अथ एकषष्टितमः सर्गः
[शुनश्शोफोपाख्यानोपक्रमः]
॥ १।६१।१ ॥ विश्वामित्रो महात्मा ऽथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।
अब्रवीन्नर४शार्दूल सर्वास्तान् वनवासिनः ॥ १ ॥
ऽवसिष्ठतत्पुत्रयाज्यैः निमित्तैर्घोरशक्तितः । विश्वामित्र क्षीणतपाः पश्चिमे तप्यते तपःऽ । विश्वामित्रो महात्मेत्यादि । वनवासिन इति । स्वतपोवनवासिन इत्यर्थः ॥ १ ॥
(४ शार्दूलःङ) ॥ १।६१।१ ॥
॥ १।६१।२ ॥ महान् विघ्नः १प्रवृत्तो मे दक्षिणामास्थितो दिशम् ।
दिशमन्यां प्रवत्स्यामः तत्र तप्स्यामहे तप्स्यामहे तपः ॥ २ ॥
आस्थितः यो ऽहं, तस्य मे महान् विघ्नः प्रवृत्त इति योजना ॥ २ ॥
(दक्षिणां दिशमासमन्तात् व्याप्य स्थितः अयं महाविघ्नः प्रवृत्तःति। प्रवृत्तः–प्रकृतं वृत्तंवृत्तान्तो यस्मिन्, सो ऽयं महान् विघ्नः दक्षिणां दिशं आस्थितःप्राप्तः।शि।) ॥ १।६०।२ ॥
॥ १।६१।३ ॥ पश्चिमायां विशालायां पुष्करेषु महात्मनः
सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ॥ ३ ॥
विशालायांविशालतपोवनवत्यां पश्चिमायां वर्तमानेषु पुष्करेषुसोमसूर्याग्नितीर्थेषुतत्तीरदेशतपोवनेष्वित्यर्थः ॥ १।६१।३ ॥
॥ १।६१।४,५,६ ॥ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥
विप्र इति । याजकः पुरोहित इत्यर्थः ॥ १।६१।४,५,६ ॥
॥ १।६१।७ ॥ पशुरद्या२ ऽ ऽहृतो राजन् प्रणष्टस्तव दुर्नयात् ।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ ७ ॥
अद्या ऽ ऽहृत इति । इदानीमस्माभिरिति शेषः । दुर्नयात्तन्मूलपापवशात्, तावकरक्षिणां प्रसादाच्च ॥ ७ ॥
(पशुः अद्य हृतः, केनचिदिति शेषः । अत एव प्रणष्टःअदृश्यतां प्राप्तःशि।)
(२ रद्य हृतःङ।) ॥ १।६१।७ ॥
॥ १।६१।८ ॥ प्रायश्चित्तं महाद्ध्येतत्, नरं वा पुरुषर्षभ
आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥ ८ ॥
नरं वा आनयस्वेति । पशुप्रतिनिधित्वेनेति शेषः । इदं महत्प्रायश्चित्तं पशुनाश इति शेषः । अश्वमेधकर्मणः, पशुविसर्जनानन्तरं कालान्तरभावित्वात् यावत्कर्मकालः प्रवर्तेत, ततः पूर्वं नरं पशुं आनयस्वेत्यर्थः ॥ ८ ॥
(एतत्–पशुनाशरूपं महत् प्रायश्चित्तं–महतः प्रायश्चित्तस्य कारणम् । प्रक्रान्तं कर्म यावत् प्रवर्त्तते–प्रवर्तिष्यते तावत्–ततः प्रागेव नष्टं पशुमिन्विष्यानय तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थःनि। । ऽवाऽ कारेण पशुं वा ऽन्विष्यानयस्वेति लभ्यतेगो।) ॥ १।६१।८ ॥
॥ १।६१।९ ॥ उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥
सहस्रशो गोभिःअनेकाभिः निष्क्रयभूताभिरिति शेषः ॥ १।६१।९ ॥
॥ १।६१।१०,११ ॥ देशान् जनपदांस्तांस्तान् नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥
स पुत्रसहितं १नाम सभार्यं रघुनन्दन
भृगु२तुन्द्रे समासीनमृचीकं संददर्श ह ॥ ११ ॥
ऽसपुत्रेत्यत्रऽ स इति पदं । नामशब्दः प्रसिद्धौ । ऽप्रपातस्तु तटो भृगुःऽ । तुन्दं–अभ्यन्तरप्रदेशः । किञ्चित्पर्वतप्रपाताभ्यन्तरप्रदेश इत्यर्थः ॥ ११ ॥
(भृगुतुङ्गंपर्वतशृङ्गविशेषःति।)
(१ तातङ।च)
(२ पुत्रं, तुङ्गेङ) ॥ १।६१।११ ॥
॥ १।६१।१२,१३ ॥ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ॥ १२ ॥
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ।
पशोरर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव ॥ १३ ॥
पशोरर्थेप्रयोजनाय सुतं विकीणीषे यदि, तदा कृतकृत्यो ऽस्मि । भार्गवेति गोत्रनाम ॥ १३ ॥
(तमिदं वच उवाचेति पूर्वेणान्वयः ।) ॥ १।६१।१३ ॥
॥ १।६१।१४ ॥ सर्वे परिसृता देशा १याज्ञीयं न लभे पशुम् ।
दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ १४ ॥
याज्ञीयंयज्ञाय हितं । ऽतस्मै हितम्ऽ इति २छः, वृद्धिरार्षि । इतः–सार्वविभक्तिकस्तसिः, एतेष्वित्यर्थः ॥ १४ ॥
(१ यज्ञिंयंङ।ज) ॥ १।६१।१४ ॥
॥ १।६१।१५,१६,१७ ॥ एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कछञ्चन ॥ १५ ॥
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ १६ ॥
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ।
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप
तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ १७ ॥
शुनक इति कनिष्ठपुत्रनाम ॥ १७ ॥
(कनीयसमित्यार्षंएवमुत्तरत्रापि ॥ ) ॥ १।६१।१७ ॥
॥ १।६१।१८ ॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातृणां च कनीयांसस्तस्माद्रक्ष्ये कनीयसं ॥ १८ ॥
तस्मात् रक्ष्य इति । स्वसमीपवर्तिनमेवेति शेषः ॥ १।६।१८ ॥
॥ १।६१।१९ ॥ उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
शुनश्शोफः खयं राम मध्यमो वाक्यमब्रवीत् ॥ १९ ॥
रामेति सम्बुद्धिः । मध्यमःमध्यमपुत्रः ॥ १।६१।१९ ॥
॥ १।६१।२० ॥ पितो ज्येष्ठमविक्रेयं, माता चाह कनीयसम् ।
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयख माम् ॥ २० ॥
विक्रीतं मध्यमं पुत्रं मन्ये । अर्थादिति शेषः । यदेवमतः हे राजन् मा नयस्व । ननु ऽदानं क्रयधर्मश्च अपत्यस्य न विद्यतेऽ इति धर्मशास्त्रे स्थितं कथमृषिणा अपत्यविक्रयः ? उच्यतेयथा कुलावसादे धर्माय अपत्यदानं प्रसिद्धं, एव यज्ञाय अपत्यविक्रयो नातिविगर्हितः ॥ १।६१।२० ॥
॥ १।६१।२१,२२,२३ ॥ अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः ।
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥ २१ ॥
गवां शतसहस्रेण शुनश्शोफं नरेश्वरः ।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥ २२ ॥
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
शुनश्शेफं महातेजाः जगामाशु महायशाः ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकषष्टितमः सर्गः
–
गिरि (२३) मानः सर्गः ॥ १।६१।२३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकषष्टितमः सर्गः