अथ चतुष्षष्टितमः सर्गः
[रम्भाशापः]
॥ १।६४।१ ॥ सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ १ ॥
लोभनंप्रतारणम् । काममोहेन–कामजनितचित्तवैवश्येन समन्वितम् ॥ १।६४।१ ॥
॥ १।६४।२ ॥ तथोक्ता सा ऽप्सरा राम सहस्राक्षेण धीमता ।
व्रीळिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥ २ ॥
व्रीळितेति । अशक्यार्थतो ऽसमार्थ्यवचननिमित्ता व्रीळा ॥ १।६४।२ ॥
॥ १।६४।३ ॥ अयं सुरपते घोरो विश्वामित्रो महामुनिः ।
क्रोधमुत्सृजते घोरं मयि देव न संशयः ॥ ३ ॥
प्रसादमिति । एवमनियोगरूपमित्यर्थः ॥ १।६४।३ ॥
॥ १।६४।४ ॥ १ततो हि मे भयं, देव प्रसादं कर्तुमर्हसि ।
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥ ४ ॥
माभैषी रम्भे भद्रमिति । गुरुरार्षः ॥ ४ ॥
(१ एतदनन्तरं–एवमुक्तस्तया राम रम्भया भीतया तदा ॥ इत्यधिकंङ।ज) ॥ १।६४।४ ॥
॥ १।६४।५ ॥ २मा भैषी रम्भे भद्रं ते, कुरुष्व मम शासनम् ।
कोकिलो हृदयग्राही ३माधवे रुचिरद्रुमे ॥ ५ ॥
अहं कोकिलो भूत्वा माधवे–वसन्ते, स्थिते सतीति शेषः ॥ ५ ॥
(२ माभैषीरत्वं वरारोहेझ।)
( ऽमा भैषि रंभेऽ इत्यत्र आर्षो ह्रस्वःगो) ॥ १।६४।५ ॥
॥ १।६४।६ ॥ अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ॥ ६ ॥
रूपंसौन्दर्यं बहुभिः–१हावभावादिभिः गुणैरुपेतं, मत्वथर्यियो ऽजन्तः । भेदयस्वकाममोहोत्पादनेन तपसश्चित्तं चालय ॥ ६ ॥
(१ हासभावाक।ग) ॥ १।६४।६ ॥
॥ १।६४।७ ॥ तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ।
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ॥ ७ ॥
ललितासुन्दरी ॥ १।६४।७ ॥
॥ १।६४।८ ॥ २लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ॥ ८ ॥
विश्वामित्रसंप्रहर्षःकोकिलस्वनानुभवजसन्तोषः । ततःतस्मादेव हेतोः ॥ ८ ॥
(२ एतदनन्तरं–कोकिलो रुचिरग्राही भेदयामास वै मुनिम्–इत्यधिकंझ) ॥ १।६४।८ ॥
॥ १।६४।९ ॥ संप्रहृष्टेन मनसा तत एनामुदैक्षत ।
अथ तस्य च शब्देन गीतेनाप्रतिमेन च ॥ ९ ॥
तस्यकोकिलस्य वसन्तरूपस्य । सन्देहमिति । इयं स्वेच्छया समागता आहोस्विदिन्द्रादिप्रेरिता वेत्येवं रूपम् ॥ ९ ॥
(पूर्वं मेनकाविषयानुभवात्, किमियं मत्तपोनाशनोद्देशेनैव समागता स्यादिति संशयः) ॥ १।६४।९ ॥
॥ १।६४।१० ॥ ३दर्शनेन च रम्भाया मुनिः सन्देहमागतः ।
सहस्राक्षस्य १तत्कर्म विज्ञाय मुनिपुङ्गवः ॥ १० ॥
तत्कर्मतस्या लोभनादिकर्म सहस्राक्षस्य प्रेरणामूलमिति विज्ञाययुक्त्या निश्चित्य रम्भां शशापेति ॥ १० ॥
(एतेनरंभाया इन्द्रस्य प्राणप्रियात्वेन तच्छापतो इन्द्रस्यापि दुःखं सूचितमितिशि।)
(१ तत्सर्वंङ) ॥ १।६४।१० ॥
॥ १।६४।११ ॥ रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ।
यन्मां २लोभयसे रम्भे कामक्रोधजयैषिणम् ॥ ११ ॥
शैलीशिलाप्रतिमा ॥ ११ ॥
(२ क्रोधयसेङ) ॥ १।६४।११ ॥
॥ १।६४।१२ ॥ दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे
ब्राह्मणः सुमहातेजाः तपोबलसमन्वितः ॥ १२ ॥
ननु स्वस्वामिनियोगतः प्रवृत्तायाः रम्भायाः को ऽपराधः ? उच्यते । अत एव सो ऽपि अज्ञानात् बतैवं वृथा शापः प्रवृत्त इति पश्चात्तापसहितस्तामनुगृह्णाति–ब्राह्मण इत्यादि । ब्रह्मपुत्रः, वसिष्ठ इति यावत् ॥ १२ ॥
(गोविन्दराजीयानुरोधेनैवमुक्तम्) ॥ १।६४।१२ ॥
॥ १।६४।१३ ॥ उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ।
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ॥ १३ ॥
सन्तापंशापनिमित्तपश्चात्तापम् ॥ १३ ॥
(तोव्ययजन्यदुःखेन संतापंति) ॥ १।६४।१३ ॥
॥ १।६४।१४ ॥ अशक्नुवन् धारयितुं ३क्रोधं, सन्तापमागतः ।
तस्य शापेन महता रम्भा शैली तदा ऽभवत् ॥ १४ ॥
अथ कन्दर्पः तस्य महर्षेः वचनं श्रुत्वा निर्गतः, स इन्द्रश्च महर्षेः वचनं श्रुत्वेति शेषः, निर्गतः ॥ १४ ॥
(३ कोपसंतापङ) ॥ १।६४।१४ ॥
॥ १।६४।१५ ॥ वचः श्रुत्वा च कन्दर्पो महर्षेः, स च निर्गतः ।
कोपेन सुमहातेजास्तपो ऽपहरणे कृते ॥ १५ ॥
इन्द्रियैरजितैरिति । उक्तरीत्या कामक्रोधाभ्यां २हृत्वादेवाजितत्वं । तैर्हेतुभिरित्यर्थः । शान्तिंनीरागद्वेषनिजात्मप्रतिष्ठालक्षणां ॥ १५ ॥
(मेनकाप्रसङ्गे कामः, रंभाप्रसङ्गे क्रोध इत्यर्थः ।)
(२ हतत्वाग।) ॥ १।६४।१५ ॥
॥ १।६४।१६ ॥ १इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ।
बभूवास्य ३पुनश्चिन्ता तपो ऽपरहणे कृते ॥ १६ ॥
४ नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ॥ १७ ॥
न च वक्ष्य इति । शापवचनमिति शेषः ॥ १७ ॥
(१ इन्द्रियैः क्षुभितंङ)
(३ मनश्चिन्ताङ)
(४ नैवंङ।ज) ॥ १।६४।१७ ॥
॥ १।६४।१८ ॥ अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।
तावत्, यावद्धि मे प्राप्तं ब्राह्मण्यं ५तपसा ऽ ऽर्जितम् ॥ १८ ॥
आत्मानमिति । सेन्द्रियग्रामं शरीरमित्यर्थः ॥ १८ ॥
(५ तपसोर्जितम्ङ।ज) ॥ १।६४।१८ ॥
॥ १।६४।१९ ॥ अनुच्छ्वसन्नभुञ्जानः तिष्ठेयं शाश्वतीस्समाः ।
न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ॥ १९ ॥
मूर्तयःशिरःकरचरणाद्यवयवाः न क्षयं यास्यन्ति अनुच्छ्वासाभोजनयोः तपो ऽर्थत्वात् तद्बलेन स्थास्यन्त्येवेति शेषः ॥ १।६४।१९ ॥
॥ १।६४।२० ॥ एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्षष्टितमः सर्गः
–
एवं दीक्षामिति । अनुछ्वासाभोजनसङ्कल्पमुद्दिश्येति शेषः । अप्रतिमां–निस्तुलां प्रतिज्ञां सर्वथा एवं करिष्यामीत्यध्यवस्यति स्मेत्यर्थः । नख (२०) मानः सर्गः ॥ २० ॥
( वर्षसहस्रस्यवर्षसहस्रसम्बन्धिनीं दीक्षांगो। वर्षसहस्रस्य दीक्षां निर्वर्तयितुं अप्रतिमां प्रतिज्ञां चकारशि। अप्रतिमां प्रतिज्ञां दीक्षां च चकार इति वा ऽर्थः ।) ॥ १।६४।२० ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्षष्टितमः सर्गः