अथ सत्पषष्टितमः सर्गः
[धनुर्भङ्ग]
॥ १।६७।१ ॥ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १ ॥
अथ प्रस्तावितकार्यप्रवृत्तिःजनकस्येत्यादि । ऽरामाय इतिऽ इति असन्धिः छान्दसः ॥ १।६७।१ ॥
॥ १।६७।२ ॥ ततः स राजा जनकः १ सामन्तान् व्यादिदेश ह ।
धनुरादीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २ ॥
सामन्तान्–समीपे विद्यमानसचिवानित्यर्थः ॥ २ ॥
(१ सचिवान्ङ,ज, समेतान्, संयतान्ङ)
( ऽहऽ इति हर्षद्योतकःशि।)
(अनन्तरश्लोकानुसारादेवं व्याख्यातम् ।) ॥ १।६७।२ ॥
॥ १।६७।३ ॥ जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् ।
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ ३ ॥
पुरीं प्राविशन्निति । यज्ञवाटादिति शेषः ॥ १।६७।३ ॥
॥ १।६७।४ ॥ नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।
मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥ ४ ॥
अथ नायकसङ्ख्याविशेष कथनपूर्वं कथंचिदानयनप्रदर्शनेन धनुषो दुर्ग्रहत्वादिवैभवः प्रकाश्यतेनृणामित्यादि । ऽनृचऽ इति नामि न दीर्घः । पञ्चाशच्छतानीति । पञ्चसहस्राणीति यावत् । व्यायताःदीर्घाः । महात्मानःहृष्टपुष्टशरीराः । मञ्जूषा–आयसी पेटिका । अष्टचक्रां–अष्टायश्चक्ररक्षाबन्धवतीं । समूहुरिति । अनेकैदीर्घबृहद्वंशदण्डैरिति शेषः । कश्चिदष्टचक्रांअष्टचक्रशकटयुक्तामित्याह । तदा नृणां शतान्युहुरिति न सङ्गच्छते । अपि च शकटेनानयने बलीवर्दादय एव नियोज्याः, न तु पञ्चसहस्रपुरुषाः ॥ ४ ॥
(गोविन्दराजः । परन्तु तत्रऽसमूहुःआचकर्षुःऽ इति व्याख्यातम् ।) ॥ १।६७।४ ॥
॥ १।६७।५,६ ॥ तामादाय तु मञ्जूषां आयसीं यत्र तद्धनुः ।
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥ ५ ॥
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः ।
मिथिलाधिप राजेन्द्र दर्शनीयं १यदीच्छसि ॥ ६ ॥
दर्शनीयंप्रदर्शनीयं इच्छसि यदि । प्रदर्शयेति शेषः ॥ ६ ॥
(यत् धनुः दर्शनीयमिच्छसि तदिदं धनुः आनीतमिति शेषःगो।)
(१ यदिच्छसिङ) ॥ १।६७।६ ॥
॥ १।६७।७ ॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।
विश्वामित्रं महात्मानं, तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥
उभौ रामलक्ष्मणौ तद्विषयकधनुःप्रदर्शनमुद्दिश्य विश्वामित्रमभाषतेति योजना ॥ ७ ॥
(महात्मानं विश्वामित्रं तौ रामलक्ष्मणौ च अभाषतशि। परन्तु उत्तरश्लोकेषु विश्वामित्रस्यैव सम्बोधनात् कतककृता ऽन्यथा व्याख्यातम् ।) ॥ १।६७।७ ॥
॥ १।६७।८ ॥ इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ।
राजभिश्च महावीर्यैः २ अशक्तैः पूजितं पुरा ॥ ८ ॥
राजभिश्चेति । अन्यैरपीति शेषः । अशक्तैःतोलनादिव्यापाराश्क्तैः । पूजितंऐश्वरत्वादीश्वरवदेव केवलं पूजितं इत्यर्थः ॥ ८ ॥
(जनकैःतद्वंश्यैः । पूरितुमशक्तैः राजभिस्तु जनकैःदेवरातातिरिक्तैः पूजितंति ।
राजभिः सीतार्थिभिः पूजितंअहोमहासारमैश्वरं धनुरितिगो।)
(२ अशक्यं पूरितुंङ) ॥ १।६७।८ ॥
॥ १।६७।९ ॥ नैतत्सुरगणा१स्सर्वे नासुरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ९ ॥
क्क गतिर्मानुषाणां च धनुषो ऽस्य प्रपूरणे ।
आरोपणे समायोगे वेपने तोलने ऽपि वा ॥ १० ॥
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव
दर्शयैतन्महाभाग अनयोः राजपुत्रयोः ॥ ११ ॥
प्रपूरणंप्रसज्य धनुष आकर्णाकर्षणम् । इदं पूर्णबलम् । एतदधःयत् आरोपणादि । आरोपणंसज्यकरणं । समायोगःशरेण संयोजनं । वेपनंज्यास्फालनं । तोलनं वर्णितचरम् । तोलनादिकृत्ये मानुषाणां क्क गतिःक्क सामर्थ्यम् । अथापि त्वदाज्ञया आनीतं एतत् धनू राजपुत्रयोः २ प्रदर्शनाय ॥ ११ ॥
(१ श्शक्ताःङ)
( प्रपूरणंआकर्णाकर्षणं, आरोपणंसज्यीकरणं, समायोगःशरेण योजनं, वेपनंज्यास्फालनं, तोलनमुक्तम्ति। प्रपूरणेनम्रीकरणे, आरोपणे मौर्व्याः संयोजने, समायोगेशरेण योजने, वेपनेमौर्व्याकर्षणेगो ।)
(२ प्रदर्शयग।) ॥ १।६७।११ ॥
॥ १।६७।१२ ॥ विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ १२ ॥
महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १३ ॥
अपावृत्यअपगतावरणां कृत्वा ॥ १।६७।१३ ॥
॥ १।६७।१४ ॥ इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना ।
यत्नवांश्च भविष्यामि ३तोलने पूरणेपि वा ॥ १४ ॥
हे ब्रह्मन् इदं धनुर्वरं दृष्टं । इदं पाणिना च स्पृशामि । एतावता दर्शनौत्सुक्यं निवृत्तं । अतः परमेतद्धनुषि तोलनादवपि यत्नांश्च भविष्यामि किम् ? इत्यपृच्छदिति शेषः ॥ १४ ॥
(३ वेपनेङ) ॥ १।६७।१४ ॥
॥ १।६७।१५ ॥ बाढमित्यब्रवीद्राजा मुनिश्च समभाषत ।
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥ १५ ॥
अथ गुर्वनुमतिः–बाढमित्यादि । राजा च समभाषत, स मुनिश्च समभाषतेति प्रत्येकं योजना ॥ १४ ॥
(मध्येमध्यप्रदेशे–जग्राहपादाङ्गुलेनोन्नतं कृत्वा करेण जग्राह । तदुक्तं पाद्मेऽरामो ऽपि तद्धनुः कोटिं स्पृष्ट्वा पादाङ्गुलात्ततः । उन्नतं चापमारोप्य बभञ्जे मोहिता जनाःऽ इतिति।) ॥ १।६७।१५ ॥
॥ १।६७।१६ ॥ पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ।
आरोपयत्सधर्मात्मा सलीलमिव तद्धनुः ॥ १६ ॥
मध्येमध्यप्रदेशे भारवस्तुनो मध्यप्रदेशे गृहीत्वोद्धारो महाबलसाध्यः । पश्यतांपश्यत्स्विति यावत् । भावलक्षणा षष्ठी ॥ १।६७।१६ ॥
॥ १।६७।१७ ॥ आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।
तद्वभञ्ज नरश्रेष्ठो धनुर्मध्ये महायशाः ॥ १७ ॥
इव शब्द एवार्थे । सलीलमेव–लीलाधनुर्वदप्रयासमेवेत्यर्थः । पूरयामासेति । आकर्णमाकृष्टवानित्यर्थः । तद्धनुर्मध्ये बभञ्जेति । मध्ये गृहीत्वा ऽ ऽकर्षणात् उभयनमनवेगेनेति शेषः ॥ १७ ॥
( ननु उक्तरित्या महोन्नतस्य धनुषः कथं बालेनारोपणं संभवति ? अग्रस्पर्शाभावादिति चेत्उच्यतेआश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावानतं धनुःगो।वस्तुतस्तु–धनुष उन्नतत्वे ऽपि ज्याया आकर्षणेन धनुषः नमनं संभवत्येवेति ॥ ) ॥ १।६७।१७ ॥
॥ १।६७।१८,१९ ॥ तस्य शब्दो महानासीत् निर्घातसमनिस्वनः ।
भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥ १८ ॥
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥
मुनिवरःविश्वामित्रः । राजाजनकः ॥ १।६७।१९ ॥
॥ १।६७।२० ॥ प्रत्याश्वस्ते जने तस्मिन्, राजा विगतसाध्वसः ।
उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥ २० ॥
विगतसाध्वस इति । रामेणापि धनुषः अनारोपे अयमपि मे जामाता न सिद्ध्येदिति िया भीस्स्थिता सा गतेत्यर्थः ॥ २० ॥
( ऽवर्जयित्वा राजानंऽ इत्युक्तत्वात् साध्वसमेवंरूपं व्याख्यातम् । प्रथमं रामदर्शनसमय एव जनकस्य ऽअयं मम जामाता स्याद्वाऽ इत्याशा ऽ ऽसीदिति ऽसमुपस्थितयौवनौऽ (५०१९) इत्यादितद्वाक्यैरेवावगम्यते । अत एव धनुर्दिदृक्षामात्रे विश्वामित्रेण कथिते ऽपि जनकः–ऽयद्यस्य धनुषो रामः कुर्यादारोपणंऽ इत्याद्याहेति भावः ॥ ) ॥ १।६७।२० ॥
॥ १।६७।२१ ॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः ।
अन्तद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥ २१ ॥
न तर्कितमिति । एतदारोपणसंभावनमपीति शेषः ॥ १।६७।२१ ॥
॥ १।६७।२२,२३ ॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।
सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ २२ ॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक
सीता प्राणैर्बहुर्मता देया रामाय मे सुता ॥ २३ ॥
प्राणैरिति पञ्चम्यर्थे तृतीया, प्राणेभ्य इति यावत् ॥ २३ ॥
( जनकानां–ऽअनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रतीप्तायां न मे किञ्चित्प्रदह्यते ॥ ऽ इति प्रोक्तनिरतिशयकीर्तिमतामपि कुले । भर्तारं–भरणदक्षं ऽवित्तमिच्छन्ति मातरःऽ इत्युक्तधनवन्तं–, रामं–ऽरूपमिच्छन्ति कन्याकाः ।ऽ इत्युक्तरूपवन्तं, ऽदशरथात्मजंऽ ऽबान्धवाः कुलमिच्छन्तिऽ इत्युक्तरीत्या बन्धुकांक्षितं चगो।)
(सीता वीर्यशुल्केति मम प्रतिज्ञा सत्या जाता ॥ ) ॥ १।६७।२३ ॥
॥ १।६७।२४ ॥ भवतो ऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ।
मम, कौशिक भद्रं ते, अयोध्यां त्वरिता रथैः ॥ २४ ॥
भवतो ऽनुमते–निमित्तसप्तमीयं–अनुमतकृत्यसाधननिमित्तमित्यर्थः । मन्त्रिणः अयोध्यां गच्छन्त्विति योजना ॥ १।६७।२४ ॥
॥ १।६७।२५ ॥ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ २५ ॥
सर्वशश्चेति । सर्वमप्यत्रत्यवृत्तान्तमिति शेषः ॥ २५ ॥
(प्रश्रितैःविनयसहितैः।) ॥ १।६७।२५ ॥
॥ १।६७।२६,२७,२८ ॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।
१ प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ॥ २६ ॥
कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः ।
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ॥ २७ ॥
यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तषष्टितमः सर्गः
–
आभाष्यआहूयेति यावत् । कृतशासनान्दत्तकल्याणसन्देशपत्रिकानिति यावत् । दार(२८)मानः सर्गः ॥ २८ ॥
(१ प्रीतियुक्तं तुङ।च।ज।झ)
( प्रीतियुक्तमिति क्रियाविशेषणम्ति।) ॥ १।६७।२८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तषष्टितमः सर्गः