अथ द्विसप्ततितमः सर्गः
[कन्यावरणम्]
॥ १।७२।१ ॥ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥
रामलक्ष्मणयोः विवाहप्रसङ्गे भरतशत्रुघ्नयोरपि विवाहप्रस्तावः–तमुक्तवन्तमित्यादि ॥ १।७२।१ ॥
॥ १।७२।२,३ ॥ अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव
इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश्चन ॥ २ ॥
सदृशो धर्मसम्बन्धः सदृशो रूपसंपदा ।
रामलक्ष्णयो राजन् सीता चोर्मिलया सह ॥ ३ ॥
इक्ष्वाकूणां विदेहानां च धर्मसंम्बन्धः–धर्मार्यं सम्बन्धो यौनलक्षणस्तु सदृश एवअनुरूप एव । अपि च या सीता ऊर्मिळया सह वर्तमाना तस्यास्तस्याश्च क्रमात् रामलक्ष्मणयोः सम्बन्धः–पतिभार्यासम्बन्धः रूपसम्पदा सदृश इति योजना ॥ १।७२।२,३ ॥
॥ १।७२।४ ॥ वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ॥ ४ ॥
हे नरश्रेष्ठ–जनक किंचिदन्यदपि वक्तव्यं अस्ति । तदपि मे वचः श्रूयतम् ॥ ॥ १।७२।४ ॥
॥ १।७२।५ ॥ भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ।
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि ।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ ५ ॥
किं तदित्यतः–भ्रातेत्यादि ॥ १।७२।५ ॥
॥ १।७२।६ ॥ भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
१वरयामः सुते राजंस्तयोरर्थे महात्मनोः ॥ ६ ॥
पत्न्यर्थं वरयाम इति, कयोः पत्न्यर्थमित्यतः–भरतस्येत्यादि ॥ ६ ॥
(१ वरये ते सुते, वरयाम सुतेङ।ज) ॥ १।७२।६ ॥
॥ १।७२।७ ॥ पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
लोकपालोपमास्सर्वे देवतुल्यपराक्रमाः ॥ ७ ॥
दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनताशङ्केत्याह–पुत्रा इत्यादि ॥ १।७२।७ ॥
॥ १।७२।८ ॥ उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् ।
इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८ ॥
यदेवमुभयकुलवधूवस्थोर्नानाप्रकारतः सम्बन्धानुरूप्यं अतः–उभयोरपीत्यादि । कुलयोरित्यर्थः । सम्बन्धः–यौनसम्बन्धः । अनुबध्यतां । सम्पाद्यतामिति यावत् । भवतः पुण्यकर्मण इति । कुलमव्यग्रमिति अनुकर्षः ॥ ८ ॥
(उभयोर्भ्रात्रोः (अनककुश ध्वजयोः) सम्बन्धेन इक्ष्वाकुकुलं सम्बध्यताम् ।तत्र च सम्बन्धे पुण्यकर्मणो भवतः चित्तमव्यग्रं भवतु कथमीदृशेन महाराजेन मयायुगपत्सम्बन्धचतुष्टयं कार्यमिति व्यग्रता मारित्वत्यर्थःति। उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यतां–भवतः कुलमित्यनुकर्षः, अव्यग्रं–निर्दोषं, अन्योन्यसम्बन्धेनान्योन्यमुत्कर्षं प्राप्नुयादित्यर्थःगो) ॥ १।७२।८ ॥
॥ १।७२।९ ॥ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ ९ ॥
वसिष्ठस्य मत इति । वसिष्ठस्याभिमतप्रयोजननिमित्तमुक्तविश्वामित्रवचः श्रुत्वेति योजना ॥ १।७२।९ ॥
॥ १।७२।१० ॥ कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ ।
सदृशं कुलसम्बन्धं यदाज्ञाप१यथः स्वयम् ॥ १० ॥
स्वयमिति । न शिष्यादिमुखत इत्यर्थः ॥ १० ॥
(१ यतःङ।ज) ॥ १।७२।१० ॥
॥ १।७२।११ ॥ एवं भवतु, भद्रं वः कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ ११ ॥
पत्न्यौ–पत्नीत्वापन्नौ । सहितौ–अश्विनाविव, रामलक्ष्मणाविव परस्परनित्यसहचरौ । क्रमादिति शेषः ॥ १।७२।११ ॥
॥ १।७२।१२ ॥ एकाह्ना राजपुत्रीणां चतसृणां महामुने
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ १२ ॥
एकाह्नेति । अजभाव आर्षः । सप्तम्यर्थे तृतीया । एकदिवस इति यावत् । चतसृणामिति । ऽछन्दस्युभयथाऽ इति पक्षे दीर्घः ॥ १।७२।१२ ॥
॥ १।७२।१३ ॥ उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः ।
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥ १३ ॥
उत्तर इत्यादि । फल्गुनीभ्यामुपलितयोर्दिवसयोरुत्तरस्मिन्दिवसे । उत्तरफल्गुन्यामित्यर्थः । अस्य विवाहकर्मणि प्रशस्तता कुत इत्यत्र–भग इत्यादि । भगः–प्रसिद्धप्रजोत्पत्तिसाधनयोनिलिङ्गाधिष्ठाता भगवान्प्रजापतिर्यतो देवता उत्तरफल्गुन्याः, यतश्च प्रजाग्निहोत्रार्थं दारकर्म, अतः प्रजायज्ञसृक्तत्पतिभगवन्नक्षत्रत्वात् प्राशस्त्यमित्यर्थः ॥ १३ ॥
(यत्रययोः भगः प्रजापतिरर्यमा च स्थितः ताभ्यां फल्गुनीभ्यां पूर्वफल्गुन्युत्तरफल्गुनीभ्यां विशिष्टयोर्दिवसयोः उत्तरेउत्तरफल्गुनीविशिष्टे दिवसेशि। उत्तरेफल्गुनीभ्यां उपलक्षितयोरूत्तरस्मिन् दिवसेउत्तरफल्गुन्यामित्यर्थःगो) ॥ १।७२।१३ ॥
॥ १।७२।१४ ॥ एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृताञ्जलिः ।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १४ ॥
परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा ॥ १५ ॥
परो धर्म इति । कन्याप्रदानधर्म इत्यर्थः । अहं भवतोः शिष्यो ऽस्मि । दशरथश्च सुतरामिति शेषः ॥ १।७२।१५ ॥
॥ १।७२।१६ ॥ इमान्यासनमुख्यानि १आसेतां मुनिपुङ्गवौ ।
यथा दशरथस्येयं तथा ऽयोध्या पुरी मम ।
प्रभुत्वे नास्ति सन्देहो २यथार्हं कर्तुमर्हथ ॥ १६ ॥
यदेवमतः–इमानीत्यादि । मम दशरथस्य च यानि आसनमुख्यानि–सिंहासनानि तानि युवां आसेतां–व्थत्ययात्परस्मैपदे शनि प्रार्थनायां लिङि प्रथमपुरुषद्विवचनं–अधितिष्ठतामिति यावत् । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु कथं दशरथसिंहासनं त्वया शक्यदानमित्यत्राहयथेत्यादि । इयं मिथिला यथा दशरथस्य यथेष्टविनियोगार्हा, ऐक्यात्, एवमयोध्यापुरी च मम यथेष्टविनियोगार्हा । यदेवमतो युष्माकं त्रिसहासनप्रभुत्वे तु नास्ति सन्देहः । अतो यथार्हं–यथोचितं प्रभुत्वकर्म अर्हथ, पूजार्थे बहुवचनम् ॥ १६ ॥
( इमानिमत्समर्पितानि आसनमुख्यानिगुरूचितासनानिगुरूत्वादासनयोर्बहुत्वं, आसनबाहुल्याद्वाचि।)
(१ आसातां, आस्यतां, आस्येतांङ।च।ज)
(आसातां–पुरुषव्यत्यय आर्षःगो)
( ऽआत्मा ऽपि चायं न मम सर्वा वा पृथिवीममऽ (वि।पु।) इतीदृशज्ञानी खलु जनकः ।)
(२ यथेष्टंङ)
( कुशध्वज जनक दशरथाःत्रयः ।) ॥ १।७२।१६ ॥
॥ १।७२।१७ ॥ तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १७ ॥
हृष्ट इति । एवमैक्यवादेनेति शेषः ॥ १।७२।१७ ॥
॥ १।७२।१८ ॥ युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजितः ॥ १८ ॥
महद्विषये समग्रसत्कारो युष्माकं कुलधर्मः इति नायमपूर्वो ऽर्थ इति दशरथः स्तौति–युवामित्यादि ॥ १।७२।१८ ॥
॥ १।७२।१९,२० ॥ स्वस्ति प्राप्नुहि, भद्रं ते, गमिष्यामि स्वमालयम् ।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ १९ ॥
१तमापृच्छ्य नरपतिं राजा दशरथस्तदा ।
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ २० ॥
आपृच्छ्य–आभाष्य ॥ २० ॥
(क्षत्रियत्वे ऽपि प्रतिग्रहीतृत्वात् दातरि जनके आशीःति। त्वं स्वस्ति प्राप्नुहि स्वसुतादानेन मङ्गलं प्रापय, अन्तर्भावितणिजर्थःशि।)
(१ तमापृष्ट्वा।) ॥ १।७२।२० ॥
॥ १।७२।२१ ॥ स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ २१ ॥
निश्चयं–चतुर्णां विवाहनिश्चयं । काल्यं–प्रातःकालार्हं । गोदानं व्याकृतं । समावर्तनमिति यावत् ॥ २१ ॥
(काल्यंमङ्गलं गोदानमिति केचित्झ) ॥ १।७२।२१ ॥
॥ १।७२।२२,२३ ॥ गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ २२ ॥
२सुवर्णशऋङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः ।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ २३ ॥
तदङ्गत्वेन प्रसिद्धगोदानम्–गवां शतेत्यादि । कांस्यदोहना इति बहुव्रीहिः । अधिकरणे ल्युट् । कंसीयस्य विकाराणि, ऽकंसीयपरशव्ययोर्यञञौ लुक् चऽ इति यञ् । सन्नियोगप्राचीनप्रत्ययस्य लुक् । शतसहस्रंलक्षम् ॥ २३ ॥
( एकैकश इत्यार्षम्ति । एकैकशः पुत्रानुद्दिश्य–ऽउक्तार्थानांऽ इति न्यायाप्रवृत्तिस्तु ऽद्वौ ब्राह्मणौऽ इत्यादाविव ऽद्विर्बद्धं सुबद्धं वतिऽ इति स्वीकारात् । अर्ष इत्युक्तिस्तु तदविचारमूलाशि ।)
(२ सुवर्णशृङ्ग्यःङ) ॥ १।७२।२३ ॥
॥ १।७२।२४ ॥ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः ।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २४ ॥
स सुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
लोकपालैरिवाभाति वृतःसौम्यः प्रजापतिः ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विसप्ततितमः सर्गः
–
सौम्यः–सोममण्डलाधिष्ठातृदेवता । ऽसोमाट्ट्यण्ऽ । मख(२५) मानः सर्गः ॥ २५ ॥
(सोम इव सोम्यः, सोम्य एव सौम्यःति। सौम्यःसोमः प्रजापतिरिवसोमशब्दः स्वार्थष्यञन्तःशि। सौम्यःसुप्रसन्नचित्तःगो।) ॥ १।७२।२५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विसप्ततितमः सर्गः