०७० दशरथवंशकथनम्

अथ सप्ततितमः सर्गः

[इक्ष्वाकुवंशवर्णनम्]

॥ १।७०।१ ॥ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।

उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥

अथ स्वस्वबन्धुभावरहितयोः यौनसम्बन्धापेक्षितः परस्परकुलविचारः सर्गाभ्यां–ततः प्रभात इत्यादि ॥ १।७०।१ ॥

॥ १।७०।२,३ ॥ भ्राता मम महातेजा १यवीयानतिधार्मिकः ।

कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥

२वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।

साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥

पुरीमध्यवसदिति । पुर्यामिति यावत् । ऽउपान्वध्याङ्वसःऽ इत्याधारस्य कर्मत्वम् । परबलं वारयितुं अर्हावार्या ऽऋहलोर्ण्यत्ऽप्राकार इति यावत्, तस्याः फलकाःयन्त्रफलकाः, तद्युक्तः पर्यन्तः–परिसरो यस्यास्सा तथा । एतेन स्थलदुर्गत्वं पुर्या उक्तं । अथ जलदुर्गत्वमप्युच्यतेवार्येत्यादि । आवर्तते चेदं पदं, उक्तार्थवार्याफलकपरिसरप्रवाहवतीं इक्षुमतीं नदींतज्जलं पिबन्, सांकाश्यांसंकाशेन निर्वृत्ता सांकाश्या, वुञ्छणादितो ण्यः । पुण्यसंकाशांशुभदर्शनां । पुष्पकविमानं प्रसिद्ध कौबेरं ॥ ३ ॥

(१ वीर्यवान्ङ।ज)

( वारिणि आ कीर्णाः–निखाताः फलकाः–शूलानि येषु ते वार्याफलकाः, तादृशाः पर्यन्तप्रदेशाः यस्यास्तां । ऽवार्यामलकऽ इति पाठे वार्यामलकाः–आमलकविशेषाः ।)

(२वार्यामलकङ।ज)

(पुण्यशब्देन तत्फलं स्वर्गः–तत्सङ्काशांति । पुण्यतुल्यां–स्ववासिनां पुण्यवत् स्वत एवाभीष्टप्रदांगो) ॥ १।७०।३ ॥

॥ १।७०।४ ॥ तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।

३ प्रीतिं सो ऽपि महातेजा इमां भोक्ता मया सह ॥ ४ ॥

तमिति । उक्तपुरुवासिनमिति यावत् । यज्ञगोप्तेति । मिथिलायां क्रियमाणयज्ञस्य रक्षणंसाङ्काश्य एव स्थित्वा ऽस्मद्यज्ञापेक्षितसर्वसामग्रीसम्पादकत्वात् । इमां प्रीतिं–विवाहकल्याणसन्तोषं मया सह भोक्तुमर्हति । अतस्तदानयनं कारयत्विति शतानन्दमुवाचेति योजना ॥ ४ ॥

(३ एतदनन्तरं–एवमुक्ते तु वचने शतानन्दस्य सन्निधौ । आगताः केचिदव्यग्राः जनकस्तान् समादिशत्इत्यधिकंङ।) ॥ १।७०।४ ॥

॥ १।७०।५ ॥ शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।

१ समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ५ ॥

एवं नरेन्द्रस्यजनकस्य शासनात् शतानन्दप्रेषिताः प्रययुः । दूता इति शेषः । विष्णुः–उपेन्द्रः ॥ ५ ॥

(१एतदनन्तरं ऽसांकाश्यां ते समागत्य ददृशुश्च कुशध्वजम् । न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥ तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ॥ इत्यधिकंङ ।) ॥ १।७०।५ ॥

॥ १।७०।६,७ ॥ अज्ञाया ऽथ नरेन्द्रस्य आजगाम कुशध्वजः ।

स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥

अभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ।

राजार्हं परमं दिव्यमासनं सो ऽध्यरोहत ॥ ७ ॥

सो ऽध्यरोहतेति । पुरोहितज्येष्ठानुमत्येति शेषः ॥ १।७०।७ ॥

॥ १।७०।८,९ ॥ उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ ।

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ॥ ८ ॥

गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ।

आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥

सुदामनं क्क प्रेषयामासतुरित्यतःगच्छेत्यादि ॥ १।७०।९ ॥

॥ १।७०।१० ॥ औपकार्यां स गत्वा तु रधूणां कुलवर्धनम् ।

ददर्श, शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥

औपकार्यामिति । उपकार्याशब्दात् स्वार्थे ष्यञ् । दशरथशिबिरसन्निवेशमित्यर्थः ॥ १।७०।१० ॥

॥ १।७०।११,१२,१३ ॥ अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ।

स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥

मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।

सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥

स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ।

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३ ॥

इदं वाक्यमिति । निजकुलप्राशस्त्यप्रतिपादनप्रयोजननिजपुरोहितनियोजनरूपवक्ष्यमाणवाक्यमित्यर्थः ॥ १।७०।१३ ॥

॥ १।७०।१४ ॥ विदितं ते, महाराज इक्ष्वाकुकुलदैवतम् ।

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ॥ १४ ॥

ते विदितमिति । ऽमतिबुद्धिऽ इत्यादिना वर्तमानार्थे क्ते ऽ क्तस्य च वर्तमानेऽ इति षष्ठी । त्वया विदितं इत्यर्थः । वक्तेति । कृत्याकृत्यानीति यावत् ॥ १।७०।१४ ॥

॥ १।७०।१५ ॥ विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।

१ एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५ ॥

वक्ष्यतीति । दशपुरुषविख्यातादिति न्यायेन यौनसम्बन्धापेक्षितवंशपारम्पर्यमिति शेषः ॥ १५ ॥

(विश्वामित्रस्य कोपपरिहाराय–विश्वामित्राभ्यनुज्ञात इतिगो । परन्त्वेवं सति सर्वैर्महर्षिर्भिरिति कथम् ? । अतः ब्रह्मविदां सदसि तदनुज्ञां लब्धेत्यर्थः । तत्र च विश्वामित्रस्य प्रकरणात्प्राधान्यकथनमिति युक्तम् ॥ )

(१ एतदनन्तरं ऽएवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम्ऽ इत्यधिकंङ) ॥ १।७०।१५ ॥

॥ १।७०।१६,१७ ॥ तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ।

उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ १६ ॥

अव्यक्तप्रभवो ब्रह्मा शाश्वातो नित्य अव्ययः ।

तस्मान्मारीचिः संजज्ञे मरीचेः १कश्यपः सुतः ॥ १७ ॥

अव्यक्तेति । सत्त्वादिशक्तिमयसांध्यभूमविग्रहात्मकमादिविष्णुतत्त्वं अव्यक्तं । यद्यपि अतितुर्यादिरुद्रतत्त्वानामेवानुपग्रहविकल्पचिद्गगनत्वकालकृतिमात्रोपग्रहत्वतत्कार्याविविक्तत्रिगुणमात्रोपग्रहतो ऽव्यक्तत्वं साक्षात्, अथापि सांध्यत्वादादिविष्णुतत्त्वम२प्यनादिब्रह्मतत्त्ववदिहामुत्रव्यवहारार्हस्थिराव्यक्तमेव । तस्मादव्यक्तात्रिशक्तिमयादुत्थितैस्त्रिरूपकालाकाशैस्त्रिवृत्पञ्चकभक्तैर्हिरण्मयभूममहाविराडण्डोपग्रहो भगवानादिगुरुस्त्रिमूर्तिलीलामूर्तिस्तुर्य आदिब्रह्मा स महेशस्सकलसंसारशाश्वतसकलपुरुषार्थसाक्षात्प्रवर्तको नित्यं जाग्रन्निस्तुलाधिकभूमिविद्यैश्वर्यानन्दशक्तिर्नित्यं प्रतितिष्ठति । सो ऽसौ हिरण्यगर्भादित्रिब्रह्मलीलामूर्तिरपि शाश्वतत्वादिस्वभावः, स्वराजश्रीहिरण्यगर्भस्य गगनात्मकत्वादेव शाश्वतत्वंअविकारसदैकरूपत्वं सम्राजः कालाग्निस्वभावत्वेन स्वेतरसकलसंसारानित्यतासम्पादकस्य तस्यानित्यतासम्पादकहेत्वभावात् नित्यविराजो यद्यपि कालविकार्यत्वेनानित्यत्वं, अथाप्यव्ययत्वं नित्यनियतप्रवृत्तत्रिमण्डलीनित्यजाय३मानाशयोत्कर्षसासाम्ययोगतः प्रत्यग्वत्कालत्रये ऽप्यवयवविनाशरहितत्वात् । सिद्धान्तविदेकसुलभो ऽयमर्थः । प्रपञ्चः आकरे द्रष्टव्यः । तस्मात् विराजः प्रजापतेः दशप्रजापतिष्वेको मरीचिर्जज्ञे । ततः काश्यप इत्यादिः ॥ १७ ॥

(१काश्यपःङ)

(२ प्यादिग।)

(३ मानोत्कर्षग) ॥ १।७०।१७ ॥

॥ १।७०।१८ ॥ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ।

मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ १८ ॥

मनुः प्रजापतिरिति । प्रिजासर्गाधिकारीति यावत् ॥ १।७०।१८ ॥

॥ १।७०।१९ ॥ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः ॥ १९ ॥

कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ।

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥ २० ॥

बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।

अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुतः ॥ २१ ॥

त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः ।

धुन्धुमारान्महातेजा युवनाश्वो महारथः ॥

युवनाश्वसुतस्त्वासीत् मान्धाता पृथिवीपतिः ॥ २२ ॥

मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत ।

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ २३ ॥

यशस्वी, ध्रुवसन्धेस्तु भरतो नाम नामतः ।

भरतात्तु महातेजा असितो नाम जातवान् ॥ २४ ॥

१तस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।

हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २५ ॥

तस्यैत इति । असितस्येत्यर्थः । प्रतिराजानःशत्रुराजानः । राज्यात्प्रवासित इति । न तु हत इत्यर्थः ॥ २५ ॥

(अत्र गोविन्दराजीये अनन्तरमर्धं नास्ति । धुन्धुमारःयुवनास्वापरनामधेय इति च व्याख्यातम् ॥ )

(अस्य कथा उत्तरकाण्डे सप्तषष्टितमे सर्गे द्रष्टव्या ।)

(१ यस्य सर्वत्रङ) ॥ १।७०।२५ ॥

॥ १।७०।२६,२७ ॥ तांस्तु स प्रतियुध्यन् वै युद्धे राज्यात्प्रवासितः ।

हिमवन्तमुपागम्य २भृगुप्रस्रवणे ऽवसत् ॥ २६ ॥

असितो ऽल्पबलो राजा ३मन्त्रिभिस्सहितस्तदा ।

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति १श्रुतिः ॥ २७ ॥

इति श्रुतिरिति । पुरातनकथेत्यर्थः । सगरंगरसहितं भक्ष्यमिति शेषः ॥ २७ ॥

(२ भार्याभ्यां सहितो ऽवसत्ङ)

(३ कालधर्ममुपेयिवान्ङ)

(१ श्रुतम्ङ) ॥ १।७०।२७ ॥

॥ १।७०।२८ ॥ एका गर्भविनाशाय सपत्न्यै २ सगरं ददौ ।

ततः शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ २८ ॥

ततश्शैलवरं रम्यं हिमवन्तमुपाश्रितो भार्गवश्च्यवनो मुनिः तत्रैव हिमवति अभिरतो बभूव ॥ २८ ॥

(२सा गरंङ।) ॥ १।७०।२८ ॥

॥ १।७०।२९ ॥ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।

तत्र चैका महाभागा भार्गवं देववर्चसम् ॥ २९ ॥

तत्र चैकेति । । प्राशितगरेति यावत् ॥ १।७०।२९ ॥

॥ १।७०।३० ॥ ववन्दे पद्मपात्राक्षी काङ्क्षन्ती सुतमात्मनः ।

तमृषिं सा ऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ ३० ॥

कालिन्दीति तस्या नाम । अभ्यवादयच्चेति चकारेण शुश्रूषणमप्यकरोत् पुत्रार्थमित्यर्थः । पुत्रमाप्तुमिच्छुः पुत्रेप्सुः । पुत्रजन्मनिपुत्रेत्पत्तिविषये ॥ १।७०।३० ॥

॥ १।७०।३१ ॥ स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।

तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः ॥ ३१ ॥

महावीर्यो महातेजाः अचिरात्सञ्जनिष्यति ॥

३गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥ ३२ ॥

गरेण सहितस्सन् जनिष्यतीति मुनेः प्राप्तानुग्रहात् । तत्पुत्रकालमृतपतिकां ऋषिराश्वासयति चमाशुच इति । पतिमृतिजशोकंत्यज सुपुत्रेणैव सुखीभविष्यसीत्याश्वासयत् ॥ ३२ ॥

(तामभितां प्रतीत्यर्थः ।)

(३ एतदनन्तरं–एवमुक्ता महाभागा, असिते स्वर्गते सति । निधाय चेतो नृपतौ विद्युल्लेखेव सुप्रभा ॥ ३५ ॥ इत्यधिकंङ) ॥ १।७०।३२ ॥

॥ १।७०।३३ ॥ च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।

१पतिना रहिता तस्मात् पुत्रं देवी व्यजायत ॥ ३३ ॥

अनन्तरंच्यवनं तु नमस्कृत्य, पतिना रहितेति नाभावश्छान्दसः, तस्मात्देशादपावृत्तेति शेषः । व्यजायतप्रसूतवती ॥ ३३ ॥

(१ पतिशोकातुरा–पत्या विरहिताङ)

( तस्मात्च्यवनप्रसादात्गो।ति।शि) ॥ १।७०।३३ ॥

॥ १।७०।३४ ॥ सपत्नया तु गरस्तस्यै दत्तो गर्भजिघांसया ।

सह तेन गरेणैव जातः स सगरो ऽभवत् ॥ ३४ ॥

जातस्स इति । यतो गरेण सह जातः ततः सगर इति योजना ॥ १।७०।३४ ॥

॥ १।७०।३५,३६ ॥ सगरस्यासमञ्जस्तु असमञ्जात्तथां ऽशुमान् ।

दिलीपों ऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३५ ॥

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ।

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥ ३६ ॥

रघुपुत्रः प्रवृद्धस्तु वसिष्ठशापवशातु पुरुषादकःराक्षसस्समभवत् । प्रतिशापायोद्धृतजलं स पत्न्यनुनयेन स्वपादयोर्विसृष्टवान् । अतः स कल्माषपाद इत्यभवत् ॥ ३६ ॥

( एतत्कथा उत्तरकाम्डे पञ्चषष्टितमसर्गे वर्तते । परं तु तत्र, भागवते च (९९)सुदासस्य पुत्रः वीरसहः कल्माषपादः संपन्न इत्युक्तम् । ) ॥ १।७०।३६ ॥

॥ १।७०।३७४० ॥ कल्माषपादो ह्यभवत्तस्माज्जातश्च शङ्खणः ।

सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥ ३७ ॥

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।

मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥ ३८ ॥

अम्बरीषस्य पुत्रो ऽभून्नहुषः पृथिवीपतिः ।

नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ३९ ॥

नाभागस्य बभूवाज अजाद्दशरथो ऽभवत् ।

अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४० ॥

नाभागस्याजः, अजाद्दशरथ इति । एवमत्रोक्तवंशपरम्परायां पुराणादिवैषम्यं बह्वस्ति । तत्सर्वं चतुर्युगसहस्रमानभगवद्विराजाहनि किञ्चित्किञ्चिद्युगभेदवशजं इति ध्येयम् ॥ ४० ॥

(एकस्यानेकनामकत्वाद्वा विरोधपरिहारःति) ॥ १।७०।४० ॥

॥ १।७०।४१ ॥ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।

इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ ४१ ॥

आदिवंशेति । आदितः–ब्रह्माणमारभ्य वंशेन विशुद्धास्तथा ॥ १।७०।४१ ॥

॥ १।७०।४२ ॥ रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप

सदृशाभ्यां नरश्रेष्ठ १सदृशे दातुमर्हसि ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्ततितमस्सर्गः

त्वत्सुते वरय इति । पुरोहितकृत्यत्वाद्वरणादेरित्याशयः । सदृशेति । ऽसमानान्ययोश्चेति वक्तव्यम्ऽ इति दृशेः कञि ऽटिढ्ढाणञ्ऽ इति ङीबभावश्छान्दसः । समानस्य ऽज्योतिर्जनपदऽ इत्यादिना विधीयमानस्य सादेशस्य प्रायिकत्वादन्यत्रापि सादेशः ॥ ४२ ॥

(१ सदृशेङ) ॥ १।७०।४२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्ततितमस्सर्गः