चतुर्थः सर्गः
[रामाभिषेकनिश्चयः]
॥ २।४।१२ ॥
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्स निश्चयम् ॥ १ ॥
श्व एव पुष्यो भविता १श्वोऽभिषिच्येत मे सुतः।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २ ॥
एवं निश्चिताभिषेक उपदिष्टोपदेष्टव्योऽपि वृद्धत्वाद्विस्मृताभिषेकाङ्गपुत्रकर्तव्योपदेशः तदुपदेशाय पुनराहूयोपदिशति–गतेष्वित्यादि। निश्चयश्च कः? कीदृशः? इत्यतः–अभिषिच्येतेति। कर्मणि विधिलिङ्। निश्चयमिति पूर्वेण सम्बन्धः ॥ २ ॥
सामान्यतः पुष्ययुक्तदिने रामोऽभिषेच्य इति पूर्वं निर्णीतवान् राजाछ अनन्तरं विमर्शे च श्व एव पुष्ययुक्तदिवस इति ज्ञात्वा श्व एव राममभिषिषिक्षुः पुना राममाहूयादिशत्यस्मिन् सर्गे। अत एव तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहिऽ इति तत्र, श्व एव पुष्यो भविताऽ इति अत्र चोच्यते।
१श्वोऽभिषेच्यस्तुङ
॥ २।४।१२ ॥ ॥ २।४।३ ॥
अथान्तर्गृहमाविश्य राजा दशरथस्तदा।
सूतमामन्त्रयामास रामं पुनरिहानय ॥ ३ ।
अन्तर्गृहमाविश्येति। मन्त्रिणामपि विसर्जनानन्तरमिति शेषः ॥
आनयेत्यनन्तरं इति करणमूह्यम्।
॥ २।४।३ ॥ ॥ २।४।४५ ॥
प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥
द्वास्थैरावेदितं तस्य रामायागमनं पुनः।
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ ५ ॥
तस्य पुनरागमनमिति। सुमन्त्रस्यागमनमित्यर्थः। शङ्कान्वित इति। राज्ञ आपद्वा? आहोस्विदभिषेकविळम्बाय वेति ॥ ५ ॥
॥ २।४।४५ ॥ ॥ २।४।६७ ॥
प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्।
यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ॥ ६ ॥
तमुवाच ततस्सूतो राजा त्वां द्रष्टुमिच्छति।
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ ७ ॥ ९
त्वमेव प्रमाणं–निर्णायकः न हि किङ्करः स्वामिनं क्वचिन्नियोक्तुमीष्टे। यदेवमतो राजानं प्रति गमनाय वा इतराय वा–अगमनाय वा मतिं विधेहि स्वेच्छया। इतरस्यासर्वनामता ॥ ७ ॥
इतरस्य–इतरशब्दस्य।
॥ २।४।६७ ॥
॥ २।४।८९ ॥
इति सूतवचः श्रुत्वा रामोऽथ त्वरयाऽन्वितः।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।
प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ ९ ॥
प्रियमिति। १स्वयमिति शेषः ॥ ९ ॥
१स्वयमित्यर्थः–क।
॥ २।४।८९ ॥ ॥ २।४।१० ॥
प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥ १० ॥
दूरात् प्रणिपातः किं वदिष्यतीति भीत्या ॥ १० ॥
॥ २।४।१० ॥ ॥ २।४।१११२ ॥
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः।
प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ ११ ॥
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः।
अन्नवद्भिः क्रतुशतैः तथेष्टं भूरिदक्षिणैः ॥ १२ ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षतेऽ इति गीयमानत्वादन्नवदादिविशेषणम् ॥
॥ २।४।१११२ ॥ ॥ २।४।१३१४ ॥
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।
दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ १३ ॥
अनुभूतानि चेष्टानि मया वीरसुखान्यपि।
देवर्षिपितृविप्राणां अनृणोऽस्मि तथाऽऽत्मनः ॥ १४ ॥
देवर्षिपितृविप्राणामात्मनश्चानृणोऽस्मीति। अत्र सेन्द्रियग्रामो जीव आत्मा। तस्य देहग्रहस्तत्तदुत्थसुखानुभवप्रयोजनः। अनिषिद्धसुखत्यागी पशुरेव न संशयःऽ इति न्यायेन तत्तदुचितसुखसम्पादनं जीवात्मनामेव। यथा देवर्षिपितृ़णान्निजेन्द्रियवत् तदुपकारकत्वेन तदप्रत्युपकारे ऋणम्, एवं जीवस्य च साक्षात् स्वान्तःकरणज्योतिःप्रदानोपकारकत्वेन तदप्रत्युपकारेऽपि ऋणम्। विप्रैरेव जातकर्मादिसर्वसंस्कारसाधनेनाघनाशनात् तदप्रत्युपकारे च ऋणमस्य भवति। ऋष्यृणेविप्रर्णस्यान्तर्भावात् देवर्णे जीवर्णस्यान्तर्भावात् जायमानो वै ब्राह्मणःऽ इत्याद्याया श्रुत्या ऋणानि त्रीण्यपाकृत्यऽ इत्यादिस्मृत्या वर्णत्रयवादः। तत्र दत्तेन षोडशमहादानान्तदानेन विप्रर्णापाकरणम्। धर्माविरुद्धसुखभोगेन जीवर्णापाकरणञ्च जातमि १ त्युक्तम्–दत्तमित्यनेन, अनुभूतानि इत्यादिना च। शेषः प्रसिद्धः ॥ १३१४ ॥
देवानामनृणः क्रतुशतैः, ऋषीणामनृणोऽध्ययनेन, पितृ़णामनृणोऽपत्योत्पादनेन, विप्राणामनृणो दत्तेन, आत्मनोऽनृणः सुखानुभवेन। यद्यपि ब्रह्मचर्यादि ऋणत्रयं श्रुतिसिद्धम्– जायमानो वै ৷৷৷৷ पितृभ्यःऽ इति तथाऽपि ऋणपञ्चकमिति मतान्तरम्। यद्वा ऋणत्रयव्यपदेशः प्राधान्यात्, इतरयोरुपलक्षणत्वाद्वा। ननु देवादीनां पञ्चानां कथमुत्तमर्णत्वम्? अत्राहुः–देवानामिन्द्रियाधिष्ठातृणां जितेन्द्रियताकारकत्वेनोपकारकत्वात्, ऋषीणां वागुपकारकत्वात्, पितृ़णां तनूपकारकत्वात्, विप्राणां कर्माधीनसर्वसंस्कारसाधनेनाघनाशकत्वात्, आत्मनः शारीरेन्द्रियसङ्घातरूपस्य ज्ञानप्रकाशहेतुत्वेनोपकारकत्वाच्च तदप्रत्युपकारः पुरुषस्य ऋणमेव। अन्यत्र चोक्तं अनिषिद्धसुखत्यागी पशुरेव न संशयःऽ इतिगो।
वा ऋणऽ पदच्छेदः
१ त्याहग।
॥ २।४।१३१४ ॥ ॥ २।४।१५ ॥
न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात्।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥
यद्ब्रूयां तत्कर्तुमर्हसीति। विळम्बं मा कुर्विति यावत् ॥ १५ ॥
॥ २।४।१५ ॥ ॥ २।४।१६१७ ॥
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ १६ ॥
अपि चाद्याशुभान् राम स्वप्ने पश्यामि दारुणान्।
सनिर्घाता १दिवोल्का च पततीह महास्वना ॥ १७ ॥
इतश्चेतश्च कर्तुमर्हसीत्याह–अद्येत्याद्यपिचादिभ्याम्। दिव उल्का दिवोल्का, सन्धिश्छान्दसः। निर्घातः–अशनिरमेधः ॥ १७ ॥
१महोल्काश्च पतन्तीह–ङ।
॥ २।४।१६१७ ॥ ॥ २।४।१८२० ॥
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥
प्रायेण हि निमित्तानामीदृशानां समुद्भवे।
राजा हि मृत्युमाप्नोति घोरां वाऽपदमृच्छति ॥ १९ ॥
तद्यावदेव मे चेतो न १विमुञ्चति राघव।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥
नक्षत्रं–जन्मनक्षत्रम्। दारुणैः सूर्यादिभिः। तैः अवष्टब्धं–युगपत्पूर्णभावतयाधिष्ठितम्। आवेदयन्ति–तत्फलं चावेदयन्ति–प्रायेण चेत्यादिना। मृत्युः–आपच्च क्रमादुक्तोल्कानक्षत्रफले। मे चेतः–न विमुञ्चतीति–अभिषेकचिन्तां न विमुञ्चति–न विमुखं भवतीति यावत्, तावत्–ततः पूर्वमेव अभिषिञ्चस्व–कृताभिषेकं स्वात्मानं कुरु। कुत एवमभिषेकवैमुख्यप्रसक्तिशङ्केत्यत्राह–चलेत्यादि। सम्भावितसपत्नीवैमात्रेयादिजोपजापस्य च सम्भावितत्वादित्याशयः। अयमेवाशयः प्रकाशयिष्यते–विप्रोषितश्चेत्यादिना ॥ २० ॥
चेतः–त्वामभिषेक्ष्यामीति बुद्धिः–गो
१। विमुह्यति–ङ। च।
॥ २।४।१८२० ॥ ॥ २।४।२१ ॥
अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं १पुनर्वसू।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ २१ ॥
पुष्ययोगं श्वो नियतमिति–शुद्धगणितनिश्चितमित्यर्थः। वक्ष्यन्त इति। कालस्तङ् च छान्दसः–वदन्तीति यावत् ॥ २१ ॥
१ पुनर्वसुं–ङ। च।
पुष्ययोगं–पुष्येण चन्द्रस्य योगं नियतं–अभिषेकनियतं, प्रशस्तभित्यर्थःगो।
॥ २।४।२१ ॥ ॥ २।४।२२ ॥
१तत्र पुष्येऽभिषिञ्चस्व मनस्त्वंरयतीव माम्।
श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परन्तप ॥ २२ ॥
तत्र पुष्य इति। राजाभिषेकपरिगणितनक्षत्र इत्यर्थः। त्वा–त्वां इत्यर्थः ॥ २२ ॥
१ततः–ङ।
॥ २।४।२२ ॥ ॥ २।४।२३ ॥
तस्मात्त्वयाऽद्य १प्रभृति निशेयं नियतात्मना।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥
अद्यप्रभृतीति। प्रदोषकालमारभ्येति यावत् ॥ २३ ॥
अद्यप्रभृति–एतदहरारभ्य निशा उपवस्तव्या। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यःऽ इति भोजननिवृत्यर्थस्य वसेरकर्मकत्वादत्र सकर्मकत्वमार्षम्–गो।
१। व्रतिनाङ।
॥ २।४।२३ ॥ ॥ २।४।२४ ॥
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥
सुहृद्भिरपि रक्षणं किमर्थमपेक्ष्यमित्यत्र–भवन्तीत्यादि। बहुविघ्नानीति बहुव्रीहिः ॥ २४ ॥
॥ २।४।२४ ॥ ॥ २।४।२५ ॥
विप्रोषितश्य भरतो यावदेव पुरादितः।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥
इतः पुरादिति। अस्मात्पुरादित्यर्थः। तावदेवेति। ततः पूर्वमेवेत्यर्थः ॥ २५ ॥
केकयराजाय राज्यशुल्कं दत्त्वा कैकेयीं विवाहितवान् तं वृत्तान्तं हृदि कृत्वाह–विप्रोषित इति। (अयं वृत्तान्तः अयो। १०७३श्लोके स्पष्टः) गो।
॥ २।४।२५ ॥ ॥ २।४।२६२७ ॥
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥
१किन्तु चित्तं मनुष्याणां अनित्यमिति मे २ मतिः।
सतां च धर्मनित्यानां कृतशोभि च राघव ॥ २७ ॥
यद्यपि भरते त्वदभिषेकवैमत्यमसम्भाव्यं, अथापि लोकस्थितिस्त्वेवमित्याह–कामं खल्वित्यादि। ज्येष्ठस्याभिषेकसुखं न हन्तव्यमित्यनुक्रोशसहितः–घृणासहितः प्रायेण अथापि–किन्तु–लोकस्थितौ विशेषोऽस्ति। कथम्? –मनुष्याणां चित्तं तद्गतस्नेहादिकं अनित्यमेव सति विकारनिमित्ते विक्रियेतैवेत्यर्थः। उक्त एवार्थः प्रदर्श्यते–सतामित्यादि। सतामपि–३सत्कुलप्रसूतानामपिधर्मनित्यानामपि चित्तं कृतशोभि–येन येन निमित्तेन यद्यत्कृतं रागोद्वेषादिर्वा, तेन तेनैव शोभि सर्वथा, न तु स्वतो नियतकिञ्चित्स्वभावम्। तथात्वे सुखदुःखोर्मिमालासंसाराकूपारावस्थानायोगात्। कृतशोभीत्यत्र यद्वा भट्टो बहु जल्पति, तत्र न किञ्चिदपि सङ्गतं पश्यामः ॥ २७ ॥
कामं–यद्यपि। वृत्ते–शीले।
१किन्नु–ङ।
२मनः–ङ।
सामान्यप्रयुक्तदोषो विशेषे न संक्रमत इत्याह–सतां त्विति। तुशब्दः पक्षव्यावृत्त्य्रर्थः। धर्मनित्यानां–धर्मैकनिरतानां कृतशोभि–कृतेन परस्परोपकारेण शोभते न तु भेदं प्राप्नोति। अन्ये त्वेवं व्याचक्षते– धर्मनित्यानां चित्तं कृतशोभि–कृतेन परकृतमित्रभेदादिना शोभितुं शीलमस्यास्तीति कृतशोभीति। अन्ये त्वाहुः–सतां चित्तं कृतेन कार्येण शोभते, न तु करिष्यमाणेन। कृतं कार्यमनुमादते। न तु करिष्यमाणमिति भाव इति–गो।ऽ
३सत्कुलेग।
अत्र मातृकासु बहुशोभीत्यत्रऽ इत्येव पाठ उपलभ्यते। परन्तु अधस्तात् कृतशोभिऽ इत्येव व्याख्यातत्वात् एवं निवेसितम्। यद्वा भट्टःऽ इति कस्यचिन्नाम परिहासनिबन्धनम्। यः स्वव्याख्यायां यद्वा–यद्वा–ऽ इति बहुकल्पान्वदति सः यद्वा भट्टःऽ –इत्युक्तः। प्रायोऽयं गोविन्दराज एव स्यात्। सप्तमसर्गप्रथमश्लोकीयव्याख्याटिप्पण्योर्दर्शने इदं युक्तं प्रतिभाति।
॥ २।४।२६२७ ॥ ॥ २।४।२८ ॥
इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्याभिषेचने।
व्रजेति रामः पितर १ माभिवाद्याभ्ययाद्गृहम् ॥ २८ ॥
अभिषेचनेऽभ्यनुज्ञातः इदानीं व्रजऽ इति चाभ्यनुज्ञातः इत्यनुकर्षः ॥ २८ ॥
१मभिभाष्याङ।
॥ २।४।२८ ॥ ॥ २।४।२९ ॥
प्रविश्य चात्मनो वेश्म रा १ ज्ञोद्दिष्टेऽ भिषेचने।
२ तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ ॥ २९ ॥
राज्ञोद्दिष्टेऽभिषेचने तदपेक्षितराजोपदिष्टसभार्योपवासानुष्ठाननिवेदनाय तत्क्षणादेव मातुरन्तःपुरं ययौ ॥ २९ ॥
१राज्ञादिष्टे–ङ।
निमित्तसप्तमी। राज्ञोद्दिष्टमभिषेकं कथयितुमित्यर्थः–गो।
२तत्क्षणेन–च।ङ।
॥ २।४।२९ ॥ ॥ २।४।३० ॥
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्।
वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ ३० ॥
प्रवणां–देवताप्रार्थनाञ्जलिवशात् प्रह्वाम्। ददर्शायाचतीमिति छन्दसि दीर्घः। रामाय श्रियं याचतीमिति यावत् ॥ ३० ॥
प्रवणां–स्वासाधारणदेवतासक्तचित्ताम्। ৷৷। ৷৷। आयाचतीं–प्रार्थयन्तीं–गो।
॥ २।४।३० ॥ ॥ २।४।३१ ॥
प्रागेव चागता तत्र सुमित्रा लक्ष्मण १ स्तथा।
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥
सीता चानायितेति–स्वगमनानन्तरमिति शेषः ॥ ३१ ।
सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता। लक्ष्मणश्च तदा सुमित्राऽऽगमनकाले आगतः। सीता तु परतन्त्रत्वात् स्वयं नागता, किन्तु दासीभिरानायितागो।
१ स्तदा–ङ।
॥ २।४।३१ ॥ ॥ २।४।३२३३ ॥
तस्मिन् कालेऽ१पि कौसल्या तस्थावामीलितेक्षणा।
सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च ॥ ३२ ॥
श्रुत्वा २पुष्येण पुत्रस्य यौवराज्याभिषेचनम्।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥
तस्मिन् कालेऽपीति।–रामस्य मातृसमीपगमनकालेऽपीत्यर्थः। आमीलितेक्षणा–ध्यानवशात्। पुष्येण–पुष्ये श्वोऽभिषेको मे भविता यथा–यथादिष्टं पितुश्शासनमेवमिति शेषः ॥ ३३ ॥
१ तु, हि, चङ।
२ पुष्ये च पुण्येन–ङ।
॥ २।४।३२३३ ॥ ॥ २।४।३४३६ ॥
तथा सनियमामेव सोऽभिगम्याभिवाद्य च।
उवाच वचनं रामो हर्षयंस्तामनिन्दिताम् ॥ ३४ ॥
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि।
भविता श्वोऽभिषेकोऽयं यथा मे शासनं पितुः ॥ ३५ ॥
सीतयाऽप्युपवस्तव्या रजनीयं मया सह।
एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता ॥ ३६ ॥
एवमिति कथम्? इत्यतः–सीतयेत्यादि। न केवलं पितुरेवायं नियोगः, अपि तु सर्वनियोक्तृनियोग इत्याह–एवमृत्विगित्यादि ॥ ३६ ॥
॥ २।४।३४३६ ॥ ॥ २।४।३७ ॥
यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने।
तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ ३७ ॥
मङ्गलानि–१मङ्गलार्हगन्धमाल्याम्बराभरणादीनि ॥ ३७ ॥
१ महार्ह–क।
॥ २।४।३७ ॥ ॥ २।४।३८ ॥
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्।
हर्षबाष्प १ कलं वाक्यं इदं राममभाषत ॥ ३८ ॥
हर्षजो बाष्पः, तेन कलं–अव्यक्तमधुरम् ॥ ३८ ॥
१ बाष्पाकुलं–ङ। च।
॥ २।४।३८ ॥ ॥ २।४।३९ ॥
वत्स राम चिरं जीव हतास्ते परिपन्थिनः।
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥
हता इति। सन्त्विति शेषः। मे–मम सुमित्रायाश्च ज्ञातीन्–बन्धून् अभिनन्दय ॥ ३९ ॥
॥ २।४।३९ ॥ ॥ २।४।४० ॥
१कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक।
येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥
कल्याणे नक्षत्र इति। शुभकाल इति यावत्। जात इति। जनित इति यावत्। येनेति। बहुगुणशुभकालजन्मप्राबल्येनेति यावत् ॥ ४० ॥
१कल्याणेऽदिति–ङ।
बतेति सन्तोषे। खेदानुकाम्यासन्तोषविस्मयाऽऽमन्त्रणे बतऽ इत्यमरः–गो
॥ २।४।४० ॥ ॥ २।४।४१ ॥
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे।
येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ ४१ ॥
पुष्करेक्षणे पुरुषे यत् क्षान्तं–क्षमाप्रधानं तपोऽनुष्ठितं, तत् अमोघं बत–सफलं जायते किल। बतेति हर्षे ॥ ४१ ॥
क्षान्तं–व्रतोपवासादिक्लेशसहनम्–गो।
॥ २।४।४१ ॥ ॥ २।४।४२ ॥
इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत्।
प्राञ्जलिं प्रह्वमासीनं अभिवीक्ष्य स्मयन्निव ॥ ४२ ॥
१रामः स्वप्रयोजनं लक्ष्मणाय साधारणीकरोति–इत्येवमुक्त इति। इवशब्द इह सर्वत्र एवार्थे ॥ ४२ ॥
१ रामस्य प्रयोजनंक।
॥ २।४।४२ ॥ ॥ २।४।४३ ॥
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धराम्।
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ ४३ ॥
प्रशाधीति। शाभावस्यासिध्या धित्वम्। अन्तरात्मा–प्राणः ॥
॥ २।४।४३ ॥ ॥ २।४।४४ ॥
सौमित्रे भुङ्क्ष्व भोगांस्त्वं इष्टान् राज्यफलानि च।
जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ ४४ ॥
भोगाः–विषयभोगाः, राज्यफलं–अर्थो धर्मश्च, तच्च प्राप्नुहि। त्वदर्थमिति। न स्वप्रयोजनाय ॥ ४४ ॥
॥ २।४।४४ ॥ ॥ २।४।४५ ॥
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च।
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनन् ॥ ४५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्थः सर्गः।
अभ्यनुज्ञाप्येति। लक्ष्मणद्वारेति शेषः। जानातेः ज्ञपेर्वा हेतुमण्ण्यन्ताल्ल्यप्। मघा (४५) मानः सर्गः ॥ ४५ ॥
मातृभ्यामिति शेषः–गो। सीतां स्वं चाभ्यनुज्ञाप्य–सीतायै स्वस्मै च मातृभ्यामनुशां दापयित्वा–ति।
॥ २।४।४५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्थः सर्गः।