०६९ जनक-दशरथ-संवादः

अथ एकोनसप्ततितमः सर्गः

[दशरथजनकसमागमः]

॥ १।६९।१ ॥ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः ।

राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥ १ ॥

अथ दूतैराहूतदशरथागमनम्–ततो रात्र्यामिति ॥ १।६९।१ ॥

॥ १।६९।२ ॥ अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् ।

व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥ २ ॥

धनाध्यक्षाः–कोशरक्षाधिकृताः । सुविहिताः–सुसम्पादितकल्याणोचितकर्माणः ॥ १।६९।२ ॥

॥ १।६९।३ ॥ चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः ।

ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥ ३ ॥

यानयुग्यमिति । यानं–शिबिकान्दोळिकादि, युग्यं–अश्वादि, सेनाङ्गत्वादेकत्वम् । अनुत्तमानि यानानि युग्यानि च निर्यान्तु–वसिष्ठाद्यर्थमिति शेषः ॥ १।६९।३ ॥

॥ १।६९।४,५ ॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।

मार्कण्डेयस्सुदीर्घायुः ऋषिः कात्यायनस्तथा ॥ ४ ॥

एते द्विजाः प्रयान्त्वग्रे, स्यन्दनं योजयस्व मे ।

१ यथा कालात्ययो न स्यात् दूता हि त्वरयन्ति माम् ॥ ५ ॥

प्रयान्त्वग्र इति । कल्याणप्रयाणत उत्तमयानयुग्यैरिति शेषः । दूताः–जनकमन्त्रिणः ॥ ५ ॥

(१एतदनन्तरं ऽइत्युक्त्वा स महातेजाः राजा दशरथो रथम् । आरुरोह यथा भानुः भगवान् रघुनन्दनः । इत्यधिकंङ) ॥ १।६९।५ ॥

॥ १।६९।६,७ ॥ वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी ।

राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतो ऽन्वगात् ॥ ६ ॥

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।

राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥ ७ ॥

चतुर्भिरहोभिस्साध्यगमनो मार्गस्तथा । दूतैस्त्रिदिनगतो ऽध्वा चतुरङ्गबलोपेतप्रयाणत्वाच्चतुर्दिनमपेक्षते । श्रुत्वेति । दशरथागमनमिति शेषः ॥ १।६९।७ ॥

॥ १।६९।८,९ ॥ ततो राजानमासाद्य वृद्धं दशरथं नृपम् ।

जनको मुदितो राजा हर्षं च परमं ययौ ।

उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदा ऽन्वितः ॥ ८ ॥

स्वागतं ते, महाराज दिष्ट्या प्राप्तो ऽसि राघव

पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥ ९ ॥

पुत्रयोरुभयोः प्रीतिमिति । व्याकृतचरः । वीर्यनिर्जितामिति । रामवीर्यद्वारा सम्पादितामिति यावत् ॥ १।६९।९ ॥

॥ १।६९।१० ॥ दिष्ट्या प्राप्तो महातेजाः वसिष्ठो भगवानृषिः ।

सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ॥ १० ॥

शतक्रतुदृष्टान्तो वसिष्ठस्य पूर्णधर्मत्वे ॥ १० ॥

(अस्यार्धस्य ऽस्वागतं ते महाराज दिष्ट्या प्राप्तो ऽसि राघवऽ इत्यर्धानन्तर्ये संगत्यतिशयः स्फुटः । स तु सुरेन्द्रः, अयं च भूसुरेन्द्र इति ।) ॥ १।६९।१० ॥

॥ १।६९।११ ॥ दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ।

राघवैः सह १सम्बन्धो वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥

विघ्ना इति । कन्याप्रदानप्रतिबन्धा इत्यर्थः । राघवैस्सह सम्बन्धः यतः प्राप्तस्ततः पूजितमिति योजना ॥ ११ ॥

(१ संबन्धात्ङ।ज) ॥ १।६९।११ ॥

॥ १।६९।१२ ॥ श्वः प्रभाते १नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि ।

यज्ञस्यान्ते नरश्रेष्ठ विवाह२मृषिसंमतम् ॥ १२ ॥

नरेन्द्रणामपीन्द्रो नरेन्द्रेन्द्रः । यज्ञस्यान्त इति । त्रिचतुर्दिनानन्तरभाविनीति शेषः ॥ १२ ॥

(इक्ष्वाकुप्रथमवंशत्वेन नरेन्द्राणामपीन्द्रत्वम्गो)

(१ नरेन्द्र त्वंङ।ज)

(२ मृषिसत्तमैःङ) ॥ १।६९।१२ ॥

॥ १।६९।१३ ॥ तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ।

वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥ १३ ॥

प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ।

यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ॥ १४ ॥

प्रतिग्रहःकन्यागवादीनां प्रतिग्रहः दातृवश एव–यदि ददातिगृह्यते प्रतिग्रहीत्रेति वस्तुस्थितिः । एतत् युष्मदीयं वीर्यशुल्कं कन्याप्रदानविषयं, पुरा पूर्वमेव श्रुतम् । अतः परं कन्याप्रदस्त्वं यथा वक्ष्यसि तद्वयं करिष्यामहे ॥ १।६९।१४ ॥

॥ १।६९।१५ ॥ धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः ।

श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ॥ १५ ॥

परं विस्मयमिति । कन्याया वीर्यशुल्कत्वेन जितत्वात् तदनुमत्यनपेक्षणत्वे ऽपि ऽप्रतिग्रहो दातृवशः, यथा त्वं वक्ष्यसि ३तद्वयं करिष्यामहेऽ इति राज्ञो लौकिकवचनचातुरीदर्शनाद्विस्मयः ॥ १५ ॥

(३ तथाग) ॥ १।६९।१५ ॥

॥ १।६९।१६,१७ ॥ ततः सर्वे मुनिगणाः परस्परसमागमे ।

१ हर्षेण महता युक्तास्तां निशामवसन् सुखम् ॥ १६ ॥

राजा च राघवौ पुत्रौ निशम्य परिहर्षितः ।

उवास परमप्रीतो जनकेनाभिपूजितः ॥ १७ ॥

निशम्यअवलोक्य, ऽशमो दर्शनेऽ इति दर्शने मित्वर्निषेधाद्ध्रस्वः ॥ १७ ॥

(१ एतदनन्तरंअथ रामो महातेजा लक्ष्मणेन सम ययौ । विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन् ॥

इत्यधिकंङ) ॥ १।६९।१७ ॥

॥ १।६९।१८ ॥ जनको ऽपि महातेजा क्रियां धर्मेण तत्त्ववित् ।

यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनसप्ततितमः सर्गः

यज्ञस्य अवशिष्टाः क्रियाः, सुताभ्यां कन्यादानशेषतया यत्कर्तव्यं लौकिकालौकिकं तत्सर्वं च कृत्वोवास इति । अदय (१८ १२) मानः सर्गः ॥ १।६९।१८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनसप्ततितमः सर्गः