००२ रामभिषेकचर्चा

द्वितीयः सर्गः

[परिषदनुमोदनम्]

॥ २।२।१ ॥

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।

हितमुद्धर्षणं चैवमुवाच १प्रथितं वचः ॥ १ ॥

अथ राज्याभिषेकस्य सकलसामन्तोपेतसर्वप्रजार्थत्वात् सर्वानुमतिं सम्पादयति दशरथः–तत इत्यादि। आमन्त्र्य–अभिमुखीकृत्य। हितं अत एव उद्धर्षणं उत्कटहर्षजनकम् ॥ १ ॥

१प्रश्रितंङ।

॥ २।२।१ ॥ ॥ २।२।२३ ॥

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना।

स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च।

उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ ३ ॥

दुन्दुभिस्वनेत्यादिकं सन्तोषातियशयमूलम्। अनुनादः प्रतिध्वनिः। नादयन्–दिश इति शेषः। राजलक्षणं–प्राभवान्मितभाषणादिः ॥ ३ ॥

॥ २।२।२३ ॥ ॥ २।२।४ ॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम्।

पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ ४ ॥

पालितमित्येतद्विदितमिति योजना ॥ ४ ॥

॥ २।२।४ ॥ ॥ २।२।५ ॥

सोऽहमिक्ष्वाकुभिः सर्वैर्ननेन्द्रैः परिपालितम्।

श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ ५ ॥

श्रेयसाराज्योचितसुतराजाभिषेकलक्षणेन ॥ ५ ॥

॥ २।२।५ ॥ ॥ २।२।६ ॥

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।

प्रजा नित्य १ मनिद्रेण यथाशक्त्यभिरक्षिताः ॥ ६ ॥

पूर्वे–मन्वादयः। यथाशक्तीत्यनेन विनयप्रदर्शनम् ॥ ६ ॥

१मतन्द्रेणङ।

॥ २।२।६ ॥

॥ २।२।७ ॥

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।

पाण्डुरस्यातपत्रस्य छायायां जरितं मया ॥ ७ ॥

छायायां स्थित्वा इदं शरीरं जरितं–प्रापितजरं कृतमिति योजनार्थः। जनीजृ़ष्ऽ इत्यादिना मितो जरयतेर्निष्ठा ॥ ७ ॥

॥ २।२।७ ॥ ॥ २।२।८ ॥

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।

जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ८ ॥

विश्रान्तिः–प्रजाचिन्ताराहित्यरूपिणी ॥ ८ ॥

॥ २।२।८ ॥ ॥ २।२।९ ॥

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः।

परिश्रान्तोऽस्मि लोकस्य गुर्वी धर्मधुरं वहन् ॥ ९ ॥

राजप्रभावाश्शौर्यादि सप्तधर्माः, तद्युक्तैरेव जुष्टां–सेवार्हां। वहन्निति हेतौ शता ॥ ९ ॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।

दानमीश्वरभावश्चऽ इत्युक्तमिति भावः ॥

॥ २।२।९ ॥ ॥ २।२।१० ॥

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते।

सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥ १० ॥

अनुमान्यकृतानुमतिकान् कृत्वा। मानयतेर्ण्यन्ताल्ल्यप् ॥ १० ॥

॥ २।२।१० ॥ ॥ २।२।११ ॥

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः।

पुरंदरसमो विर्ये रामः परपुरञ्जयः ॥ ११ ॥

राज्यार्हतां दर्शयति–अन्वित्यादि। अनुर्लक्षणेऽ इति कर्मप्रवचनीये तद्योगात् मामिति द्वितीया। मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः। तदेव प्रकाश्यते–पुरन्दरेत्यादि ॥ ११ ॥

॥ २।२।११ ॥ ॥ २।२।१२ ॥

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।

१यौवराज्येन योक्ताऽस्मि २प्रीतः पुरुषपुङ्गवम् ॥ १२ ॥

चन्द्रं पुष्येणेव यौवराज्येन –तत्पदेन योक्ताऽस्मि लुट् ॥ १२ ॥

पुष्येण युक्तं चन्द्रमिव सर्वकार्यसिद्धिदक्षम्ति। पुष्येण युक्तं चन्द्रमिवेत्यन्वयः। यद्वा चन्द्रमिव स्थितं तं श्वः पुष्येण यौवराज्ये नियोक्तास्मीतिगो। अत्र श्व एव पुष्यो भविताऽ पुष्येऽभिषिञ्चस्वऽ इत्याद्यानुरूप्यम् ॥

१यौवराज्ये नियोक्ताङ।

२प्रातःङ।

॥ २।२।१२ ॥ ॥ २।२।१३ ॥

अनुरूपः स १वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः।

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ १३ ॥

स वै अनुरूपो नान्थः, अस्मद्राज्यस्येति शेषः न केवलमेतावत्, अपि तु–त्रैल्क्यमपीत्यादि। येनेति। प्रसिद्धेनेति यावत् ॥

१वोङ।

॥ २।२।१३ ॥ ॥ २।२।१४ ॥

अनेन श्रेयसा सद्यः १संयोज्यैवमिमां महीम्।

गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १४ ॥

श्रेयसाऽनेन–ईयसुनि प्रशस्यस्य श्रःऽ इति श्रादेशः, प्रशस्तेनानेन रामेणेत्यर्थः। महीं संयोज्य गतक्लेशः ॥ १४ ॥

इमांमहीं तस्मिन् ज्येष्ठे सुते निवेश्यअनेन तन्निवेशरूपेण श्रेयसा महीमेवं सद्यः संयोज्यगो।

१संयोक्ष्येहङ।

॥ २।२।१४ ॥ ॥ २।२।१५ ॥

यदीदं मेऽनुरूपार्थं मया साधु १नियन्त्रितम्।

२भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ १५ ॥

यदीत्यादि। मया यन्नियन्त्रितं–नियमितं मद्विषयकरूपं कार्यं तद्यदि साधु भवतां अनुरूपार्थं–अनुकूलप्रयोजनावहं च तदा भवन्तो मे इदमनुमन्यन्ताम्। कुतोऽस्मदनुमतिर्महाराजस्य तवेत्यतः–कथमित्यादि। अहं कथं करवाणि? विना युष्माकमनुमतिमिति शेषः ॥

मे अनुरूपार्थं मया साधु सुमन्त्रितं यदिइति पाठान्तरे योजना।

१सुमन्त्रितंङ।

२भवन्तोऽप्यनुङ।

स्वकर्तव्यप्रकारप्रश्नो वाऽयम्।

॥ २।२।१५ ॥ ॥ २।२।१६ ॥

यद्यप्येषा मम प्रीतिः, हितमन्यद्विचिन्त्यताम्।

अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥ १६ ॥

ननु त्वदभ्यधिकः कः हिताहितविचारसमर्थः? इत्यत्राह–यद्यपीत्यादि। एषा चिन्ता यद्यपि मम प्रीतिः–प्रीतिमात्रविजृम्भिता, अथापि वास्तवं अन्यत्–अन्यादृशं हितं अस्ति चेत् तत् विचिन्त्यताम्। ननु कथमभ्यधिकदर्शनशङ्केत्यतः–अन्येत्यादि। मध्यस्थाः–रागरोषवियुक्ताः तत्त्वचिन्तकाः तेषां चिन्ता, अन्या तु–अन्यादृश्येव। कुत इत्यतः–विमर्देति। पूर्वापरपक्षसङ्घर्षणवत्त्वेन हेतुना अभ्यधिकोदया–अधिकार्थप्रादुर्भाववती ॥ १६ ॥

॥ २।२।१६ ॥ ॥ २।२।१७ ॥

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् १नृपा नृपम्।

वृष्टिमन्तं महामेघं २नर्दन्त इव बर्हिणः ॥ १७ ॥

महामेघमिति। दृष्ट्वेति शेषः ॥ १७ ॥

१नृपात्मजम्ङ।

२नृत्यन्तङ।

॥ २।२।१७ ॥ ॥ २।२।१८ ॥

स्निग्धोऽनुनादी सञ्जज्ञे तत्र हर्षसमीरितः।

१जनोद्धुष्टेन सन्नादो मेदिनीं कम्पयन्निव ॥ १८ ॥

स्निग्धःहर्षस्वनः सामन्तकृतो जज्ञे आस्थान्याम्। बहिस्तु जनोद्धुष्टेन सन्–सम्भवन्नादः महीं कम्पयन्निव जज्ञे ॥ १८ ॥

तत्र सभायां स्निग्धःस्नेहाभिव्यञ्जकः अनुनादीप्रतिध्वनिकारी जनौघोद्धुष्टः जनसमूहोत्पादितः सन्नादःसमीचीनशब्दःसञ्जज्ञे। न केवलं राजान एव, सर्वेऽपि जनास्तच्छ्रुत्वा सन्तुष्टा इत्यर्थःगो।

१जनौघोद्धुष्टसन्नादः विमानंङ। च।

॥ २।२।१८ ॥ ॥ २।२।१९ ॥

तस्य १धर्मत उत्पन्नं भावमाज्ञाय सर्वशः।

ब्राह्मणा २बलमुख्याश्च पौरजानपदैः सह ॥ १९ ॥

धर्मत उत्पन्नं भावं–अभिप्रायं बलं–चतुरङ्गबलं, ब्राह्मणविशेषणत्वे बलं–तपोबलं। चकारान्नृपाश्च, तेषां प्रागुक्तरूपो बलशब्दार्थः ॥ १९ ॥

१धर्मार्थविदुषःङ।

२जनमुख्याश्चङ।

॥ २।२।१९ ॥ ॥ २।२।२० ॥

समेत्य मन्त्रयित्वा तु समतां गतबुद्धयः।

ऊचुश्च मनसा ज्ञात्व वृद्धं दशरथं १नृपम् ॥ २० ॥

गतबुद्धय इति गमकत्वात् समासः। ज्ञात्वा–पुनःपुनः पर्यालोच्येत्यर्थः ॥ २० ॥

एकाभिप्रायवन्त इति भावः।

१वचःङ।

॥ २।२।२० ॥ ॥ २।२।२१ ॥

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।

स राजं युवराजानं अभिषिञ्चस्व पार्थिवम् ॥ २१ ॥

अनेकेत्यादिपदे बहुव्रीहिः। युवराजानमिति। अनित्यत्वान्न टच् ॥

॥ २।२।२१ ॥ ॥ २।२।२२२३ ॥

इत्छामो हि महाबाहुं रघुवीरं महाबलम्।

गजेन महताऽऽयान्तं रामं छत्रावृताननम् ॥ २२ ॥

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्।

अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥

अजानन्निवेति। रामाभिषेकः सर्वसम्मत इति जानन्नेवेति शेषः ॥

ननु रक्षके मयि विद्यमाने किमर्थं रामाभिषेकोऽपेक्ष्यत इत्याशङ्कायां न हि वयं रक्षणार्थं तमपेक्षामहे, किन्तु सौन्दर्यविशेषानुभवार्थमित्याहुःइच्छाम इति। एतैरभिषेकानन्तरभाविभिर्विशेषणैः अभिषेकः कर्तव्य इति व्यञ्जनावृत्त्या प्रार्थ्यतेगो।

॥ २।२।२२२३ ॥ ॥ २।२।२४ ॥

श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ।

राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ २४ ॥

हे राजानः मे वचनं श्रुत्वा तन्निर्बन्धादेव केवलं रामं पतिमिच्छथ? उत वस्तुतः? इति मे संशयः। अतः किमिदमिति तत्त्वतो ब्रूत ॥ २४ ॥

॥ २।२।२४ ॥ ॥ २।२।२५ ॥

कथं नु मयि धर्मेण पृथिवीमनुशासति।

भवन्तो द्रष्टुमिच्छन्ति युवराजं १ममात्मजम् ॥ २५ ॥

का ते संशयप्रवृत्तिरित्यतः–कथन्वित्यादि। प्रौढा यूयं प्रौढे धर्मवृद्धे मयि चिरपरिचितराजभावाः बालं कथं मयि जीवति राजत्वेन द्रक्ष्यथेत्यर्थः ॥ २५ ॥

प्रश्नान्तरं वेदम्।

१महाबलम्ङ्।

॥ २।२।२५ ॥ ॥ २।२।२६२७ ॥

ते तमूचुर्महात्मानं पौरजानपदैः सह।

बहवो नृप कल्याण गुणाः पुत्रस्य सन्ति ते ॥ २६ ॥

गुणान् गुणवतो देव देवकल्पस्य धीमतः।

प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान् शृणु ॥

देव–राजन्निति यावत् ॥ २७ ॥

॥ २।२।२६२७ ॥ ॥ २।२।२८२९ ॥

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।

इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ॥ २८ ॥

रामः सत्पुरुषो लोके सत्यधर्म १ परायणः।

साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ २९ ॥

रामाद्विनिर्वृत्त इति। रामेणैव प्रतिष्ठापति इत्यर्थः ॥ २९ ॥

इक्ष्वाकुभ्यःइक्ष्वाकुवंश्येभ्यः सर्वेभ्यः अतिरिक्तः समधिकः, अतिरिक्तः समधिकःऽ इत्यमरःगो।

१पराक्रमःङ।

॥ २।२।२८२९ ॥ ॥ २।२।३० ॥

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।

बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ ३० ॥

वसुधायाः इत्याद्याः प्रथमसर्गव्याकृतचराः ॥ ३० ॥

रामनिष्ठगुणसमुदायस्यैकत्रासम्भवात् एकैकगुणयोगेन चन्द्रादीन् दृष्टान्तयन्तिप्रजेतिगो।

साक्षात्तुल्यः, साक्षात् प्रत्यक्षतुल्ययोःऽ इत्यमरःगो।

॥ २।२।३० ॥ ॥ २।२।३१३२ ॥

धर्मज्ञः सत्सन्धश्च शीलवाननसूयकः।

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥

मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३२ ॥

क्षमेरूदित्वात् पक्षे नेट्। क्षान्तः इति। अक्ङित्यपि दीर्घश्छान्दसः। भव्यः–कुशलः ॥ ३२ ॥

न विद्यते असूया, अन्यविषयिणी, यस्य सः। उत्तरत्र न विद्यते असूया, स्वविषयिणी अन्यकृता, यस्य स तथोक्त इति न पुनरुक्तिःती।

॥ २।२।३२ ॥ ॥ २।२।३३३८ ॥

प्रियवादी च भूतानां सत्यवादी च राघवः।

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥

तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते।

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥

सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्।

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥

कल्याणाभिजनः साधुरदीनात्मा महामतिः।

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ॥ ३६ ॥

यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा।

गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३७ ॥

सङ्ग्रामात्पुनरागमम्य कुञ्जरेण रथेन वा।

पौरान् १ सवयसान् नित्यं कुशलं परिपृच्छति ॥ ३८ ॥

सवयसानिति। अच्ऽ इति योगविभागादच् समासान्ताः ॥

अभिविनीतःशिक्षितः।

१स्वजनवन्नित्यंङ। च।

॥ २।२।३३३८ ॥ ॥ २।२।३९४० ॥

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च।

निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३९ ॥

शुश्रूषन्ते च वः शिष्याः १कच्चित्कर्मसु दंशिताः।

इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ ४० ॥

शुश्रुषन्ते च वः शिष्याः इति उपाध्यायान् प्रति प्रश्नः। कर्मसु दंशिता वः शुश्रूषन्ते इति क्षत्रवृद्धान् प्रति प्रश्नः। दंशिताः–कवचिताः भृत्या इति शेषः ॥ ४० ॥

शुश्रूषन्ते च वः शिष्याःऽ इति ब्राह्मणान् प्रति प्रश्नः। वर्मसु दंशिताःअवहिताः भृत्याः वः सेवन्त इति क्षत्रियान् प्रतिप्रश्नःति। दंशिताःसन्नद्धाः शिष्याः कर्मसु वः शूश्रूषन्ते कच्चिदिति वाऽन्वयः। सन्नद्धो वर्मितः सज्जः दंशितःऽ इत्यमरः।

१कच्चिद्वर्मसुच। कच्चिद्धर्मेषुङ। च।

॥ २।२।३९४० ॥ ॥ २।२।४१४३ ॥

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः।

उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४१ ॥

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः।

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ ४२ ॥

सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः।

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४३ ॥

विग्रहः–वृथा कलहः ॥ ४३ ॥

श्रेयसां सम्यग्योक्तासम्पादकः। न विगृह्यकथारुचिः, न विगृह्य कथां कुर्यात्ऽ इति निषिद्धयोर्जल्पवितण्डयोर्निवृत्तरागःगो।

॥ २।२।४१४३ ॥ ॥ २।२।४४४६ ॥

सुभ्रूरायत ताम्राक्षः साक्षाद्विष्णुरिव स्वयम्।

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४४ ॥

प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः।

शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ॥ ४५ ॥

नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन।

हन्त्येव नियमाद्वध्यानवध्ये न च कुप्यति ॥ ४६ ॥

युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति।

शान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् ॥ ४७ ॥

यत्र तुष्यतीति। यस्मिन् विषये सन्तोषं तद्गुणतः प्राप्नोतीत्यर्थः ॥

अत्र पक्ष्मादिबहिर्देशविवक्षया ताम्रत्वं मन्तव्यम्।

नियमात्नियमेन गो।

॥ २।२।४४४७ ॥ ॥ २।२।४८५० ॥

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः।

तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ॥ ४८ ॥

लोकपालोपमं नाथमकामयत मेदिनी।

वत्सः श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव ॥ ४९ ॥

दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः।

बलमारोग्यमायुश्च रामस्य विदितात्मनः ॥ ५० ॥

श्रेयसि–श्रेयोनिमित्तं ते वत्सः–पुत्रः सञ्जातः। मरीचिप्रजापतिपुत्रो मारीचः ॥ ५० ।

॥ २।२।४८५० ॥ ॥ २।२।५१५२ ॥

देवासुरमनुष्येषु सगन्धर्वोरगेषु च।

आशंसन्ते जनाः सर्वे राष्ट्रे पुरवरे तथा ॥ ५१ ॥

आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः।

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ ५२ ॥

देवासुरेत्यादि। देवासुरादिलोकेषु ये देवादयः सन्ति ते च बलाद्याशंसन्त इति योजना ॥ ५२ ॥

॥ २।२।५१५२ ॥ ॥ २।२।५३ ॥

सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः।

तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ ५३ ॥

रामस्यार्थ इति। रामस्य बलारोग्यादिप्रयोजनार्थमित्यर्थः ॥

॥ २।२।५३ ॥ ॥ २।२।५४ ॥

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।

पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ५४ ॥

आयाचितं–अभिप्रार्थितं रामाभिषेकविषयं त्वत्प्रसादात् समृद्ध्यतां–समृद्धं सम्पन्नं भवत्वित्यर्थः ॥ ५४ ॥

राजोत्तमेति सम्बुद्धिः।

॥ २।२।५४ ॥ ॥ २।२।५५ ॥

तं देव देवोपममात्मजं ते

सर्वस्य लोकस्य हिते निविष्टम्।

हिताय नः क्षिप्रमुदारजुष्टं

मुदाऽभिषेक्तुं वरद त्वमर्हसि ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वितीयः सर्गः।

तं, देवेति राज्ञः सम्बुद्धिः। उदारजुष्टं–प्रशस्तगुणैरुपाश्रितं, उदारैर्महद्भिश्च परिगृहीतम्। मर्म(५५)मानः सर्गः ॥ ५५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वितीयः सर्गः।

देवदेवःविष्णुः, तत्सदृशमिति वागो।

॥ २।२।५५ ॥