००६ अभिषेकार्थं जनोल्लासः

षष्ठः सर्गः

[पौरोत्साहः]

॥ २।६।१ ॥

गते पुरोहिते रामः स्नातो नियतमानसः।

सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥

अथ आदरात् पुनश्चाभिषेकसामग्रीसन्नाहवर्णनम्–गत इत्यादि। उपागमदिति। ध्यानेनेति शेषः। नाविष्णुः पृथिवीपतिःऽ इति शास्त्रात् विष्णोरेवे राज्यायोपासितव्यत्वात् सर्वेषामेषां विष्णूपासना ॥ १ ॥ अत्र नारायण इति श्रीरङ्गनायक उच्यते, उत्ररत्र तस्यैव विभीषणाय दानोक्तेः–गो।

उपागमत्–उपासांचक्रे–ति।

॥ २।६।१ ॥ ॥ २।६।२ ॥

प्रगृह्य शिरसा पात्रीं हविषो विधिवत्ततः।

महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥

शिरसा पात्रीं प्रगृह्येति। नमस्कारपूर्वमिति यावत्। महते दैवतायेति। विराड्रूपाय विष्णव इत्यर्थः ॥ २ ॥

महते दैवताय–नारायणाय–गो। ति।

॥ २।६।२ ॥ ॥ २।६।३४ ॥

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्।

ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥

वाग्यतः सह वैदुह्या भूत्वा नियतमानसः।

श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥

आशास्य–सम्प्रार्थ्य। विष्णोरायतन इति। निजभवनवर्तिनीति शेषः ॥ ४ ॥

आत्मनः प्रियंराज्याभिषेकाविघ्नरूपम्। वस्तुतो रावणवधफलकवनमगनरूपम्ति।

स्वस्य साक्षाद्भगवदवतारत्वेऽपि श्रीरङ्गविग्रहार्चोपसर्जनभावः स्वावतारानुमतक्षत्रियधर्मानुगुणः–गो।

॥ २।६।३४ ॥ ॥ २।६।५६ ॥

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः।

अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥

तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम्।

पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥

सूताःपौराणिकाः। मागधाः–वंशावलिकीर्तकाः। वन्दिनः–स्तुतिपाठकाः ॥ ६ ॥

॥ २।६।५६ ॥ ॥ २।६।७ ॥

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्।

विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७ ॥

वाचयामासेति–पुण्याहमिति शेषः ॥ ७ ॥

अनेन नूतनवस्त्रपरिवृत्त्या प्रातर्गौणस्नानमुक्तम्–गो।

॥ २।६।७ ॥ ॥ २।६।८ ॥

तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा।

अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥

तूर्यघोषानुनादितः–सञ्जातानुनादः ॥ ८ ॥

॥ २।६।८ ॥ ॥ २।६।९१० ॥

कृतोपवासं तु तदा वैदेह्या सह राघवम्।

अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्।

प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ १० ॥

शोभयितुं–अलङ्कर्तुम् ॥ १० ॥

राघवं कृतोपवासं श्रुत्वेत्यन्वयः।

॥ २।६।९१० ॥ ॥ २।६।१११२ ॥

शुभ्राभ्रशिखराभेषु देवतायतनेषु च।

चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ ११ ॥

नानापण्यसमृद्धेषु वणिजामापणेषु च।

कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥

चैत्यं–बुद्धालयः। अट्टालकाः–सावच्छेदानि प्राकारसरांसि ॥

चैत्येषु–बौद्धालयेषु अट्टालकेषु–प्राकारोपरि युद्धार्थपरिकल्पितचतुस्तंभमण्डपेषु–गो। चैत्यंचैतन्यंयेष्वस्तीति अर्शआद्यजन्तः देवतायतनादि विशेषणम्–शि। परन्तु सुन्दरकाण्डे चैत्यप्रासादःऽ (४३१) इत्यत्र चैत्यपदस्य देवालयसामान्यपरत्वं सर्वव्याख्यातृसम्मतं वर्तते। चैत्यमायतनं तुल्येऽ इत्यमरः (द्वि। पुर ७श्लो।) अत्र–सुधा “चीयते–चित्याग्निचित्ये चऽ (पा। सू। ३११३२) इति साधुः। चित्याया इदं– तस्येदम्ऽ (पा। सू। ४३१२०) इत्यण्–यज्ञस्थानस्य” इति। एवं च चैत्यंयज्ञशाला इति स्यात्।

॥ २।६।१११२ ॥ ॥ २।६।१३ ॥

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च।

ध्वजाः समुच्छ्रिताः चित्राः पताकाश्चाभवंस्तदा ॥ १३ ॥

आलक्षितेषु वृक्षेष्विति। आरात्तत्तद्गृहद्वारलक्षितेषु नारिकेलपनसादितोरणवृक्षेषु ॥ १३ ॥

आलक्षितेषु–अत्युच्चेषु। समुन्नतत्वाद्दूरादप्यक्षिगोचरेष्वित्यर्थः–गो।ति। ध्वजाः–सचिह्नाः, पताकाः–चिह्नरहिताः–गो।

॥ २।६।१३ ॥ ॥ २।६।१४ ॥

नटनर्तकसङ्घानां गायकानां च गायताम्।

मनःकर्णसुखा वाचः शुश्राव जनता ततः ॥ १४ ॥

नटयन्तीति नटाः–सूत्रधाराः ॥ १४ ॥

॥ २।६।१४ ॥ ॥ २।६।१५१८ ॥

रामाभिष्टवयुक्ताश्च कथाश्चक्रुर्मिथो जनाः।

रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥

बाला अपि क्रीडमानाः गृहद्वारेषु सङ्घशः।

रामाभिष्टवसंयुक्ताः चक्रुरेव मिथः कथाः ॥ १६ ॥

कृतपुष्पोपहारश्च धूपगन्धाधिवासितः।

राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ १७ ॥

१प्रकाशीकरणार्थं च निशागमनशङ्कया।

दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः ॥ १८ ॥

अभिषेकानन्तरं गजस्कन्धाधिरूढतया अभिषेकालङ्कारप्रदर्शनार्थं निर्याणात्पूर्वमेव यदि कार्यवशान्निशा आयाति तदा श्रीरामालङ्कारप्रदर्शनार्थं दीपवृक्षान्– वृक्षवन्नानाशाखानिर्मितदीपस्तम्भविशेषानित्यर्थः ॥

१प्रकाश–ङ।

अनुरथ्यासु–रथ्यासु रथ्यासु, विभक्तेर्लुगभाव आर्षः–सो। अनुरथ्यासुरथ्यापार्श्वयोः–ति।

॥ २।६।१५१८ ॥ ॥ २।६।१९२२ ॥

अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः।

आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥

समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च।

कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥

अहो महात्मा राजाऽयं इक्ष्वाकुकुलनन्दनः।

ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २१ ॥

सर्वे ह्यनुगृहीताः स्मो यन्नो रामो महीपतिः।

चिराय भविता गोप्ता द़ृष्टलोकपरावरः ॥ २२ ॥

दृष्टलोकपरावर इति। भावप्रधाननिर्देशः। यथावगततत्तत्पुरुषप्राशस्त्याप्राशस्त्य इत्यर्थः ॥ २२ ॥

दृष्टे लोके परावरे–उत्कृष्टापकृष्टवस्तुनी येन स तथोक्तः–गो। दृष्टाः लोकाः–भुवनानि–परावराः–उत्तमाधमाश्च येन सः–शि।

॥ २।६।१९२२ ॥ ॥ २।६।२३२५ ॥

अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः।

यथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः ॥ २३ ॥

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः।

यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥

एवंविधं कथयतां पौराणां शुश्रुवुः परे।

दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥

श्रुतरामाभिषेकवृत्तान्ता जानपदा जना अपि दिग्भ्यः–नानादिग्भ्यः प्राप्ताः ॥ २५ ॥

॥ २।६।२३२५ ॥ ॥ २।६।२६ ॥

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्।

रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥

ते तु रामस्य पुरीं पूरयामासुरिति योजना ॥ २६ ॥

कविरपि रामाभिषेकस्मरणजानन्दवशात्–रामस्य पुरीमित्याह।

॥ २।६।२६ ॥ ॥ २।६।२७२८ ॥

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः।

पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥ २७ ॥

ततस्तदिन्द्रक्षयसन्निभं पुरं

दिदृक्षुभिर्जानपदै१रुपागतैः।

समन्ततः सस्वनमाकुलं बभौ

समुद्रयादोभिरिवार्णवोदकम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षष्ठः सर्गः।

इन्द्रक्षयः–इन्द्रनिवासः। हरि (२८) मानः सर्गः ॥ २८ ॥

अयोध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्रभवनदृष्टान्तीकरणात् अयोध्याया अतिरमणीयता द्योत्यते–गो। उपाहितैः–उपागतैः।

१ रूपाहितैःङ।

कर्णावतंसादिवदविश्लेषप्रदर्शनाय समुद्रशब्दः–गो।

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षष्ठः सर्गः।

॥ २।६।२७२८ ॥