अथ एकसप्ततितमः सर्गः
[निमिवंशवर्णनम्]
॥ १।७१।१ ॥ एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।
श्रोतुमर्हसि, भद्रं ते, कुलं नः परिकीर्तितम् ॥ १ ॥
अथ दशरथापेक्षया अप्रभावात्, कन्यादातृत्वेन च जामातृवर्गे प्रभावस्यायुक्तत्वाच्च स्वयमेव स्ववंशपरम्परामाचष्टेएवमित्यादि । ब्रुवाणमिति । वसिष्ठमिति शेषः ॥ १ ॥
(अप्रभावःप्रभावराहित्यम्) ॥ १।७१।१ ॥
॥ १।७१।२ ॥ प्रदाने हि १ नरश्रेष्ठ कुलं निरवशेषतः ।
वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ २ ॥
नरश्रेष्ठानां कुलंनरश्रेष्ठकुलं ॥ २ ॥
(१ मुनिश्रेष्ठङ।च) ॥ १।७१।२ ॥
॥ १।७१।३ ॥ राजा ऽभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ ३ ॥
तस्य पुत्रो मिथिर्नाम निर्मिता २मिथिला यतः ।
प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥
तस्य पुत्र इति । तस्य निमेः साम्पराये सति ऋषिभिस्तदुरोमथनेन निर्मितः–उत्पादितो मिथिर्नाम जज्ञे । यतः–येन मिथिना मिथिला पुरी च निर्मिता, स जज्ञे । तथा भागवते ज्ञेयम्–“ममन्थ स निर्मेर्देहं कुमारस्समजायतऽ इति ॥ ४ ॥
( अयं च निमिः इक्ष्वाकुपुत्र इति उत्तरकाण्डे ५५ सर्गे उक्तम् ॥ श्रीभागवते च(९१३) द्रष्टव्यम् ।)
(२ मिथिला येन निर्मिताङ।ज) ॥ १।७१।४ ॥
॥ १।७१।५१३ ॥ १उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः ।
२ नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ५ ॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ ६ ॥
बृहद्रथस्य शूरो ऽभून्महा३वीरः प्रतापवान् ।
महा४वीरस्य धृतिमान् सुधृतिस्सत्यविक्रमः ॥ ७ ॥
सुधृतेरपि धर्मात्मा ५दुष्टकेतुस्सुधार्मिकः ।
६दुष्टकेतोस्तु राजर्षेर्हर्यश्च इति विश्रुतः ॥ ८ ॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः ७प्रतिन्धकः ।
८ प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथस्सुतः ॥ ९ ॥
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
देवमीढस्य ९विबुधो विबुधस्य महीध्रकः ॥ १० ॥
महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
ज्येष्ठो ऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ ॥
तस्येति । ह्रस्वरोम्णः इत्यर्थः ॥ १३ ॥
(१ उपावसोस्तुङ।)
(२ नन्दिवर्धसुतः शूरःङ।)
(३ वीर्यःङ)
(४ वीर्यस्यङ)
(५ धृष्टकेतोस्तुङ।)
(६ धृष्टकेतुङ)
(७ प्रतीन्धकः, प्रतीन्धनःङ)
(८ प्रतीन्धकस्य, प्रतीन्धनस्यङ)
(९ सुविधो सुविधस्यङ) ॥ १।७१।१३ ॥
॥ १।७१।१४ ॥ मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः ।
कुशध्वजं समावेश्य भारं मयि, वनं गतः ॥ १४ ॥
कुशध्वजं राज्यभारं च मयि समावेश्येत्यर्थ । सरिध्वजाख्य इत्यर्थः । “सीता सीराग्रतो जाता तस्मात्सीरध्वजः स्मृतः” इति पुराणम् ॥ १४ ॥
(भारं–भरणीयं पोषणीयमित्यर्थः । मयि कुशध्वजं भारं समावेश्येत्यन्वयः ।)
(भागवतं–११३१०) ॥ १।७१।१४ ॥
॥ १।७१।१५,१६ ॥ वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।
भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥ १५ ॥
कस्य चित्त्वथ कालस्य सांकाश्यादगमत्पुरात् ।
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ १६ ॥
मिथिलामवरोधकः अगमदिति । अवरोद्धुमागतवानित्यर्थः । ऽतुमुण्वुलौ क्रियायां क्रियार्थायाम्ऽ इति ण्वुल् । ऽअकेनोर्मविष्यदाधमर्ण्ययोःऽ इति कर्मणि षष्ठीनिषेधः ॥ १६ ॥
(मिथिलामवरोधकः मिथिलामगमत्प्राप्तवान् । ) ॥ १।७१।१६ ॥
॥ १।७१।१७ ॥ स च मे प्रेषयामास, शैवं धनुरनुत्तमम् ।
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ १७ ॥
शैवं धनुस्सीता कन्या चेति उभयं मह्यं दीयतामिति प्रेषयामास । दूतानिति शेषः ॥ १।७१।१७ ॥
॥ १।७१।१८ ॥ तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।
स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८ ॥
तस्येति । उक्तोभयवस्तुन इत्यर्थः । अभिमुखः–युद्धाभिमुखः । सुधन्वेति । ऽवा संज्ञायांऽ इत्यानङ् ॥ १८ ॥
(वस्तुतस्त्विदं व्याख्यानं १६ तमश्लोकव्याख्यानावसरे युक्तम् ।) ॥ १।७१।१८ ॥
॥ १।७१।१९ ॥ निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।
साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चम् कुशध्वजम् ॥ १९ ॥
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने
ददामि परमप्रीतो बध्वौ ते मुनिपुङ्गव ॥ २० ॥
सीतां रामाय, भद्रं ते, ऊर्मिळां लक्ष्मणाय च ॥ २१ ॥
ऊर्मिलामिति । योनिजां निजपुत्रीमित्यर्थः ॥ २१ ॥
(यद्यपि रामेणैव धनुर्भङ्गः कृतः, तथापि तादृशशक्तेः लक्ष्मणे ऽपि दर्शनात् तद्वीर्यमेवोर्मिलाया अपि शुल्कमित्यर्थः । हे मुनिपुङ्गवते बध्वौ परमप्रीतो दद्रामीत्यन्वयः । एतदेव विवृणोति उत्तरार्धेन ।) ॥ १।७१।१९ ॥
॥ १।७१।२२ ॥ वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।
१ द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥ २२ ॥
त्रिर्ददामीति । उक्तार्थमितिशेषः । ऽत्रिषत्या हि देवाःऽ इति न्यायादित्याशयः ॥ २२ ॥
(१ एतदनन्तरं ऽददामि परमप्रीतो बध्वौ ते रघुनन्दनऽ इत्यधिकं क्कचित्ङ) ॥ १।७१।२२ ॥
॥ १।७१।२३ ॥ रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।
पितृकार्यं च, भद्रं ते, ततो वैवाहिकं कुरु ॥ २३ ॥
गोदानमिति कर्मनाम । गावो रोमाणि, दोःपन्मूलगान्यपि, यत्र दीयन्ते खण्ड्यन्ते तदेतत् गोदानम्, समावर्तनकर्मेति यावत् । वैवाहिकं–पितृकार्यं नान्दीश्राद्धम् ॥ २३ ॥
( एवं वसिष्ठं प्रत्युक्त्वा ततः दशरथं प्रत्याहरामेत्यादि ।)
( गोदानं नाम विवाहपूर्वसमनियत किञ्चित्कर्म । गावः–केशाः दोः पादमूल रोमाणि च यत्र खण्ड्यन्ते तत् गोदानं नाम समावर्तनाख्यं कर्मेत्याहुःगो।) ॥ १।७१।२३ ॥
॥ १।७१।२४ ॥ मघा ह्यद्य महाबाहो तृतीये दिवसे विभो ।
फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ।
रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम् ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकसप्ततितमस्सर्गः
–
ततो वैवाहिकं–विवाहप्रयोजनं विचित्रवस्त्राभरणाद्यलंकारादिलक्षणं ऽतदस्य प्रयोजनम्ऽ इति ठक् । मघानक्षत्रयुक्तः कालः मघः,ऽ चन्द्रः । अत्रार्थजस्याणस्तु ऽलुबविशेषेऽ इति लुप् । फल्गुन्यामुत्तर इति । उत्तरस्यामिति यावत् । रामलक्ष्मणयोरर्थे–प्रजाधर्मप्रयोजनाय सुखोदयं, व्याकृतं, दानंकन्यादानमवश्यं कार्यमिति उपसंहारः । भद्र (२४) मानः सर्गः ॥ २४ ॥
(तव मिथिलाप्रवेशात् तृतीयदिवसे, यज्ञसमाप्तेः तृतीयदिवसे वा ऽद्य मघानक्षत्रम् । फल्गुन्यां–पूर्वफल्गुनीनक्षत्रे, उत्तरेश्रेष्ठे अत एवभगो यत्र प्रजापतिः इत्यनेनाविरोधः । भगो हि पूर्वफल्गुनीदेवः उत्तरफल्गुन्यास्त्वर्यमेति बोध्यम्, ऽमघा नक्षत्रं पितरो देवताः फल्गुनी नक्षत्रं, अर्यमा देवता फल्गुनी लक्षत्रं, भगो देवताऽ इति तैत्तरीयसंहितायां ऽअर्यम्णः पूर्वे फल्गुनी, भगस्योत्तरेऽ इति तद्ब्राह्मणे चोक्तत्वात् यथाश्रुतमेव सम्यक्ति । अद्यअस्मिन् दिवसे मघा नक्षत्रमस्ति, अतः तृतीयदिवसे उत्तरे फलगुन्यांउत्तरफलगुन्यांशि) ॥ १।७१।२४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकसप्ततितमस्सर्गः