अथ त्रिषष्टितमः सर्गः
[मेनकया विश्वामित्रतपोभङ्गः]
॥ १।६३।१ ॥ पूर्णे वर्षसहस्रे तु १व्रतस्नातं महामुनिम् ।
अभ्यागच्छन् सुराः सर्वे तपः फल२चिकीर्षवः ॥ १ ॥
अथ द्वितीयव्यूहदिशि पश्चिमायां काममोहेन तपोनाशनप्रतिपादनम्–पूर्ण इत्यादि । अम्भायास्सहस्ररश्मित्वाद्वर्षसहस्रप्रमाणेनैव विश्वामित्रस्याम्बापुरश्चरणोपक्रमसमाप्तिः सर्वदिक्षु । अत एव सहस्रावृत्तिरम्बायाश्श्रोत्रियब्राह्मणानामस्माकं । व्रतस्नातमिति । समाप्तपुरश्चरणमिति यावत् ॥ १ ॥
(१ विश्वामित्रंङ।)
(२ चिकीर्षयाङ) ॥ १।६३।१ ॥
॥ १।६३।२ ॥ अब्रवीत् सुमहातेजा ब्रह्मा ३सुरुचिरं वचः ।
ऋषिस्त्वमसि, भद्रं ते, स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥
सुमहातेजा ब्रह्मेति । ब्रह्मविद्याधिदैवत्वतः तन्यैव तत्फलदातृत्वात् तदर्थं सुरुचिरं वचः भगवान् अब्रवीत् । ऋषिस्त्वमसीति । एतेन राजशब्दानुपादानेन क्षत्रत्वजातिविश्लेषः कियान्वा ऽभूदिति भगवता ऽनुगृहीतं वेदितव्यम् ॥ २ ॥
(३ सानुनयंङ) ॥ १।६३।२ ॥
॥ १।६३।३,४ ॥ तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ३ ॥
ततः कालेन महता मेनका परमा ऽप्सराः ।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ ४ ॥
परमारूपादितः सर्वोत्तमा । अप्सरश्शब्द एकवचनान्तो ऽप्यस्ति ॥ ४ ॥
(अप्सरा इत्यार्षंति। ऽस्त्रियां बहुष्वप्सरसःऽ इति कोशात् अप्सरश्शब्दस्य नित्यबहुवचनान्तत्वमाशङ्क्याह–अप्सरश्शब्द इति ।) ॥ १।६३।३,४ ॥
॥ १।६३।५,६ ॥ तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ५ ॥
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।
अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे ॥ ६ ॥
अनुगृह्णीष्वेति । काममोहखिन्नस्य मे अनुकूला मत्तपि शमयेति यावत् ॥ १।६३।६ ॥
॥ १।६३।७,८ ॥ इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ।
तपसो हि महाविघ्नो विश्वामित्रमुपागतः ॥ ७ ॥
तस्यां वसन्त्यां वर्षाणि पञ्च च राघव
विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ॥ ८ ॥
वरारोहाउत्तमस्त्री । उपागत इति । तयेति शेषः । पञ्च पञ्च चेति । दशवर्षाणीति यावत् । ऽषड्भ्यो लुक्ऽ इति जसो लुक् ॥ १।६३।८ ॥
॥ १।६३।९,१० ॥ अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।
सव्रीड इव संवृत्तः चिन्ताशोकपरायणः ॥ ९ ॥
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन
१सर्वं सुराणां कर्मैतत् तपो ऽपहरणं महत् ॥ १० ॥
सामर्षेति । अस्मत्तपः पुनः २देवता विघ्नन्तीत्यमर्षसहिता ॥ १० ॥
(सामर्षादेवेषु विघ्नस्य तत्कृतत्वज्ञानात्ति।)
(१ सत्यं सुराणांङ।)
(२ देवाग।) ॥ १।६३।१० ॥
॥ १।६३।११ ॥ अहोरात्रापदेशेन गताः संवत्सरा दश ।
काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः ॥ ११ ॥
अहोरात्रापदेशेनएकाहोरात्रतुल्यतया ॥ ११ ॥
(अहोरात्रव्याजेन दश संवत्सरा गता इति वा ऽर्थः । पश्यत एव एकैकदिनशः दश संवत्सरा गता इति तात्पर्यम् । प्रत्युपस्थित इत्यनन्तरं ऽइतिऽ इत्यध्याहार्यं इति बुद्धिस्समुत्पन्नेति पूर्वेणान्वयः ।) ॥ १।६३।११ ॥
॥ १।६३।१२ ॥ विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ १२ ॥
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ॥ १३ ॥
मेनकां मधुरैर्वाक्यैर्विसृज्येति । मया कामतप्तेन प्रार्थितत्वात् योषितस्ते न कश्चनापचारः । अतस्त्वं यथासुखं गच्छेत्येवमादिरूपैर्वचनैरित्यर्थः ॥ १।६३।१३ ॥
॥ १।६३।१४ ॥ स कृत्वा नैष्ठिकीं बुद्धिं, जेतुकामो महायशाः ।
कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १४ ॥
नैष्ठिकीं । निष्ठाबिन्दुधारणरूपा मुख्या ब्रह्मचर्यनिष्ठा, तद्विषयिणीं बुद्धिंदृढनिश्चयम् । कौशिकीविश्वामित्रभगिनी नदी ॥ १४ ॥
(नैष्ठिकीकामस्याप्यकरणं सङ्कल्प्य अत्युत्कृष्टब्रह्मचर्यविषयाम्ति।जेतुकामःकाममिति शेषः ।) ॥ १।६३।१४ ॥
॥ १।६३।१५,१६ ॥ १तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
उत्तरे पर्वते, राम देवतानामभूत् भयम् ॥ १५ ॥
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ १६ ॥
समागम्येति । भगवता ब्रह्मणेति शेषः । महर्षिशब्दं लभतामिति । भगवन्निति शेषः ॥ १६ ॥
(भगवन्निति ब्रह्मणं प्रति देवानां सम्बोधनम् ।)
(१ तस्य वर्षसहस्राणि, तस्य वर्षसहस्रेणङ।ज)
(समागम्यसमुपसृत्येत्यर्थः ।) ॥ १।६३।१६ ॥
॥ १।६३।१७ ॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ १७ ॥
महर्षे खागतं वत्स तपसोग्रेण तोषितः ।
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥ १८ ॥
एवं देवतानां प्रार्थनया महर्षिशब्देनैव विश्वामित्रं सम्बोधयतिमहर्षे इत्यादि । महत्वमित्यस्यैव विवरणंऋषिमुख्यत्वमिति । पूर्वं दत्तर्षिशब्दस्य ते इदानीं महत्वविशिष्टर्षिशब्दवाच्यत्वं ददामीत्यर्थः ॥ १।६३।१८ ॥
॥ १।६३।१९ ॥ २ब्रह्मणसस वचश्श्रुत्वा ३ विश्वामित्रस्तपोधनः ।
प्राञ्जलिः प्रणतो भूत्वा ५प्रत्युवाच पितामहम् ॥ १९ ॥
एवं प्राप्तमहर्षित्वो विश्वामित्रो ऽकृतार्थ ४इत्याहब्रह्मण इत्यादि ॥ १९ ॥
(२ एतदनन्तरं ऽन विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनःऽ इत्यधिकंङ।झ।)
(३ सर्वलोकेश्वरस्य हङ।झ)
(५ सर्वलोकपितामहम्ङ।झ)
(४ आहग।) ॥ १।६३।१९ ॥
॥ १।६३।२० ॥ १ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।
यदि मे २भगवान्नाह ततो ऽहं विजितेन्द्रियः ॥ २० ॥
यदि शब्दो हेतौ । अतुलंसर्वोत्तमं । ब्रह्मर्षिशब्दंब्रह्मसमा त्रिपदा ब्रह्मविद्या, तत्सिद्धः ऋषिः ब्रह्मर्षिः, तादृशं ब्रह्मर्षिशब्दं मदभीष्टं मां प्रति मे स्वार्जतैः शुभैः कर्मभिः सिद्ध यस्मात् नाह–नानुगृह्णीषे,ततः–तस्मात् अहं ब्रह्मर्षिशब्दसिद्धये विजेतेन्द्रियः अतः परमत्यन्त भविष्यामीति शेषः ॥ २० ॥
(यदि महर्षित्वं भवता दत्तं, ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थःगो। ब्रह्मर्षिशब्दं मदभीष्टं स्वार्जितैः शुभैः कर्मभिः प्राप्यं यदि–यतः भगवान्नाह–न वदति, ततो मन्ये ऽहं विजितेन्द्रियः अत्र काकुः, न विजितेन्द्रिय इत्यर्थःति। महर्षिशब्दं मे–मह्यं यदि भगवानाह, ततः–तस्माद्धेतोः अहं विजितेन्द्रियो ऽस्मीत्यर्थः । तेन तस्येन्द्रियजयजनितो गर्वो ध्वनितःशि।)
(१ महर्षिशब्दङ।ज।च)
(२ भगवानाह।ङ।च) ॥ १।६३।२० ॥
॥ १।६३।२१ ॥ तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः ।
३जयस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥ २१ ॥
तथा ऽनुतिष्ठेति भगवाननुगृह्णाति–तमित्यादि । ततः तस्य विश्वामित्रस्य ऽसर्वथा विजितेन्द्रियो भविष्यामिऽ इत्युक्त्यनन्तरं विजितेन्द्रियत्वसिद्धिकालमनुगृह्णाति–न तावदिति । यावदहं त्वां ब्रह्मर्षिर्न ब्रवीमि, तावत् त्वं न विजितेन्द्रियःविजितेन्द्रियत्वं ब्रह्मर्षिशब्दार्हं तव नास्ति, अतस्त्वं जयस्वेन्द्रियाणि इत्युक्त्वा परं त्रिदिवं–ब्रह्मलोकं गतः इत्यर्थः ॥ २१ ॥
( विकारहेतुसन्निधाने ऽपि यावन्न विकरोषि तावन्तं कालं त्वं न जितेन्द्रिय इत्यर्थःगो।)
(३ यतस्वङ।) ॥ १।६३।२१ ॥
॥ १।६३।२२ ॥ ४विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ २२ ॥
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।
शिशिरे १सलिलस्थायी रात्र्यहानि तपोधनः ॥ २३ ॥
घर्मःग्रीष्मकालः । आकाशसंश्रयःवर्षवारणरहितदेशस्थः । रात्रयश्चाहानि च रात्र्यहानि, कृत्स्नमपि दिनमित्यर्थः ॥ २३ ॥
(४ संप्रस्थितेषुङ।)
(१ सलिले शायीङ।ज) ॥ १।६३।२३ ॥
॥ १।६३।२४,२५ ॥ एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।
तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ॥ २४ ॥
संभ्रमः सुमहानासीत् सुराणां वासवस्य च ।
रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः ।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ २५ ॥
आत्महितमिति । आत्मन्शब्द इन्द्रार्थः । एवमादावस्थले सर्गोच्छेदादृप्युपदिष्टसर्गसङ्ख्यातो ऽप्यधिकदर्शनं ॥ २५ ॥
(एवं कथयतो ऽप्यस्य व्याख्यातुः अत्र सर्गविच्छेदः सम्मत एव । यत उत्तरत्र तथैव सर्गान् गणयति । पूर्वं चाह–ऽकाम्डे विलाद्ये संस्थानं (७७) इति । सर्वेषु कोशेष्वप्येवमेव दृश्यते । अनन्तरश्लोके च ऽतिष्ठतु वा सर्गोच्छेदःऽ इत्याह ।) ॥ १।६३।२५ ॥
॥ १।६३।२६ ॥ सुरकार्यमिदं रंभे कर्तव्यं सुमहत् त्वया ।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिषष्टितमः सर्गः
–
किमुवाचेत्यतःसुरकार्यमित्यादि । तिष्ठतु वा सर्गोच्छेदः, न तेन काचन हानिरर्थसिद्धौ । । २६ ॥
(मातृकामु एतत्स्थ्ले सर्गविच्छेदो लिखितः । ऽसुरकार्यमिदंऽ इत्यादेर्व्याख्यानं तु अनन्तरसर्गे लिखितम् ।) ॥ १।६३।२६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिषष्टितमः सर्गः