्यम्।–यद्वा यतो जाता–यतःकुतश्चिज्जाता, तादृशीनामयोध्यायां जननासम्भवात्। यद्वा तन्नामजातिनिरूपणायोग्यतया तथा निर्देशः। आचार्यास्तु–देवैरेव स्वकार्यार्थे कैकेयीं भेदयितुं प्रेषितेति देवरहस्यस्य गोप्यतया तथा निर्देश इत्याहुः–गो। तिलकेऽप्ययमर्थः– मन्थरा नाम कार्यार्थमप्सरा प्रेषिता सुरैः। दासी काचन कैकेय्यै दत्ता केकयभूभृताऽ इति पाद्मवचनेन समर्थितः।
१यतो जाता–ङ। च।
इदं तिलकेऽनूद्य– रामाभ्युदयस्याग्रे धात्रीमुखेन श्रवणस्य वक्ष्यमाणतया तस्यैव चामर्षहेतुत्वस्य च वक्ष्यमाणतया अत्रत्यस्य तत्रान्वयानौचित्यात्ऽ इति दूषितम्।
गोविन्दराजः।
॥ २।७।१ ॥ ॥ २।७।२ ॥
सिक्तराजपथां कृत्स्नां प्रकीर्ण १ कमलोत्पलाम्।
अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत ॥ २ ॥
प्रकीर्णानि कमलान्युत्पलानि च यस्यां सा। तस्मादित्यादि। प्रासादे स्थित्वाऽन्ववैक्षतेत्यर्थः।
अधिकरणे च ल्यब्लोप उपसङ्ख्यानम्ऽ इति पञ्चमी ॥ २ ॥
१कुसुमोत्कराम्–ङ।
॥ २।७।२ ॥ ॥ २।७।३ ॥
पताकाभिर्वरार्हाभिः ध्वजैश्च समलङ्कृताम्।
१सिक्तां चन्दनतोयैश्च शिरस्स्नातजनैर्युताम् ॥ ३ ॥
वरार्हाभिः–वराः–श्रेष्ठाः अर्हाः–विचित्रवस्त्रपट्टदुकूलादि क्लृप्तत्वेन पताकार्हास्तथा। न हि श्रेष्ठश्वेतवस्त्रमात्रं पताकार्हम्। शिरसा च स्नाताः जनास्तथा। अभ्यङ्गस्नानवन्त इति यावत्। विशिष्येदं विशेषणम् स्त्रीशूद्रविषयम्। त्रैवर्णिकानां शिरस्नानं नित्यसिद्धम् ॥ ३ ॥
वरार्हाभिः–श्रेष्ठाभिः–गो।
१वृतां छन्दपथैश्चापि–ङ।
छन्दपथैःस्वच्छन्दगमनयोग्यवीथीभिः–गो।
॥ २।७।३ ॥ ॥ २।७।४ ॥
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ॥ ४ ॥
माल्यमोदकेति। दानप्राप्तैरितिशेषः। शुक्लदेवगृहद्वारामिति। चन्दनोदकोपलेपनेनेति शेषः ॥ ४ ॥
दानप्राप्तमाल्यमोदकहस्तैः रामोपायनमाल्यमोदकरूपमङ्गलद्रव्यहस्तैरितिवा–ति।
॥ २।७।४ ॥ ॥ २।७।५६ ॥
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम्।
प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ॥ ५ ॥
प्रहृष्टमुदितैः पौरेरुच्छ्रितध्वजमालिनीम्।
अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ॥ ६ ॥
पौरैरिति। उपलक्षितामितिशेषः ॥ ६ ॥
पौरैरुच्छ्रितेत्यत्र प्रकृतोत्सवकृतध्वजसम्बन्ध उज्यते–गो।
॥ २।७।५६ ॥ ॥ २।७।७ ॥
सा हर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम्।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ ७ ॥
अविदूर इति। मन्थराधिरूढहर्म्यात्यासन्नहर्म्य इत्यर्थः। धात्रीं–रामस्येति शेषः। तस्या अपि कौसल्यातोऽभ्यधिकपुत्रस्नेहवत्त्वात् हर्षोत्फुल्लनयनामित्यादिविशेषणम् हर्षेण विदीर्यमाणेत्यादि (श्लो।१०) विशेषणञ्च ॥ ७ ॥
॥ २।७।७ ॥ ॥ २।७।८ ॥
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती।
राममाता धनं किन्नु जनेभ्यः सम्प्रयच्छति ॥ ८ ॥
अर्थपरा नानाविधधनधान्यपदार्धग्रहणतत्परा सती गृहीतं तद्धनं जनेभ्यः किन्नु–कस्मात् प्रयच्छति ॥ ८ ॥
अर्थपरा सती–अर्थपरा सत्यपि ॥ उत्तमेन हर्षेणाभिसंयुक्ता–गो। अर्थपरास्वेष्टार्थपराति।
॥ २।७।८ ॥ ॥ २।७।९ ॥
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे।
कारयिष्यति किं वाऽपि सम्प्रहृष्टो महीपतिः ॥ ९ ॥
सम्प्रहृष्टो महीपतिः किं वा कारयिष्यतीति। मन्थरायाः रामाभिषेकदिवसात्पूर्वदिवससायंकाल एव कौसल्यादिव्यापारानुभवात् तदा महीपतेरपि हृष्टत्वात् हृष्टमहीपतिदर्शनं । किं वेति। देवाद्युत्सवमिति शेषः ॥ ९ ॥
किं? किम्मूलकः?
सम्प्रहृष्ट इति विधेयविषेषणं वा।
॥ २।७।९ ॥ ॥ २।७।१०११ ॥
१विदीर्यमाणा हर्षेण धात्री परमया मुदा।
आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥ १० ॥
श्वः पुष्येण जितक्रोधं यौराज्येन २राघवम्।
राजा दशरथो राम ३मभिषेचयिताऽनघम् ॥ ११ ॥
विदीर्यमाणेति–अन्तर्गतहर्षौत्कट्यात्, देहपोषमुखविकासादिना बहिः प्रसरणाद्विदीर्यमाणेवोपलक्षिता मुदा आचचक्षे ॥ ११ ॥
१उदीर्यमाणा–ङ।
स्वानन्दसन्दोहपरीवाहवशात् प्रतिकूलाया अपि तस्यै मुदाऽकथयदित्यर्थः ॥
२चानघम्–ङ। च।
३मभिषेक्ता हि राघवम्–ङ। च।
॥ २।७।१०११ ॥ ॥ २।७।१२ ॥
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता।
कैलासशिखराकारात् प्रासादादवरोहत ॥ १२ ॥
अवरोहत। अवारुहदिति यावत् ॥ १२ ॥
॥ २।७।१२ ॥ ॥ २।७।१३ ॥
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी।
शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ १३ ॥
पापदर्शिनीति। इनिर्वा णिनिर्वा। शयानामिति–सुखित्वात् प्रभ्वीत्वाच्च ॥ १३ ॥
॥ २।७।१३ ॥ ॥ २।७।१४ ॥
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते।
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥ १४ ॥
अघौघेन–दुःखसमूहेन। अघं दुरितदुःखयोःऽ ॥ १४ ॥
॥ २।७।१४ ॥ ॥ २।७।१५ ॥
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे।
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ १५ ।
अनिष्ट इति। सुखशयनादिलक्षणे तव सुभगाकारे इदानीमनिष्टे– अनुचिते– अनिष्टपर्यवसायिनि सति कथं सौभाग्ये तावके विकत्थसे–व्यर्थवर्णनं करोषि। का मे मत्सौभाग्यविकत्थनस्य प्रसक्तिरित्यत्राह–चलं हीति। तरणावुष्णगे–ग्रीष्मगे सति। नद्याः स्रोत इवेत्यनेन राज्ञस्त्वयीदानीं वैरं स्यात्, तेन त्वत्सौभाग्यं क्षीणप्रायमित्युक्तं भवति। निदाघ उष्णोपगम उष्णःऽ इत्यमरः ॥ १५ ॥
सुभगाकारे, आकारमात्रेणैव तव सौभाग्यदे। वस्तुतः–अनिष्टे–अप्रियकर्तरि राज्ञि। (विषयसप्तमी)ति। वस्तुतो राज्ञोऽनिष्टे सुभगाकारे–आपाततः सौभाग्यवतीव भासमाने, असुभगाकार इति वा छेदः–गो। एवञ्च पदद्वयमिदं सम्बोधनपरम्। अथवा अनिष्टेति निन्दा, सुभगाकारेति मर्मोक्तिश्च।
॥ २।७।१५ ॥ ॥ २।७।१६ ॥
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १६ ॥
विषादमगमदिति। उक्तरीत्या राजवैरस्यस्फोरणात् ॥ १६ ॥
कैकेयी परुषं वच उक्ता– अप्रधाने दुहादीनांऽ इत्यप्रधाने कर्मकारके निष्ठा–गो।
॥ २।७।१६ ॥ ॥ २।७।१७ ॥
कैकेयी त्वब्रवीत् कुब्जां कच्चित्क्षेमं न मन्थरे।
१विषण्णवदनां हि त्वां लक्षये भृशदृःखिताम् ॥ १७ ॥
कच्चित् क्षेमं नेति। मह्यमिति शेषः। हि–यस्मात् अस्मत्समसुखदुःखां त्वां अद्य भृशदुःखितां लक्षये, अतः क्षेमं न कच्चिदिति योजना ॥ १७ ॥
१एतदनन्तरं– मन्थरे तद्ब्रवीह्यद्य कुतस्ते भयमागतम्।ऽ इत्यधिकं–ङ।
॥ २।७।१७ ॥ ॥ २।७।१८१९ ॥
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ १८ ॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी।
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १९ ॥
तस्या हितैषिणीऽ इति लोकदृष्ट्या। विषादयन्ती भेदयन्तीति शतृद्वयं हेतौ। राज्यश्रियो ज्ञातिगामित्वानिष्टप्रकाशनेन विषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविषयकस्नेहमात्रभेदहेतवेचेत्यर्थः ॥ १९ ॥
राघवं प्रति पुत्रत्वप्रयुक्तस्नेहं भेदयन्तीत्यर्थः–ति।
॥ २।७।१८१९ ॥ ॥ २।७।२०२१ ॥
अक्षयं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ २० ॥
सास्म्यगाधे भये मग्ना दुःखसोकसमन्विता।
दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ २१ ॥
अक्षयं–क्षयः–१प्रतीकारः। अशक्यप्रतीकारमिति यावत्। विनाशनं–त्वत्सौभाग्यविनाशकारणं प्रवृत्तमिति। किं तत् इत्यत्राह–राममित्यादि। अभिषेक्ष्यति–अतस्तन्निमित्ते भय इति योजना ॥
त्वद्विनाशनं–त्वद्विनाशः–गो।
अनभिमतरामाभिषेकश्रवणजनितव्यसनजं दुःखम्, अभिमतभरताभिषेकराहित्यजः शोकः–गो। यद्वाएतादृशेऽपि समये कैकेय्या औदासीन्यात् शोकः।
१नाशः–ग। घ।
॥ २।७।२०२१ ॥ ॥ २।७।२२ ॥
तव दुःखेन कैकेयि मम दुःखं महद्भवेत्।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ २२ ॥
ननु दास्यास्तव कुतो भयमित्यत्राह–तवेत्यादि ॥ २२ ॥
॥ २।७।२२ ॥ ॥ २।७।२३ ॥
नराधिपकुले जाता महिषी त्वं महीपतेः।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ २३ ॥
अस्तु किमिदानीमत्याहितमित्यत्राह–नराधिपेत्यादि। उच्यमानविशेषणद्वयं १स्वप्राभवाप्रच्युतये यत्नस्त्वया सम्पाद्य इति स्फोरणाय। ननु राज्ञः शेषस्त्र्युपेक्षया मद्भोगैकसक्तत्वात्– मद्गृहैकनिलयत्वाच्च अस्मत्प्राभवस्य अस्मन्नित्यानुरक्तराजप्रसादमूलस्य कुतः प्रच्युतिशङ्केत्यत आह–उग्रत्वमित्यादि। राज्ञः– दशरथस्य धर्माः तथा ॥ २३ ॥
१ स्वप्रभावा–ग। घ।
सामान्यतो राजनीतयो वा विवक्षिताः। राजवंशे जनित्वा राजमहिषी सत्यपि राजनीतेः क्रौर्यं कथं न बुध्यसे? इत्यर्थः।
॥ २।७।२३ ॥ ॥ २।७।२४ ॥
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः।
शुद्धभावेन जानीषे तेनै १मतिसन्धिता ॥ २४ ॥
तदुग्रत्वमेव प्रदर्शयति–धर्मवादीत्यादि। धर्मवादी श्लक्ष्णवादी च केवलं वाचा अन्तस्तु शठः दारुण एव। शठः– पापानुष्ठाता। आन्तरक्रौर्यगोपनाय श्लक्ष्णवादी–सस्मितमृदुमधुरभाषी। एतादृशमपि तं शुद्धभावेन–तथोपलक्षितत्वेन जानीषे। सर्वथा तेन एवं–प्रागुक्तरीत्या अतिसन्धिता–अतिसन्धिर्वञ्चना, तां प्राप्ता तारकादित्वादितच् ॥ २४ ॥
गूढविप्रियकृत् शठःऽ
१ मतिवञ्चिताङ।
॥ २।७।२४ ॥ ॥ २।७।२५ ॥
१उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्।
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २५ ॥
उपस्थितं–कौसल्याया अर्थप्रापणशेषतया २कर्तव्यप्राप्तकालं। त्वयि सान्त्वं–अनुसरणं अनर्थकं–त्वत्प्रयोजनानुपयुक्तं प्रयुञ्जानो भवति। कौसल्यां–अनिष्टत्वेन प्रकाश्यमानां अर्थेनाद्य योजयिष्यतीति ॥ २५ ॥
१उपस्थितः–ङ। च।
तत्कालोचितभाषितं–गो। उपस्थितः–हृदयेन कोसल्यायां अनुरक्तः, त्वत्समीपे स्थितः–ति। अनर्थकं उपस्थितं सान्त्वं प्रयुञ्जान एव कौसल्यामर्थेन योजयिष्यतीत्यन्वयः।
२कर्तव्यं–घ।
॥ २।७।२५ ॥ ॥ २।७।२६ ॥
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु।
१काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २६ ॥
त्वत्सान्त्ववत् अन्यदप्युपायान्तरं कौसल्याया अर्थप्रापणायानुष्ठितमित्याह–अपवाह्येति। उद्वास्येत्यर्थः। कालमर्हति काल्यं, तदर्हमिति यत्–उक्तरीत्या अविघ्नतो यथाप्राप्तराज्याभिषेककालम् ॥ २६ ॥
अतिसन्धानप्रकारमाह–अपवाह्येति–गो।
१काल्यं, कौल्ये–ङ।
काल्ये–उषसि। प्रत्यूषोऽहर्मुखं काल्यमुषःऽ इति कोशः।
॥ २।७।२६ ॥ ॥ २।७।२७ ॥
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया।
आशीविष १इवाङ्केन बाले २परिहृतस्त्वया ॥ २७ ॥
शत्रुरित्यादि। पतिप्रवादेन–पतिव्याजेन छन्नः शत्रुः त्वया मात्रेव हितकाम्यया–हितप्रापणेच्छया अङ्केनोपलालितः। न त्वाशीविष इव परिहृतः ॥ २७ ॥
१इवाङ्गेन–ङ।
२परिधृत–च।
परिहृतः–परिधृतः। यद्वा अङ्के–अङ्कात् न परिहृतः, किन्तु धृतः–गो।
॥ २।७।२७ ॥ ॥ २।७।२८ ॥
यथा हि कुर्यात् सर्पो वा शत्रुर्वा प्रत्युपेक्षितः।
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २८ ॥
आज्ञानादपरिहारमूलोऽनर्थश्च सम्प्रवृत्त इदानीमित्याह–यथेत्यादि। प्रत्युपेक्षितः–उपेक्षितपरिहारः यथाकरोति, तथा कृतेति योजना ॥
॥ २।७।२८ ॥ ॥ २।७।२९ ॥
पापेना नृतसान्त्वेन बाले नित्यसुखोचिते
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २९ ।
कथं कृतेत्यतः–पापेनेत्यादि। अनुबन्धः–पुत्रादिपरिकरः ॥
पूर्वं उपस्थितं प्रयुञ्जानः–ऽ इत्युक्तोऽर्थः अनेन सङ्गृहीतः।
॥ २।७।२९ ॥ ॥ २।७।३० ॥
१सम्प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० ॥
१सा प्राप्तकालं, सा प्राप्तकाला–ङ।
सम्प्राप्तकालं–सम्प्राप्तानुष्ठानकालम्। विस्मयकरं दर्शनं यस्याः सा तथा।
अवश्यकर्तव्याकरणेनोपेक्षणात् तत्स्वभावदर्शनस्य विस्मयकरत्वम्। विस्मयकररूपानुभावेऽ इत्यर्थस्तु प्रकृतानुपयोगादुपेक्ष्यः ॥
१सा प्राप्तकालं, सा प्राप्तकाला–ङ।
इदं हितविशेषणम्।
गोविन्दराजीये एवमुक्तम्। तेन स्वेष्टसाधनसम्पत्तिरुक्तेति भावः।
॥ २।७।३० ॥ ॥ २।७।३१ ॥
मन्थराया वचः श्रुत्वा शयनात् सा शुभानना।
उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥ ३१ ॥
एवं दैवहतया मन्थरया तदनर्थत्वेन प्रकाशिते सति महार्थे कैकेयी महाकुलप्रसूता महाराजमहीषीत्वतः निसर्गकल्याणगुणतः सर्वथार्थभूतं रामाभिषेकं महार्थमेव मन्यते स्मेति प्रतिपाद्यते–मन्थराया इत्यादि।
॥ २।७।३१ ॥ ॥ २।७।३२ ॥
अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता।
१एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ ३२ ॥
विस्मयान्वितेति। अत्यद्भुताभ्युदयो मयाऽद्य श्रुत इति। एकमाभरणं ददाविति। कौसल्यावदेव पुत्राभ्युदयवादित्वादेव तस्याः किमप्याभरणं ददावित्यर्थः ॥ ३२ ॥
१दिव्यमाङ।
॥ २।७।३२ ॥ ॥ २।७।३३३४ ॥
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा।
कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ ३३ ॥
इदं तु मन्थरे मह्यं १आख्यासि परमं प्रियम्।
एतन्मे प्रियमाख्यातं भूयः किं वा करोमि ते ॥ ३४ ॥
हे मन्थरे यदिदमाख्यासि एतत् मे परमं प्रियमेव हि। यदेतन्मे प्रियमाख्यातं अत्र ते भूयो–अभ्यधिकं किं वा प्रीतिदानं करवाणि ॥ ३४ ॥
१आख्यानं–ङ।
॥ २।७।३३३४ ॥ ॥ २।७।३५ ॥
रामे वा भरते वाऽहं विशेषं नोपलक्षये।
तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३५ ॥
ननु कथं ज्ञातिश्रेयःश्रुतिः प्रियं इत्यत्राह–राम इत्यादि। विशेषमिति। पुत्रत्वप्रयुक्तस्नेहे विशेषमित्यर्थः ॥ ३५ ॥
॥ २।७।३५ ॥ ॥ २।७।३६ ॥
न मे परं किञ्चि१दितो वरं पुनः
प्रियं प्रियार्हे सुवचं वचोऽमृतम्
तथा ह्यवोचस्त्वमतः प्रियोत्तरं
वरं परं ते प्रददामि तं वृणु ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तमः सर्गः।
न म इत्यादि। हे प्रियार्हे–प्रियदानार्हे त्वया पुनः मे यत् प्रियं वरं वच उक्तं, इतः परं अभ्यधिकं किञ्चित्प्रियं त्वया न सुवचम्। हि–यस्मात् तथा तादृशं प्रियोत्तरं वचोऽवोचः त्वं, अतोऽस्मादेव कारणात् परं वरं ते प्रददामि, तं वृणु। मार्ग (३५) मानः (?) सर्गः ॥ ३६ ॥
१दितस्त्वयाङ।
प्रियोत्तरं–प्रीतिविषयेषु श्रेष्ठम्, उपयुदीच्यश्रेष्ठेष्वप्युत्तरःऽ–गो।
॥ २।७।३६ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तमः सर्गः।