अथ त्रिसप्ततितमः सर्गः
[सीतादीनां विवाहः]
॥ १।७३।१ ॥ यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।
तस्मिंस्तु दिवसे शूरो युधाजित्त्वभ्युपेयिवान् ॥ १ ॥
अथ संप्राप्तसर्वबन्धुकस्य दशरथस्य सुतविवाहकर्मनिर्वृत्तिः–यस्मिन्नित्यादि । अभ्युपेयिवानिति । दशरथमिति शेषः ॥ १।७३।१ ॥
॥ १।७३।२ ॥ पुत्रः १केकयराजस्य साक्षाद्भरतमातुलः ।
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ २ ॥
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् ।
येषां कुशलकामोसि तेषां संप्रत्यनामयम् ॥ ३ ॥
स्नेहात्कुशलमब्रवीदिति । युष्मान् प्रतीति शेषः । अपि च येषां–अस्माकं त्वं कुशलकामो ऽसि तेषां अस्माकपि संप्रत्यनामयमिति चाब्रवीत् ॥ २ ॥
(१ कैकयङ)
( अब्रवीत्अपृच्छदित्यर्थः) ॥ १।७३।२ ॥
॥ १।७३।४,५ ॥ स्वस्त्रीयं मम, राजेन्द्र द्रष्टुकामो महीपतिः ।
तदर्थमुपयातो ऽहमयोध्यां रघुनन्दन ॥ ४ ॥
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
मिथिलामुपयातांस्तु त्वया सह महीपते
२त्वरया ऽभ्युपयातो ऽहं द्रष्टुकामः स्वसुः सुतम् ॥ ५ ॥
स्वसुरपत्यं स्वस्त्रीयः । ऽस्वसुश्छःऽ । –त्वरया ऽभ्युपयातो ऽस्मि, सा ऽयमयोध्यायामदृष्ट्वेह द्रष्टुकाम उपयातो ऽस्मीति योजना । उपयात इति कर्तरि निष्ठा ॥ ५ ॥
( मम स्वस्त्रीयंभरतं द्रष्टुकामः महीपतिः केकयराजो वर्तते । अतः भरतनयनायाहमुपयात इत्यर्थः । अयोध्यायां तु तवात्मजान् विवाहार्थं त्वया सह मिथिलामुपयातान् श्रुत्वा त्वरया ऽत्राभ्युपयात इत्यन्वयः ॥ )
(२ एतदनन्तरं–तस्य त्वं राजशार्दूल प्रीतिं कर्तुमिहार्हसि । तस्य तद्वचनं श्रुत्वा मधुरं मधुराक्षरम् । इत्यधिकंङ)
( भरत इत्यर्थः) ॥ १।७३।५ ॥
॥ १।७३।६,७ ॥ अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥ ६ ॥
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ।
प्रभाते पुनरुत्थाय कृत्वा कर्मणि कर्मवित् ॥ ७ ॥
यज्ञवाटंयज्ञशालां । उपागमदिति । तत्समीपं प्राप्तवानित्यर्थः । प्रवेशो जनकानुमत्या ऽग्रे भविष्यति ॥ १।७३।७ ॥
॥ १।७३।८,९ ॥ ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ।
युक्ते मुहूर्ते विजये सर्वाभरण१भूषितैः ॥ ८ ॥
भ्रातृभिस्सहितो रामः कृतकौतुकमङ्गलः ।
२वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ॥ ९ ॥
युक्तेशुभलग्नादिगुणयुक्ते, विजये–विजयप्रदे, विजया३ख्ये च । पुरतः कृत्वा उपागमदित्यनुकर्षः ॥ ९ ॥
भगवानेत्येत्यादि । यज्ञवाटान्तर्वार्तिनमिति शेषः ॥ ९ ॥
(१ भूषितःङ।)
(२ एतदनन्तरं ऽपितुस्समीपमाश्रित्य तस्थौ भ्रातृभिरावृतःऽ इत्यधिकंङ।)
( विजयप्रदे न तु विजयाख्ये तस्यापराह्निकत्वात् ।गो।)
(३ र्थेक।) ॥ १।७३।८,९ ॥
॥ १।७३।१० ॥ वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।
राजा दशरथो राजन् कृतकौतुकमङ्गलैः ॥ १० ॥
कृतेति । कृतकौतुकसूत्रधारणरूपाणि मङ्गळानि यैस्ते तथा । दातारं, त्वामिति शेषः ॥ १।७३।१० ॥
॥ १।७३।११ ॥ पुत्रैर्नरवर४ श्रेष्ठ दातारमभिकाङ्क्षते ।
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ॥ ११ ॥
दातृप्रतिग्रहीतृभ्यामिति । योग इति शेषः । सर्वार्थाःदानधर्मादयः । हियस्मादेवं तस्मात् स्वसाध्यो धर्मो दानरूपः । विवाहोपयुक्तं कर्म लौकिकालोकिकंवैवाह्यं । ष्यञ् छान्दसः ॥ ११ ॥
(४ श्रेष्ठैःङ) ॥ १।७३।११ ॥
॥ १।७३।१२ ॥ स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ।
इत्युक्तः परमोदारो वसिष्ठेन महात्मना ॥ १२ ॥
परमोदारःपरमदाता ॥ १।७३।१२ ॥
॥ १।७३।१३ ॥ प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ।
कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्री१क्ष्यते ॥ १३ ॥
कः स्थित इति । कः प्रतिहारः स्थितः । येन द्राग्गमनं परिह्रियत इति शेषः । अपि चागत्य वा कस्याज्ञा संप्रतीक्ष्यते । कुत एवमित्यतः–स्वगृह इत्यादि । स्वगृहत्वमेव कथमित्यतःयथेत्यादि । इमान्यासनमुख्यानि आसेतामिति यथोक्तरीत्या इदं राज्यमेव तव । स्वगृहे मम गृहमात्रस्वीयत्वे को विचार इत्यर्थः ॥ १३ ॥
(प्रतिहारःद्वारपालःगो)
(१ क्षतेङ।ज) ॥ १।७३।१३ ॥
॥ १।७३।१४ ॥ स्वगृहे को विचारो ऽस्ति यथा राज्यमिदं तव ।
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ॥ १४ ॥
अपि च कृतस्वकर्तव्येन मयैव युष्मत्प्रतीक्षा क्रियत इत्याह–कृतेत्यादि । कृतं कौतुकसर्वस्वंवैवाहिककृत्स्नमंगळानुष्ठानं याभिस्तास्तथा । वेदिमूलंयज्ञवेदिसमीपं ॥ १।७३।१४ ॥
॥ १।७३।१५ ॥ मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ।
१संज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्यामस्यां प्रतिष्ठितः ॥ १५ ॥
अविघ्नं–अविळम्बं यथा तथा कुरुताम्, विवाहकर्मेति शेषः ॥ १५ ॥
(१ सद्यो ऽहंङ।) ॥ १।७३।१५ ॥
॥ १।७३।१६ ॥ २ अविघ्नं कुरुतां राजा ३किमर्थमवलम्बते ।
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ॥ १६ ॥
श्रुत्वेति । वसिष्ठमुखादिति शेषः ॥ १६ ॥
(२ अविघ्नंकुरुतां ब्रह्मन्ङ)
(३ किमर्थं हि विलम्ब्यतेङ) ॥ १।७३।१६ ॥
॥ १।७३।१७ ॥ ४प्रवेशयामास सुतान् सर्वानृषिगणानपि ।
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ॥ १७ ॥
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक
५ रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ॥ १८ ॥
लोका रमन्ते अस्मिन्निति लोकरामः ॥ २३ ॥
(४ एतदनन्तरं–ऽविश्वामित्रो महातेजा विदेहाधिपतेः करम् । कुशध्वजस्य हस्तं च वसिष्ठो भगवानृषिः । गृहीत्वा प्राविशच्छिष्यैः सहितौ द्विजपुङ्गवो ॥ अथ राजा दशरथः पुत्रैः स्त्रीभिश्च संवृतः । सर्वानृषीन् पुरस्कृत्य प्रविवेश महाद्युतिः ॥ प्रवेश्यमानं राजानं वसिष्ठं गाधिनः सुतम् । सर्वान्नृषवरान् विप्रान् जनको धर्मवत्सलः ॥ वस्त्रैराभरणैश्चैव गन्धपुष्पैश्च साक्षतैः । पूजयामास विधिवद्यथायोग्यं यथाक्रमम् ॥ इत्यधिकं क्कचित्ङ।)
(५ एतदनन्तरं–त्वया न विदितं किंचित् नास्ति ब्रह्मविदां वर । तस्मात्त्वमेब्रह्महर्षे अशेषं कर्तुमर्हसि ॥ इत्यधिकंङ) ॥ १।७३।२३ ॥
॥ १।७३।१९ ॥ तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १९ ॥
१प्रपामध्ये तु विधिवत् वेदिं कृत्वा महातपा ।
अलंचकार तां वेदिं गंधपुष्पैः समन्ततः ॥ २० ॥
प्रपामध्ये । यज्ञशालामध्य इत्यर्थः । वेदिंविवाहवेदिम् ॥ २० ॥
(१ सभामध्येङ) ॥ १।७३।२० ॥
॥ १।७३।२१ ॥ सुवर्णपालिकाबि२श्चा छिद्रकुम्भैश्च साङ्कुरैः ।
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥ २१ ॥
सुवर्णपालिकाभिरिति । साङ्कुराभिरित्याकर्षः । तथा साङ्कुरैः अच्छिद्रकुम्भैः–अच्छिद्रमष्टापदं स्फुटनादिदोषरहितम् स्वर्णकुम्भैरित्यर्थः ॥ २१ ॥
(२ श्च छिद्रश्च जलङ। चित्रज)
(छिद्रकुंभैःकरकैःगो।ति–चित्रकुंभैःनानावर्णयुक्तकुंभेःति) ॥ १।७३।२१ ॥
॥ १।७३।२२ ॥ शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्ध्यादिपूरितैः ।
जालपूर्णैश्च पात्रीभिरक्षतै३रभिसंस्कृतैः ॥ २२ ॥
अर्ध्यादिपूरितैरिति भावे निष्ठा । अर्ध्यादिदेवपूजाप्रयोजनैरित्यर्थः ।
अभिसंस्कृतैरिति । हरिद्रालेपनादिसंस्कारवद्भिरित्यर्थः ॥ २२ ॥
(३ रपि संङ) ॥ १।७३।२२ ॥
॥ १।७३।२३ ॥ दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।
अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।
जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ॥ २३ ॥
समैःसमप्रमाणैः । समास्तीर्येति । प्रागुक्तविशेषणैरुपलक्षितां वेदिमिति शेषः । विधिनाकल्पोक्तक्रियाकलापेन मन्त्रैश्च पुरस्कृतं तथा । विवाहहोमादीनां वरकृत्यत्वात् तत्पुरोहितो वसिष्ठ एव जुहावेति ॥ १।७३।२३ ॥
॥ १।७३।२४ ॥ १ततः सीतां समानीय सर्वाभरणभूषिताम् ।
समक्षमग्नेः संस्थाप्य २राघवाभिमुखे तदा ।
अब्रवीञ्जनको राजा कौसल्यानन्दवर्धनम् ॥ २४ ॥
अग्नेस्समक्षं राघवाभिमुखेराघवपुरःप्रदेशे । नन्दःहर्षः ॥ २४ ॥
(१ एतदनन्तरं–पद्मां पद्मवियुक्तां वै केशवाङ्कच्युतामिव । विद्युत्प्रभां विशालाक्षी स्निग्धकुञ्चितमूर्धजाम् । हंसाङ्कितेन क्षौमेण किञ्चित्पीतेन संवृताम् । वासितेनोत्तरीयेण सुरक्तेन सुसंवृताम्ऽ इत्यधिकंङ।)
(२ राघवाभिमुखीङ।) ॥ १।७३।२४ ॥
॥ १।७३।२५ ॥ इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां, भद्रं ते, पाणिं गृह्णीष्व पाणिना ॥ २५ ॥
धर्मं चरतीति धर्मचरी । ऽचरेष्टःऽ इति टः, दित्वात् ङीप्, प्रतीच्छ–प्रतिगृहाण, तदर्थं पाणिना पाणिं गृह्णीष्व ॥ २५ ॥
(ब्राह्मणस्यैव पाणिग्रहणं, क्षत्रियादेः शरादिग्रहणं विहितं । अतः कथमिदं इति न शङ्कनीयम् । तस्यासवर्णविषयत्वात् । आह च मनुः–पामिग्रहणसंस्कारः सवर्णासु प्रशस्यते । असवर्णास्वयं शेयो विधरुद्वाहकर्मणिः । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु इति ।–गो।) ॥ १।७३।२५ ॥
॥ १।७३।२६ ॥ परिव्रता महाभागा छायेवानुगता ३सदा ।
४इत्युक्त्वा प्राक्षिपद्राजा ५मन्त्रपूतं जलं तदा ॥ २६ ॥
कल्पोक्तकन्यादानमन्त्रेण पूतं जलं प्राक्षिपत्, रामहस्त इति शेषः ॥ २६ ॥
(४ एतदनन्तरं ऽप्रक्षिप्ते सलिले भूमौ गगने चोत्थिताः स्वनाः, इत्यधिकंङ)
(५ मन्त्रपूर्वङ) ॥ १।७३।२६ ॥
॥ १।७३।२७ ॥ साधु साध्विति देवानां ऋषीणां वदतां तदा ।
देवदुन्दुभि६निर्घोषः पुष्पवर्षो महानभूत् ॥ २७ ॥
वदतामिति भावलक्षणे षष्ठी, वदत्स्विति यावत् ॥ २७ ॥
(६ निर्घोषैःङ) ॥ १।७३।२७ ॥
॥ १।७३।२८ ॥ एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।
अब्रवीञ्जनको राजा हर्षेणाभिपरिप्लुतः ॥ २८ ॥
मन्त्रेति । दानीयमन्त्रोदकाभ्यां पुरस्कृतां, दानशेषतयेति शेषः ॥ १।७३।२८ ॥
॥ १।७३।२९ ॥ लक्ष्मणागच्छ, भद्रं ते, १ऊर्मिळामुद्यतां मया ।
प्रतीच्छ पाणिं गृह्णीष्व, मा भूत् २कालस्य पर्ययः ॥ २९ ॥
उद्यतांदातुं कृतोद्योगां । अत्र ज्येष्ठात् भरतात् पूर्वं लक्ष्मणपरिग्रहस्तु भिन्नोदरत्वात् । ऽपितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयज्ञादौ परिवेत्राद्यदूषणम्ऽ इति स्मरणाददोषः । तदपि स्वसुताप्रदानम्, अनन्तरमेव कनिष्ठसुतयोः प्रदातव्यत्वात् ॥ २९ ॥
(१ ऊर्मिलां च ममात्मजां–ङ)
( पर्ययःविलम्बः ।)
(२ कालविपर्ययः–ङ) ॥ १।७३।२९ ॥
॥ १।७३।३०३२ ॥ तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ ३० ॥
शत्रुघ्नं चापि धर्मात्मा अब्रवी३ज्जनकेश्वरः ।
४श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ ३१ ॥
सर्वे भवन्तस्सौम्याश्च सर्वे सुचरितव्रताः ।
पत्नीभिस्सन्तु काकुत्स्था मा भूत् २कालस्य पर्ययः ॥ ३२ ॥
सुचरितव्रता इति । स्वनुष्ठितब्रह्मचर्यव्रता इत्यर्थः । पत्नीभिः सहिताः सन्त्विति योजना ॥ ३२ ॥
( असन्धिरार्षः ।)
(३ न्मिथिलेश्वरःङ)
(४ श्रुतकीर्तर्महा–ङ)
(२ कालविपर्ययः–ङ) ॥ १।७३।३२ ॥
॥ १।७३।३३,३४ ॥ जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ।
चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ ३३ ॥
अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।
ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।
१यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ ३४ ॥
वेदिंपालिकाद्युपलक्षितवेदिं । राजाजनकः । यथोक्तेनेति । रामलक्ष्मणभरतशत्रुघ्नलक्षणक्रमेणेत्यर्थः ॥ ३४ ॥
(१ एतदनन्तरं, काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु । इत्यधिकंङ) ॥ १।७३।३४ ॥
॥ १।७३।३५,३६ ॥ पुष्पवृष्टिर्महत्यासीत् अन्तरिक्षात्सुभास्वरा ।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ ३५ ॥
ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ ३६ ॥
तदद्भुतमिति । पुष्पवृष्ट्यादिकमित्यर्थः ॥ १।७३।३६ ॥
॥ १।७३।३७ ॥ ईदृशे वर्तमाने तु तूर्योद्धुष्टनिनादिते ।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ ३७ ॥
तूर्याणां घुष्टैःघोषैः निनादितंतथातादृशकाल इत्यर्थः । अविशब्दनत्वात् ऽघुषिरविशब्दनेऽ इति नेट् । त्रिरग्निमित्यादिः उपसंहारेण वादः ॥ ३७ ॥
(शब्देन स्वाभिप्रायप्रकाशनं विशब्दनम् ।) ॥ १।७३।३७ ॥
॥ १।७३।३८ ॥ २अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः ।
राजा ऽप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिसप्ततितमस्सर्गः
–
पश्यन्निति । वधूवरसंसर्गकल्याणमिति शेषः । दण्ड (३८) मानः सर्गः ॥ ३८ ॥
(२ एतदनन्तरं ऽप्रीयमाणो दशरथः पुत्रान् पुत्रवतां वरःऽ इत्यधिकं–ङ) ॥ १।७३।३८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिसप्ततितमः सर्गः