०६० त्रिशङ्कुस्वर्गप्राप्तिः

अथ षष्टितमः सर्गः

[त्रिशङ्कोः स्वर्गारोहणम्]

॥ १।६०।१ ॥ तपोबलहतान् १कृत्वा वासिष्ठान् समहोदयान् ।

ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत ॥ १ ॥

अथानपेतक्षत्रधर्मत्वादुग्रतपस्त्वाभिमानादन्याय्ययाजनप्रवृत्तिःतपोबलेत्यादि ॥ १ ॥

(१ ज्ञात्वाङ।ज) ॥ १।६०।१ ॥

॥ १।६०।२ ॥ अयमिक्ष्वाकुदायादः त्रिशङ्कुरिति विश्रुतः ।

धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥ २ ॥

इक्ष्वाकुदायादः । दायमत्तीति दायादः । पचाद्यच् । पुत्रपौत्रादीक्ष्वाकुवंश्य इति यावत् । एवमादगुणवर्णनं याज्यत्वप्रकाशनाय । वसिष्ठवासिष्ठतिरस्कृतस्य रक्षणे मद्व्यतिरिक्तस्समर्थो नास्तीति निश्चित्य मामेवानेन शरीरेण देवलोकजिगीषया शरणं गत इत्यर्थः ॥ १।६०।२ ॥

॥ १।६०।३ ॥ २तेनानेन शरीरेण देवलोकजिगीषया ।

यथा ऽयं स्वशरीरेण ३ स्वर्गलोकं गमिष्यति ॥ ३ ॥

यदेवमतः–यथेत्यादि ॥ ३ ॥

(२ स्वेनानेनङ।ज।)

(३ देवलोकंङ।) ॥ १।६०।३ ॥

॥ १।६०।४ ॥ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ।

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥ ४ ॥

समेत्योचुरिति । अन्योन्यमिति शेषः ॥ १।६०।४ ॥

॥ १।६०।५ ॥ ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।

अयं कुशिकदायादो मुनिः परमकोपनः ॥ ५ ॥

किमूचुरित्यतःयदित्यादि ॥ १।६०।५ ॥

॥ १।६०।६ ॥ यदाह वचनं सम्यगेतत्कार्यं न संशयः ।

अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥ ६ ॥

तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।

गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ ७ ॥

यस्मादनपेतक्षत्रत्वेन अजितकामक्रोधत्वेन शापं दास्यति तस्मादित्यर्थः यदवमनुष्ठेयांशो निश्चितस्ततः यज्ञः प्रवर्त्यताम् । प्रवर्तिते च यज्ञे सर्वे स्वस्वार्त्विज्यादिकृत्यं समधितिष्ठतपरिगृह्य प्रवर्तयध्वमित्यर्थः ॥ १।६०।७ ॥

॥ १।६०।८ ॥ ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ।

एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा ॥ ८ ॥

तास्ताः क्रिया इति । स्वस्वार्त्विज्यकर्माणीत्यर्थः । याजकः प्रधानार्त्विज्यकर्ता–अध्वयुरिति यावत् । अत एवाग्रे उच्यते–ऽस्रुवमुद्यम्यऽ इति ॥ १।६०।८ ॥

॥ १।६०।९ ॥ याजकश्च महातेजा विश्वामित्रो ऽभवत् क्रतौ ।

ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥ ९ ॥

यथाकल्पंकल्पसूत्रमनतिक्रम्य । यथाविधियथासम्प्रदायानुष्ठानमनतिक्रम्य । कल्पसूत्रे नानात्वपक्षोपन्यासस्थले अनुष्ठेयांशे सम्प्रदाय एव शरणम् ॥ १।६०।९ ॥

॥ १।६०।१० ॥ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ।

ततः कालेन महता विश्वामित्रो महातपाः ॥ १० ॥

चकारावाहनं तत्र भागार्थं सर्वदेवताः ।

नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ ११ ॥

महता कालेनेति । द्विस्त्रिर्मन्त्रावृत्या ऽधिककालेनाधिककालसाध्ययत्नेन च आवाहनं चकार, अथापि नाभ्यागमन् देवताः, अनधिकारिणा अन्याय्येन च कृतं अकृतमेवेति शास्त्रात् ॥ ११ ॥

(सर्वदेवताः प्रतीति शेषःगो। भागार्थं सर्वदेवताः आवाहनं चकारसर्वदेवता इति षष्ठ्येकवचनम् । आगमशास्त्रस्य अनित्यत्वात् याडभावःशि) ॥ १।६०।११ ॥

॥ १।६०।१२ ॥ ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।

स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ १२ ॥

क्रोधविकारजं स्रुवोद्यमनं अन्यत् किञ्चित् ॥ १।६०।१२ ॥

॥ १।६०।१३ ॥ पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर

एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥ १३ ॥

तपसो वीर्यं पश्येति । यज्ञरूपं त्वन्मनीषितसाधनमास्तामिति शेषः ॥ १।६०।१३ ॥

॥ १।६०।१४ ॥ दुष्प्रापं स्वशरीरेम दिवं गच्छ नराधिप

स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥ १४ ॥

तस्य सशरीरस्वर्गाय निजतपोव्ययःस्वार्जितं किञ्चिदित्यादि । तपसः फलं अस्ति यदि तदा हे राजन् त्वं तस्य तेजसावैभवेनेति योजनार्थः ॥ १४ ॥

(मया स्वार्जितमित्यन्वयः । स्वस्मै आर्जितंशि। सुष्ठु आर्जितंगो।) ॥ १।६०।१४ ॥

॥ १।६०।१५ ॥ राजन् त्वं तेजसा तस्य सशरीरो दिवं व्रज ।

अक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥ १५ ॥

पश्यतामिति भावलक्षणे षष्ठी–पस्यत्स्विति यावत् ॥ १।६०।१५ ॥

॥ १।६०।१६ ॥ दिवं जगाम काकुत्स्थ मुनीनां पस्यतां तदा ।

देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥ १६ ॥

सह सर्वैस्सुरगणैः इदं वचनमब्रवीत् ।

त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥ १७ ॥

स्वर्गे निजपुण्यकर्मणा कृतः आलयो यस्य स तथा । स्वर्गावासानर्ह एवासीत्यर्थः । कुत इत्यतःगुरुशापेत्यादि ॥ १७ ॥

(भूयः गच्छत्यन्वयः ।) ॥ १।६०।१७ ॥

॥ १।६०।१८ ॥ गुरुशापहतो मूढ पत भूमिमवाक्छिराः ।

एवमुक्तो महेन्द्रेण त्रिशङ्कुरपत१त्पुनः ॥ १८ ॥

विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ।

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ १९ ॥

आहारथत्अकरोदिति यावत् ॥ १९ ॥

(१ द्भुविङ।) ॥ १।६०।१९ ॥

॥ १।६०।२० ॥ रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।

ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥ २० ॥

सृजन्–हेतौ शतृप्रत्ययः, सृष्टिं कुर्वन्, तद्धेतोः दक्षिणमार्गस्थान् अपरान् सप्तर्षीन् असृजत् । यथोत्तरतो ध्रुव अचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु । तं परितो यथा सप्तर्षिमण्डलं तद्वदत्रापि भवत्वित्याशयः । तथा ऽग्रे ऽपि द्रष्टव्यम् ॥ १।६०।२० ॥

॥ १।६०।२१ ॥ सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।

नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ॥ २१ ॥

नक्षत्रमालासप्तर्विंशतिनक्षत्रमाला । दक्षिणामास्थायेति । विराजो ब्रह्मणश्शिरोभाग उत्तरा दिक् । तत्र च सप्तसर्गाधिष्ठानो मेरुः । तदुपरि ध्रुवः । येन चण्डालः स्वर्गार्हो भगवदनुमन्यमानः, तेन दक्षिणदिशि सप्तर्ष्याद्याभासः तद्वद्वस्त्वन्तरकल्पनञ्च ॥ १।६०।२१ ॥

॥ १।६०।२२ ॥ दक्षिणां दिशमास्थाय मुनिमध्ये २महायशाः ।

१सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥ २२ ॥

अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।

दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २३ ॥

नक्षत्रवंशःक्षुद्रनक्षत्रगणः । अन्यमिन्द्रं । मया सृज्यमानस्वर्गो२ ऽनिन्द्रो ऽनिन्द्रो ऽस्तु । तत्र त्रिशङ्कुरेवेन्द्रो भवतु किमन्तर्गडुना ऽन्येनेत्याशयः । एवमुन्द्रस्थाने त्रिशंकुमेव प्रतिष्ठाप्य तस्यापीन्द्रवत् परिवारदैवतान्यपि स्रष्टुमुपचक्रमे ॥ २३ ॥

(२ महातपाःङ)

(१ कृत्वाङ।)

(अन्यमिन्द्रं अहं कारष्यामि–रचयिष्यामि वा, सति प्रबलप्रतिबन्धे लोकः–मद्रचितः स्वर्गः अनिन्द्रक–इन्द्ररहित एव स्यात्शि।

अन्यमिन्द्रं करिष्यामि–विद्यमानलोकस्यान्यमिन्द्रं करिष्यामि अनिन्द्रको लोको वा स्यात्–इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अत एवाहुराचार्याः–ऽअन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववायेऽ इति । अस्मिन्नर्थे इन्द्रं नाशयिष्यामीत्यर्थः, सो ऽनुचितः । सृष्ट्यन्तरोपक्रमविरोधात् । ऽदैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमेऽ इत्यनन्तरविरोधाच्चगो। तिलके गोविन्दराजीये च कतकरीत्यैव श्लोको ऽयं व्याख्यातः । एतदर्धान्ते इतिकरणं द्रष्टव्यम् ॥

इदमत्र बोध्यम्–कुपितस्य विश्वामित्रस्य स्वेष्टविरोधिविद्यमानेन्द्रनाशप्रतिज्ञैव युज्यते । न च तावता सृष्ट्यन्तरोपक्रमविरोधः । शिरोमणिरीत्या व्याख्याने विरोधाभावात् । अतः एव व्याख्याने ऽपि नाचार्योक्तिविरोधः । वस्तुतस्तु विद्यमानेन्द्रनाशनं न विश्वामित्राभिमतम्, ऽप्रजापतिरिवापरः सृजन् दक्षिणभार्गस्थान्ऽ इति वचनेन प्रतिस्पर्धिस्वर्गान्तरसृष्ट्युपक्रमकथनात् । अतः स्वसृज्यमानं भुवनं अन्येन्द्रकंस्वेष्टानुसारीन्द्रविशिष्टं, अथवा किं अतिरिक्तेन्द्रसर्गेण ? तत्र त्रिशङ्कुरेवेन्द्रस्थानापन्नो भवत्वित्यर्थं एव स्वरसः । आचार्यसूक्तावपिऽ अन्यद्भुवनं–अन्येन्द्रकं अनिन्द्रकं वा कर्तुम्ऽ इत्यन्वयः । अतो न कश्चन विरोध इति ॥

(२ निरिन्द्रःग) ॥ १।६०।२३ ॥

॥ १।६०।२४ ॥ ततः परमसम्भ्रान्ताः सर्षिसङ्घाः ३ सुरासुराः ।

सकिन्नरमहायक्षाः सहसिद्धाः सचारणाः ॥ २४ ॥

परमसंभ्रान्ता इति । ज्येष्ठायाः कनिष्ठायामितिवन्मनोदुःखहेतुत्वेन स्वप्रतिसर्गाभासप्रसङ्गे पर्याकुलचित्ता इत्यर्थः ॥ २४ ॥

(ज्येष्ठपत्न्याः कनिष्ठपत्न्यामिवेत्यर्थः।) ॥ १।६०।२४ ॥

॥ १।६०।२५ ॥ विश्वामित्रं महात्मानमूचुः सानुनयं वचः ।

अयं राजा महाभाग गुरुशापपरिक्षतः ॥ २५ ॥

सानुनयमित्यनुनयस्यैव प्रकारः–अयं राजेत्यादि । गुरुशापहतश्चण्डालभूतो ऽयं पुण्यैककृत्रैवर्णिकैकलभ्यानाद्यनन्तब्रह्मसृष्टस्वर्गं नार्हति । कर्मणो ऽवश्यनाश्यत्वात् दुराग्रहं मा कुरु । अतो ऽयं दक्षिणामेव दिशमास्थाय अवाक्छिराः–अस्माभिस्सर्वैरेव कृतमवाक्छिरस्त्वममुञ्चन्नेव तिष्ठत्विति न्यायानुनयोपेतमूचुः ॥ १।६०।२५ ॥

॥ १।६०।२६ ॥ सशरीरो दिवं यातुं नार्हत्येव तपोधन

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः ॥ २६ ॥

एवं तेषां तद्वचनं श्रुत्वा सुमहत्–१स्वकमहापुरुषार्थप्रयोजनकं वाक्यं अब्रवीत् ॥ २६ ॥

(दिवंब्रह्मसृष्ट, त्वत्सृष्टं वा स्वर्गम्ति।)

(१स्वमहाग) ॥ १।६०।२६ ॥

॥ १।६०।२७ ॥ अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ।

सशरीरस्य, भद्रं वः, त्रिशङ्कोरस्य भूपतेः ॥ २७ ॥

किमब्रवीदित्यतः–सशरीरस्येत्यादि । ऽभद्रं वःऽ इत्यनेनानुनयः क्रियते ॥ १।६०।२७ ॥

॥ १।६०।२८ ॥ आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ।

स्वर्गो ऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ॥ २८ ॥

स्वर्गो ऽस्त्विति । एवमदृश्यान्यथनावाक्शिरो ऽवस्थानस्यैवात्रैव दक्षिणस्यां दिशि स्वर्गो ऽस्तु–सुखानुभवो ऽस्तु । ऽयन्न दुःखेन सम्भिन्नम्ऽ इत्यादिना सुखविशेष एव स्वर्गशब्दार्थः उपचारात्तत्साधनलोकादिश्च ॥ १।६०।२८ ॥

॥ १।६०।२९ ॥ नक्षत्राणि च सर्वामि मामकानि ध्रुवाण्यथ ।

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ॥ २९ ॥

यावल्लोका धरिष्यन्तीति । भूरादिलोका यथास्थानं सनातनध्रुवादिज्योतिश्चक्रं यावद्भारयन्ति तावदेतान्यपि नक्षत्राणि भगवद्विग्रहे धृतानि सन्ति मत्कृतानि तिष्ठन्त्विति तदेतन्मे प्रार्थनं अनुज्ञातुमर्हथ ॥ १।६०।२९ ॥

॥ १।६०।३० ॥ मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ।

एवमुक्ताः सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ ३० ॥

अथ तत्प्रार्थनानुमतिः–एवमुक्ता इत्यादि ॥ १।६०।३० ॥

॥ १।६०।३१,३२ ॥ एवं भवतु, भद्रं ते, तिषठन्त्वेतानि सर्वशः ।

गगने १ तान्यनेकानि वैश्वानरपथाद्वहिः ॥ ३१ ॥

नक्षत्राणि, मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ।

अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ॥ ३२ ॥

सर्वशःसर्वाणि अनेकानि तानि नक्षत्राणि वैश्वानरपथात्वैश्वानरज्येतिःप्रसिद्धा ऽनादिज्येतिश्चक्रमार्गात् बहिःतदुचितप्रदेशे तिष्ठन्तु । तेषु त्वदीयेषु ज्येतिष्षु जाज्वलन्भृशं ज्वलन अवाक्छिरा एव अमरसन्निभः–२अमरतुल्यः तिष्ठतु ॥ ३२ ॥

(१ तानि सर्वाणिङ।)

(२ अमरकृत्यःक।) ॥ १।६०।३२ ॥

॥ १।६०।३३ ॥ अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ।

कृतार्थं कीर्तिमन्तं च १स्वर्गलोकगतं २यथा ॥ ३३ ॥

एतानि त्वदीयानि यथा तथा अनुयास्यन्तीति योजना ॥ ३३ ॥

(१ ब्रह्मलोकङ)

(२ तथाङ।च) ॥ १।६०।३३ ॥

॥ १।६०।३४ ॥ विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।

३ ऋषिभिस्च महातेजा वाढमित्याह देवताः ॥ ३४ ॥

बाढमित्याहेति । देवतानां वाक्यानुवर्तनमेवास्माकं हिते, न दुराग्रहो ऽनर्थहेतुरिति ज्ञात्वा देवतानां वचनं अन्ववर्ततेत्यर्थः ॥ ३४ ॥

(३ ऋषिमध्येङ)

( देवता इति द्वितीयाबहुवचनान्तम् ।) ॥ १।६०।३४ ॥

॥ १।६०।३५ ॥ ततो देवा महात्मानो मुनयश्च तपोधनाः ।

जग्मुर्यथा ऽ ऽगतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ ३५ ॥

(यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमानप्रतिनिधिं कृत्वा यज्ञः समापितः, देवैः भागश्च गृहीत इति गम्यतेगो। यज्ञस्यविश्वामित्रसमापितयज्ञस्य अन्ते जग्मुःशि।)

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्टितमः सर्गः

– ॥ १।६०।३५ ॥