००१ रामगुणवर्णनम्

॥ श्रीः ॥

॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥

श्रीमद्वाल्मीकिरामायणम्

श्रीमन्माधवयोगिविरचित अमृतकतकाख्यव्याख्ययायुतम्

॥ अयोध्याकाण्डः ॥ प्रथमः सर्गः।

[रामाभिषेकचिन्तनम्] ॥ २।१।१ ॥

गच्छता मातुलकुलं भरतेन १तदाऽनघः।

शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥

अमृतकतकव्याख्या

एवं प्रथमकाण्डेन रामप्रसूतिसीतावरणान्ताक्षरार्थकमहाषोढाप्रथमपादार्थरामचरितविस्तारो वर्णितः। अथेदानीं द्वितीयकाण्डेन महाषोढाद्वितीयपादप्रथमाद्यक्षरार्थरामाभिषेकप्रतिबन्धादितद्वनवासान्तव्यापारः प्रतिपाद्यते। तत्राद्येन ज्येष्ठं श्रेष्ठगुणैर्युक्तंऽ यौवराज्येन संयोक्तुमैच्छत्ऽ इति संक्षेपोपदिष्टा राजाभिषेकाहर्गुणाः प्रतिपाद्यन्ते – गच्छतेत्यादि ॥

मातुलकुलं–मातुलकुलीयराज्यं। नित्यशत्रवः–कामादयः, तान् हन्तीति तथा। एतेन सकलसद्गुणसम्पूर्तिश्शत्रुघ्नस्योपदिष्टा। प्रीत्याभरते नित्यनिसर्गप्रवृत्तया पुरस्कृतः। एतेन भरतादिनिर्बन्धतो गमनशङ्का वारिता ॥ १ ॥

१महात्मनाङ।

॥ २।१।१ ॥ ॥ २।१।२ ॥

स तत्र न्यवसत् भ्रात्रा सह सत्कारसत्कृतः।

मातुलेनाश्वपतिना पुत्रस्नेहेन १लालितः ॥ २ ॥

स तत्रेति। भरतो मातुलकुल इत्यर्थः। विशिष्टवस्त्राभरणभोजनादिरूपेण सत्कारेण सत्कृतः। पुत्रादप्यधिकस्स्नेहःपुत्रस्नेहः ॥ २ ॥

पुत्रविषयस्नेहतुल्यस्नेहेनगो।

१पालितःङ।

॥ २।१।२ ॥ ॥ २।१।३ ॥

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।

भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ३ ॥

तर्प्यमाणौ–कृन्नकारत्वात् कृत्यचःऽ इति णत्वम्। कामः– प्रागुक्तविषयविशेषः। स्मरतांअस्मरतां। दशरथमिति। अधीगर्थऽ इति षष्ठ्यभावः शेषविवक्षाभावात् ॥ ३ ॥

तत्रतादृशोपचारपूर्णगृहे निवसन्तावपीत्यन्वयः। कामत इति तृतीयार्थे तसिःगो।

॥ २।१।३ ॥

॥ २।१।४५ ॥

राजाऽपि तौ १महातेजाः सस्मार प्रोषितौ सुतौ।

उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ४ ॥

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।

स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ ५ ॥

विनिर्वृत्ताःउत्पन्नाः। चत्वार इव बाहव इति अभूतोपमा ॥ ५ ॥

१महावीरौङ।

॥ २।१।४५ ॥ ॥ २।१।६ ॥

तेषामपि महातेजा रामो रतिकरः पितुः।

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ ६ ॥

स्वयंभूरित्यादिः पूर्वसर्गे व्याकृतचरः ॥ ६ ॥

बाल ७७२३।

॥ २।१।६ ॥ ॥ २।१।७ ॥

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।

अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥

गुणवत्तरत्वे हेतुःस हीत्यादि। हियस्मात् रामः स्वयम्भूरेव सन् देवप्रार्थनया रावणवधाय मानुषे लोके तदवतारोचितनिजवैराजविष्णूपाधिना जज्ञेअवतीर्णः अस्मादेव सकलकल्याणगुणकार्त्स्न्यम् ॥ ७ ॥

उदीर्णःउद्दतः।

॥ २।१।७ ॥ ॥ २।१।८९ ॥

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।

१यथा वरेण देवानां अदितिर्वज्रपाणिना ॥ ८ ॥

स हि रूपोपपन्नश्च वीर्यवाननसूयकः।

भूमावनुपमः सूनुर्गणैर्दशरथोपमः ॥ ९ ॥

सूनुरिति। कौसल्याया इति शेषः ॥ ९ ॥

१यथा च देवी देवानांङ।

॥ २।१।८९ ॥ ॥ २।१।१० ॥

स तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते।

उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १० ॥

मृदुपूर्वं मृदूक्तिपूर्वम् ॥ १० ॥

नित्यं प्रशान्तात्माऽ इत्यस्यैव प्रपञ्चः उच्यमानोपीत्यादि। परुषमुच्यमानोऽपि उत्तरं न प्रतिपद्यते। तत्र हेतुःनित्यं प्रशान्तात्मेति। न केवलमुत्तराप्रतिपत्तिः, किन्तु परुषवक्तारं प्रति मृदुपूर्वं भाषतेगो। परं त्वत्र उत्तरं न प्रतिपद्यतेऽ इति समान्यनिषेधो न युज्यते। ततोऽपि परुषमुच्यमानोऽपि परुषमुत्तरं न प्रतिपद्यते। किम्तु मृदुपूर्वमेव भाषत इति वान्वयः।

॥ २।१।१० ॥ ॥ २।१।१११२ ॥

कथञ्चिदुपकारेण कृतेनैकेन तुष्यति।

न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ ११ ॥

शीलवृद्धैर्ज्ञानवृद्धैर्वयोर्वृद्धैश्च सञ्जनैः।

कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ १२ ॥

शीलंसुचरितं, ज्ञानं–आत्मानात्मवस्तुतत्त्वज्ञानं। अस्त्रयोग्यान्तरेषु–अस्त्रशस्त्रपरिश्रायोग्यकालेष्वपि यदन्दरं तत्रापि तत्परिश्रममध्येष्वपि सज्जनैरेव कथयन्नास्ते। अन्यदा कैमुतिकसिद्धं सज्जनैकनित्यसम्भाषणम् ॥ १२ ॥

कथञ्चित् कृतेनेत्यन्वयः।

आत्मवान् कः? इति प्रश्नस्योत्तरमिवैतत्।

अस्त्राणां योग्यःअभ्यासः, योग्यो गुणनिकाभ्यासःऽ इति वैजयन्ती तस्यान्तेषु अवकाशेष्वपिगो।

॥ २।१।१११२ ॥ ॥ २।१।१३ ॥

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः।

वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥ १३ ॥

मधुरं आभाषितुं शीलमस्त्यस्येति तथा। न च विस्मितः– अप्राप्तगर्वः ॥ १३ ॥

पूर्वभाषीनीचेष्वपि स्वयमेव पूर्वं भाषमाणः।

॥ २।१।१३ ॥ ॥ २।१।१४ ॥

नचानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।

अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनु १ रज्यते ॥ १४ ॥

अनृतस्य कथा–कथनं यस्य स तथा। प्रजाभिरनुरक्तः प्राप्तानुरागः। प्रजाश्च स्वयमपि अनुरज्यते–अनुरञ्जते अनुरञ्जयतीति यावत्। रञ्जोश्यन्युपधालोपः ॥ १४ ॥

कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थःगो।

प्रत्युद्गम्यपूजकः प्रतिपूजकः।

१ऱञ्जतेङ।

॥ २।१।१४ ॥ ॥ २।१।१५ ॥

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।

दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ १५ ॥

अनुक्रोशःदया, दुःखिप्राणिषु। ब्राह्मणप्रतिपूजक इत्यादौ याजकादित्वात् षष्ठीसमासः। प्रग्रहवान्–इन्द्रियनिग्रहवान् प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजेऽ ॥ १५ ॥

॥ २।१।१५ ॥ ॥ २।१।१६ ॥

१कुलोचितमतिः क्षात्त्रं धर्मं स्वं बहुमन्यते।

मन्यते परया २कीर्त्या महत्स्वर्गफलं ततः ॥ १६ ॥

कुलोचितमतिः, अत एव क्षात्त्रं धर्मं बहुमन्यते। न च केवलमभिमानमात्रं, अपि तु ततः पुरुषार्थसिद्धेरेवेत्याह–मन्यत इत्यादि। क्षत्त्रस्य मुख्यधर्मभूतया प्रजासु पितृवत् कृपया सर्वशत्रुसंहारजकीर्त्या च ततः–तस्मात् क्षत्त्रियधर्मात् यतो महत्स्वर्गफलं अतो बहुमन्यते। यद्यपि ब्राह्मो धर्म एवापवर्गसाक्षात्साधनत्वेन महान् अथापि क्षत्रियस्य स्वधर्म एव बहुमन्तन्यः। श्रेयान् स्वधर्मो विगुणःऽ इत्यादेः ॥ १६ ॥

१कुलोचितमिदंङ।

ततःस्वधर्मानुष्ठानात् आनुषङ्गिकया परया कीर्त्या सह महत् स्वर्गफलं मन्यते। चकाराभावादेवं योज्यम्।

२प्रीत्याच।

॥ २।१।१६ ॥ ॥ २।१।१७ ॥

नाश्रेयसि रतो १यश्चन विरुद्धकथारुचिः।

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥

यश्चन–यः कश्च पुमान् विरुद्धकथारुचिः–धर्मविरुद्धकथारुचिर्भवति, तस्मिन्नश्रेयसि–अश्रेयस्करे न रतो भवति। वक्तेति। वादजल्पवितण्डादिष्विति शेषः ॥ १७ ॥

अश्रेयसि–निष्फले कर्मणि न रतःन सक्तः, कादाचित्कलीला न दुष्यतीति भावः द्यूतादिषु न सक्त इत्यर्थः। विरूद्धकथाधर्मविरुद्धग्राम्यालापादिगो।

१विद्वान्। नित्यंङ।

॥ २।१।१७ ॥ ॥ २।१।१८ ॥

अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।

लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥ १८ ॥

वपुष्मान् विपुलांसो महाबाहुःऽ इत्याद्युक्तलक्षणवपुर्विशेषवान्। पुरुषाणां–ब्राह्मणादीनां सारं–स्वजातिवर्णाश्रमनित्यधर्मदृढप्रतिष्ठानरूपं जानातीति तथा। इदमवश्यापेक्षितं राज्ञो निग्रहानुग्रहाय। एवं स एक एव रामो लोके सर्वगुणैः साधुः–भद्र उपपन्नो विनिर्मितः, ब्रह्मणाः स्वांशोपादानेन ॥ १८ ॥

पुरुषसारज्ञःसकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः। लोके एकःअद्वितीयः साधुरिति विनिर्मितःनिश्चितःगो।

॥ २।१।१८ ॥ ॥ २।१।१९ ॥

स तु श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः।

बहिश्च इव प्राणो बभूव १गुणतः प्रियः ॥ १९ ॥

एवमुक्तरूपैः श्रेष्ठगुणैर्युक्तत्वस्योपदेशस्सकृज्जातः। अतः परमपि तद्युक्तत्वं द्विरुपदिश्यते। एवं त्रिरुपदेशः, त्रिषत्या हि देवाःऽ इति न्यायेन वास्तवत्वबोधनाय। अत एव पौनरुक्त्यमशङ्क्यम् ॥

१गुणवत्तरःङ।

॥ २।१।१९ ॥ ॥ २।१।२० ॥

१सर्वविद्याव्रतस्नातो यथावत्साङ्गवेदवित्।

इष्वस्त्रे च पितुः श्रेष्ठो बभूव भारताग्रजः ॥ २० ॥

सर्वविद्येत्यादि। तत्तद्विद्यापेक्षितब्रह्मचर्यव्रतानन्तरमेव स्नातः– कृतसमावर्तनः। अत एव–यथावदित्यादि ॥ २० ॥

१सम्यग्विद्याङ।

॥ २।१।२० ॥ ॥ २।१।२१ ॥

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः।

वृद्धैरभिविनीतश्च, द्विजैर्धर्मार्थदर्शिभिः ॥ २१ ॥

कल्याणः–शुभः–अभिजनः–मातृपितृवंशो यस्य स तथा। दर्शिभिरिति। समेत इति शेषः ॥ २१ ॥

वृद्धैः धर्मार्थदर्शिभिः द्विजैः अभिविनीतःशिक्षित इत्येकं वाक्यं वा।

॥ २।१।२१ ॥ ॥ २।१।२२ ॥

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।

लौकिके समयाचारे कृतकल्पो विशारदः ॥ २२ ॥

स्मृतिप्रतिभानाद्याः संक्षेपेण व्याकृतचराः। लौकिके कृतकल्पः–सम्पादितसामर्थ्यः। समयाचारःधर्मः तत्र विशारदः ॥ २२ ॥

लौकिकेलोकैकप्रमाणके समयाचारेसाङ्केतिकाचारे कृतकल्पः कृतसंस्थापनः, विशारदः तदाचरणसमर्थःगो।

॥ २।१।२२ ॥ ॥ २।१।२३ ॥

निभृतः संवृताकारो १गुप्तमित्रैः सहायवान्।

अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३ ॥

निभृतःविनीतः, वश्यः प्रणेयो निभृतविनीतप्रश्रितास्समाःऽ। संवृताकारः–संवृतेङ्गितः। गुप्तैः–आपद्दशारक्षितैः मित्रैः सम्पन्नः–सहायवान्। त्यागसंयमकालविदिति। वित्तादेरिति शेषः ॥ २३ ॥

१गुप्तमन्त्रःङ।

गुप्तमन्त्रःफलपर्यन्तमन्यैरविदितमन्त्रःगो।

॥ २।१।२३ ॥ ॥ २।१।२४ ॥

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः।

निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥

दृढं यथातथा भक्तिः–भजनं गुर्वादेर्यस्य स तथा। दृढशब्दस्य प्रियादित्वात् स्त्रीलिङ्गविवक्षायां पुंवद्भावाभावात् रूपं न सिध्यति। निस्तन्द्रिरिति। औणादिकेकारान्ततो स्त्रीप्रत्ययान्तत्वात् ह्रस्वः। सुश्रीशुधीशब्दादिवत्। स्वीयानां दोषः स्वदोषः ॥ २४ ॥

प्रियादिगणपठितभक्तिशब्दपरकत्वादिति यावत्।

रामे दोषलेशस्याप्यभावादेवं व्याख्यानम्।

॥ २।१।२४ ॥ ॥ २।१।२५ ॥

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः।

यः प्रग्रहानुग्रहयोः यथान्यायं विचक्षणः ॥ २५ ॥

पुरुषाणामन्तरं–तारतम्यं, तद्विवेके कोविदः। यथान्यायं यथोचितं कर्तुं विचक्षणः स तथा ॥ २५ ॥

कृतंकृतान्तं सिद्धान्तं जानातीति कृतज्ञः। अतः कथञ्चिदुपकारेण कृतेनैकेन तुष्यतिऽ इत्यनेन न पुनरुक्तिःगो।

॥ २।१।२५ ॥ ॥ २।१।२६ ॥

सत्सङ्ग्र १ हप्रग्रहणे स्थानविन्निग्रहस्य च।

आयकर्मण्युपायज्ञः २संदृष्टव्ययकर्मवित् ॥ २६ ॥

उक्तार्थस्यैव विवरणम्–सदित्यादि। सतां सङ्ग्रहपूर्वं सङ्गमनपूर्वं प्रकर्षेण दृढतया परिग्रहणं तत्कुटुम्बयात्रानिर्वाहादिना रक्षणं, तथा निग्रहस्य च करणे विचक्षण इत्यनुकर्षः। आयकर्मणि–करग्रहणकर्मणि। सन्दृष्टधनानुरोधेन व्ययकर्मकृत्– यदायान्नाधिको व्ययःऽ इति धर्मः ॥ २६ ॥ सतां सङ्ग्रहेस्वीकारे प्रग्रहणेपरिपालने च, विचक्षण इति शेषः। निग्रहस्यअसन्निग्रहस्य च स्थानवित्अवकाशवित्।

१हानुग्रहणेङ।

२सदृष्टङ।

संदृष्टव्ययकर्मवित् कश्चिदायस्य चार्धेनऽ इत्यादिशास्त्रावगतव्ययकर्मज्ञःगो।

॥ २।१।२६ ॥ ॥ २।१।२७ ॥

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च।

अर्थधर्मौ च सङ्गृह्य सुखतन्त्रो न चालसः ॥ २७ ॥

व्यामिश्रकेषु–प्राकृतसंस्कृतमिश्रितनाटकादिषु। अर्थधर्मौ च सङ्गृह्य तदविरोधेनैव सुखतन्त्रः तन्त्रं प्रधाने सिद्धान्तेऽ ॥

॥ २।१।२७ ॥ ॥ २।१।२८ ॥

वैहारिकाणां शिल्पानां १विज्ञाताऽर्थविभागवित्।

आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ २८ ॥

वैहारिकाणां–क्रीडाप्रयोजनानाम्, तदस्य प्रयोजनम्ऽ इति ठक्। शिल्पानि–गीतवादित्रादिनि। भरतशास्त्रप्रसिद्धस्यार्थस्य पदार्थतत्त्वस्य विभागवित्तया भरतशास्त्रचतुर इति यावत्। इदं प्रागुक्तसुखतन्त्रत्वोपयुक्तविशेषणम्। विनयः– २शिक्षा ॥ २८ ॥

१विज्ञाताक्षङ।

२शिक्षणंग।

॥ २।१।२८ ॥ ॥ २।१।२९ ॥

धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथ १ सम्मतः।

अभियाता प्रहर्ता च सेनानयविशारदः।

अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः ॥ २९ ॥

अभियाता। परसेनाया इति शेषः। तस्याः प्रहर्ता च। सेनानयः–स्वसेनाव्यूहनादिः ॥ २९ ॥

१सत्तमःङ।

॥ २।१।२९ ॥ ॥ २।१।३० ॥

अनसूयो जितक्रोधो न दृप्तो न च मत्सरी।

१न चावमन्ता २सिद्धानां न च कालवशानुगः ॥ ३० ॥

सिद्धाः–देवभेदाः। न च कालवशानुग इति। कालनियन्तुः श्रीमदादिगुर्वंशत्वेन प्राकृतवत्कालपरतन्त्रस्वदेहजरामृतिदुःखादिधर्मरहितः– स्वायत्तस्वपरिकरसर्वयात्रः, भगवानिवेत्यर्थः ॥ ३० ॥

एवं कल्याणपूर्णत्वमुक्तम्। अथ हेयप्रत्यनीकत्वमुच्यतेअनसूय इतिगो।

१नावज्ञेयश्चङ।

२भूतानांङ। च।

न च कालवशानुगःसत्त्वरजस्तमः प्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति, केवलसत्त्वमूर्तिरित्यर्थःगो। अथापि लोकसङ्ग्रहाय सिद्धानां नावमन्ता।

॥ २।१।३० ॥ ॥ २।१।३१३२ ॥

एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः।

सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।

बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥

तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः।

गुणैर्विरुरुचे रामो १दीप्तः सूर्य इवांशुभिः ॥ ३२ ॥

अथ तृतीयपर्यायः–सम्मत इत्यादि। वसुधायाः क्षमादिगुणैः हेतुभिः तुल्य इति। त्रिषु लोकोषु सम्मत इति योजना। तृतीयार्थपञ्चम्याश्रये पाङ्क्तोऽर्थः। युज्यते च स एव वक्ष्यमाणरीत्यनुरोधात्। कान्ताःइष्टाः अत एव प्रीतिसञ्जननाश्च पितुः गुणाः तैरुपलक्षित इति शेषः ॥ ३२ ॥

प्रजानां मध्ये श्रेष्ठैर्गुणैर्युक्तः त्रिषु लोकेषु सम्मतःपूजितःगो।

१दीप्तैःङ।

॥ २।१।३१३२ ॥

॥ २।१।३३ ॥

तमेवं १वृत्तसम्पन्नं अप्रधृष्यपराक्रमम्।

लोक२पालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥

एवमभिषेकप्रयोजकं श्रेष्ठगुणवत्त्वमुपवर्ण्याभिषेकेच्छाप्रयत्नप्रतिपादनम्–तमेवमित्यादि। मेदिनी–भूदेवता, तद्वर्त्तिप्रजाजातं चेत्यर्थः ॥

वृत्तं शीलं, तदपि सद्गुणमूलकत्वात् गुण एव विश्राम्यति। तमेवं गुणसंपन्नंऽ (बाल१९) इत्यनेनैककण्ठ्यात्। एवंगुणसम्पन्नत्ववत्, आश्रितसंरक्षणरूपव्रतसम्पन्नम्गो।

१व्रतङ।

२नाथोङ। च।

॥ २।१।३३ ॥ ॥ २।१।३४३५ ॥

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैस्सुतम्।

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥ ३४ ॥

अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः।

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ ३५ ॥

चिन्तां चक्र इत्यस्यैव प्रपञ्चनं–अथेत्यादि। कथं रामो राजा स्यात्? तादृशस्य तस्य दर्शनजा एषा प्रीतिः अपि मे कथं स्यादित्येवं चिन्ता बभूवेत्यर्थः ॥ ३५ ॥

अत्र कैकेयीवरदानकृतविघ्नशङ्काप्रतिसन्धानेन कथमित्युक्तिःगो। परन्त्वत्र मयि जीवतिऽ इति दर्शनान्नैतत्स्वरसम्। किन्तु वृद्धस्यऽ इति विशेषणात्, लोके वृद्धानां पितृ़णां स्वजीवनकाले एव पुत्रविवाहदिदृक्षावत् दशरथस्यापि चिन्ता समजनि। पितरि जीवति च रामो राजत्वं न स्वीकुर्यात् इत्येवात्र चिन्ता युक्ता। ४२ श्लोकव्याख्या द्रष्टव्या।

॥ २।१।३४३५ ॥

॥ २।१।३६ ॥

एषा ह्यस्य परा प्रीतिर्हृति १सम्परिवर्तते।

कता नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥

उक्तचिंताया अनुवादपूर्वं तदौत्कट्यं प्रतिपाद्यते–एषेत्यादि। एतच्छब्दार्थः–कदा नामेत्यादि। कदा द्रक्ष्यामीत्येषा प्रीतिः–प्रीतिसंपत्तिविषयिणी चिन्ता पराउत्कटा परिवर्तते स्मेति योजना ॥ ३६ ॥

१सम्प्रतिङ।

॥ २।१।३६ ॥ ॥ २।१।३७ ॥

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः।

मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७ ॥

लोके–लोकविषये ॥ ३७ ॥

॥ २।१।३७ ॥ ॥ २।१।३८३९ ॥

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३८ ॥

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।

अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ॥ ३९ ॥

अनेन वयसेति। वृद्धशरीरेणेति यावत्। यथा–यथावत् अधितिष्ठन्तमित्यन्वयः। यथास्वर्गं–यथाकालप्राप्तं स्वर्गं अथावाप्नुयामिति चिन्ता बभूवेत्यनुकर्षः ॥ ४९ ॥

॥ २।१।३८३९ ॥ ॥ २।१।४०४१ ॥

इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः।

शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४० ॥

तं तु वीक्ष्य महाराजो युक्तं समुदितैः शुभैः।

निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत ॥ ४१ ॥

एवं चिन्तानन्तरं कर्तव्यनिश्चयो राज्ञः–एतैरित्यादि। प्रागुक्तैरित्यर्थः। शिष्टैः–विशिष्टैः लोके अन्यपार्थिवदुर्लभैः इत्यन्वयः। लोकोत्तरैर्गुणैर्युक्तं वीक्ष्य उक्तगुणानुवादपूर्वं कर्तव्यनिश्चयः– समुदितैरित्यादि। एवं समुदितैः–समस्तैः गुणैर्युक्तं निश्चित्य सचिवैः सार्धं यौवराज्यं दातुं–अभिषेकं कर्तुं अमन्यत–विचारितवानित्यर्थः ॥

॥ २।१।४०४१ ॥ ॥ २।१।४२४४ ॥

दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।

सञ्चचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ ४२ ॥

पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।

लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः ॥ ४३ ॥

आत्मनश्च प्राजानां १श्रेयसे च प्रियेण च।

२प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ॥ ४४ ॥

अथ भरतशत्रुघ्नौ जनकादयश्चानेतव्या इति कालविळम्बकरान् मन्त्रिणस्त्वरितवान् अथ त्वराहेतुं च तेभ्यः सञ्चचक्षे–उक्तवानित्युच्यते–दिवीत्यादि। दिव्युत्पातः–उल्कापातादिः। अन्तरिक्षे उत्पाता–महावातदिग्दाहादयः। भूमौ भूकम्पनपर्वतशिरस्फोटादिः, पक्षिमृगशब्दगतिविशेषश्च। एवं उत्पातजं उत्पातसूचकं घोरं रामाभिषेकविघ्नशंकाजनितं भयं सञ्चचक्षे–आख्यातवान्। नन्विदानीं विघ्ने, कालान्तरे भविष्यतीत्यत्रोज्यते–आत्मन इत्यादि। अहं षष्टिवर्षसहस्रं जीवनादतिजीर्णदेहः, अतः कालान्तरे मज्जीवनं सन्दिग्धम्। घोरोत्पाताः अभिषेकविघ्नसूचका दृश्यन्ते। यदेवमतः–पूर्णेत्यादि। शोकापनुदम्। ऽतुन्दशोकयोःऽ इत्यादिना कः, शोकापनुदं रामस्य सम्प्रियत्वं–समेताभिषेकप्रीतिकत्वं कर्तव्यमिति। आत्मनः श्रेयसे प्रजानां श्रेयसे च प्रियेण प्राप्तकालेन स्वीयेन च बुबुधे–गुरुर्व्यत्ययात् चिन्तयामि। एवमुक्त्वा धर्मात्मा नृपो भक्त्या–रामगतस्नेहेन मन्त्रिणः त्वरितवान् ॥ ४४ ॥

सञ्चचक्षेदृष्टवान्गो।

अथउत्पातदर्शनानन्तरं पूर्णचन्द्राननस्यमहात्मनःरामस्य लोकेविषये सम्प्रियत्वं, कीद्दशम्? आत्मनः शोकापनुदंउत्पातादिभयनिवर्तकं सम्यक्प्रियत्वं बुबुधेअनुसन्दधौगो।

प्रियेणचतुर्थ्यर्थे तृतीया। प्राप्तकालेनोपलक्षितस्सन्गो।

१श्रेयसाङ।

२प्राप्तकाले स धर्मात्माङ।

स्वतुतस्त्वत्र भयं स्वमरणस्मरणजन्यमेव युक्तम्। उत्पातदर्शनमात्रेण दृढकायस्य तव कथं मरणं सम्भाव्यत इति शङ्कायांशरीरे चात्मनो जरामिति।

॥ २।१।४२४४ ॥ ॥ २।१।४५ ॥

नानानगरवास्तव्यान् पृथग्जानपदानपि।

समानिनाय १मेदिन्याः प्रधानान् पृथिवीपतीन् ॥ ४५ ॥

त्वरयित्वा च आसन्नान् नानानगरवास्तव्यादीन् समानिनाय–आनाययामास ॥ ४५ ॥

१मेदिन्यांङ।

॥ २।१।४५ ॥ ॥ २।१।४६४७ ॥

तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्।

ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ॥ ४६ ॥

न तु केकयराजानं जनकं वा नराधिपः।

त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४७ ॥

वेश्मनानाभरणैरिति। तद्दानैः इत्यर्थः। केकयादेरानयनाभावहेतुः–त्वरयेति ॥ ४६४७ ॥

४६, ४७ श्लोकयोः क्रमो व्यत्यस्तःङ।।

॥ २।१।४६४७ ॥ ॥ २।१।४८ ॥

अथोपविष्टे नृपतौ तस्मिन् परबलार्दने।

ततः प्रविविशुः शेषा राजानो लोकसम्मताः ॥ ४८ ॥

शेषा इति। केकयजनकव्यतिरिक्ता आसन्ना इत्यार्थः ॥ ४८ ॥

॥ २।१।४८ ॥ ॥ २।१।४९ ॥

अथ राजवितीर्णेषु विविधेष्वासनेषु च।

राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ ४९ ॥

नियताः–नियतदेशाधिपत्याः ॥ ४९ ॥

नियमविशिष्टा इति वा।

॥ २।१।४९ ॥ ॥ २।१।५० ॥

स लब्धमानैर्विनयान्वितैर्नृपैः

पुरालयैर्जानपदैश्च मानवैः।

उपोपविष्टैर्नृपतिर्वृतो बभौ

सहस्रचक्षुर्भगवानिवामरैः ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाणडे प्रथमः सर्गः


उपोपविष्टैः–सभायां स्वसमीपोपविष्टैर्त्यर्थः। सहस्रचक्षुः–इन्द्रः। नाम (५०) मानः सर्गः ॥ ५० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे प्रथमः सर्गः।

॥ २।१।५० ॥