अथ द्विषष्टितमः सर्गः
[शुनश्शोफोपाख्यानम्]
॥ १।६२।१ ॥ १शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशाः ।
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ ॥
अथ पश्चिमायामपि तपोविघ्नः उपदिष्टयज्ञद्वाराशुनश्शेफमित्यादि । व्यश्राम्यदिति । शमादित्वात् श्यनि दीर्घः । अह्नो मध्यं–मध्याह्नः, एकदेशिसमासः, ऽराजा ऽहःऽ इति टचि ऽअह्नो ऽह्नःऽ इत्यह्नादेशः, तस्मिन् मध्याह्ने ॥ १ ॥
(१ ऽशुनश्शेपःऽ इत्यप्यस्य नाम।) ॥ १।६२।१ ॥
॥ १।६२।२ ॥ तस्य विश्रममाणस्य शुनश्शेफो महायशाः ।
पुष्करक्षेत्र२मागम्य विश्वामित्रं ददर्श ह ॥ २ ॥
विश्रममाणस्येति । विश्राम्यत इति यावत्, छान्दसस्तङादिः, भावलक्षणे षष्ठी, तस्मिन् विश्राम्यति सति । आगम्येति । ऽवा ल्यपिऽ इत्यनुनासिकलोपाभावः । मातुलमिति ऋचीकाय कौशिकी प्रतिपादिता इत्युक्तत्वात् । । २२ ॥
(अनादरे षष्ठी।)
(२ मागत्यङ।च)
(अयं वृत्तान्तः गते ३४ तमे सर्गे द्रष्टव्यः) ॥ १।६२।२ ॥
॥ १।६२।३ ॥ तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः ।
विवर्णवदनो दीनस्तृष्णाया च श्रमेण च ॥ ३ ॥
तृष्णापिपासा । श्रमःअध्वश्रमः । पपाताङ्क इति ।
मातुलत्वादेवोत्सङ्गोपसर्पणम् ॥ १।६२।३ ॥
॥ १।६२।४,५ ॥ पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।
न मे ऽस्ति माता न पिता, ज्ञातयो बान्धवाः कुतः ॥
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ ५ ॥
बान्धवाः कुत इति । दूरादेवेत्यर्थः । धर्मेणधर्मप्रयोजनोद्देशेनेत्यर्थः । सर्वेषामिति । शरणागतानामिति शेषः । भावयतीति भावनः–सर्वसाधक इत्यर्थः ॥ १।६२।४,५ ॥
॥ १।६२।६ ॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥
यथा चेत् राजा कृतकार्यस्स्यात्, अहन्त्वव्ययःअविनाशी दीर्घायुरनुत्तमं तपस्तप्त्वा स्वर्गलोकंतत्रत्यभोगं उपाश्नीयांभुञ्जे, तथा १कुरुष्वेति शेषः ॥ १।६२।६ ॥
॥ १।६२।७ ॥ त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेवं पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ७ ॥
भव्यंकल्यं । किल्बिषात्तन्मूलविपत्तेरित्यर्थः ॥ ७ ॥
(किल्बिषात्जीवविपत्तिरूपात्ति) ॥ १।६२।७ ॥
॥ १।६२।८ ॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
२ सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ८ ॥
यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः ।
परलोकहितार्थाय तस्य कालो ऽयमागतः ॥ ९ ॥
यदित्यादि । शुभार्थिनः पितरो यत्कृतेयत्प्रयोजनाय पुत्रान् जनयन्ति, तस्यतत्प्रयोजनसंपादनस्य कालः वः समागतः । किं प्रयोजनाय जनयन्ति ? परलोकहितार्थायैव ॥ ९ ॥
(२ शान्तयित्वाङ।)
( पुत्रान्स्वपुत्रान्।)
( यस्य प्रयोजनस्य कृते पुत्रान् जनयन्ति, मम युष्माकं च परलोकहितार्थाय धर्माय तस्य वाक्यकरणस्य अयं काल आगतः, ऽजीवतोर्वाक्यकरणात्ऽ इति स्मृतेःगो। हे परलोकहितार्थाः परलोकहितंपरलोकप्राप्तिः अर्थःप्रयोजनं येषां तेहे परलोकप्रापकपुत्राः शि) ॥ १।६२।९ ॥
॥ १।६२।१० ॥ अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ १० ॥
किं तादृशं प्रयोजनमिदानीमुपस्थितमित्यतः–अयमित्यादि । शरणंरक्षणं । अस्य जीवितमात्रेण–प्राणप्रदानमात्रेण मम प्रियं युष्माकं सर्वार्थसाधनभूतं कुरुत ॥ १।६२।१० ॥
॥ १।६२।११ ॥ सर्वे १सुकृतकर्माणः सर्वे धर्मपरायणाः ।
पशुभूता नरेन्दस्य तृप्तिमग्नेः प्रयच्छत ॥ ११ ॥
स्वनियोगसिद्ध्यर्थमुपश्लोकः–सर्वे सुकृतेत्यादि । नन्वेतज्जीवनाय किमस्माभिः कर्तव्यमित्यतः–पश्वित्यादि । अयं पशुत्वेन राज्ञा गृहीतः । अतस्तत्प्रतिनिधित्वेन पशुभूता नरेन्द्रस्याग्नेस्तृप्तिं प्रयच्छत ॥ ११ ॥
(१ च कृतङ)
(नरेन्द्रस्य पशुभूताःशि। नरेन्द्रसम्बन्धियज्ञीयाग्नेरित्यर्थः ॥ ) ॥ १।६२।११ ॥
॥ १।६२।१२ ॥ नाथवांश्च शुनश्शेफो यज्ञश्चाविघ्नितो भवेत् ।
देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ १२ ॥
नाथवान्मया रक्षकवान् । मम चापियुष्मत्पितुः वचनं युष्माभिरवश्यं कर्तव्यंकृतं भवति ॥ १।६२।१२ ॥
॥ १।६२।१३ ॥ मुनेस्तु वचनं श्रुत्वा २मधुष्यन्दादयः सुताः ।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ १३ ॥
साभिमानंसाहङ्कारं । सलीलंसपरिहासं ॥ १३ ॥
(२ मधुस्यन्दा, मधुच्छन्दाङ) ॥ १।६२।१३ ॥
॥ १।६२।१४ ॥ कथमात्मसुतान् १हित्वा त्रायसे ऽन्यसुतं विभो
अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १४ ॥
लोकतश्शास्त्रतश्चानुचितानुष्ठानत्वे दृष्टान्तःश्वमांसमिवेत्यादि ॥ १४ ॥
(१ हत्वाङ।)
( भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थःगो।) ॥ १।६२।१४ ॥
॥ १।६२।१५,१६,१७ ॥ तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः ।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥
निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १६ ॥
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १७ ॥
साध्वसंभयं, पितृत्वप्रयुक्तप्रतिवचनभीतिरहितं यथा तथा, जीवतोर्वाक्यकरणादिधर्मादपि विगर्हितंभ्रष्टं यथा तथा, एवं मद्वाक्यमप्यतिक्रम्य यतो दारुणंनिर्मुक्तपितृस्नेहतया परुषं, अत एव कोपावहत्वतो रोमहर्षणंरोमाञ्चविकारकं वच उक्तम् तस्मात्श्वमांसेत्यादि । जातिषुपापजातिविशेषोत्पत्तिविषयेषु ॥ १।६२।१७ ॥
॥ १।६२।१८ ॥ कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।
शुनश्शोफमुवाचार्तं कृत्वा रक्षां २निरामयम् ॥ १८ ॥
निरामयं । अनपायो यथा भवति तथा रक्षां–प्रसिद्धां भस्मसाधनां शुनश्शोफस्य कृत्वा तं शुनश्शेफमुवाच ॥ १८ ॥
(२ निरामयाम्ङ) ॥ १।६२।१८ ॥
॥ १।६२।१९ ॥ [इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः]
पवित्रपाशै ३रासक्तो रक्तमाल्यानुलेपनः ।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ १९ ॥
पवित्रपाशैःदर्भरशनाभिः आसक्तःबद्धः वैष्णवंविष्णुदेवताकं यूपं ऽवैष्णवो वै देवतया यूपःऽ इति श्रुतेस्तथात्वम् वाग्भिः–आग्नेयमन्त्रैः अग्निमुदाहरस्तुहि ॥ १९ ॥
(३ राबद्धोङ) ॥ १।६२।१९ ॥
॥ १।६२।२० ॥ [इन्द्राविष्णू सुरश्रेष्ठौ स्तुहि त्वं मुनिपुत्रक ]
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक
अम्बरीषस्य यज्ञे ऽस्मिन् ततः सिद्धिमवाप्स्यसि ॥ २० ॥
अनन्तरंइमे त्वित्यादि । इमे इत्यपरोक्षानुभव (वचन) सिद्धत्वात् । सिद्धिंजीवितसिद्धम् ॥ १।६२।२० ॥
॥ १।६२।२१ ॥ शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ २१ ॥
१ राजसिंह महासत्व शीघ्रं गच्छावहे सदः ।
निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ २२ ॥
गच्छावहे । तङार्षः । निर्वर्तयस्व । यज्ञमिति शेषः ॥ २२ ॥
(१ अम्बरीष महाभाग।ङ।) ॥ १।६२।२२ ॥
॥ १।६२।२३,२४ ॥ तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ २३ ॥
२सदस्यानुमते राजा३ पवित्रकृतलक्षणम् ।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ २४ ॥
पवित्रकृतलक्षणंदर्भरशनासम्बन्धकृतपशुत्वज्ञापनं अत एव तं रक्ताम्बरत्वसंस्कारवन्तं तं पशुं कृत्वायज्ञपशुत्वेन सम्पाद्य यूपे ऽबन्धयत् । राजेति शेषः ॥ २४ ॥
(२ स तस्याङ)
( सदस्यानुमते स्थित इति शेषःगो।)
(३ पवित्रीकृतङ) ॥ १।६२।२४ ॥
॥ १।६२।२५ ॥ स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥
इन्द्रानुजो विष्णुर्यूपदेवः । इन्द्रः पशुभोक्ता ॥ १।६२।२५ ॥
॥ १।६२।२६ ॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा प्रादात् शुनश्शेफाय राघव ॥ २६ ॥
रहस्यस्तुतिः वैश्वामित्री ॥ १।६२।२६ ॥
॥ १।६२।२७ ॥ स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ २७ ॥
सम्यक् आप्तवान्समाप्तवान् । ऽहरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा ऽपुत्र आसऽ इत्यादि बह्वचब्राह्मणे, हरिश्चन्द्रनमेधे शुनःशेफस्याजीगर्तसुतस्य पशुत्वं, ऽकस्य नूनं कतमस्यऽ इत्यादिना मन्त्रेण प्रजापत्याद्यनेकदेवतास्तुत्यादिकं च प्रतिपाद्यते । कथमिदमुच्यतेअम्बरीषयागे ऋचीकपुत्रः शुनश्शेफ इन्द्राविष्णू स्तुत्वा मुक्त इति ? सत्यम्–अम्बरीष एवैक्ष्वाकः । स एव हरिरिव चन्द्र इव च इति हरिश्चन्द्रः । ऋचीकः, स एवाजीगर्तः । तत्र प्रजापतिस्तुतिरिति यदुक्तं सैवेहोच्यमानविष्णुस्तुतिः । विश्वामित्रसम्बन्धः तेनैतत्पुत्रशापादिः श्रुतावप्यविशिष्टः । । २७ ॥
(गोविन्दराजैरप्येवमेव विरोधः परिहरणीय इत्युक्तम् । तिलके तु, उपाख्यानद्वयं भिन्नमेव । रामायणगतशुनःशेफोपाख्यानस्य मूलभूता श्रुतिश्चान्वेष्येति बहव इत्युक्त्वा, कतकव्याख्याप्यनूदिता ॥ ) ॥ १।६२।२७ ॥
॥ १।६२।२८ ॥ विश्वामित्रो ऽपि धर्मात्मा भूयस्ते पे महातपाः ।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विषष्टितमः सर्गः
–
जरा (२८) मानः सर्गः ॥ २८ ॥ ॥ १।६२।२८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विषष्टितमः सर्गः