पञ्चमः सर्गः
[अभिषेकपूर्वाङ्गचर्याचरणम्]
॥ २।५।१२ ॥
सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने।
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ १ ॥
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन
श्रेयसे राज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥
अथ उपवासस्य पुरोहितेन सङ्कल्पमन्त्रादिसाध्यत्वात् तदर्थं पुरोहितनियोगः–सन्दिश्येत्यादि। उपवासं काकुत्स्थमिति। गतिबुद्धिऽ इत्याद्यनुवर्तने, हृक्रोरन्यतरस्याम्ऽ इति कर्मत्वं अणौ कर्तुः ॥
॥ २।५।१२ ॥ ॥ २।५।३४ ॥
तथेति च स राजानं उक्त्वा वेदविदां वरः।
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ ३ ॥
उपवासयितुं रामं १मन्त्रवन्मन्त्रकोविदः।
ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः ॥ ४ ॥
स्वयमिति। रामविषयराजशासनत्वादेव ब्राह्मं–ब्राह्मणवहनार्हम् ॥ ४ ॥
तदर्हम्ऽ इति वतिप्रत्ययान्तमव्ययमिदम्। युक्तं–वाजिभिस्संयोजितम्।
१ मन्त्रविन्मन्त्रकोविदम्–ङ। च।
आदेष्टापि राजा, आदेष्टव्यश्च राजकुमारः, अतः स्वयं ययौ इत्यर्थः।
॥ २।५।३४ ॥ ॥ २।५।५ ॥
स रामभवनं प्राप्यपाण्डराभ्रघनप्रभम्।
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ ५ ॥
अभ्रे–आकाशे विद्यमानो घनः–अभ्रघनः। एतेन पर्वतस्थघनव्यावृत्तिः। ततः पाण्डरशब्देन कर्मधारयः, तस्येव प्रभा यस्य तत् तथा ॥ ५ ॥
पाण्डुराभ्रमूर्तसदृशप्रभम्–गो। पाण्डुराभ्रवन्निबिडप्रभम्–ति
॥ २।५।५ ॥ ॥ २।५।६ ॥
तमागतमृषिं रामस्त्वरन्निव ससंभ्रमम्।
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥ ६ ॥
त्वरन्निव–त्वरन्नेव। मानयिष्यन्निति। प्रत्युत्थानरूपं सम्मानं करिष्यन् ॥ ६ ॥
॥ २।५।६ ॥ ॥ २।५।७८ ॥
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७ ॥
स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च।
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥ ८ ॥
सम्भाष्याभिप्रसादनं– सुखमुपविष्टोऽसि वत्सऽ इत्यादिरूपम् ॥
॥ २।५।७८ ॥ ॥ २।५।९११ ॥
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि।
उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ १० ॥
इत्युक्त्वा स तदा रामं उपवासं यतव्रतम्।
१मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥ ११ ॥
रामं उपवासमिति प्राग्वत् (श्लो। २) कर्मत्वम् ॥ ११ ॥
१ मन्त्रवित्–ङ।
॥ २।५।९११ ॥ ॥ २।५।१२ ॥
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥
राज्ञः–दशरथस्य ॥ १२ ॥
॥ २।५।१२ ॥ ॥ २।५।१३ ॥
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः।
सभाजितो विवेसाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥
विवेशेति। स्वं वेश्मेति शेषः। तान्–सुहृदः ॥ १३ ॥
॥ २।५।१३ ॥ ॥ २।५।१४१५ ॥
प्रहृष्टनरनारीकं रामवेश्म तदा बभौ।
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १४ ॥
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्।
निस्सृत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ १५ ॥
राजभवनं–मूलराजभवनम् ॥ १५ ॥
॥ २।५।१४१५ ॥ ॥ २।५।१६ ॥
बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः।
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥ १६ ॥
बृन्दबृन्दैः–बृन्दबृन्दतया संहितैः कुतूहलजनैः सम्बाधा बभूवुरिति योजना ॥ १६ ॥
बृन्दानुबद्धानि बृन्दानि येषां ते बृन्दबृन्दाःगो। बृन्दानां बृन्दैःति।
॥ २।५।१६ ॥ ॥ २।५।१७ ॥
जनबृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा।
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १७ ॥
जनबृन्दरूपाणामूर्मिणां संघर्षपूर्वको यो हर्षस्वनः, तद्वृत इत्यर्थः। एतेन सागरोपमासमर्थनं कृतम् ॥ १७ ॥
॥ २।५।१७ ॥ ॥ २।५।१८ ॥
सिक्तसंमृष्टरथ्या च तदहर्वनमालिनी।
आसीदयोध्या नगरी समुच्छ्रितगृहध्वचा ॥ १८ ॥
तदहः–तस्मिन्नहनि। वीमाला–तोरणमाला, व्रीह्यादित्वादिनिः ॥ १८ ॥
॥ २।५।१८ ॥ ॥ २।५।१९ ॥
तदा ह्ययोध्यानिलयः सस्त्रीबाला१कुलो जनः।
रामाभिषेकमाकांक्षन् २आकाङ्क्षन्नुदयं रवेः ॥ १९ ॥
स्त्रीबालैः सहितः सस्त्रीबालः स चासावाकुलश्च सन्तोषात् संभ्रान्तचित्तः तथा।
रामाभिषेकमाकांक्षन्, तदर्थमिति शेषः, रवेरुदयमाकांक्षन् अभूत् ॥ १९ ॥
१ बलो जनः–ङ।
उदयमाकाङ्क्षत्–गो।
२ आकाङ्क्षदुदयं–ङ।
॥ २।५।१९ ॥ ॥ २।५।२० ॥
प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम्।
उत्सुकोऽभूञ्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २० ॥
प्रजानामलङ्काराः भूताः–सिद्धाः यस्मिन् तत्तथा। सर्वतः समुद्भूतप्रजालङ्कारवतीत्यर्थः। द्रष्टुमुत्सुकोऽभूदिति। प्रासादेषु स्थित्वेति शेषः ॥ २० ॥
प्रजालङ्करणहेतुभूतं, प्रजालङ्कारप्रचुरमिति वागो।
॥ २।५।२० ॥ ॥ २।५।२१ ॥
एवं तं जनसम्बाधं राजमार्गं पुरोहितः।
व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥ २१ ॥
व्यूहन्निति। व्यूहविभाजनं कुर्वन्नित्यर्थः ॥ २१ ॥
॥ २।५।२१ ॥ ॥ २।५।२२२६ ॥
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २२ ॥
तमागतमभिप्रेक्ष्य हित्वा राजाऽऽसनं नृपः।
पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ २३ ॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २४ ॥
गुरुणा त्वभ्यनुज्ञातः मनुजौघं विसृज्य तम्।
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥
तदग्र्यवेषप्रमदाजनाकुलं
महेन्द्रवेश्मप्रतिमं निवेशनम्।
विदीपयंश्चारु विवेश पार्थिवः
शशीव तारागणसङ्कुलं नभः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चमः सर्गः।
आसनं हित्वेति। प्रत्युत्थायेति यावत्। पप्रच्छेति। अनुष्ठितकृत्यमिति शेषः। तत् कृतमिति। यदाज्ञप्तं तत् कृतमित्यर्थः। तार (२६) मानः सर्गः ॥ २६ ॥
राजासनं–सिंहासनं।
॥ २।५।२२२६ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चमः सर्गः।