०७७ दशरथाद्ययोध्यागमनम्

अथ सप्तसप्ततितमः सर्गः

[अयोध्यावासः]

॥ १।७७।१ ॥ गते रामे प्रशान्तात्मा रामो दाशरथिधर्नुः ।

वरुणायाप्रमेयाय ददौ हस्ते १ससायकम् ॥ १ ॥

अथ संपूर्णकामतया दशरथस्य पुरप्रवेशादिःगते राम इत्यादि । परशुराम इति यावत् । हस्तेस्वहस्ते स्थितं सायकं धनुश्च वरुणाय ददौ, न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं" भृगुर्वै वारुणिः । वरुणं पितरमुपससारऽ इत्यादिना साक्षात् शुद्धब्रह्मविद्याप्रवर्तकदेशिकेन्द्रत्वादप्रमेयवैभवत्वम् । तस्य च सत्त्वप्रधानतो ब्रह्मण आन्तरमूर्तित्वात् ब्रह्मणा रामेणाप्ते एतस्मिन् प्रदानम् । एवं वरुणादिमहामहादेवतानामपि स्वेष्टविनियोजकत्वेन भगवान् रामो ब्रह्मा स्वावगमः । वरुणायेत्यादौ षष्ठ्यर्थे चतुर्थ्याश्रये तु पाङ्क्तो ऽर्थः ॥ १ ॥

(वरुणायदेवैस्सह कौतुकदर्शनार्थमन्तरिक्षे स्थितायति, अप्रमेयायअन्यैः अयं वरुण इति तस्मिन् काले प्रमातुमशक्यामशि। अप्रमेयायअदृश्यायगो । अत्र ससायकं धनुरिति वा ऽन्वयः)

(१ महायशाः।ङ।ज) ॥ १।७७।१ ॥

॥ १।७७।२ ॥ अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।

पितरं २विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥ २ ॥

विह्वलःपरवशः ॥ २ ॥

( विह्वलंपरवशं । अनेन परशुरामेण कृतां परत्वसूचिकां स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यतेगो। धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रतिति। अत्र विह्वलत्वं भयकृतमिति युक्तम् । पूर्वं परशुरामात् भयाविष्करणात्, ऽगतो राम इति श्रुत्वा हृष्टःऽ इत्यनन्तरमेवोक्तश्च।) ॥ १।७७।२ ॥

॥ १।७७।३ ॥ जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।

१अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ ३ ॥

चतुरङ्गिणीति । ऽप्रातिपदिकान्तनुम्ऽ इत्यादिना णत्वम् ॥ ३ ॥

(१ एतदनन्तरंसंदिशस्व महाराज सेनां त्वच्छासने स्थिताम् । शासनं काङ्क्षते सेना चातकालिर्जलं यथा ॥ ४ ॥ इत्यधिकं।ङ।) ॥ १।७७।३ ॥

॥ १।७७।४ ॥ रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ ४ ॥

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।

पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥ ५ ॥

तां सेनांप्रथमं क्षुभितां पश्चात् प्राप्तश्वासां चेत्यर्थः । प्रतिबन्धाभावात् पुरीं चाशु जगाम ॥ १।७७।५ ॥

॥ १।७७।६ ॥ चोदयामास तां सेनां, जगामाशु ततः पुरीम् ।

पताकाध्वजिनीं रम्यां तूर्योद्धुष्टनिनादिताम् ॥ ६ ॥

अस्यैव विस्तरःपताकेत्यादि । पताकाध्वजपटः । ध्वजः–दम्डः । पताकान्विता ध्वजास्सन्ति अस्या इति तथा । उद्धुष्टमिति भावे निष्ठा ॥ ६ ॥

( यद्यप्यत्र पताकाध्वजपटः, ध्वजःदण्डः इति गोविन्दराजैरपि व्याख्यातम्, अथापि तैरेव अन्यत्र (अयो६२३) ध्वजाःसचिहाः, पताकाःचिहरहिताः, इति व्याख्यातम् । तदेवात्रापि युक्तं ग्रहीतुमिति ॥ (ह्रस्वदीर्घध्वजभेद इत्यप्याहुःगो) ॥ ११।७७।६ ॥

॥ १।७७।७ ॥ २ सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।

राजप्रवेशसुमुखैः पौरैर्मङ्गल१वादिभिः ॥ ७ ॥

मङ्गलंआशीर्वदनं वदितुं शीलमस्त्येषामिति तथा ॥ ७ ॥

(२ सिक्तराजपथैरम्यां, सिक्तराजपथारम्यांज)

( रम्यामिति पुनरुक्तिः तत्तद्द्विशेषणरमणीयत्वाभिप्रायेणगो। सिक्तैः राजपथैः रम्यांशि। सिक्तेन राजपथेन आसमन्तात् रम्यांति।) ॥ १।७७।७ ॥

॥ १।७७।८ ॥ संपूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ।

पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ॥ ८ ॥

श्रीमद्भिरिति । दारपरिग्रहादधिकलक्ष्मीवद्भिः ॥ १।७७।८ ॥

॥ १।७७।९ ॥ पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ॥

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ॥ ९ ॥

हिमवत्सदृशमिति । अनेन सुधालेपजधावल्यमौन्नत्यं च लक्ष्यते । सजनःसबन्धुजनः गृहे विद्यमानः । काम्यन्त इति कामाःविषयभोगपरिकरस्रक्चन्दनाभरणादयः तैः सुपूजितःप्राप्तपूजःप्राप्तानन्दइत्यर्थः ॥ १।७७।९ ॥

॥ १।७७।१० ॥ ननन्द सजनो राजा गृहे कामैः सुपूजितः ।

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥ १० ॥

वधूनांस्नुषाणां प्रतिग्रहःआरात्र्यादिमङ्गलाचारपूर्वकः । राजयोषितःदशरथपत्न्यः ताश्च वधूप्रतिग्रहे युक्ताः ॥ १।७७।१० ॥

॥ १।७७।११ ॥ २वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।

ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥ ११ ॥

कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।

मङ्गला१लपनैश्चैव शोभिताः क्षौमवाससः ॥ १२ ॥

मङ्गलार्थमालपनमाशीर्वादः तैरुपलक्षिता इति शेषः । देवतायतनंपुरदैवत३गृहदैवतायतनवेदिः । प्रत्यपूजयन्निति । प्रणमन्ति स्म ॥ १२ ॥

(२ एतदनन्तरंराम च लक्ष्मणं चैव शत्रुघ्नं भरतं तथा । आर्चयन्मङ्गलासीर्भिर्मङ्गलैरभ्यपूजयन् । उपहारैश्च संहृष्टाः कुमारानभिपूज्य च ॥ इत्यधिकंङ।)

( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्–गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो।)

(१ लपनैर्होर्मेःज।, लंभनैश्चैवङ।)

(३ ग्रामग।) ॥ १।७७।१२ ॥

॥ १।७७।१३,१४ ॥ देवतायतनान्याशु २सर्वास्ताः प्रत्यपूजयन् ।

४अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥ १३ ॥

५रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।

कृतदाराः ६कृताज्ञाश्च सधनाः ससुहृञ्जनाः ॥ १४ ॥

अभिवादार्हाःअभिवाद्या । कृताज्ञाःअनुष्ठितपितृनियोगाः । सधनाःस्वस्वभोगोपयुक्तजीवाजीवधनसहिताः ॥ १४ ॥

( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्–गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो।)

(२ यथार्हं।घ)

(४ एतदनन्तरं ऽस्वं स्वं गृहमथा ऽ ऽसाद्य कुबेरभवनोपमम् । गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्ङ।)

(५ एतदनन्तरंकुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । अधिकम्ङ)

(६ कृतास्त्राश्चङ) ॥ १।७७।१४ ॥

॥ १।७७।१५ ॥ ७शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।

८कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥ १५ ॥

कस्यचित्कालस्येति । अत्यय इति शेषः ॥ १५ ॥

(७ एतदनन्तरंकालेकाले तु नीतिज्ञास्तोषयन्तो गुरुं गुणैः । अधिकंङ।)

( वर्तयन्तिवर्तन्ते, णिजर्थो ऽविवक्षितः।शि)

(८ एतदनन्तरंअभिवादयितुं प्राप्तं श्यामं कमललोचनम् । अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । अधिकम्ङ) ॥ १।७७।१५ ॥

॥ १।७७।१६ ॥ भरतं कैकयीपुत्रमब्रवीद्राघुनन्दनः ।

अयं केकयराजस्य पुत्रो वसति पुत्रक ॥ १६ ॥

मातुलस्तवेति । अतो गत्वा ऽ ऽगच्छेति शेषः ॥ १।७७।१६ ॥

॥ १।७७।१७ ॥ १ त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।

२ श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ॥ १७ ॥

एतदिति । वाक्यमिति शेषः ॥ १७ ॥

(१ एतदनन्तरं ऽप्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा । ऋषिमध्ये तु तस्य त्वं प्रीति कर्तुमिहार्हसि ॥ इत्यधिकम्ङ।) ॥ १।७७।१७ ॥

॥ १।७७।१८ ॥ गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ।

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥ १८ ॥

अक्लिष्टंकस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ॥ १८ ॥

( १८ सर्गे रामलक्ष्मणयोरिव भरतशत्रुघ्नयोः सौभ्रात्रातिशयः प्रत्यपादि।)

(ऽअक्लिष्टव्रतधर्मज्ञःऽ इत्यादाविव विनैव क्लेशं उत्साहेनानायासतः सर्वं कर्तुं समर्थ इति वा ऽर्थः) ॥ १।७७।१८ ॥

॥ १।७७।१९ ॥ ३मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।

गते च भरते रामो लक्ष्मणश्च महाबलः ॥ १९ ॥

पितरं देवसंकाशं पूजयामासतुस्तदा ।

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥ २० ॥

चकार रामो धर्मात्मा प्रियाणि च हितानि च ।

मातृभ्यो मातृकार्याणि १कृत्वा परमयन्त्रितः ॥ २१ ॥

परमंअत्यन्तं यन्त्रितःश्रुतिस्मृतिमर्यादानतिलंघी । गुरुकार्याणीति । गुरूचितशुश्रूषादिकार्याणीति यावत् ॥ २१ ॥

(१ राज्ञाङ) ॥ १।७७।२१ ॥

॥ १।७७।२२ ॥ गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत ।

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥ २२ ॥

तथा नैगमाःवणिजः । विषयवासिन इति । प्रीता इति विपरिणामः ॥ १।७७।२२ ॥

॥ १।७७।२३ ॥ रामस्य शील२वृत्तेन सर्वे विषयवासिनः ।

तेषामतियशा लोके रामः सत्यपराक्रमः ॥ २३ ॥

तेषां चतुर्णां मध्ये सत्यपराक्रमः राम एव लोके गुणवत्तरःअतिशयेनानन्तकल्याणगुणसम्मतो बभूव । यथा भगवान् स्वयम्भूः देवासुरान्तसकलसंसारिणां साधारण्येन निस्तुलाधिकजाग्रन्निर्मलनिसर्गभूमविद्यैश्वर्यानन्दवैभवेन सज्जनसाधारणनिरयभरणस्वर्गप्रापणपरमापवर्गान्तसकलपुरुषार्थसाक्षात्साधकत्वेन सर्वसम्मतसर्वोपसेव्यानन्तकल्याणगुणो भवति, उपादानत्वेन सर्वात्मकत्वाच्च सर्वसम्मतसच्चिदानन्दतत्त्वतत्स्वरूपत एवाविवादतस्सर्वलोकसम्मतविद्यैश्वर्यादिगुणो भवति तथेत्यर्थः ॥ २३ ॥

(२ वृत्ताभ्यांङ) ॥ १।७७।२३ ॥

॥ १।७७।२४ ॥ स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।

रामस्तु सीतया सार्धं विजहार बहूनृतून् ॥ २४ ॥

मनस्वीअनुकूलमनस्कः । अतः तद्गतःतया सीतया अभिगतःनित्यसेव्यमानः आस्थान्यवस्थानादिना असन्निधाने ऽपि तस्य हृदि तया नित्यं समर्पितःसततोत्कण्ठितो भवति ॥ १।७७।२४ ॥

॥ १।७७।२५ ॥ मनस्वी ३ तद्गतस्तस्या नित्यं हृदि समर्पितः ।

प्रिया तु सीता रामस्य दाराः पितृकता १इति ॥ २५ ॥

सीता रामस्य पितृकृता दारा इति तु विशिष्य प्रिया भवति । उत्तमस्त्रीत्वादेव स्वतः प्राप्ता प्रीतिस्सीतायां पितृकृतत्वेन बहुमाननास्पदभूता चाभूदित्यर्थः । न केवलं पितृकृतेति प्रीतिः, अपि तु गुणात्इष्टशिष्टहितकारित्वादिपातिव्रत्यगुणात् । रूपंआत्मीयनिस्तलाधिकसौन्दर्यात्मकगुणस्तथा । भूयःअभ्यधिकं रामस्यास्यां प्रीतिरवर्धत ॥ २५ ॥

( तस्यां गतःइति वा ऽर्थः)

(३ तद्गतमनाःङ)

(अत्र पितृपदेन दशरथो विवक्षितः । अथवा ऽइयं सीता मम सुताऽ इत्यादिना सीतायाः जनकेन दानात् पिता ऽत्र सीतापिता विवक्षितः । सीताविवाहस्य स्वयंवरत्वव्यावृत्तये इदं विशेषणम् । यद्यपि अयोध्याकाण्डान्ते–अनसूयया सीतां प्रति तत्स्वयंवरवृत्तान्त एव पृष्टः, अथापि सीता ऽमम पित्रा त्वहं दत्ताऽ इत्येवं प्रत्यवोचत् । एवञ्च सीताविवाहः वीर्यशुल्कप्रधानः गौणः स्वयंवर इति ॥ )

(१ इवङ) ॥ १।७७।२५ ॥

॥ १।७७।२६ ॥ २गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो ऽभ्यवर्धत ।

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥ २६ ॥

तस्याश्च हृदये भर्ता रामः गुणाद्रूपगुणाच्च द्विगुणं परिवर्तते स्म । उभयोः परस्परोङ्गितज्ञानं स्नेहमूलकं प्रदर्श्यते–अन्तरित्यादि । तस्य रामस्यान्तर्जातमपि हृदयंहार्दाभिप्रायं मैथिली हृदास्वहृदयेन ज्ञात्वा भूयःअभ्यधिकं व्यक्तं विशेषेणैव एवमेवेति विविच्य आख्याति स्म । एवं सो ऽपि सीतायाः ॥ २६ ॥

(२ एतदनन्ततरं–तथैव रामस्सीताया प्राणेभ्यो ऽपि प्रियो ऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ अधिकम्ङ) ॥ १।७७।२६ ॥

॥ १।७७।२७ ॥ अन्तर्जातमपि व्यक्तं आख्याति हृदयं हृदा ।

तस्य भूयो विशेषेण मैथिली जनकात्मजा ॥ २७ ॥

देवताभिस्समेति । मानुषावतारे ऽपीति शेषः । अत एव श्रीरिवेति उपमा ऽपि श्रिया एव सत्या । अत एवोत्तरश्लोकोपमा ऽप्युभयोः ॥ १।७७।२७ ॥

॥ १।७७।२८ ॥ देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।

तया स राजर्षिसुतो ऽभिरामया

समेयिवानुत्तमराजकन्यया ।

अतीव रामः शुशुभे ऽतिकामया

विभुः श्रिया विष्णुरिवामरेश्वरः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः

समाप्तश्च बालकाण्डः

१अदुःखमानः (२८ १२) सर्गः ॥ २८ ॥ ॥ १।७७।२८ ॥

बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।

श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ॥

यस्सर्वोपनिषव्द्याख्या मङ्गलाभरणं व्यधात् ।

ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ॥

( अमरेश्वरःविष्णुः श्रियेव, मूर्तिभेदेनोपमानत्वम्गो)

( क पुस्तके अन्ते इदं पद्यमधिकं दृश्यते–

दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि ।

त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते सकलानभीष्टान् ॥ )

(१ अजरमानःग)

इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां बालकाण्डे सप्तसप्ततितमः सर्गः

बालकाम्डव्याख्या समाप्ता