अथ षट्षष्टितमः सर्गः
[शैवधनुःप्रशंसा]
॥ १।६६।१ ॥ ततः प्रभाते विमले कृतकर्मा नराधिपः ।
विश्वामित्रं महात्मानं आजुहाव सराघवम् ॥ १ ॥
अथ जगत्पितुः ब्रह्मणो रामस्य जगन्मातृजानकीगायत्रीसंयोजनाय विश्वामित्रस्य प्रस्तावःततः प्रभात इत्यादि ॥ १ ॥
(अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवधायावतीर्णः, तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मीं ऽतुल्यशीलवयोवृत्ताभिजनेनैव कन्या वरणीयाऽ इत्यमुमर्थविशेषं प्रवर्तयिष्यन् जनककुले ऽवतार्य तत्परिणयनाय यतत इत्याहतत इत्यादिनागो।) ॥ १।६६।१ ॥
॥ १।६६।२ ॥ तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।
राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ २ ॥
कर्मणेति । अर्ध्यपाद्यादिलक्षणेनेत्यर्थः ॥ १।६६।२ ॥
॥ १।६६।३ ॥ भगवन् स्वागतं ते ऽस्तु १ किं करोमि तवानघ
भवानाज्ञापयतु मां आज्ञाप्यो भवता ह्यहम् ॥ ३ ॥
आज्ञापेर्ण्यन्तात् ऽअचो यत्ऽ इति यत्, पाक्षिकामित्वादह्रस्वः, आज्ञापयितुं योग्य इत्यर्थः । भवतेति । ऽकृत्यानां कर्तरि वाऽ इति पाक्षिकी तृतीया ॥ ३ ॥
(१किङ्करो ऽस्मिङ) ॥ १।६६।३ ॥
॥ १।६६।४ ॥ एवमुक्तस्तु धर्मात्मा जनकेन महात्मना ।
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ ४ ॥
वीरंजनकं प्रतीति योजना । वीरं–रामं तत्प्रयोजनमुद्दिश्य ॥ ४ ॥
( एतद्व्याख्यारीत्या मूले ऽप्रत्युवाच मुनिर्वीरं वीरं वाक्यविशारदःऽ इति पाठेन भाव्यम् ।) ॥ १।६६।४ ॥
॥ १।६६।५ ॥ पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
दुष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ ५ ॥
एतदपि द्रष्टुकामाविति । आगताविति शेषः ॥ १।६६।५ ॥
॥ १।६६।६ ॥ एतद्दर्शय, भद्रं ते, कृतकामौ नृपात्मजौ ।
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ ६ ॥
कृतकामौप्राप्तकामौ ॥ ६ ॥
(अस्य दर्शनादेव कृतकामौ भूत्वा प्रतियास्यत इत्यन्वयःगो। अस्य धनुषो दर्शनात् इष्टंअभीप्सितं यथायथावत् प्रतियास्यतःप्राप्स्यतःशि।) ॥ १।६६।६ ॥
॥ १।६६।७ ॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ७ ॥
एवं धनुः प्रसङ्गे तद्वृत्तान्तं वक्तुमुपक्रमते जनकः–एवमुक्त इत्यादि । अस्य धनुष इति । यद्दिदृक्षितं तस्य धनुष इहागमनादिवृत्तान्तं, इदानीं इह च यदर्थं यत्प्रयोजनाय तिष्ठति, तत्सर्वं श्रूयताम् ॥ १।६६।७ ॥
॥ १।६६।८ ॥ देवरात इति ख्यातो १निमेष्षष्ठो महीपतिः ।
न्यासो ऽयं तस्य भगवन् हस्ते दत्तो २ महात्मना ॥
निमिःजनककूटस्थः । तस्य हस्ते दत्तो न्यासः निक्षेपरूपः ॥ २ ॥
(निमेःनिमिवंशोद्भवस्यसुकेतोरित्यर्थः, किञ्च निमिपुत्रस्य देवरात इति नामान्तरं ऽनिमेः षष्ठःऽ इति पाठे तु निमि परित्यज्य षष्ठ इत्यर्थःशि)
(१ निमेर्ज्येष्ठोङ।ज)
( यद्वान्यासःनितरां आसमन्तात् अस्यन्ते रिपवो येन सः, शत्रुनाशक इत्यर्थः, ऽयुक्तश्चायमर्थःअन्यस्वामिके वस्तुनि स्वातन्त्रयानुपपत्तेः । अत एव तद्धनुर्भजनादिविषयिणी प्रवृत्तिर्नृपतेः संगच्छतेशि।)
(२ महासनःङ) ॥ १।६६।८ ॥
॥ १।६६।९ ॥ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥ ९ ॥
तर्हि कैस्तथा दत्त इत्यतः–दक्षेत्यादि । दक्षयज्ञवध इति निमित्तसप्तमी । आयम्येति नमनसज्जीकरणपूर्वकमाकृष्येत्यर्थः । सलीलमिति । अनेन वधविषयाप्रयासो द्योत्यते ॥ ९ ॥
( दक्षयज्ञवध इति निमित्तसप्तमीति।) ॥ १।६६।९ ॥
॥ १।६६।१० ॥ यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः
वराङ्गानि महार्हाणि धनुषा १शातयामि वः ॥ १० ॥
भागार्थिन इति । स्विष्टकृदादियज्ञभागार्थिन इत्यर्थः । २वराङ्गंशिरः ॥ १० ॥
(२ वराङ्गानिशिरांसि।)
(१ पातयामि नःङ) ॥ १।६६।१० ॥
॥ १।६६।११ ॥ ततो विमनसः सर्वे देवा वै मुनिपुङ्गव
३ प्रसादयन्त देवेशं, तेषां प्रीतो ऽभवद्भवः ॥ ११ ॥
विमनसःदीनाः । भवःरुद्रः । ददाविति । संहारगृहीतधनुरिति शेषः ॥ ११ ॥
(३ प्रसादयन्तिङ) ॥ १।६६।११ ॥
॥ १।६६।१२ ॥ प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् ॥
तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।
न्यासभूतं तदा ४न्यस्तमस्माकं ५ पूर्वके विभो ॥ १२ ॥
(धनुषां रत्नं धनूरत्नं । पूर्वके इति । देवरात इत्यर्थः ॥ १२ ॥
( न्यासभूतंन्यस्तं–देवैरिति शेषःगो)
(४ दत्तमङ)
(५ पू जेङ।च।ज) ॥ १।६६।१२ ॥
॥ १।६६।१३ ॥ अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता, मया ।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १३ ॥
ऽयदर्थमिह तिष्ठतिऽ इति यदुक्तं तत्प्रतिपादयितुं प्रस्तावःअथ मे क्षेत्रं कृषत इति । अग्निचयनार्थमिति शेषः । ऽलाङ्गलं पवीरवम्ऽ इति, ऽद्वाभ्यां षड्गवेन कृषतिऽ इत्यादिशास्त्रात् सिद्धं कर्षणं लाङ्गलात्लाङ्गलपद्धतेरित्यर्थः । उत्थितेति । कन्येति शेषः । यदेवं क्षेत्रं शोधयता लाङ्गलपद्धतेः मया लब्धा ततस्तन्नाम्ना सीतेति विश्रुता भवति ॥ १३ ॥
(मे कृषतःमयि कर्षतीत्यर्थःगो) ॥ १।६६।१३ ॥
॥ १।६६।१४,१५,१६ ॥ भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ।
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १४ ॥
भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।
वरयामासुरागम्य राजानो मुनिपुङ्गव ॥ १५ ॥
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।
वीर्यशुल्केति, भगवन् न ददामि सुतामहम् ॥ १६ ॥
एवं यज्ञीयात् भूतलादुत्थिता सा तु ममात्मजा शनैरवर्धत । किं तत इत्यतः–वीर्येत्यादि । उक्तधनुस्सज्जीकरणादिक्षमं वीर्यमेव शुल्कंमूल्यं यस्यास्सा तथा, वीर्यशुल्केति यतः केवलं न ददामिन प्रादाम् ॥ १।६६।१६ ॥
॥ १।६६।१७ ॥ ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव
मिथिलामभ्युपागम्य १वीर्यजिज्ञासवस्तदा ॥ १७ ॥
वीर्यजिज्ञासवःधनुर्बलजिज्ञासवः । भवन्तीति शेषः ॥ १७ ॥
(१वीर्यं जिज्ञाङ।च।ज)
( वीर्यशुल्केयं कन्येति कथिते ऽकीदृशं तत् शुल्कभूतं वीर्यम्ऽ इति ज्ञातुमिच्छव आसन्नित्यर्थः ।) ॥ १।६६।१७ ॥
॥ १।६६।१८ ॥ तेषां जिज्ञासमानानां १वीर्यं धनुरुपाहृतम् ।
न शेकुर्ग्रहणे तस्य धनुषस्तोलने ऽपि वा ॥ १८ ॥
वीर्यंवीर्यशुल्कसाधनभूतम् । तोलनंमारपरीक्षार्थं हस्तेन चालनम् ॥ १८ ॥
(१ शैवंङ।ज ऐशंझ)
( धनुरुपाहृतंआनीय स्थापितम्शि। वीर्यं जिज्ञासमानानामित्यन्वयःगो।) ॥ १।६६।१८ ॥
॥ १।६६।१९ ॥ तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने
प्रत्याख्याता नृपतयस्तन्निवोध तपोधन ॥ १९ ॥
प्रत्याख्याताःकन्या न दत्तेति यावत् । तदित्यव्यम् । तस्मादनन्तरं यद्वृत्तान्तं तन्निबोध । बुधिरत्र निशामने (बुद्धेथ विज्ञापने बुद्धेत विज्ञापनीये बुद्धेः वेदने च बुद्धिरच अतो) (?) भौवादिकः, लोट् ॥ १।६६।१९ ॥
॥ १।६६।२० ॥ ततः परमकोपेन राजानो नृपपुङ्गव
२अरुन्धन् मिथिलां सर्वे वीर्यसन्देहमागताः ॥ २० ॥
अरुन्धन्उपरोधं कृतवन्तः । वीर्यसन्देहंधनुरारोपलक्षणवीर्यविषये स्वेषां सामर्थ्यसन्देहं । अतो बलादेव कन्यां ग्रहीष्यामीति न्यरुन्धन्नित्यर्थः ॥ २० ॥
(२ न्यरुन्धन्ङ)
( वीर्यसन्देहंधनुरारोपलक्षणवीर्यविषये अन्येषां सन्देहविषयत्वं गताःशि। यद्वा शुल्कत्वेन कल्पिते धनुरारोपणरूपवीर्ये संदेहं–किमनेनास्मदवमाननार्थमेवेदं कल्पितं स्यादिति संशयमित्यर्थः । अत एवानन्तरश्लोको ऽपि संगच्छते । )
( प्रत्येकान्वयाभिप्रायेणैकवचनम् ।) ॥ १।६६।२० ॥
॥ १।६६।२१ ॥ आत्मानमवधूतं ३ते विज्ञाय नृपपुङ्गवाः ।
रोषेण महता ऽ ऽविष्टाः पीडयन्मिथिलां पुरीम् ॥ २१ ॥
ते सर्वे नृपाः आत्मानंस्वात्मानं मया अवधूतं–वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय रोषा ऽ ऽविष्टाः पीडयन्अपीडयन्निति यावत् ॥ २१ ॥
(३ मे।ङ) ॥ १।६६।२१ ॥
॥ १।६६।२२ ॥ ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
साधनानि, मुनिश्रेष्ठ ततो ऽहं भृशदुःखितः ॥ २२ ॥
क्षयं यातानीति । प्राकारयुद्धवशादिति शेषः ॥ १।६६।२२ ॥
॥ १।६६।२३ ॥ ततो देवगणान् सर्वान् तपसा ऽहं प्रसादयम् ।
ददुश्च परमप्रीताः १चतुरङ्गबलास्सुराः ॥ २३ ॥
प्रसादयमिति । प्रासादयमिति यावत् । चतुरङ्गबला इति । चतुरङ्गबलदा अभवन्नित्यर्थः ॥ २३ ॥
(१ चतुरङ्गबलमिति सर्वत्र पाठः ।) ॥ १।६६।२३ ॥
॥ १।६६।२४ ॥ ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।
अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २४ ॥
अवीर्याः–अर्धवीर्याः । वीर्यसन्दिग्धाः–आहिताग्नित्वान्निष्ठायाः परनिपातः, संदिग्धवीर्याः बलात्कन्याजिघृक्षवस्सर्वे नानादिशो ययुः । समवायं विसृज्येति शेषः ॥ २४ ॥
(सन्दिग्धवीर्याः–अहिताग्न्यादित्वात् परनिपातः–ति। वीर्यसन्दिग्धा इति सोपहासोक्तिर्वा।) ॥ १।६६।२४ ॥
॥ १।६६।२५ ॥ तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ॥ २५ ॥
तदेतदिति । उक्तवृत्तान्तकमित्यर्थः ॥ १।६६।२५ ॥
॥ १।६६।२६ ॥ यद्यस्य धनुषो रामः कुर्यादारोपणं मुने
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्षष्टितमः सर्गः
–
अचर (२६१२)मानः सर्गः ॥ १।६६।२६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्षष्टितमः सर्गः