०६८ दशरथागतिः

अथ अष्टषष्टितमः सर्गः

[दशरथाह्वानम्]

॥ १।६८।१ ॥ जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।

१त्रिरात्रमुषिता मार्गे ते ऽयोध्यां प्राविशन् पुरीम् ॥ १ ॥

अथ मन्त्रिभिः राजनियोगसम्पादनम्–जनकेनेत्यादि । तिस्रश्च ता रात्रयश्च त्रिरात्रम्, सङ्ख्यादित्वात् रात्रान्तादच् समासान्तः । अत्यन्तसंयोगे द्वितीया, रात्रित्रयं मार्ग उषिताःकृतवासाः ते दूताःदौत्यविनियुक्तमन्त्रिण इत्यर्थः ॥ १ ॥

(६९ तमसर्गे ऽगत्वा चतुरहं मार्गंऽ (श्लो।७) इत्युक्तदिशा चतुर्दिवससाध्यगमनस्य मार्गस्य दिनत्रयेण गमनात्–क्रान्तवाहना इति ॥ )

(१ एतदनन्तरं–राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन् । शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च ॥ इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् । इत्यधिकम्ङ।) ॥ १।६८।१ ॥

॥ १।६८।२ ॥ ते राजवचना२द्दूता राजवेश्म ३प्रेवशिताः ।

ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥ २ ॥

राजवचनात्जनको ऽस्मानिह प्रेषितवानिति स्वराजसंकीर्तनात् राजदर्शनद्वारभूतात् । राजवेश्मदशरथवेश्म ॥ २ ॥

(२ द्गत्वाङ)

(३ प्रदुद्रुवुःङ) ॥ १।६८।२ ॥

॥ १।६८।३ ॥ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः ।

राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् ॥ ३ ॥

विगतसाध्वसा इति । महाराजनियुक्तदूतत्वेन तद्भृत्यवत्तत्सन्निधौ भयरहिताः ॥ ३ ॥

( ऽबद्धाञ्जलिपुटाःऽ इति विशेषणश्रवणजन्यसंशयपरिहारा विगतसाध्वसा इति ॥ ) ॥ १।६८।३ ॥

॥ १।६८।४ ॥ मैथिलो जनको राजा साग्निहोत्र४पुरस्कृतः ।

कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ ४ ॥

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा ।

जनकस्त्वां महाराजा ऽ ऽपृच्छते सपुरस्सरम् ॥ ५ ॥

मैथिलःमिथिलापुरीश्वरः । पुरस्कृताग्निहोत्रसहितःसाग्निहोत्रपुरस्कृतः, आहिताग्नित्वान्निष्ठायाः परनिपातः । कुशलंक्षेमम् । अव्ययःअनपायः । महाराजा आपृच्छत इति पदम् । ऽआङि नुपृच्छ्योरुपसङ्ख्यानम्ऽ इत्यात्मनेपदम् । पुरस्सरन्तीति पुरस्सराःभृत्यास्तत्सहितम् ॥ ५ ॥

(४ पुरस्कृतम्ङ)

(अत्र द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मरणार्थःगो जनानां कंसुखं यस्मात्स–प्रजासुखदातेत्यर्थः तादृशो जनकःरा।) ॥ १।६८।५ ॥

॥ १।६८।६ ॥ पृष्ट्वा कुशल१मव्यग्रं वैदेहो मिथिलाधिपः ।

कौशिकानु२मते वाक्यं भवन्तमिदमब्रवीत् ॥ ६ ॥

अनुमतेअनुमतकृत्यसाधननिमित्तम् ॥ ६ ॥

(१ मव्यग्रोङ।ज।)

(२ मतोङ।) ॥ १।६८।६ ॥

॥ १।६८।७ ॥ पूर्वं प्रतिज्ञा ३विदिता वीर्यशुल्का ममात्मजा ।

राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥ ७ ॥

वीर्यशुल्केति प्रतिज्ञा पूर्वं युष्माभिर्विदितेति योजना । विमुखीकृताः इत्यपि विदितम् ॥ ७ ॥

(३ विहिताङ) ॥ १।६८।७ ॥

॥ १।६८।८ ॥ सेयं मम सुता राजन् विश्वामित्रपुरस्सरैः ।

यदृच्छया ऽ ऽगतैर्वीरैर्निर्जिता तव पुत्रकैः ॥ ८ ॥

तव पुत्रकैरिति । तव पुत्रेण बालेन सकलजगत्पूज्यरामेणेत्यर्थः । पूजायां बहुवचनम् । कप्रत्ययो बाल्यद्योतकः । जामातृबुध्या च बहुवचनप्रयोगः ॥ १।६८।८ ॥

॥ १।६८।९,१० ॥ तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना ।

रामेण हि महाराज महल्यां जनसंसदि ॥ ९ ॥

अस्मै देया मया सीता वीर्यशुल्का १महात्मने ।

प्रतिज्ञां २कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ १० ॥

प्रतिज्ञांवीर्यशुल्कतया सीतादानप्रतिज्ञापूरणं इत्यर्थः ॥ १० ॥

(१ ममात्मजाङ।)

(२ तर्तुङ।ज) ॥ १।६८।१० ॥

॥ १।६८।११ ॥ सोपाध्यायो महाराज पुरोहितपुरस्सरः ।

शीघ्रमागच्च, भद्रं ते, द्रष्टुमर्हसि राघवौ ॥ ११ ॥

महाराज शीघ्रमागच्छेति योजना ॥ १।६८।११ ॥

॥ १।६८।१२ ॥ ३प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि ।

पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥ १२ ॥

उभयोरेव पुत्रयोः, न केवलं रामस्य । प्रीतिमिति । विवाहकल्याणजप्रीतिमित्यर्थः । एवं च लक्ष्मणायोर्मिळाप्रदानमपि सूचितम् । तथा ऽग्रे वक्ष्यति ॥ १२ ॥

(३ प्रतिज्ञां ममङ।ज)

( पुत्री च पुत्रश्चतयोः–मत्पुत्र्यां त्यत्पुत्रे चेत्यर्थः । यद्वा स्नुषा ऽपि पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोर्मिलाप्रदानं सिद्धं कृत्वैवमुच्यतेगो) ॥ १।६८।१२ ॥

॥ १।६८।१३ ॥ ४एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।

विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १३ ॥

अभ्यनुज्ञात इति । अभ्यनुज्ञातकन्याप्रदानकृत्य इत्यर्थः ॥ १३ ॥

(४ एतदनन्तरं ऽइत्युक्त्वा विरता दूताः राजगौरवशङ्किताःऽ इत्यधिकंङ) ॥ १।६८।१३ ॥

॥ १।६८।१४१७ ॥ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।

वसिष्ठं वामदेवं च मन्त्रिणो ऽन्यांश्च सो ऽब्रवीत् ॥ १४ ॥

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।

लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।

सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १६ ॥

यदि वो रोचते १ वृत्तं जनकस्य महात्मनः ।

पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः ॥ १७ ॥

यदि वो रोचते इति । यौनसम्बन्धयोग्यमिति इति शेषः । पर्ययः–अतिक्रमः ॥ १७ ॥

(१ वृत्तिःङ) ॥ १।६८।१७ ॥

॥ १।६८।१८ ॥ मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।

सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥ १८ ॥

श्वो यात्रेत्यब्रवीदिति । तदर्थमुद्यमध्वमिति शेषः । मन्त्रिण इति । जनकमन्त्रिण २इत्यर्थः ॥ १८ ॥

(२ इति शेषःग) ॥ १।६८।१८ ॥

॥ १।६८।१९ ॥ मन्त्रिणस्तां ३नरेन्द्रश्च रात्रिं परमसत्कृताः ।

ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैस्समन्विताः ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टषष्टितमः सर्गः

गुणैःसत्कारातिशयैः । नरेन्द्रश्च प्रमुदित उवासेति विपरिणामः । धैर्य(१९)मानः ॥ १९ ॥

(३नरेन्द्रस्यङ) ॥ १।६८।१९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टषष्टितमः सर्गः