अथ पञ्चसप्ततितमः सर्गः
[वैष्णवधनुःप्रशसा]
॥ १।७५।१ ॥ राम दशरथे राम वीर्यं ते श्रूयते ऽद्भुतम् ।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥
अथ जामदाग्न्यस्य रामाभियानम्रामेत्यादि । निखिलेन–कार्त्स्न्येन ॥ १।७५।१ ॥
॥ १।७५।२ ॥ तदद्भुतमचिन्त्यं च भदनं धनुषस्त्वया ।
तच्छ्रुत्वा ऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ॥ २ ॥
यत्त्वया धनुषो भेदनं कृतं तदद्भुतमचिन्त्यं च भवत्येव । अतःतच्छ्रुत्वेत्यादि । गृह्यगृहीत्वा ॥ १।७५।२ ॥
॥ १।७५।३ ॥ तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३ ॥
जामदग्न्यंजमदग्नेस्स्वपितुरागतं । आगतार्थे ष्यञ् आर्षः ॥ १।७५।३ ॥
॥ १।७५।४ ॥ तदहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे ।
१द्वन्द्वयुद्धं प्रदास्यामि वीर्य२श्लाध्यमहं तव ॥ ४ ॥
प्रपूरणं प्रागुक्तार्थं । वीर्यवद्भिः श्लाध्यं वीर्यश्लाध्यं ॥ ४ ॥
(१ एतदनन्तरं ऽभीतो यदि धनुन्त्यक्त्वा निर्जितो ऽस्मीति वा वदऽ इत्यधिकंङ।झ।)
(२ श्लाध्यस्य राघवःङ।ज) ॥ १।७५।४ ॥
॥ १।७५।५ ॥ तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।
विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५ ॥
तद्वचनं । द्वन्द्वयुद्धवचनमित्यर्थः ॥ ५ ॥
( अदीनः–त्रैकालिकदीनताभावविशिष्टः, विषण्णवदनाःउदासीनचित्तःशि।) ॥ १।७५।५ ॥
॥ १।७५।६ ॥ क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।
बालानां मम पुत्राणां अभयं दातुमर्हसि ॥ ६ ॥
क्षत्ररोषादिति । तज्ज३क्षत्रवधादित्यर्थः ॥ ६ ॥
(३ क्षत्रिय–घ।) ॥ १।७५।६ ॥
॥ १।७५।७ ॥ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
सहास्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ ७ ॥
सहस्राक्ष इति । तत्सन्निधावित्यर्थः । प्रतिज्ञायेति । अतः परं शस्त्रं न ग्रहीष्यामीत्येवमिति शेषः । निक्षिप्तवान् । त्यक्तवानिति यावत् ॥ ७ ॥
(ब्रह्माण्डपुराणे (३।४७) परशुरामः स्वपितृणां वचनात् शस्त्रं निक्षिप्तवानिति वर्तते । महाभारते तु (वन।११७) ऋचीकनियमनादिति वर्तते । अत्र तु इन्द्रनियमनादिति । अतः स्वपितृणां देवानां च सन्निधौ–इति विरोधः परिहरणीयः । तत्र चेन्द्रस्य प्रधान्यादत्र तस्य निर्देश इति ।) ॥ १।७५।७ ॥
॥ १।७५।८ ॥ स त्वं धर्मपरो भूत्वा कश्यपाय वसुन्धराम् ।
दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८ ॥
स त्वंतथात्यक्तशस्त्रस्त्वं ॥ ८ ॥
(महेन्द्रःमहेन्द्रपर्वतः) ॥ १।७५।८ ॥
॥ १।७५।९ ॥ मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।
१न चैकास्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९ ॥
मम सर्वविनाशायेति योजना । कुतस्सर्वविनाशनप्रसंग इत्यतः–न चेत्यादि ॥ ९ ॥
(१ नचैतस्मिन्ङ) ॥ १।७५।९ ॥
॥ १।७५।१०,११ ॥ ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
२अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १० ॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।
३दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ ११ ॥
इमे द्वे धनुषी इति । वक्ष्ममाणलक्षणे दृढे स्थिरे बलवती क्षतक्षमे इति यावत् ॥ ११ ॥
(२ एतदनन्तरं ऽरोषात्प्रस्फुरमाणोष्टो रामं परमधन्विनम् ।ऽ इत्यधिकंङ)
(३ एतदनन्तरं ऽकरवीरसमे गन्धे विशाले विमले शुभेऽ इत्यदिकंङ) ॥ १।७५।११ ॥
॥ १।७५।१२ ॥ ४ अतिसृष्टं सुरैरकं त्र्यम्बकाय युयुत्सवे ।
५ त्रिपुरघ्नं ६नरश्रेष्ठ भ्गनं काकुत्स्थ यत्त्वया ॥ १२ ॥
युयत्सव इति । त्रिपुरावासिभिरिति शेषः । त्रिपुरघ्नतद्धननसाधन मित्यर्थः ॥ १२ ॥
(४ अनुसृष्टंङ।ज)
( अतिसृष्टं–दत्तम् । तदादुष्करत्रिपुरहननातन्तरकालेगो)
(५ एतदनन्तरंइदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः इत्यधिकंङ।ज।)
(६ धनुःश्रेष्ठंङ) ॥ १।७५।१२ ॥
॥ १।७५।१३,१४ ॥ तदिदं वैष्णवं राम धनुः परमभास्वरम् ।
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ १३ ॥
१तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ १४ ॥
तस्येदानीं असमानसारतामाह–तदा त्वित्यादि । अग्निमनीकं सोमं शल्यं विष्णुं तेजनं इति विष्णोः रुद्रसंहारपरिकरान्तर्भावश्रवणाद्विष्णोश्चान्यत्र सर्वत्र सर्वासुरसंहारकत्वेन प्राबल्ये चाविवाददर्शनात् अयं रुद्राहुर्बलस्समो ऽधिको वेत्येवं शितिकण्ठस्य विष्णोर्बलाबलनिरीक्षया सर्वा देवताः पितामहं पृच्छन्ति स्म ॥ १४ ॥
(१ कदाचिद्देवताःङ)
(धनुर्द्वयस्य तौल्ये एकधनुषो भङ्गे कृते किं द्वितीयभङ्गेन ? इत्याक्षेपःस्यादितितदपेक्षया ऽस्य वैशिष्ट्यनुच्यत इति भावः) ॥ १।७५।१३,१४ ॥
॥ १।७५।१५,१६ ॥ अभिप्रायं तु विज्ञाय देवतानां पितामहः ।
विरोधं जनयामास २तयोः सत्यवतां वरः ॥ १५ ॥
३विजये च महद्युद्धमभवद्रोमहर्षणम् ।
शितिकण्ठस्य विष्णोश्च परस्पर४जिगीषिणोः ॥ १६ ॥
स च भगवांस्तेषां अभिप्रायं उक्तरूपं विज्ञाय अथैकस्यैव श्रीमदादिब्रह्मणो मूर्तित्रये प्रतीच इव स्थिते मोहादुपाधिभेदावलम्बनजां इमां दुश्चिन्तां स्वयमेव भेत्स्यन्त इति विज्ञाय श्रीमच्चतुर्मुख प्रदेशमूर्त्यन्तरभूतयोः रुद्रविष्ण्वोः सत्यसङ्कल्पत्वात् सङ्कल्पशक्तिमदान्तरप्रधानत्वाच्च स्वेच्छया वैरं सञ्जनयामास । अग्निभूतत्त्वयोर्वैरस्य सम्पादनमीषत्करं भगवतो ब्रह्मणः । सत्यवतां वरः–इत्यनेन अस्मदुक्तसत्यसङ्कल्पत्वमुक्तम् । १विजय इति निमित्तसप्तमी ॥ १६ ॥
( बहुश उपदेशे ऽपि नैषां चित्तं सुमाधत्ते अतः क्रिययैव बलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोधं जनयामास । अहं धन्वी प्रधानः, विष्णुस्तु ममोपसजंनम्ऽ इति रुद्रेणोक्तमिति विष्णुं प्रत्युक्त्वा, शराग्रतया ऽवस्थानात् मयैव त्रिपुरहननं कृतम् इति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्या च विरोधजननमित्यवगभ्यते–गो)
(२ तयोःसत्वपरीक्षयाङ)
(३ विरोधेइत्येव सर्वकोशेषु दृश्यते।)
(४ जयैषिणोःङ।ज)
(१ अजयइति मातृकासु । परन्त्वौचित्यादेवं निवेशितम्) ॥ १।७५।१६ ॥
॥ १।७५।१७ ॥ तदा तु जृम्भितं शैवं धनुर्भीमपरक्रमम् ।
हुंकारेण, महादेवः स्तम्भितो ऽथ त्रिलोचनः ॥ १७ ॥
तदाविरोधसमये । अथ तथाविरोधाद्युद्धकाले हुङ्कारेण जृम्भितमिति । उत्कटरजश्शक्त्यधिष्ठानजो हुङ्कारः, तेन तद्विषयीकृतत्वेन जृम्भितंसोच्छ्वासमभवदित्यर्थः । ऽरजस्सत्त्वं तमश्चैव तमस्सत्त्व रजस्तथा । अभिभूय प्रभवतिऽ इति न्यायेन उत्कटरजःप्रवृत्तौ तदितरगुणाभिभवस्य स्वाभाविकत्वात्तत्कालमितरगुणप्राधान्यात् भगवांस्त्रिलोचनः स्तम्भितःस्तंभितपरिकरो ऽभूत् ॥ १७ ॥
(हुंकारेणैवविष्णोरिति शेषः । जृंभितंशैथिल्यं प्राप्तम् । अथधनुर्विजृम्भणानन्तरं त्रिलोचनो महादेवः स्तम्भितःव्यापाररहितः आसीदिति शेषः । एतेन सत्त्वगुणस्य तदानीं प्राबल्यं सूचितम्शि ॥ हुंकारेणन स्वाभिमन्त्रितबाणेन, महादेवःमहादेवशब्दो महावृक्षसमाख्यायित इति भावः । त्रिलोचन इत्यनेन तृतीथं लोचनमपि निरर्धकं कृतमिति भावःगो) ॥ १।७५।१७ ॥
॥ १।७५।१८ ॥ देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ।
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ १८ ॥
एतावद्दर्शने सति प्राप्तिनिश्चयैः देवैः युद्धादुपरतिं याचितौ देवतानुग्रहाय प्रशमं जग्मतुः ॥ १८ ॥
( एतावत्यर्थे दृष्टे प्राप्तनिश्चयैःदेवैर्युद्धादुपरतिं याचितौति। अनेन उभयोरपि शान्तियाचनं समर्थितम् ॥
अत्र शिवस्तंभनानन्तरं तत्प्रशान्तियाचनया तमोगुणोद्रेकसमये स्वीकृततमोगुणस्य विजयो भविष्यति, पुनः सत्त्वगुणोद्रेकसमये स्वीकृतसत्त्वगुणस्य विजयो भविष्यतीत्यनवस्था स्यादिति देवाभिप्रायः सूचितःशि। किमनेन बालेन ? अनुकम्प्यताम्इति याचितः तन्निग्रहान्निवृत्तः विष्णुः रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायेति सान्त्वितः तत्तुल्यत्त्वाभिमानात् (पराजयनिमित्तशोकाद्वा) निवर्तित इत्यर्थःगो ।) ॥ १।७५।१८ ॥
॥ १।७५।१९ ॥ जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।
१ अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ १९ ॥
तदा कीदृशं निश्चयं प्राप्तवन्त इत्यतःजृम्भितमित्यादि । विष्णुपराक्रमो हुंकाररूपः, तेन शैवं धनुर्जृम्भितं दृष्ट्वा तदा विष्णुं विष्णुबलं अधिकं मेनिरे । सिद्धान्तस्तु त्रिब्रह्मसु कालत्रये ऽपि ऽशौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्ऽ इति प्रसिद्धक्षत्रधर्माणां प्रसक्त्यभावाद्विना क्षत्रधर्मं स्वसृष्टप्रजारक्षा ऽसम्भवात् तत्तदर्थमग्निभूप्राधान्येन परिगृहीतचतुर्मुखप्रदेशरुद्रविष्णुमूर्त्योर्धनुर्ग्रहप्रमुखसकलक्षत्रधर्मसहजस्वभावयोर्यदा यस्मिन्नुत्कटभूमरजश्शक्यावेशस्स तु तदा ऽधिकक्षत्रबलभानो भवति । अन्योन्यथा चलं गुणवृत्तमिति न्यायेन (परिगृहीतचतुर्मुख)गुणौत्कठ्यानौत्कठ्ये तु न व्यवस्थिते । यो ऽशेषवानरलक्ष्मणोपेतो रामो ऽपि भगवानेकेनेन्द्रजिता सर्वात्मना जित एव । स एव पुनर्द्देवतासाहाय्यादुज्जीविताशेषपरिकर उत्कटरजश्शक्तिस्तमप्यजयच्च । अतश्च द्वन्द्वयुद्धे किंचित्क्षत्रबलाधिक्यभानम् विष्णोः, त्रिपुरसंहारदक्षाध्वरादौ रुद्रस्य । वस्तुतस्तुक्षत्रधर्मप्राबल्यं रुद्रस्य, अग्नितत्त्वत्वात् । अतो ब्रह्मविद्भिः रुद्रो ऽधिको विष्णुर्न्युनस्सवा ऽधिको न्यून इति दुर्मतिर्दूरे त्याज्य । एकस्यैव ब्रह्मणः प्रत्यग्वदेव गुणभेदमात्रनिबन्धनरुद्रविष्णुशब्दतो भेदाभावात् ॥
यस्तु रुद्रोपाधिर्भगवानादिगुरुः स एव विष्णूपाधिरिति यश्चैवमुपाधिस्स एवोपाधिरिति वामदक्षिणोर्ध्वाधो ऽवयववत् किंचित्क्कचित्कदाचित् गुणवत्त्वेनाधिकत्वेन न्यूनत्वेन च भाति । सर्वो ऽप्ययमेकधर्म इति न वृथोल्लाळनं कर्तव्यमिति ॥ १९ ॥
(विष्णुं अधिकंश्रेष्ठं सेव्यत्वेन मेनिरे । वस्तुतस्तु प्रकृतयुद्धे विष्णोराधिक्यदर्शनात् त्रिपुरवधे शिवस्याधिक्यदर्शनात् तयोः साम्यग्रहणमिति तात्पर्यम् । अधिकमित्यस्य स्वीयपूर्वज्ञानविषयस्वरूपापेक्षया ऽधिकमित्यर्थःति। विष्णुमधिकं मेनिरेस्वीकृततत्सत्त्वगुणस्य तत्काले आधिक्यं स्वीचक्रुरित्यर्थः । अत एव त्रिपुरविजयकाले शिवबलस्याधिक्यदर्शने ऽपि नैतेषां संशयोत्पत्तिः–हरिहरयोरैक्यात् तत्तन्न्यूनाधिक्ययोर्वक्तुमशक्यत्वात् । अत एव ऽएको ह वै रुद्रःऽ ऽएको ह वै नारायणःऽ इति श्रुत्योर्न विरोधः৷৷৷৷एतेन ऽतमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति वा केनचिदुक्तं प्रत्युक्तम्ऽ इति भूषणकारोक्तमेव प्रत्युक्तम् । त्रिपुरविजयकाले विष्णोरल्पबलवत्त्वे अस्या एव रीतेस्तैरपि वक्तव्यत्वात्शि ॥
तत्विष्णवधिष्ठानेन पूर्वं त्रिपुरघ्नं धनुःजृम्भितंविष्ण्वधिष्ठानाभावेनजृम्भितं दृष्ट्वान त्वाप्तवाक्यात् श्रुत्वा ৷৷।आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति । अतीन्द्रियार्धद्रष्टार ऋषयः, तेषां गणाः৷৷।ऽभूयसां स्याद्धलीयस्त्वम्ऽ इति न्यायेन, तज्ज्ञानं न पक्षपातमूलं न वा भ्रान्तिमूलमिति भावःएतेन तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति केन चिदुक्तं प्रत्युक्तम् । तमो ऽभिभवस्यैवावरत्वनियामकत्वात् । इन्द्रजिता रामपराजयस्तुऽअदृश्यो न शब्दवेधेन वध्यतेऽ इति धर्मप्रवर्तनाय । धर्मसंस्थापनार्थाय हि तदवतार इत्युक्तम् । (अत एव अनन्तरमिन्द्रजिद्वधःसंगच्छते) । अत्र तु स्वरूपत एव रुद्रस्य पराजयः । किञ्च रुद्रपराजयस्य तमःकृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव ॥ अयं च धनुर्भङ्गः दक्षयज्ञान इति बोध्यम् । अन्यथा ऽदक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्ऽ इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्दावित्युक्तं विरुध्येत । अत्रेदमेव धनुस्त्रिपुरघ्नं, ऽत्रिपुरघ्नम्ऽ इत्युक्तत्वात् । एतद्विरुद्धं मेरूधनुष्ट्वं पुराणान्तरोक्तमनादरणीयम्गो ।)
(१ एतदनन्तरं पूजयित्वा ततो विष्णुमामंत्र्य च पिनाकिनम् । ब्रह्मेन्द्रादीन् पुरस्कृत्य नाकपृष्ठं ययुस्तदा ॥ ऽ इत्यधिकंङ।) ॥ १।७५।१९ ॥
॥ १।७५।२० ॥ धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः ।
१देवरातस्य राजर्पेर्ददौ हस्ते ससायकम् ॥ २० ॥
धनू रुद्र इत्यादि । एवं युद्धदशायां सङ्क्रुद्धः पश्चाद्देवप्रार्थनया प्रसन्नो देवेभ्य एव तद्धनुः ससायकं दत्त्वा तच्च वरुणद्वारा विदेहेषु वर्तमानस्य देवरातस्य राजर्षेर्हस्ते ददौ । एवं विशेषव्याख्या तु षट्षष्टितमे ऽप्रतीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम्ऽ इति प्रति एव रुद्रो देवेभ्यो ददावित्युक्तेः । तथा ऽग्रे वरुणेन दत्तमिति वक्ष्यमाणत्वाच्च ॥ २० ॥
(ननु पूर्वं दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्दत्तवानित्युक्तम् । अत्र पुनः देवराताय रुद्रो दत्तवानित्युक्तम् । विश्वामित्राश्रमे मुनिभिः यज्ञे जनकाय देवा ददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रूयताम्–पूर्वं देवाः त्रिपुरवधाय विश्वकर्मणा निर्मितं धनू रुद्राय ददुः । दक्षयज्ञान्ते विरोधे विष्णुहुंकारेण जृम्भितं तत् देवैः प्रार्थितो रुद्रो देवरातस्य हस्ते दत्तवान् । ततः प्रभृति न्यासभावेन मैथिलेषु वर्तमानं तत्स्वत्वेन देवाः वरुणेन जनकायादापयन्निति क्रमः । तेन दक्षयज्ञाने धनुर्दानवचनं देवैर्जनकस्य यज्ञफलत्वेन दानवचनं वरुणेन दत्त्वत्वचनं च समंजसं, गो । इदं तु चिन्त्यम्–दक्षयज्ञवधानन्तरं दाक्षायण्याः हिमवत्पुत्रीत्वेन जननम् । ततः स्कन्दोत्पत्तिः । ततस्तेन तारकासुरवधः । त्रिपुरासुराश्च तारकासुरपुत्राः । एवञ्च दक्षयज्ञवधः त्रिपुरासुरवधात्पूर्वमेव स्यात् । दक्षयज्ञवधान्त एव यदि धनुर्दत्तं स्यात् तर्हि त्रिपुरवधः अन्येन धनुषा कृतः स्यात् । तथा सति ऽत्रिपुरघ्नंऽ इति विशेषणं बाधितम् । यदि च त्रिपुरवधानन्तरमेव दत्तं स्यात् तर्हि दक्षयज्ञकाले दत्त्वत्ववचनं बोध्येत । अत एवमत्र वक्तव्यम्–दक्षयज्ञान्ते शिवः धनुः देवेभ्यो दत्तवान् । देवाश्च वरुणद्वारा देवराताय न्यासतया ददुः । (वैष्णवमपि धनुः रामः परशुरामात् गृहीत्वा वरुणायैव दत्तवान् इति (बाल।७७।१) श्रूयते ।) अनंतरं तेनैव देवरातात् गृहीतेन त्रिपुरवधः कृतः । तदन्ते च विष्णुशिवयोर्युद्धं । ततः पुनर्देवराताय तद्दानमिति । एवं क्रमाङ्गीकारे न को ऽपि विरोधः आपाततः कुत्रचित् विरोधःप्रतीयमानो ऽपि पदाक्षरपर्यालोचनायां सुपरिहर एव इति केचित् । परे तु त्रिपुराणां तारकपुत्रत्वे ऽपि शङ्करसंहितादिपर्यालोचनया प्रथममेव त्रिपुरवधः, अनन्तरं च दक्षयज्ञध्वंस इति ऽत्रिपुरघ्नंऽ इति विशेषणं युक्तमेवे ऽत्याहुः ॥ )
(१ एतदनंतरंतद्धनुर्देवरातो ऽपि शिरसा गृह्य पूजयत् । भग्नं तन्मनुजश्रेष्ठ त्वया पैनाकमुत्तमम् । इत्यधिकंङ) ॥ १।७५।२० ॥
॥ १।७५।२१ ॥ इदं च वैष्णवं राम धनुः परपुरंजयम् ।
ऋचीके भार्गवे प्रादाद्विष्णुः १ स्वन्यासमुत्तमम् ॥ २१ ॥
एतवतानूक्तं भार्गवेण तु रौद्रं धनुः शिथिलप्रायं जनकवंशे स्थितं । न तु तद्भञ्जनमात्रतस्तव वीर्याधिक्यमिति । तर्हि क्क मे वीर्यशुद्धिरित्यतः–इदञ्चेत्यादि । परपुरञ्जयमिति । असंज्ञायामप्यार्षः खच् । भार्गवःभृगुपुत्रः । स्वस्यस्वीयस्य न्यासः–सन्यासः ॥ २१ ॥
(१ संन्यासर्वत्र,) ॥ १।७५।२१ ॥
॥ १।७५।२२ ॥ ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २२ ॥
पुत्रस्येति । जमदग्नेरिति यावत् । अप्रति२कर्मणः–स्वघातुके कार्तवीर्ये शापादिप्रतिक्रियारहितस्तथा ॥ २२ ॥
(२ कर्माइति स्यात्) ॥ १।७५।२२ ॥
॥ १।७५।२३ ॥ न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥
न्यस्तं विष्णुधनूरूपं शस्त्रं येन स तथा । तपोबलसमन्विते ऽपि प्राकृतां बुद्धिमास्थितः सन् अर्जुनः–कार्तवीर्यार्जुनो १रुद्रः मृत्युं अस्मत्पितुर्विदधे ॥ २३ ॥
(यद्यपि महाभारते (वन।११७) ब्रह्माण्डपुराणे (३।४५) च कार्तवीयार्जुनपुत्रैः शूरसेनादिभिर्जमदग्निर्हत इति कथ्यते–अथापि ब्रह्माण्डपुराणे कथाक्रम एवं दृश्यते । कदाचित् कार्तवीर्यार्जुनः मृगयार्थं वनं गतः तत्र जमदग्निना कामधेनुसहायेन ससैन्यः सत्कृतः । प्रतिनिवर्तनकाले स्वमंत्रिणं चन्द्रगुप्तं तद्धेन्वानयनार्थं प्रेषयामास । यदा च जमदग्निर्धेनुं न ददौ, तदा सः जमदग्निं कशादिभिर्मृतप्रायं कृत्वा गतः । तदैव च परशुरामो बहिर्गतः प्रत्यागच्छत् । तं दृष्ट्वा तन्माता रेणुका सोदरताडनं चुक्रोश । यावच्च रामः न्यरोधत् तावत्येव तया एकविंशतिवारमुदरमताडि । अतो रामेणापि एकविंशतिवारं निक्षत्रीकरणशपथः कृतः । अनन्तरं च भृगुमहर्षिः संजीविनीविद्यया जमदग्निं अजीवयत् । ततश्च परशुरामेण कार्तवीर्यो हतः । कालान्तरे च कार्तवीर्यपुत्राः शूरसेनादयः मृगयार्थं वनं गताः परशुरामानुपस्थितिसमये जमदग्निशिर एव छित्वा गृहीत्वा गताः । तत् ज्ञात्वा परशुरामः ऽक्षत्रियरुधिरेण स्वपितृतर्पणं कुर्यामहम्ऽ इति प्रतिजज्ञे । तथैव कृतवांश्चेति । एवञ्चात्र प्रथमं यत् कार्तवीर्येण स्वामात्यद्वारा जमदग्निवधः कृतः सो ऽत्र विवक्षितः । महाभारते तु सङ्गहत्वात् द्वितीयवारजमदग्निवध एव वर्णित इति न विरोधावकाश इति ॥ अप्रतिकर्मण इत्यस्यैव विवरणं–न्यस्तशास्त्र इति)
(१ इदं पदंग। पुस्तके नास्ति।) ॥ १।७५।२३ ॥
॥ १।७५।२४ ॥ २वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।
३ क्षत्त्रमुत्सादयन् रोषात् जातं जातमनेकशः ॥ २४ ॥
प्रतिरूपंन्याय्यम् ॥ २४ ॥
(२ एतदनंतरं अमर्षो मे महानासीन् सर्वलोकभयप्रदः । शास्त्रतोग्निर्हुतो विप्रैर्यथा हुतमुखे प्रभुः । अशक्नुवन् स तं क्रोधं धनुर्गुह्य परं शुभम् । इत्यधिकंङ)
(जातं जातं क्षत्रमुस्सादयन् अखिलां पृथिवीं प्राप्य इत्यन्वयः)
(३ क्षत्रमुत्सादयम्ङ।च।ज। क्षत्रमुत्पाटयन्ङ) ॥ १।७५।२४ ॥
॥ १।७५।२५ ॥ पृथिवीं ४चाखिलां प्राप्य कश्यपाय महात्मने ।
यज्ञस्यान्ते तदा राम दक्षिणां ५पुण्यकर्मणे ॥ २५ ॥
प्राप्येति । स्वबलेनेति शेषः । पुण्यकर्मण इति । यज्ञमयपुण्यकर्मसाद्गुण्यार्थमित्यर्थः ॥ २५ ॥
(४ चाखिलां प्रादांङ।)
( पुण्यकर्मणो महात्मने कश्यपायशि।)
(५ पुण्यकर्मणांङ।) ॥ १।७५।२५ ॥
॥ १।७५।२६ ॥ ६ दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।
श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतमागतः ॥ २६ ॥
महेन्द्रःमहेन्द्रपर्वतः ॥ २६ ॥
(६ एतदनन्तरं ऽस्थितो ऽस्मि तस्मिंस्तप्यन्वै सुसुखं सुरसेविते । अद्य तूत्तमवीर्येण त्वया राम महाबलऽ इत्यधिकंङ) ॥ १।७५।२६ ॥
॥ १।७५।२७ ॥ तदिदं वैष्णवं राम पितृपैतामहं महत् ।
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ २७ ॥
पितृपैतामहमिति । पितृपितामहक्रमागतमित्यर्थः । उत्तरपदवृद्धिरार्षी । क्षत्त्रधर्मं पुरस्कृत्येति । ब्राह्मणवच्छान्तिमास्थाय नाहं शक्त इति मा ब्रूहीत्यर्थः ॥ १।७५।२७ ॥
॥ १।७५।२८ ॥ योजयस्व धनुश्रेष्ठे शरं परपुरञ्जयम् ।
यदि शक्नोषि, काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चशप्ततितमः सर्गः
–
यदि शक्नोषि तावतापि न त्वां मुञ्चामि । अपि तु ततः अनन्तरं द्वन्द्वयुद्धं प्रदास्यामि । वीर्यपरीक्षणार्थमित्यर्थः । जरा (२८)मानः सर्गः ॥ २८ ॥ ॥ १।७५।२८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चसप्ततितमः सर्गः