००३ अभिषेकसम्भारसङ्ग्रहणम्

तृतीयः सर्गः

[दशरथेन रामानुशासनम्]

॥ २।३।१ ॥

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।

प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥

एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिः–तेषामित्यादि। अञ्जलिरूपाणि पद्मानि तथा।

प्रगृहीतानीति–प्रकर्षेण शिरसि बद्धानि इत्यर्थः। वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगमञ्जलीनां प्रतिग्रहः इति ॥

॥ २।३।१ ॥ ॥ २।३।२३ ॥

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।

यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २ ॥

इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत्।

वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥

प्रत्यर्चितान् नृपान् कृत्वा अथ ब्राह्मणानिदमब्रवीदिति योजना। तेषामित्यादि। ब्राह्मणेषूपश्ऱृण्वत्स्विति यावत् ॥ ३ ॥

अहोऽस्मीति सन्धिरार्षः। प्रभावःवैभवं, आनन्दानुभवसाधनम्।

॥ २।३।२३ ॥ ॥ २।३।४६ ॥

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।

यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।

शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥ ५ ॥

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ६ ॥

जनघोष इति। रामाभिषेकसम्भारसम्भरणश्रवणज इति शेषः। वसिष्ठं इति। वामदेवमिति शेषः ॥ ६ ॥

॥ २।३।६ ॥ ॥ २।३।७ ॥

अभिषेकाय रामस्य यत्कर्म सपरिच्छदम्।

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥ ७ ॥

परिच्छदः–परिकरः ॥ ७ ॥

॥ २।३।७ ॥ ॥ २।३।८ ॥

तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः।

आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ ८ ॥

युक्तान् सावधानात्, मन्त्रिण इति शेषः ॥ ८ ॥

॥ २।३।८ ॥ ॥ २।३।९ ॥

सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि।

शुक्लमाल्यांश्च लाजांश्च पृथक् च मधुसर्पिषी ॥ ९ ॥

बलीन्–विघ्नशान्तिप्रयोजनबल्यर्थपदार्थान्। पृथक्–पृथक्पात्रगृहीते ॥ ९ ॥

॥ २।३।९ ॥ ॥ २।३।१० ॥

अहतानि च वासांसि रथं सर्वायुधान्यपि।

चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ १० ॥

अहतं–सदशं अधृतं नूतनम् ॥ १० ॥

“ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम्। अहतं तद्विजानीयात् दैवे पित्र्ये च कर्मणि” इत्युक्तरीत्या अहतं सदशं धौतं नूतनमित्यर्थःगो।

॥ २।३।१० ॥ ॥ २।३।११ ॥

चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम्।

शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥ ११ ॥

शातकुम्भानां–सुवर्णनिर्मितानामिति यावत् ॥ ११ ॥

॥ २।३।११ ॥ ॥ २।३।१२,१३ ॥

हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च।

उपस्थापयत प्रातरग्न्यगारं महीपतेः ॥ १२ ॥

यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ १३ ॥

यच्चान्यदिति। अनुक्तं लोकसिद्धं गन्धपुष्पादिकमवश्यमेव एष्टव्यमस्ति तदपीत्यर्थः। अग्न्यगारंअग्निहोत्रगृहम् ॥ १२ ॥

हिरण्यशृङ्गंहिरण्यालङ्कृतशृङ्गम्।

॥ २।३।१२,१३ ॥ ॥ २।३।१४ ॥

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।

चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ १४ ॥

अन्तःपुरं–राजवेश्म। घ्राणहारिभिरिति। घ्राणतर्पणैरित्यर्थः ॥

॥ २।३।१४ ॥ ॥ २।३।१५१६ ॥

प्रशस्तमन्नं १गुणवद्दधिक्षीरोपसेचनम्।

द्वीजानां शत २ साहस्रं यत्प्रकाममलं भवेत् ॥ १५ ॥

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।

घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ १६ ॥

शतसाहस्रं यदिति। अनेकं प्रति यत् प्रागुक्तं प्रशस्तमन्नं प्रकामं–यथेष्टं अलं–पर्याप्तं भवेत्, तथा तत् सम्पाद्य द्विजमुख्यानां चतुर्थ्यर्थे बहुलं छन्दसिऽ इति षष्ठी, द्विजमुख्येभ्यः श्वः प्रभाते सत्कृत्य दीयताम्। लाजा इत्यनेन लाजपरिकल्पितलड्डुकोच्यते ॥ १६ ॥

१विधिवङ।

विषयसप्तमीगो।

२साहस्रेङ।

तत् सम्पाद्यतामिति शेषःगो।

॥ २।३।१५१६ ॥ ॥ २।३।१७ ॥

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।

ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च।

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १७ ॥

आमन्त्रयन्तामिति। आमन्त्र्यन्तामिति यावत् ॥ १७ ॥

अत्र व्याख्या दृष्ट्या अमन्त्रयन्तां विप्राश्चऽ इति पाठः स्यादिति भाति।

॥ २।३।१७ ॥ ॥ २।३।१८ ॥

सर्वे च १तालापचरा गणिकाश्च स्वलङ्कृताः।

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १८ ॥

तालैरपचरन्तीति ताळापचराः,। चरिर्भक्षणार्थः, जीवन्तीति ताळापचरा नर्तकाः। कक्ष्यां द्वितीयामिति। अन्तः कक्ष्यायामभिषेकव्यापारप्रवृत्तेस्तत्र च ब्राह्मणैकवास्तव्यत्वादित्याशयः ॥ १८ ॥

१तालावचराङ।

॥ २।३।१८ ॥ ॥ २।३।१९ ॥

देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः।

उपस्थापयितव्याः स्युः माल्ययोग्याः पृथक्पृथक् ॥ १९ ॥

चैत्यं–चतुष्पथं, तत्र गणपतिपूजा। अन्नैर्भक्षैश्च सहिताः सान्नभक्षाः, भक्ष्यन्त इति भक्षाः,कर्मणि घञ्। सदक्षिणाः इत्यनेन विष्ण्वादि १ देवतालये गणपत्यालये च क्रमादन्नभक्षैर्दक्षिणोपेततया ब्राह्मणतर्पणं कर्तव्यमित्युक्तं भवति। माल्यप्रदानयोग्याः–माल्ययोग्याः, कर्मणि घञ्, अर्चनायोगसाधनगन्धाक्षताधूपादिसाधनानीत्यर्थः। पृथक्पृथगिति। देवतायतनचैत्ययोरित्यर्थः ॥ १९ ॥

देवायतनचैत्येषुदेवगृहेषु चतुष्पथेषु चेत्यर्थः। अन्नभक्षैस्सहवर्तन्त इति सान्नभक्षाः, अन्नमोदकहस्ता इति यावत्। माल्यप्रदानयोग्याः माल्ययोग्याः, मध्यमपदलोपिसमासः, माल्यार्थसाधनानि। पृथक् पृथगिति। देवायतनचैत्ययोरिति शेषः। ब्राह्मणैर्देवताः पूजनीया इत्यर्थःगो। चैत्याःरथ्यावृक्षाःती। ति।

१दैवाग।

॥ २।३।१९ ॥ ॥ २।३।२० ॥

दीर्घासि १ बद्धगोधाश्च सन्नद्धा मृष्टवाससः।

महाराजाङ्कणं सर्वे प्रविशन्तु महोदयम् ॥ २० ॥

दीर्घाः असयः पट्टसरूपा येधां ते तथा। बद्धं गोधा चर्म यैस्ते तथा। अयं धर्मो धन्विनां, ततो द्वन्द्वः। अनेन शस्त्रास्त्रद्विप्रकारायुधवन्तो लक्ष्यन्ते। मृष्टवाससः इत्यनेनाभरणाद्यलङ्कारान्तरमपि कल्याणीयमुपलक्षणीयम्। योधा इति विशेष्यम्। महान् उदयः–उद्भवो यस्मिन् तथा ॥ २० ॥

दीर्घासिबद्धाःबद्धदीर्घासयः, प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतःऽ इति निष्ठायाः परनिपातःगो।

१बद्धा योधाश्चङ।

तथा च महोदयं–रामाभिषेकमण्डपमित्यर्थः।

॥ २।३।२० ॥ ॥ २।३।२१२२ ॥

एवं व्यादिश्य तौ विप्रौ क्रियास्तत्र सुनिष्ठितौ।

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ २१ ॥

कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम्।

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ २२ ॥

विप्रौ–वसिष्ठवामदेवौ। क्रिया इति। पुरोहितकर्तव्या इति शेषः। तत्र–नृपवेश्मनि। यच्छेषमिति। दास्यादिपरिचारकान्तरकर्तव्यक्रियाजातमित्यर्थः। तत् पार्थिवाय– पृथिव्यालेपनादिप्रयोजनाय निवेद्य अथ जगत्पतिं–राजानं अभिगम्य यथोक्तवचनं– उक्तवचनमनतिक्रम्य सर्वं कृतमेवेति प्रीत्यादियुक्तौ सन्तौ अब्रूताम्। तत्र प्रीतिर्मानसी। हर्षस्तदुद्रेकमूलो मुखविकासादिः। शेषं पार्थिवाय निवेद्ये त्यन्यः। इदं तु जगत्पतिमभिगम्येत्यनेनान्वितम्। ल्यपः पूर्वकालार्थत्वात्। अभिगमात् पूर्वं निवेदनायोगात्। जगत्पतिमभिगम्य निवेद्येत्येतावतैव सिद्धेः पार्थिवायेति चानन्वितम्। अपि च राज्ञे शेषं निवेद्येत्येतावतैव सिद्धेः पुनरब्रूतामिति चासङ्गतम्। तारतम्योचितानुचितानभिज्ञमन्दान् प्रति किञ्चित्पररीतिप्रदर्शनम्। सुधियस्तूभयं पर्यालोच्य स्वयमेव युक्तायुक्तं ज्ञास्यन्ति ॥ २२ ॥

पार्थिवायराज्ञेगो। ति। ती।

गोविन्दराजः, तीर्थो वा। अत्र श्लोकद्वयमपि भिन्नं भिन्नं वाक्यमिति गोविन्दराजाशयः। तथोक्तम् पूर्वश्लोके निवेद्येत्यनेन शेषसम्पादनविषयनिवेदनमुक्तम्। अब्रूतामिति तु सकलसिद्धिविषयमिति न पुनरुक्तिःऽगो।

॥ २।३।२१२२ ॥ ॥ २।३।२३२४ ॥

ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्।

रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २३ ॥

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्।

रामं तत्रानयांचक्रे रथेन रथिनां वरम् ॥ २४ ॥

प्रतिज्ञाय–उक्त्वा ॥ २४ ॥

अङ्गीकृत्येति वार्थः।

॥ २।३।२३२४ ॥

॥ २।३।२५२६ ॥

अथ तत्र १सहासीनाः तदा दशरथं नृपम्।

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ २५ ॥

२म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः।

उपासांचक्रिरे सर्वे तं देवा इव वासवम् ॥ २६ ॥

अथ तत्रेति। प्रासादस्थो ददर्शऽ इति वक्ष्यमाणत्वादिह तत्रेति प्रासाद इत्यर्थः। तथा सहासीना इति–प्रासाद एव सहासीना इत्यर्थः। प्राच्या इत्यादौ द्युप्राक्ऽ इत्यादिना यदादयः शैषिकभवार्थाः। म्लेच्छाचार्याः–म्लेच्छप्रभवः। अन्तश्शब्दः प्रदेशवाची। प्राच्यादिशैलान्तवासिन इत्यनेन मूलभृतकश्रेणिसुहृद्द्विषदाटविकमिति षड्विधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ॥ २६ ॥

१समासीनाङ।

२म्लेच्छाश्चार्याश्चङ। च।

॥ २।३।२५२६ ॥ ॥ २।३।२७२८ ॥

तेषां मध्ये स राजर्षिर्मरुतामिव वासवः।

प्रासादस्थो १रथगतं ददर्शायान्तमात्मजम् ॥ २७ ॥

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्।

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ २८ ॥

गन्धर्वराजप्रतिमं–यथोक्तदर्शनप्रयोजकदिव्यरूपवत्त्वे ॥ २८ ॥

दशरथःङ।

॥ २।३।२७२८ ॥ ॥ २।३।२९ ॥

चन्द्रकान्ताननं राममतीव प्रियदर्शनम्।

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २९ ॥

चन्द्रवत्कान्तं–कमनीयमाननं यस्य स तथा। अत एव–अतीवप्रियदर्शनं। गुणैरिति। कर्मत इति शेषः ॥ २९ ॥

चन्द्राननमित्युक्तेऽपि आह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं कान्तशब्दः। चन्द्रात् कान्ताननमिति विग्रहः। ৷৷৷৷৷৷। पुंसांकठिनचित्तानामपि, किमुत स्त्रीणामिति भावः। यद्वा

पुंशब्देन स्त्रीपुंसाधारणमात्ममात्रमुच्यतेगो।

॥ २।३।२९ ॥ ॥ २।३।३० ॥

घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः।

न ततर्प समायान्तं पश्यमानो नराधिपः ॥ ३० ॥

घर्माभितप्ता इति। अवृष्टिखिन्ना इति यावत् ॥ ३० ॥

द्वितीयान्तमिदं प्रजाविशेषणम्।

॥ २।३।३० ॥ ॥ २।३।३१३३ ॥

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्।

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ ३१ ॥

स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः।

आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ ३२ ॥

स १ साञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके।

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ ३३ ॥

साञ्जलिरेव अभिप्रेत्य प्रणतः–कृतसाष्टाङ्गनमस्कारः पश्चात् उरस्समं राजन्यःऽ इत्याद्युपदिश्यमानविशेषवन्दनं चाकरोदित्यर्थः। स्वं नाम श्रावयन्निति। रामवर्मानामाहमस्मीत्येवमात्मना स्वं नाम श्रावयन्निति यावत् ॥ ३३ ॥

अवतारणं हस्तप्रदानादिनागो।

१प्राञ्जलिङ।

॥ २।३।३१३३ ॥ ॥ २।३।३४ ॥

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः।

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ ३४ ॥

अञ्जलौ गृह्यति। तत्प्रदेशे गृहीत्वेति यावत् ॥ ३४ ॥

सक्थिनि कर्णे वा गृहीत्वाऽ इति महाभाष्यकारवचनात् अञ्जलाविति कर्मणि सप्तमीगो। च।

॥ २।३।३४ ॥ ॥ २।३।३५ ॥

तस्मै चाभ्युदितं १सम्यङ्मणिकाञ्चनभूषितम्।

दिदेश राजा रुचिरं रामाय परमासनम् ॥ ३५ ॥

अभ्युदितं–उपस्थापितं। परमं–श्रेष्ठम् ॥ ३५ ॥

१दिव्यं मणिङ।

अभ्युदितंउन्नतंगो।

॥ २।३।३५ ॥ ॥ २।३।३६ ॥

तदासनवरं प्राप्य व्यदीपयत राघवः।

स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ ३६ ॥

प्राप्य तद्व्यदीपयत–द्योतयति स्मेति योजनार्थः। उदय इति। तत्स्थत्वेन प्रतिभासमान इति शेषः ॥ ३६ ॥

॥ २।३।३६ ॥ ॥ २।३।३७ ॥

तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत।

विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३७ ॥

द्यौः–आकाशः ॥ ३७ ॥

॥ २।३।३७ ॥ ॥ २।३।३८ ॥

तं पश्यमानो नृपतिः तुतोष प्रियमात्मजम्।

अलङ्कृतमिवात्मानं आदर्शतलसंस्थितम् ॥ ३८ ॥

आदर्शतलसंस्थितं आत्मानमिव पश्यमान इत्यनेन रामस्य मुखनासाकरचरणादिसर्वावयवेन च पितृसमरूपत्वमावेदितम् ॥ ३८ ॥

॥ २।३।३८ ॥ ॥ २।३।३९४० ॥

स तं १सस्मितमाभाष्य पुत्रं पुत्रवतां वरः।

उवाचेदं वचो राजा देवेन्द्रमिव २कश्यपः ॥ ३९ ॥

ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सूतः।

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ ४० ॥

तदेव दर्शितम्–सदृशः सुत इति। गुणैः श्रेष्ठो यतः अतो मम प्रियः आत्मजोऽसि ॥ ४० ॥

१सुस्थितःङ।

सस्मितमिति क्रियाविशेषणम्गो।

२काश्यपःङ। झ।

आत्मजःऔरसः सुतःगो।

॥ २।३।३९४० ॥ ॥ २।३।४१ ॥

यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः।

तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ ४१ ॥

अपि च–यतस्त्वयेत्यादि। पुष्ययोगेनेति, प्रकृत्यादिभ्य उपसङ्ख्यानम्ऽ इति तृतीया, पुष्येण चन्द्रमसो योगः पुष्ययोगः, तदुपलक्षितकाल इत्यर्थः ॥ ४१ ॥

॥ २।३।४१ ॥ ॥ २।३।४२ ॥

कामतस्त्वं प्रकृत्यैव १विनीतो गुणवानसि।

गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम् ॥ ४२ ॥

कामतः–प्रकामं, अत्यर्थमिति यावत्। गुणवति सत्यपि स्नेहात्–स्नेहादेव ॥ ४२ ॥

१निर्णीतःङ।

॥ २।३।४२ ॥ ॥ २।३।४३ ॥

भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः।

कामक्रोध १समुत्थानि त्यजेथा व्यसनानि च ॥ ४३ ॥

भूय इति। विनीत एव सन् पुनश्चाभ्यधिकं विनयमास्थाय व्यसनानि त्यजेथा इति। स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः। अर्थस्य दूषणं चेति राज्ञां व्यसनपञ्चकंऽ इत्युक्तानि व्यसनानि। तत्रार्थसन्दूषणं नाम पित्रादिसञ्चितार्थस्य उक्तव्यसनतो नाशनम् ॥ ४३ ॥

यद्वा मृगयाऽक्षो दिवास्वापः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाध्वा च कामजो दशको गुणः ॥ ऽ इत्येतानि कामजानि, पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्। वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि गुणोऽष्यकःऽ इत्युक्तानि क्रोधजानि च व्यसनानिगो।

१समृद्धानिङ।

॥ २।३।४३ ॥ ॥ २।३।४४ ॥

परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया यथा।

अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥ ४४ ॥

परोक्षया–चारमुखतः परोक्षानुभवसिद्धया वृत्त्या–स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव। प्रत्यक्षया–नित्यं यथाकालमास्थानीमास्थाय स्वानुभवसिद्धयथोक्तवृत्तान्तविचारेण सह वर्तमानो भव। अमात्यप्रभृतीः सर्वाः प्रकृतीरिति। अमात्यसेनानीपुरादिरक्षिपौरजानपदसर्वप्रजा इत्यर्थः ॥ ४४ ॥

॥ २।३।४४ ॥ ॥ २।३।४५४६ ॥

कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून्।

१तुष्टानुरक्तप्रकृतिः यः पालयति मेदिनीम् ॥ ४५ ॥

तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः।

तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ ४६ ॥

कोष्ठागाराणि–अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्ठरूपतया निर्मितान्यगाराणि।

तथा आयुधागाराणि–समग्रनिजबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि च तथा। तैस्सह सन्निचयाः–निचीयन्ते अस्मिन्निति निचयाः–नवरत्नहेमरजतवस्त्राभरणादिसम्पूर्णाः तत्तत्कोशः तथा। सन्निचया इत्यत्र समित्यव्ययं पूर्तिवाचि द्रष्टव्यम्। तन्त्रेण समितिशोभनवाचि च पूर्वपदम्। तुष्टानुरक्तप्रकृतिः–उक्तनिचयबलादिति शेषः। तस्य मित्राणीति। सामन्तराजान इति यावत् ॥ ४६ ॥

१इष्टानुङ।

॥ २।३।४५४६ ॥ ॥ २।३।४७ ॥

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः।

त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४७ ॥

तदिति। अभिषेकप्रयोजनं पित्रुपदेशमित्यर्थः ॥ ४७ ॥

॥ २।३।४७ ॥ ॥ २।३।४८ ॥

सा हिरण्यं च गाश्चैव रत्नानि विविधानि च।

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ ४८ ॥

प्रियमाख्यान्तीति प्रियाख्याः–आतोऽनुपसर्गे कःऽ इति कः ॥

॥ २।३।४८ ॥

॥ २।३।४९५० ॥

अथाभिवाद्य राजानं रथमारुह्य राघवः।

ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥ ४९ ॥

ते चापि पौरा नृपतेर्वचस्तु तत्

श्रुत्वा तदा लाभमिवेष्टमाशु।

नरेन्द्रमामन्त्र्य गृहाणि गत्वा

देवान् समानर्चुरभिप्रहृष्टाः ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे तृतीयः सर्गः।

लाभमिवेति। स्वस्वपुत्राभ्युदयमिवेति यावत्। अत एव देवान् समानर्चुरिति। स्वाभीष्टाविघ्नायेति शेषः। अमा(५०) मानः सर्गः ॥ ५० ॥

॥ २।३।४९५० ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे तृतीयः सर्गः।