अथ षट्षष्टितमः सर्गः
[परशुरामप्रतिष्टम्भनम्]
॥ १।७६।१ ॥ श्रुत्वा तञ्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
गौरवाद्यन्त्रितकथः१ पितू राममधाब्रवीत् ॥ १ ॥
अथ रामेण जामदग्न्यसंहारः–श्रुत्वेत्यादि । पितुर्गौरवादिति । पितृसन्निधिगौरवादित्यर्थः । यन्त्रितानियमिता कथाउच्चैः कथनं येन स तथा ॥ १ ॥
(१ जामदग्न्यमथाङ)
(कथाआत्मश्लाधनं, अधिकभाषणं वा । तेन रामस्य परशुरामवैलक्षण्यमुक्तं भवति ॥ ) ॥ १।७६।१ ॥
॥ १।७६।२ ॥ श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव
१अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ २ ॥
श्रुतेत्यादि । पितुरानृण्यंपितृघातृक्षत्रवधेन पितृवैरशुद्धिं आस्थितस्सन् यत्कर्मत्रिस्सप्तकृत्वः क्षत्रवधरूपं कृतवान् असि तच्छ्रुतवानस्मि । तदेनमनुरूध्यामहे–२अनुरुन्ध्मः–अङ्गीकुर्मः, अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात्, कर्तरि यगार्षः ॥ २ ॥
(१ अनुरुन्ध्यामहेज)
(२ अनुसरामःग)
( ऽअनो रुध कामेऽ इति धातुर्वा ऽयम्।) ॥ १।७६।२ ॥
॥ १।७६।३ ॥ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव
अवजानासि ३मे तेजः पश्य मे ऽद्य पराक्रमम् ॥ ३ ॥
अपि तु वीर्यहीनं अत एव क्षत्रधर्मेण प्राप्ते धनुर्ग्रहयुद्धादौ अशक्तमिव मन्यमानो यन्मां अवजानासि, ऽक्षत्रधर्मं पुरस्कृत्य गृह्णीष्वऽ इत्यादिवचनेनावमानं कृतवानसि, तन्नानुरुध्यामहे । ऽअस्मदोर्द्वयोश्चऽ इति चकारादेकस्मिन्नपि बहुवचनम् । यदेवमतः–तेज इत्यादि । तेजः–पराभिभवासहनं । तच्च तच्च तन्मूलं पराक्रमं स्वशक्त्या पराभिभवनरूपव्यापाररूपं च पश्य ॥ ३ ॥
( क्षत्रधर्मेण स्थितं, अत एव अशक्तं–ब्राह्मणोद्देश्यकातिभाषणासामर्थ्यरहितं मां त्वं वीर्यहीनमिवावजानासिशि।)
(३ मां रामङ) ॥ १।७६।३ ॥
॥ १।७६।४ ॥ इत्युक्त्वा राघवः क्रुद्धो भागर्वस्य शरासनम् ।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥ ४ ॥
इत्युक्त्वा क्रुद्धः–प्रागुक्तरूपावमानवचनेन ४क्रुद्धः । एवं क्रोधाविष्टत्वादेव तद्धस्तात्स्वयमेव धनुरादेर्बलात् प्रतिग्रहः । लघुःशीघ्रः पराक्रमो यस्य स तथा ॥ ४ ॥
( चात् भार्गवनिष्ठां वैष्णवींशक्ति৷৷।अग्रे वक्ष्यति ऽनिर्वीर्यो जामदग्न्यो ऽसौऽ इतिति।)
(४ क्रोधःघ।) ॥ १।७६।४ ॥
॥ १।७६।५ ॥ आरोप्य स धनू रामः शरं सज्यं चकार ह ।
जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ॥ ५ ॥
स रामो धनुरारोप्य–ज्यारोपं कृत्वा, शरं सज्यं–ज्यासहितं चकार । सन्धानं कृतवानिति यावत् ॥ १।७६।५ ॥
॥ १।७६।६,७ ॥ ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ ६ ॥
इमां१ वा त्वद्गतिं राम तपोबल२समार्जितान् ।
लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ ७ ॥
ब्राह्मणो ऽसीति । जमदग्निबीजत्वेन ब्राह्मण इति कृत्वा सामान्यतः पूज्यो ऽसि–वधानर्हो ऽसि । अपि च विश्वामित्रकृतेनविश्वामित्रभागिनेयसुतत्वेन च हेतुना पूज्यो ऽसीति यतः तस्मात् इमां प्रत्यक्षसिद्धां त्वद्गतिंगतिसाधनपादावित्यर्थः । लोकानिति । लोकप्राप्तिमार्गमित्यर्थः । यदिच्छसीति । उभयोर्मध्ये तद्वदेति शेषः ॥ ७ ॥
(विश्वामित्रकृतेन–विश्वामित्रकृतेन स्नेहेन विश्वामित्रभगिन्यां सत्यवत्स्यां ऋचीकाञ्जातो जमदग्निः, तस्य पुत्रः परशुरामः इति विश्वामित्रसम्बन्धेनेत्यर्थःगो। विश्वामित्रात्–अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन–जातत्वेन च हेतुनाशि। विश्वामित्रकृते–इत्यस्मिन्नर्थे विभक्तिप्रतिरूपकमव्ययं वेदम्।)
(उत्तरत्र ऽयदीमां मद्गतिंऽ इत्यत्र संचारस्य स्पष्टं प्रतीत्या अत्रैवं व्याख्यानम् । अत एव गोविन्दराजीये ऽपादगतिंऽ इति पाठ आदृतः । पाद्मे ऽपि ऽत्वत्पादकमले हन्मिऽ इति दृश्यते । शिरोमणिस्तु त्वद्गतिं–त्वत्कर्तृकं कामचारगमनं इति व्याचख्यौ । शिष्टं १४ तमश्लोकटिप्पण्यां द्रष्टव्यम्।)
(१ पादगतिंङ)
( ऽलोकास्त्वप्रतिमा राम निर्जितास्तपसा मयाऽ इत्यनुपदं सत्त्वात् अयं पाठो युक्तः)
(२ समार्जिताम्ङ)
( परं तु उत्तरत्र २२ तमश्लोके ऽलोकान्ऽ इति पदमन्यथा व्याख्यातम्।) ॥ १।७६।७ ॥
॥ १।७६।८ ॥ न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।
३मोघः पतति वीर्येण बलदर्पविनाशनः ॥ ८ ॥
कुत एवमित्यतः–न ह्ययमित्यादि । वीर्येणस्वशक्त्या शत्रूणां बलजदर्पविनाशनः ॥ ८ ॥
(३ एतदनन्तरंइति ब्रुवति काकुत्स्थे भार्गवं प्रति रोषिते । शतक्रतुमुखा देवा पुरस्कृत्य शतक्रतुम् ॥ इत्यधिकंङ) ॥ १।७६।८ ॥
॥ १।७६।९ ॥ वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ ९ ॥
वरायुधं–वैष्णवं धनुः । सर्वतो रामाभ्युदयेनिजावतारत्वादेव सदेवगणपरिकरस्य भगवतो ब्रह्मणो दिदृक्षया आगमनं भवति । “अनुग्रहात्तदंशानां भगवतो दिदृक्षाप्रवृत्तिः । एवं प्रतिसर्गभगवदनुग्रहप्रसंगोपबृंहितत्वादेवेदं रामायणामृतं ब्रह्मकुलजीवातुः ॥ १।७६।९ ॥
॥ १।७६।१०,११ ॥ गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ १० ॥
जडीकृते १तदा ऽ ऽलोके रामे वरधनुर्धरे ।
निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ॥ ११ ॥
एवं वरधनुर्धरे रामे–अधिकरणे, तदा ऽ ऽलोके–तस्य भार्गवस्या ऽ ऽलोके सति सङ्क्रान्त इति यावत् । तथा पुराणे–” ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत्" इति । अत एव भार्गवे जडीकृतेनिर्वीर्ये सति, यो ऽसौ निर्वीर्यो जामदग्न्यो रामः राममुदैक्षत । उद्भूतविष्णुतेजस्कमपश्यदित्यर्थः । तथैव जामदग्न्यो वक्ष्यति । ऽत्वां मधुहन्तारं जानामि" इति ॥ ११ ॥
(लोकेजने जडीकृतेस्तब्धे निर्वीर्यःनिर्गतवैष्णवतेजाःगो।)
(१ तदा लोकेङ।)
( नृसिह्मपुराणे) ॥ १।७६।११ ॥
॥ १।७६।१२ ॥ तेजोभिर्गतवीर्यत्वाञ्जामदग्न्यो जडीकृतः ।
१ रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ १२ ॥
उक्तश्लोकार्थ एव विवरणरूपेणोच्यते पुनः–तेजोभिरित्यादि । रामसङ्क्रान्तैर्हेतुभिरिति शेषः । उवाच हेति । शरगतिप्रश्नोत्तरमिति शेषः ॥ १२ ॥
(तेजोभि ऽहतध।)
(१ एतदनंतरंराम राम महाबाहो श्रुणु राम मयेरितम् । राजसूये कृते पूर्वं यज्ञे दशरथात्मज ॥ इत्यधिकं।ङ।) ॥ १।७६।१२ ॥
॥ १।७६।१३ ॥ २कश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।
विषये मे न वस्तव्यमिति मां कश्यपो ऽब्रवीत् ॥ १३ ॥
विषय इति । मे–मह्यं दत्ते विषये–कृत्स्नवसुब्धरालक्षणे देशे त्वया न वस्तव्यमिति मां कश्यपो ऽब्रवीत्, प्रजाभीत्यादिनिवृत्तिप्रयोजनाय ॥ १३ ॥
(२ कश्यपस्थाने सर्वत्र काश्यपेत्यपि पाठः) ॥ १।७६।१३ ॥
॥ १।७६।१४ ॥ सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।
कृता प्रतिज्ञा काकुत्स्थ कृता भूः कश्यपस्य हि ॥
यदेवमतः–सोहं गुरुवचः–कश्यपवचः अनुतिष्ठन् पृथिव्यां निशां न वसे, छान्दसस्तङ्, रात्रौ पृथिव्यां न वसाम्यद्यापि । अहन्यावश्यककार्यायागत्य गमनमात्रं दीक्षितपत्न्या इवादोष इत्याशयः । तदेति । यदा दत्तं, यदा च न वस्तव्यमित्युक्तं तदारभ्येत्यर्थः । पृथिव्यां न वस इति सम्बन्धः । कुतः पृथिव्यां न वस इत्यतः–कृतेत्यादि । हि शब्दः प्रसिद्धौ । यतस्सर्वप्रसिद्धतया भूः कश्यपस्य स्वत्त्वेन कृता, न वत्स्यामीति च प्रतिज्ञा च कृता, तस्मादेवेत्यर्थः ॥ १४ ॥
( ब्रह्माण्डपुराणे ३४७ तमे ऽध्याये ऽतेषामनुमते कृत्वा कश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन् आजहारऽ इति दर्शनात् काश्यपस्य स्वगुरुत्वेनाभिधानम्।)
( ब्रह्माण्डपुराणादौ–“आहूय भूगुशार्दूलः सशैलवनकाननाम् । कश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थ तं रामः पर्यकल्पयत् " इति दृश्यते । एतेन परशुरामः सर्वक्षत्रियविनाशपरिहाराय कश्यपेन निष्कासितः । अथापि स्वदेशे गमनागमनादिकं न प्रतिषिद्धावान् । यदाकदाचित् कार्यार्थंमत्रागतो ऽपि परशुरामः बहुदूरादपि प्रभाववशात् रात्रेः पूर्वं महेन्द्रं प्रति प्रतिनिवर्तमान आस । एतादृशगतिसामर्थ्यमेव ऽमनोजवं गमिष्यामिऽ इत्यनेन सूचितम् । एतदेव च गतिशब्देनास्मिन् प्रकरण उच्यत इति भाव्यम् ॥ ) ॥ १।७६।१४ ॥
॥ १।७६।१५ ॥ १ यदीमां मद्गतिं वीर हन्तुं नार्हसि राघव
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १५ ॥
यदेवमतो–यदीत्यादि । नार्हसि यदिइमां मद्गतिं च त्वं हन्तुन्नार्हसि–यदि नेच्छसीति यावत्, ततो मनोजवं पादमास्थाय महेन्द्रं पर्वतोत्तमं–केरळभूरूपं गमिष्यामि । स तु समुद्रान्मया ऽ ऽवासाय याचितः पश्चात् ॥ १५ ॥
(१ तदिमां, तामिमां त्वं गतिंङ।ज)
( महेन्द्रं मनोजवं यथा स्यात् तथा गमिष्यामिशि) ॥ १।७६।१५ ॥
॥ १।७६।१६ ॥ लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
जहि तान् शरुमुख्येन मा भूत्कालस्य पर्ययः ॥ १६ ॥
अतो ये लोका निर्जितास्ताञ्जहि ॥ १६ ॥
(अत्र पुण्यर्जितलोकहननाभ्यनुज्ञया ऽस्य तत्त्ववित्त्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं चति। लोकहनननं नाम लोकदानप्रतिबन्धःगो।) ॥ १।७६।१६ ॥
॥ १।७६।१७ ॥ २ अक्षयं मधुहन्तारं जानामि त्वां ३सुरेश्वरम् ।
धनुषो ऽस्य परमार्शात् स्वस्ति ते ऽस्तु परंतप ॥ १७ ।
त्वां तु लोकदानप्रतिबन्धस्वतन्त्रं ऽउतामृतत्वस्येशानःऽ इति श्रुतिप्रसिद्धं विराजं ब्रह्माणमेव जानामि इत्याह–अक्षयमित्यादि । भूमविराडुपग्रहमिति यावत् । कुत एवं निश्चयः ? इत्यतः–धनुष इत्यादि । अस्येति । वैराजस्येत्यर्थः । परामर्शःग्रहणाकर्षणादिव्यापारः ॥ १७ ॥
(ऽउतामृतत्वस्येशानःऽ इति श्रुतिप्रसिद्धं ब्रह्मा त्वमित्याह–अक्षय्यमितिति।)
(२ अक्षय्यंङ)
(३ सुरोत्तमम्ङ) ॥ १।७६।१७ ॥
॥ १।७६।१८ ॥ एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८ ॥
आहवे अप्रतिद्वन्द्वं–अस्मद्रूपप्रतिभटरहितं सर्वदेवा निरीक्षन्ते–पश्यन्ति ॥ १।७६।१८ ॥
॥ १।७६।१९ ॥ न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुस्वीकृतः ॥ १९ ॥
इयं त्वद्विषये अशक्तिः मम व्रीळाव्रीळावहा भवितुं नार्हति । कुत इत्यतः–त्वयेत्यादि । विराडादिपदत्रयनाथेनास्मदादेस्तथा तथा शक्तिप्रदेन ब्रह्मणा त्वया स्वयं दत्तशक्तेः पुनः स्वस्मिन्नेव संयोजनेन विमुस्वीकृतः–अशक्तः कृतः, कुष्णोनार्जुन इव, न तु अन्येन प्राकृतेन संसारजीवकोट्यन्तर्गतेन तदा किल व्रीळा । तत्तत्स्वामिना तत्तत्स्वे गृहीते तत्तन्न्यासरक्षिणां का व्रीळा इत्याशयः ॥ १।७६।१९ ॥
॥ १।७६।२० ॥ शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ २० ॥
अतो लोकेश्वरस्त्वं शरं मल्लोकप्रतिबन्धाय मोक्तुमर्हसि । शरमोक्षे सति दत्तशरगतिरहं १अप्रतिबद्धो महेन्द्रं गमिष्यामि ॥ २० ॥
(पापस्य तपसा दग्धत्वात्, पुण्यस्य च शरमोक्षेण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थःति।)
(१ अप्रतिबन्धःग) ॥ १।७६।२० ॥
॥ १।७६।२१ ॥ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
रामो दाशरथिःश्रीमांश्चिक्षेप शरमुत्तमम् ॥ २१ ॥
स हतान् दृश्य रामेण स्वांल्लोकांस्तपसा ऽ ऽर्जितान् ।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२ ॥
सः–जामदग्न्यः शरक्षेपानंतरं तपसा ऽ ऽर्जितान् स्वान् लोकान् रामेण तेन शरेण हतान्–रुद्धान् दृश्य–दृष्ट्वा महेन्द्रं जगाम ॥ १।७६।२२ ॥
॥ १।७६।२३,२४ ॥ ततो वितिमिराः सर्वा १दिशश्चोपदिशस्तथा ।
सुराः सर्षिगणां रामं प्रशंशंसु२रुदायुधम् ॥ २३ ॥
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्सप्ततितमः सर्गः
–
रामं प्रदक्षिणं कृत्वेति । रामे सम्यक् समुत्पन्नब्रह्मबुद्धित्वादपेतबालक्षत्रियबुद्धित्वात्स्वयं ब्रह्मर्षिर्वृद्धो ऽपि सन् प्रदक्षिणादिकमकरोत् । आत्मगतिं–आत्मत्वेन गतिरात्मगतिः–रामः मदन्तर्यामी भगवान् आदिगुरुर्ब्रह्मैवेति तत्त्वज्ञानं प्राप्तवान् । आत्मगतिं–स्वस्थानं च जगामेत्यर्थः । प्रभुरिति । ब्रह्मज्ञत्वेन सर्वलोकप्रभुत्वम् । भार (२४) मानः सर्गः ॥ २४ ॥
(१ दिशश्च विदिशङ।)
(२ मुदान्विताःङ।ज)
( अन्तर्यामित्वेन ज्ञानात् प्रदक्षिणकरणं, क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम्ति। । प्रकृष्टा–सर्वोत्तमा दक्षिणा–आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वाशि।) ॥ १।७६।२४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्सप्ततितमः सर्गः