अथ चतुस्सप्ततितमः सर्गः
[परशुरामाभियोगः]
॥ १।७४।१ ॥ अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
१आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ १ ॥
अथ भार्गवगतिहरणरूपश्रीरामदिव्यचरितवर्णनशेषतया भार्गवप्रादुर्भाववर्णनं प्रतिप्रयाणसमये । अथेत्यादि । आपृष्ट्वाआपृच्छ्येति यावत् । उत्तरपर्वतंपूर्वमेवाध्यासिषितकौशिकीप्रदेशीयमिति शेषः ॥ १ ॥
(१ अपृच्छयाथ चङ।ज) ॥ १।७४।१ ॥
॥ १।७४।२,३ ॥ विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
२ आपृष्ट्वा ऽथ जगामाशु राजा दशरथः पुरीम् ॥ २ ॥
अथ राजा विदेहानां ददौ कन्याधनं बहु ।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ ३ ॥
कन्याधनं बहु ददावित्यस्यैव प्रपञ्चनम्गवामित्यादि । मुख्यानां कम्बळानांरत्नकम्बळानां बहुनीति योजना । क्षौमान् बहूनिति विपरिणामः । पुंस्यप्यस्ति क्षौमः । कोट्यम्बराणि कोटिसङ्ख्याकानि सामान्यप्रच्छदपटानि ॥ ३ ॥
(२ एतदनन्तरं ऽगच्छन्तं तं तु राजानमन्वगच्छन्नराधिपःऽ । इत्यधिकं ङ।) ॥ १।७४।२,३ ॥
॥ १।७४।४ ॥ कम्बलानां च मुख्यानां ३क्षौमान् कोट्यम्बराणि च ।
हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ॥ ४ ॥
हस्तीत्यादि । सेनाङ्गत्वादेकत्वम् । तासामिति । राजकुमारीणामित्यर्थः । कन्याशतदानं अन्तरङ्गपाकादिव्यवहाराय । दासीदासदानं जलाहरणावहननादिबाह्यव्यापाराय । गवाश्वादित्वादेकत्वम् ॥ ४ ॥
(३ क्षौमकोट्यम्बराणिङ।ज)
( कोट्यम्बराणिउत्कृष्टवस्त्राणि वागो) ॥ १।७४।४ ॥
॥ १।७४।५ ॥ ददौ कन्यापिता तासां दासीदासमनुत्तमम् ।
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ५ ॥
हिरण्यमिति रजतं । पूर्वमेव (३०३ पुटे) तथा प्रतिपादितम् ॥ १।७४।५ ॥
॥ १।७४।६ ॥ ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।
दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् ॥ ६ ॥
पार्थिवंदशरथं ॥ १।७४।६ ॥
॥ १।७४।७ ॥ प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।
राजा ऽप्ययोध्याधिपतिस्सर पुत्रैर्महात्मभिः ॥ ७ ॥
बलैःचतुरङ्गैः, अनुगैः किंकरैश्च सहितस्तथा ॥ १।७४।७ ॥
॥ १।७४।८ ॥ १ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।
गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥ ८ ॥
गच्छन्तं दशरथं इति शेषः । पक्षिणः करटादयः ॥ ८ ॥
(१ एतदनन्तरं ऽबाहिनीं महतीं कर्षन् कीर्तिमांश्च ययौ तदा । ऽ इत्यधिकंङ) ॥ १।७४।८ ॥
॥ १।७४।९ ॥ घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ ९ ॥
एवमान्तरिक्षं दुर्निमित्तम् । अथ भौमं मृगप्रदक्षिणगमनं सुनिमित्तम्भौमा इत्यादि ॥ १।७४।९ ॥
॥ १।७४।१० ॥ तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥ १० ॥
तान्शुभाशुभनिमित्तविशेषान् । हृदयं उत्कंपयितुं शीलमस्येति हृदयोत्कंपि इदं किमिति । दुःखोदर्कं सुखोदर्कं वा भविष्यतीति मे मनो विषीदति । अशक्यनिश्चयादिति शेषः ॥ १।७४।१० ॥
॥ १।७४।११,१२ ॥ किमिदं हृदयोत्कंपि ? मनो मम विषीदति ।
राज्ञो दशरथस्यैतच्छ्रत्वा वाक्यं महानृषिः ॥ ११ ॥
उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।
उपस्थितं भयं घोरं १दिव्यं पक्षिमुखाच्च्युतम् ॥ १२ ॥
दिविखे भवं दिव्यं । तत्पक्षिमुखान् च्युतं वचनं घोरं भयमावेदयतीति शेषः । प्रशमयन्तीति । प्रशमं सूचयन्तीत्यर्थः ॥ १२ ॥
(१ दिव्यपक्षि।ङ) ॥ १।७४।१२ ॥
॥ १।७४।१३ ॥ मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ।
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥ १३ ॥
संवदतांभावलक्षणषष्ठी ॥ १३ ॥
(तेषां संवदतामित्यत्र पुर इति शेषःसि। दशरथादिषु संवदत्सुगो।शि।) ॥ १।७४।१३ ॥
॥ १।७४।१४ ॥ कम्पयन् पृथिवीं सर्वां पातयंश्च २द्रुमान् शुभान् ।
तमसां संवृतः सूर्यः ३ सर्वा न प्रबभुर्दिशः ॥ १४ ॥
तमो भस्म चोभयमप्युत्पातजम् ॥ १४ ॥
(२ महाद्रुमान्ङ)
(३ सर्वे नावेदिषुर्दिशःङ।ज) ॥ १।७४।१४ ॥
॥ १।७४।१५ ॥ भस्मना चावृतं सर्वं संमूढमिव तद्बलम् ।
वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ॥ १५ ॥
ससंज्ञाःइवेति एवार्थे । राजा चैवेति योजना ॥ १५ ॥
(वसिष्ठः, अन्ये ऋषयश्च, राजा च सशङ्का इवासन्–अन्यत्सर्वं विचेतनमासशि। ससंज्ञा इवईषत्संज्ञाः । अन्यत्तु बलं निस्संज्ञमेव ।) ॥ १।७४।१५ ॥
॥ १।७४।१६ ॥ ४ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥ १६ ॥
भस्मच्छन्नेवछन्नैवेति यावत् । भीमसंकाशंभयङ्करदर्शनम् ॥ १६ ॥
(४ सशङ्काज विसंज्ञाङ) ॥ १।७४।१६ ॥
॥ १।७४।१७ ॥ ददर्श ५भीमसंकाशं जटामण्डलधारिणम् ।
भार्गवं जामदग्न्यं तं १राजराजविमर्दनम् ॥ १७ ॥
कैलासमिवेति । अनेन महाकारत्वमुक्तं । दुर्धर्षं–अशक्यातिक्रमम् ॥ १७ ॥
(५ हिमसंकाशंङ)
(१ दिव्यपक्षिङ) ॥ १।७४।१७ ॥
॥ १।७४।१८ ॥ कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ।
ज्वलन्तमिव तेजोभिर्दुर्निरीक्षं पृथग्जनैः ॥ १८ ॥
स्कन्धे २चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।
प्रगृह्य ३शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥ १९ ॥
पृथग्जनःपामरजनः । विद्युद्गणोपमत्वं प्रभातिशयवत्त्वे दृष्टान्तः । त्रिपुरघ्नं यथारुद्रमिव स्थितमित्यर्थः । ऽअमनुष्यकर्तृके चऽ इति हन्तेष्टक् ॥ १९ ॥
(२ चासज्यङ।ज)
(३ शरमुग्रंङ।ज) ॥ १।७४।१९ ॥
॥ १।७४।२० ॥ ४तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ २० ॥
जपहोमेति । यद्यपि तत्काले न समस्ति मुख्यहोमः, अथापि ऽअपाने जुह्वति प्राणम्ऽ इत्याद्युपदिष्टो गौणः ॥ २० ॥
(४ एतदनन्तरं ऽयथा कृष्णगतिं घोरं युगान्ते प्रोद्यतं तथा । ऽ इत्यधिकम्ङ)
( होमः मानसःगो। जपहोमपरायणत्वमुपलक्षणम् । अतएवाग्रे संजजल्पुरिति सङ्गच्छते । अन्यथा तादृशहोमादिपरायणानां जलासंभवादित्याहुःति। परंतु ऽसंजजल्पुरथो मिथःऽ इत्यत्र अथशब्द स्वारस्यान्न विरोधः । प्रथमं शान्त्यर्थं जपादिकं किञ्चित्कृत्वा ततः संजजल्पुरित्यर्थः ॥ ) ॥ १।७४।२० ॥
॥ १।७४।२१ ॥ संगता मुनयः सर्वे संजजल्पुरथो मिथः ।
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ २१ ॥
कच्चिदिति विमर्शः ॥ १।७४।२१ ॥
॥ १।७४।२२,२३,२४ ॥ पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २२ ॥
एवमुक्त्वा ऽर्ध्यमादाय भार्गवं भीमदर्शनम् ।
ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ २३ ॥
प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।
१ रामं दाशरथिं रामो जामदग्न्यो ऽभ्यभाषत ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्तप्ततितमः सर्गः
–
घोर (२४) मानः सर्गः ॥ २४ ॥
(१ एतदनन्तरं ऽतस्मिंस्तु घोरे जमदग्निसूनुना त्वासादिते राममभि प्रकोपे ॥ दृढं नरेन्द्रस्य बलं महाबलं भयं प्रविष्टं च विषादितं च ॥ इत्यधिकंङ।) ॥ १।७४।२४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां, बालकाण्डे चतुस्सप्ततितमः सर्गः