अथ एकोनषष्टितमः सर्गः
[वासिष्ठादीनां शपावाप्तिः]
॥ १।५९।१ ॥ उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।
अब्रवीन्मधुरं वाक्यं २साक्षाच्चण्डालरूपिणम् ॥ १ ॥
अथ वसिष्ठवैरवशादन्योन्यनिजतपोनाशकरी प्रवृत्तिः–उक्तेत्यादि ॥ १ ॥
(जातिचण्डालस्य कदाचित् तद्भावनिवृत्तिरस्ति, न तु कर्मचण्डालस्येत्याह–उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं, चण्डालचिह्नधारित्वात् न शास्त्रगम्यचण्डालभाव इत्यर्थःगो। ऽसाक्षादब्रवीदित्यनेनऽ चण्डालः साक्षादभिभाषणानर्ह इति निषेधस्य अनर्हः स इति ध्वनितम् । तेन कर्मणा जात्या च स न चण्डाल इति व्यञ्जितम् । अत एव चाण्डालरूपिणमिति विशेषणम्शि।)
(२ शापाच्चण्डालरूपिणम्ङ)
( वासिष्ठ इति स्यात् ।) ॥ १।५९।१ ॥
॥ १।५९।२ ॥ ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।
शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ २ ॥
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः ।
यज्ञसाह्यकरान् राजन् ततो यक्ष्यसि निर्वृतः ॥ ३ ॥
यज्ञसाह्यंयज्ञसहायम् ॥ १।५९।३ ॥
॥ १।५९।४ ॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥
अनेनैव चण्डालरूपेण सशरीरो गमिष्यसीत्यर्थः ॥ ४ ॥
(ऋषिशापकृतरूपस्य ब्रह्मणाप्यवार्यत्वेन जातिचण्डालता ऽभावेन मत्तपोमहिमोप?तयज्ञेन सशरीरः स्वर्गं गमिष्यसीत्यर्यःगो। । जातिचण्डालत्वाभावाच्च यज्ञप्रवृत्तिःति।) ॥ १।५९।४ ॥
॥ १।५९।५ ॥ हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ ५ ॥
हस्तप्राप्तत्वे हेतुः–यस्त्वमित्यादि ॥ १।५९।५ ॥
॥ १।५९।६,७ ॥ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् ।
व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् ॥ ६ ॥
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह ।
१ सर्वानृषिगणान् वत्स आनयध्वं ममाज्ञया ।
सशिष्यान् सुहृदश्चैव सर्त्विजः २ सुबहुश्रुतान् ॥ ७ ॥
पुत्रान् यज्ञसम्भाराय व्यादिदेश । शिष्यान् ऋष्यानयने व्यादिदेश ॥ ६ ॥
(१ सर्वान् ऋषीन् सवासिष्ठान्ङ।ज)
(२ सबहुङ।ज) ॥ १।५९।६ ॥
॥ १।५९।८ ॥ १यदन्यो वचनं ब्रूयात् मद्वाक्यबलचोदितः ।
तत्सर्वमखिलेनोक्तं ममाख्येय २मनादृतम् ॥ ८ ॥
मद्वाक्यबलचोदितःआहूतो यः कश्चन अन्यः अनादृतं–उपेक्षारूपंचण्डालं याजयतीति निन्दारूपं यद्वाक्यं ब्रूयात्, तत्सर्वमखिलेन ममाख्येयम् ॥ ८ ॥
(१यद्यन्योङ)
(२ मनावृतम्ङ) ॥ १।५९।८ ॥
॥ १।५९।९ ॥ तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ ९ ॥
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।
३ ऊचुस्त्वागमनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ १० ॥
सर्वेषां ब्रह्मवादिनामिति । आगमनं ऊचुरिति योजना ॥ १० ॥
(३ ऊचुश्च वचनंङ।च।ज।) ॥ १।५९।१० ॥
॥ १।५९।११ ॥ श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ।
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ ११ ॥
यदनादृतमुक्तं तच्च वक्तव्यमित्युक्तत्वात् तदपि वदन्तिश्रुत्वा त इत्यादि । तेतव । सर्वदेशेष्वति । स्थिता इति शेषः । महोदयमिति । तदाख्यं ऋषिमित्यर्थः ॥ १।५९।११ ॥
॥ १।५९।१२ ॥ वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ।
यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव ॥ १२ ॥
वासिष्ठशतञ्च वर्जयित्वेति योजना । तद्वासिष्ठं शतं क्रोधपर्याकुलाक्षरं यदाह तच्छृण्विति योजना ॥ १।५९।१२ ॥
॥ १।५९।१३ ॥ क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ १३ ॥
ब्राह्मणा वा महात्मानो १भुक्त्वा चाण्डालभोजनम् ।
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥ १४ ॥
पालिता इति व्यङ्ग्योक्तिः ॥ १४ ॥
(१ भक्त्वा चाण्डालङ।) ॥ १।५९।१४ ॥
॥ १।५९।१५ ॥ एतद्वचननैष्ठुर्यमूचुः संरक्तलोचनः ।
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ॥ १५ ॥
महोदयसहिताः समहोदयाः ॥ १।५९।१५ ॥
॥ १।५९।१६,१७ ॥ तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः ।
क्रोधसंरक्तनयनः २सरोषमिदमब्रवीत् ॥ १६ ॥
३य दषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १७ ॥
अदुष्टं मामित्यत्र हेतुः–तप उग्रं समास्थितमिति । ऽतेषां तेजोविशेषेण प्रत्यवायो न विद्यतेऽ इति न्यायेन चण्डालायजनमपि मम जीर्यतीत्यविज्ञाय दूषयन्ति यतः तस्मात् भस्मीभूता इत्यादि ॥ १७ ॥
(२ इदं वचनमङ)
(३ यद्दूषङ) ॥ १।५९।१७ ॥
॥ १।५९।१८ ॥ अद्य ते कालपाशेन नीता वैवस्वतश्रयम् ।
सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः ॥ १८ ॥
सप्तजातिशतानीति । सप्तशतजन्मानीत्यर्थः । मृतपाः–शवभक्षकाः ॥ १८ ॥
(क्षयंगृह्यम् ।)
( मृतपाः श्वपाकाःशि । मुष्टिकाःहीनजातिविशेषाःगो । मृतपाःशववस्त्रादिहारिणः मुष्टिकाःतन्नामानः, ति।) ॥ १।५९।१८ ॥
॥ १।५९।१९ ॥ श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ १९ ॥
मुष्टिका नाम । मुष्टिकाख्यगणरूपाः । विकृताः–विकृतवचनगमनादिमन्तः । विरूपाःविकटवेषाः ॥ १।५९।१९ ॥
॥ १।५९।२० ॥ महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ।
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥ २० ॥
मामदूष्यं हीति प्राग्वदभिमानात् ॥ १।५९।२० ॥
॥ १।५९।२१ ॥ प्राणातिपातनिरतो निरनुक्रोशतां गतः ।
दीर्घकालं मम क्रोधात् दुर्गतिं वर्तयिष्यति ॥ २१ ॥
प्राणातिपातःप्राणनाशनम् । ननूग्रतपस्वित्वे ऽपि ब्रह्मणा इदानीमपि राजर्षित्वानुग्रहतः क्षत्रियत्वानपायात् क्षत्रियचण्डालयाजनस्य सर्वलोकविगर्हितस्य सर्वथैवान्याय्यत्वात् ऽप्रत्यगेनमभिचारस्तृणुतेऽ इति न्यायेनान्याय्यकारिणो ऽस्यैव
तच्छापकृत्यया नाशने न्याय्ये कथं वासिष्ठेषु यथावादिषु शापकृत्यप्रवृत्तिः ? उच्यते–अस्य वसिष्ठवैरनिर्यातनकामनोपेततपस्वित्वात् भगवता ऽपि तत्फलस्यैव प्रदातव्यत्वाद्वासिष्ठानां च तन्निमित्ततः किञ्चित्प्रारब्धस्य च भोक्तव्यत्वात् तच्छापत एव तत्तपोविनाशस्य चावश्यं भाव्यत्वात् भगवदुपासनायाश्च अमोघपलत्वात् भगवदाज्ञयैव वासिष्ठेषु शापप्रवृत्तिः । एतेन वक्ष्यमाणसृष्टिसामर्थ्यं च भगवदाज्ञयैवेति व्याकृतम् । अत एव देवैरेव तत्सर्गो निवार्यते । भगवतस्त द्ब्रह्मविद्याघोरांशमूलक्षुद्रसर्गस्य चेष्टत्वात् ऽअस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्ऽ इति न्यायेन भगवदनुमतैव तत्सृष्टिः ॥ १।५९।२१ ॥
॥ १।५९।२२ ॥ एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।
विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनषष्टितमः सर्गः
–
गर (२३) मानः सर्गः ॥ २२ ॥
(अस्मिन् सर्गे षष्ठश्लोकानन्तरगताधिकार्धेन साकं गतसर्गगतमधिकमर्धमत्र परिगणितं स्यात् ॥ ) ॥ १।५९।२२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनषष्टितमः सर्गः