०६५ विश्वामित्र-ब्रह्मर्षित्व-प्राप्तिः

अथ पञ्चषष्टितमः सर्गः

[ब्रह्मर्षित्वप्राप्तिः]

॥ १।६५।१ ॥ अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥

अथैवमुत्तरे ऽपि चतुर्थव्यूहप्रधानपूर्वमुखप्राधान्येन पूर्वस्यां दिशि तप उपदिश्यते–अथेत्यादि । हैमवतींहिमवदुत्तरपार्श्वगां ॥ १।६५।१ ॥

॥ १।६५।२,३ ॥ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।

चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २ ॥

पूर्णे वषसहस्रे तु काष्ठभूतं महामुनिम् ।

विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥

आधूतंकम्प्यमानम् । आन्तरं–अन्तःकरणम् । निश्चयं–क्रोधाकरणविषयकम् ॥ १।६५।३ ॥

॥ १।६५।४,५ ॥ स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ।

तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥ ४ ॥

भोक्तुमारधवानन्नं तस्मिन् काले रघूत्तम

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ ५ ॥

तस्य वर्षसहस्रस्येति । व्यधिकरणे षष्ठ्यौ । सिद्धम्पक्कम् ॥ १।६५।५ ॥

॥ १।६५।६ ॥ तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।

निश्शेषिते ऽन्ने भगवानभूक्त्वै महातपाः ॥ ६ ॥

निश्चित इति । तपस्सिद्धये सर्वथैव दातव्यमेवेति निश्चयवान् इत्यर्थः । अन्ने निश्शेषित इति । निश्शेषतो दत्त इति यावत् । अभुक्त्वैवेति । पुनः पक्त्वा ऽभुक्त्वैवेत्यर्थः ॥ १।६५।६ ॥

॥ १।६५।७,८ ॥ १ नै किंचिदवदद्विप्रं मौनव्रतमुपस्थितः ।

अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गवः ॥ ७ ॥

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।

त्रैलोक्यं येन संभ्रान्तमा२दीपित इवाभवत् ॥ ८ ॥

येनेति । धूमेनेत्यर्थः । आदीपितमिति । दीर्पर्ण्यन्तान्निष्ठा । यथा आदीपितःतापितः पुमान् सम्भ्रान्तो व्याकुलितो भवति, तद्वत्रैलोक्यं सम्भ्रान्तमभूदित्यर्थः ॥ ८ ॥

(१ एतदनन्तरं ऽतथैवासीत्पुनर्मौनमनुच्छ्वासं चकार सःऽ इत्यधिकंङ)

( धूम इति । धूमकेतुरित्यर्थःअग्निरिति यावत् । अत एवाग्रे ऽआतापितमिवऽ इति वक्ष्यति । अयं शुद्धसत्त्वप्रभवो ऽग्निः इतरेषां रजस्तमः प्रधानानांदेवादीनां तापजनक इति बोध्यम्ति।)

(२ दीपितमिवाङ। तापितमिवाज) ॥ १।६५।८ ॥

॥ १।६५।९ ॥ ततो १देवास्सगन्धर्वाः पन्नगासुरराक्षसाः ।

मोहिता२स्तपसा तस्य तेजसा मन्दरश्मयः ॥ ९ ॥

कश्मलोपहताःदुःखोपहताः ॥ ९ ॥

(१ देवर्षि गन्धर्वाः पन्नगोरगङ।)

(२ स्तेजसा तस्य तपसाङ।झ) ॥ १।६५।९ ॥

॥ १।६५।१०,११ ॥ कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।

बहुभिः कारणै३र्देव विश्वामित्रो महामुनिः ॥ १० ॥

लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।

न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ ११ ॥

लोभितः क्रोधितश्चैवेति । अथापि निर्विघ्न इति शेषः । वृजिनंपापं । सूक्ष्मं वृजिनं रागद्वेषरहितेन स्वतस्तत्त्वप्रतिष्ठालक्षणं सर्वभुवि साधारणं नीरागेद्वषनिजचित्तनिजतत्त्वब्रह्मप्रतिष्ठानमेव ब्रह्मलोकाधिकारिब्रह्मर्षिमुख्यलक्षणं, तदस्य संपन्नं अतो ब्रह्मर्षितानुमतिः कर्तव्याः अन्यथा लोकनाश इत्याहुः ॥ ११ ॥

(३ देवैःङ) ॥ १।६५।११ ॥

॥ १।६५।१२ ॥ न दीयते यदि त्वस्य तपसा यदभीप्सितम् ।

४ विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥ १२ ॥

न दीयत इत्यादि । विनाशयति त्रैलोक्यमिति वृत्तभङ्ग आर्षः ॥ १२ ॥

(४ विनाशमेतिङ) ॥ १।६५।१२ ॥

॥ १।६५।१३,१४ ॥ व्याकुलाश्च दिशस्सर्वा न च किञ्चित्प्रकाशते ।

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १३ ॥

प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।

ब्रह्मन् न प्रतिजानिमो नास्तिको जायते जनः ॥ १४ ॥

ब्रह्मन्न प्रतिजानीम इति । प्रतिक्रियामिह न जानीम इत्यर्थः । नास्तिको जायत इति । उक्तरूपजगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १४ ।

(नास्ति कंसुखं यस्य सः, अत्यन्तव्याकुलत्वेन सुखरहित इत्यर्थःशि।) ॥ १।६५।१४ ॥

॥ १।६५।१५ ॥ संमूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ।

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १५ ॥

उक्तार्थस्यैव अनुवादपूर्वकमनुष्ठेयांशमाहसंमूढमिवेति । संमूढमिवत्रैलोक्यमिति वृत्तभङ्गः प्राग्वत् ॥ १५ ॥

( आर्ष इत्यर्थः ।) ॥ १।६५।१५ ॥

॥ १।६५।१६ ॥ बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।

तावत्प्रसाद्यो १ भगवान् अग्निरूपो महाद्युतिः ॥ १६ ॥

हे देव अतः परं विश्वामित्रो जगत्क्षये यावत् बुद्धिं न कुरुते तावत् प्रसाद्यःअनुग्राह्यः ॥ १६ ॥

(१ भगवन्ङ।ज) ॥ १।६५।१६ ॥

॥ १।६५।१७ ॥ कालाग्निना यथापूर्वं त्रैलोक्यं दह्यते ऽखिलम् ।

देवराज्यं चिकीर्षेत दीयतामस्य २यन्मतम् ॥ १७ ॥

पूर्वमिति । युगान्तकाल इत्यर्थः । देवराज्यं चिकीर्षेतापि, हिरण्यादिवत्, तदप्यस्य मतंअभीष्टं दीयताम् ॥ १७ ॥

( देवराज्यं चिकीर्षेतदेवानामाधिपत्यं कर्तुं इच्छेतापि)

(२ यन्मनःङ) ॥ १।६५।१७ ॥

॥ १।६५।१८ ॥ ततः सुरगणाः सर्वे पितामहपुरोगमाः ।

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥ १८ ॥

स्वागतमिति । भद्रमित्यर्थः । स्मेति । सकारलोपश्छान्दसः ॥ १८ ॥

( विसर्गलोप इत्यर्थः ।) ॥ १।६५।१८ ॥

॥ १।६५।१९,२० ॥ ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः ।

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥ १९ ॥

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।

स्वस्ति प्राप्नुहि, भद्रं ते, गच्छ सौम्य १यथासुखम् ॥ २० ॥

ब्राह्मण्यं प्राप्तवानसीति देवोक्त्यनन्तरमायुः प्रयच्छति भगवान्दीर्घमायुरित्यादि । यथासुखमिति । तपस उपरत इति शेषः ॥ २० ॥

(भवता एकेनैव अङ्गीकारे किं फलमित्यत्राहसमरुद्गण इति । अत एव उत्तरत्र ऽदेवताःऽ इत्युक्तिः सङ्गच्छते ।)

(१ यथा ऽ ऽगतम्ङ) ॥ १।६५।१९।२० ॥

॥ १।६५।२१,२२ ॥ पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ २१ ॥

ब्रह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।

ओङ्कराश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ २२ ॥

ओङ्कारःब्रह्मविद्यासाधनम् । वषट्कारःयज्ञरूपब्रह्मकृत्यसाधनम् । वेदास्तु पूर्वापरविभागेन ब्रह्मकृत्यज्ञानापेक्षिताङ्गोपाङ्गसमस्तपरिकरप्रतिपादकाः । ते सर्वे यथा भगवन्मुखजं वसिष्ठवामदेवादिसहजब्रह्मकुलं वरयन्ति वृञ् श्नौ, श्नायां वृञ्, णौ वृञ् आवरणे, श्नायां वृङ् संभक्तौ, अतो वरतेः स्वार्थे णिः । वृण्वन्तुएवं स्वप्रतिष्ठात्वेनाङ्गीकुर्वन्तु–स्वेषामुपदेशाध्यापनयाजने ऽनुमतिं कुर्वन्त्वित्यर्थः ॥ २२ ॥

( ब्राह्मणशब्दयोगार्थपौष्कल्ये ऽपि न हि मुख्यं ब्राह्मण्यं संभवेदित्यर्थः । ) ॥ १।६५।२२ ॥

॥ १।६५।२३ ॥ क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ॥ २३ ॥

१ ब्रह्मानुग्रहे ऽपि ब्राह्मणैस्स्वकुलबहिष्कारे जातिब्राह्मण्याभावात् अन्वर्थब्राह्मण्यमप्यब्राह्मण्यकल्पमित्यभिप्रेत्यानादिब्राह्मणवसिष्ठेनापि ब्राह्मणस्वकुललक्षणब्राह्मणत्वानुमतिं प्रार्थयतेक्षत्रवेदेत्यादि । विवस्वन्तमारभ्य सूर्यवंशानादिपुरोहितत्वात् क्षत्रवैदविदां–क्षत्रियाणां शान्तिपुष्ट्यादिप्रयोजनानां अथर्ववेदधनुर्वेदादिविदुषां–श्रेष्ठः, ब्रह्मब्रह्मकुलनिजनित्यज्ञान२कर्मापेक्षित३वेदसारब्राह्मणत्रयी, तद्विदामपिश्रेष्ठः । उत्तरश्रैष्ठ्यबीजंब्रह्मपुत्र इति । एवमिति । ब्रह्मर्षिमिति यावत् । परमो ऽयं काम इति । वसिष्ठमुखेन ब्रह्मर्षित्वानुवादरूप इत्यर्थः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु नान्यथा इत्यर्थः ॥ २३ ॥

(ब्रह्मवेदविदांब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपिशि। ब्रह्मवेदाःब्रह्मप्रतिपादका वेदाः वेदान्ताः । यद्वा ब्राह्मणमात्रप्रवचनार्हा वेदाः त्रयीरूपाःगो)

(१ ब्राह्मा।ग)

(२ धर्माःग)

(३ वेदः सारब्राह्मणा त्रयी।) ॥ १।६५।२३ ॥

॥ १।६५।२४ ॥ यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ॥ २४ ॥

ततःएवं विश्वामित्रोक्त्यनन्तरमित्यर्थः । प्रसादित इति । भगवता ब्रह्मणा सर्वैरस्माभिश्च लोकहितायानुमतत्वात् भवता ऽपि तद्ब्रह्मर्षित्वमनुमन्तव्यमित्यनु४नीत इत्यर्थः । जपतां वर इति सर्वतो वसिष्ठविशेषणं । ऽछन्दोदृक्साधको मुनिःऽ इति रहस्यादनादितो ब्रह्मविद्यासाधकत्वलक्षणं ब्रह्मविद्याया ऋषित्वं सूचितम् । एवमुक्ताघोरशुद्धब्रह्मविद्याया वसिष्ठ एव ऋषिरद्यापि सघोरब्रह्मविद्याया एव विश्वामित्रस्साधक इति तस्या एवेदानीं विश्वामित्र ऋषिः । अथ देवैरनुनीतो वसिष्ठः एवमस्त्वित्यब्रवीत् । सख्यं च विश्वामित्रेम चकार । ब्रह्मर्षित्वत एव पुरा ऽपि विद्वेषरहितः, इदानीं उपेक्षामतिं हित्वा मदीय इति पर्यग्रहीदित्यर्थः ॥ २४ ॥

(४ नीतवानिति मातुकासु ।) ॥ १।६५।२४ ॥

॥ १।६५।२५ ॥ सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।

ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ॥ २५ ॥

सर्वंब्राह्मण्यं । जन्मसंस्कारजपध्यानसन्ताननिरन्तरोपासनजनितनिजतत्त्वानुसन्धानलक्षणैः श्रीमद्योगभानुप्रतिपादितैस्सर्वैः ब्राह्मण्यसाधनैस्सम्पन्नो भविष्यसीत्यर्थः । इत्युक्त्वेति । यथा वसिष्ठेन भगवतोक्तं, एवमेव देवताश्चोक्त्वेत्यर्थः ॥ २५ ॥

(अनेन त्रिपुरषपर्यन्तं विश्वामित्रस्य ब्राह्मण्यलाभः सूचितः । एतच्च ऽअनृष्यानन्तर्षेऽ इतिसूत्रे महाभाष्ये स्पष्टम्ति।(तथा हि भाष्यम्–ऽविश्वामित्रस्तपस्तेपे नानृषिः स्यामिति तत्रभवानृषिः संपन्नः, स पुनस्तपस्तेपेनानृषेः पुत्रः स्यामिति तत्रभवान् गाधिरपि ऋषिः संपन्नः, स पुनस्तपस्तेपे–नानृषेः पौत्रः स्यामिति तत्रभवान् कुशिको ऽपि ऋषिः संपन्नःऽ इति) ॥ १।६५।२५ ॥

॥ १।६५।२६ ॥ इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथा ऽ ऽगतम् ।

विश्वामित्रो ऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ॥ २६ ॥

१ ब्रह्मर्षि पूजयामास वसिष्ठं जपतां वरम् ।

कृतकामो महीं सर्वां चचार तपसि स्थितः ॥ २७ ॥

ब्रह्मर्षि पूजयामासेति । सपरिकरस्य मे सत्कारद्वारा ब्रह्मर्षिताप्राप्त्यनन्तरतपस्साधनौन्मुक्यसम्पादनेन कृतार्थितो ऽस्मि भवतेति पूजयामासेत्यर्थः । चचारेति विश्वामित्र इति शेषः ॥ २७ ॥

(१ पूजयामास ब्रह्मर्षिर्वङ।)

( ससैन्यस्येत्यर्थः ।) ॥ १।६५।२७ ॥

॥ १।६५।२८ ॥ एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।

एष राम मुनिश्रेष्ठ एष २विग्रहवांस्तपः ॥ २८ ॥

अथ प्रकृते शतानन्दवचनंएवमित्यादि । एष धर्मपरो नित्यमिति । इदानीमपीति शेषः । वीर्यस्येति । तपोवीर्यस्येत्यर्थः ॥ २८ ॥

(२ निग्रहवत्तपःङ।ज) ॥ १।६५।२८ ॥

॥ १।६५।२९३२ ॥ एष धर्मपरो नित्यं वीर्यस्तैष परायणम् ।

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ २९ ॥

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥ ३० ॥

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव

यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥ ३१ ॥

पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने

विश्वामित्र महाभाग ब्रह्मर्षीणां वरोत्तम ॥ ३२ ॥

पावितःकृतपावनः ॥ १।६५।३२ ॥

॥ १।६५।३३,३४ ॥ गुणा बहुविधाः प्राप्ताः तव सन्दर्शनात्मया ।

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ॥ ३३ ॥

श्रुतं मया महातेजः रामेण च महात्मना ।

सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥ ३४ ॥

गुणाःकर्मज्ञाननिष्ठाविशेषलक्षणाः । सदस्याः–विधिदर्शिनः । तैश्च दैवात् सदः प्राप्य ते गुणाः श्रुताः ॥ ३४ ॥

(सदः प्राप्य स्थितैः सदस्यैश्च ते गुणाः श्रुताःगो।ति ) ॥ १।६५।३४ ॥

॥ १।६५।३५ ॥ अप्रमेयं १तपस्तुभ्यं अप्रमेयं च ते बलम् ।

२ अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ ३५ ॥

तुभ्यमिति । तवेति यावत् ॥ ३५ ॥

(१ तव तपःङ)

(२ एतदनन्तरंपितामहस्य च यथा यथा चैव ह्युमापतेः । इत्यधिकंङ) ॥ १।६५।३५ ॥

॥ १।६५।३६ ॥ तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो

कर्मकालः, मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ ३६ ॥

कथानां तृप्तिरिति । श्रवण इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः ॥ ३६ ॥

( ऽपूरण गुणऽ इति तृत्तीयार्थे षष्ठीगो।) ॥ १।६५।३६ ॥

॥ १।६५।३७,३८ ॥ श्वः प्रभाते महातेजः द्रष्टुमर्हसि मां पुनः ।

[रामेण रमणीयेन लक्ष्मणेन च सङ्गतः ।]

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ ३७ ॥

एवमुक्तो मुनिवरः प्रशस्य पुरुर्षभम् ।

१ विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥ ३८ ॥

स्वागतं भद्रमिति पर्यायः यथायोगं । अनुज्ञातुमर्हसीति । कर्मण इति शेषः ॥ ३८ ॥

(१ विससर्जाथङ।ज।) ॥ १।६५।३८ ॥

॥ १।६५।३९,४० ॥ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।

प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥ ३९ ॥

विश्वामित्रो ऽपि धर्मात्मा सरामः सहलक्ष्मणः ।

२स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चषष्टितमः सर्गः

स्ववाटं–स्वनिवेशनम् । धन(४०)मानः सर्गः ॥ ४० ॥

(आशु इत्यनेनगृहं गत्वा कदा इमां कथां वर्णयिष्यामि–इत्यभिलाषातिशयः सूचितःशि। परन्तु–पूर्वश्लोके ऽमुनिवरः जनकं आशु विससर्जऽ इत्युक्तम् । तत्र मुनिवरस्य त्वरायां हेतुः ऽएवमुक्तःऽ इत्यनेन सूचितः । तत्पूर्वं हि ऽकर्मकालः अतिवर्ततेऽ इति जनकेनोक्तं । तच्छ्रुत्वा विश्वामित्रः तत्वरे । तद्दृष्ट्वा जनको ऽपि तत्त्वरे, महर्षेस्तस्य अनुष्ठानकालातिक्रमणभयात् । जनको ऽपि हि कर्मठ इति प्रसिद्धम् । अतः ऽआशुऽ इत्यनेन कालातिक्रमभयं सूच्यत इति युक्तम् ।)

(२ स्ववासमभिज)

( अत्र कग। मातृकाद्वये अङ्कसंख्यया ३१। इति श्लोकानां निर्देशो दृश्यते तु ४० श्लोकाः । घ। पुस्तके ऽधनमानःऽ इति दृश्यते । तत्र यथा श्रुते ४० इति सङ्ख्या विवक्षणीया । परन्तु कटपयादीनां व्यत्यासेन लेखनमेव सांप्रदायिकम् ॥ ) ॥ १।६५।४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चषष्टितमः सर्गः