अथ अष्टपञ्चाशः सर्गः
[त्रिशङ्कोश्चण्डालत्वप्राप्तिः]
॥ १।५८।१ ॥ ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ १ ॥
एवमनुचिताचारतो ऽनर्थाप्तिप्रतिपादनम्ततस्त्रिशङ्कोरित्यादि ॥ १।५८।१ ॥
॥ १।५८।२ ॥ प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना ।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ २ ॥
तं कथमिति । स्वकुलगुरुमित्यर्थः । शाखान्तरंयाजकादिना रक्षकान्तरम् ॥ १।५८।२ ॥
॥ १।५८।३ ॥ इक्ष्वाकूणां हि सर्वेषां परोधाः परमो गुरुः ।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ ३ ॥
न चातिक्रमितुं शक्यमिति । इक्ष्वाकुभिरिति शेषः ॥ १।५८।३ ॥
॥ १।५८।४ ॥ अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ ४ ॥
तं वयमिति । यमशक्यमित्युवाच, तं यज्ञमित्यर्थः ॥ १।५८।४ ॥
॥ १।५८।५ ॥ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवान् शक्तः त्रैलोक्यस्यापि पार्थिव ॥ ५ ॥
बालिशः । अज्ञ इत्यर्थः । त्रैलोक्यस्यापीति । सिद्ध्यर्थे याजन इति योजना ॥ ५ ॥
(त्रैलोक्यस्यापि याजने शक्तः।शि।) ॥ १।५८।५ ॥
॥ १।५८।६ ॥ अवमानं १च तत्कर्तुं तस्य शक्ष्यामहे २कथम् ।
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ ६ ॥
अवमानमिति । तदसाध्यार्थसाधनरूपमित्यर्थः ॥
एतानिति । वासिष्ठानित्यर्थः ॥ ६ ॥
(१कथंकर्तुंङ।)
(२वयम्ङ।) ॥ १।५८।६ ॥
॥ १।५८।८ ॥ स राजा पुनरेवैतान् इदं वचनमब्रवीत् ।
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रै३स्तथैव च ॥ ८ ॥
अन्यां गतिं गमिष्यामि, स्वस्ति वो ऽस्तु तपोधनाः ।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ ८ ॥
अन्यां गतमिति । याजकान्तरमित्यर्थः ॥ ८ ॥
(२ वयम्ङ)
(३ विशेषतःङ) ॥ १।५८।८ ॥
॥ १।५८।९ ॥ शेपुः परमसंक्रुद्धाः चण्डालत्वं गमिष्यसि ।
१एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ ९ ॥
घोराभिसंहितमिति । साक्षात्कुलगुरुं ब्रह्मपुत्रं वसिष्ठं व्यतिक्रम्य पुरोधान्तराश्रयणाभिसन्धानस्य इच्छायाः कुलनाशहेतुत्वेनातिघोरत्वम् । गमिष्यसीति शेपुरिति योजना ॥ ९ ॥
(१एतदनन्तरम्–तच्छ्रुत्वा घोरसंकाशं ऋषिपुत्रैश्च भाषितम् । प्राविशत् स्वपुरं राजा चिन्तयामास दुःखितःइत्यधिकम्ङ।) ॥ १।५८।९ ॥
॥ १।५८।१०,११ ॥ अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ॥ १० ॥
चित्यमाल्यानुलेपश्च आयसाभरणो ऽभवत् ।
तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ।
प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः ॥ ११ ॥
चित्येति । चिताश्मशानं तत्र भवं माल्यं, अनुलेपःचिताभस्म यस्य स तथा । अयोविकारःआयसम् ॥ ११ ॥
(अत्र चण्डालत्वं न तत्सादृश्यमात्रं, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः । ब्राह्मणत्वादिजातेः कर्ममूलत्वेन तदपाये तदपायात्गो ।
परन्तु अनन्तरसर्गे प्रथमचतुर्थश्लोकव्याख्यानावसरे गोविन्दराजैरेव त्रिशङ्कुयाजनोपपादनाय त्रिशङ्कोः जातिचण्डालत्वभाव उक्त । चण्डालत्वजातिरेव द्विविधा कर्ममूला, वंशमूला चेति इत्युक्तिरपि शब्दभेदमात्रे पर्यवस्येत् । षष्टिमसर्गान्तगतं एतव्द्याख्यानं च द्रष्टव्यम् ।
चण्डालतां–चाण्डालरूपम्शि।) ॥ १।५८।११ ॥
॥ १।५८।१२ ॥ एको हि राजा काकुत्स्थ जगाम परमात्मवान् ।
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ १२ ॥
एको हीति । हि यस्मात् मन्त्रिपौरपरित्यक्तः तस्मादेकाकी अटन् दिवारात्रं दुःखेन दह्यमानो ऽपि परमात्मवान्परमधृतिमान् भूत्वा वसिष्ठवैरिणं विश्वामित्रं जगाम ॥ १।५८।१२ ॥
॥ १।५८।१३ ॥ विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ १३ ॥
विफलीकृतंवासिष्ठैर्विनाशितैहिकामुष्मिकार्थतया सम्पादितं ॥ १।५८।१३ ॥
॥ १।५८।१४,१५ ॥ कारुण्यात्स महातेजा वाक्यं परमधार्मिकः ।
इदं जगाद, भद्रं ते, राजानं घोररूपिणम् ॥ १४ ॥
किमागमनकार्यं ते राजपुत्र महाबल
अयोध्याधिपते वीर शापाच्चण्डालतां गतः ॥ १५ ॥
यस्त्वं शापाच्चण्डालतां गतः, तस्य ते इह आगमनकार्यं किमिति योजना ॥ १५ ॥
(चण्डालतां गतः केन हेतुनेति शेषःगो। एतेन त्रिशङ्कुशापः पूर्वमेव विश्वामित्रेण श्रुत इति ध्वनितम्शि।) ॥ १।५८।१५ ॥
॥ १।५८।१६ ॥ अथ तद्वाक्य१माज्ञात्वा राजा चण्डालतां गतः ।
अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १६ ॥
आज्ञात्वेति । श्रुत्वेति यावत् ॥ १६ ॥
(चण्डालतां गतो राजा तद्वाक्यमाज्ञाय अब्रवीदिति योजना) ॥ १।५८।१६ ॥
॥ १।५८।१७ ॥ प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
अनवाप्यैव २तं कामं मया प्राप्तो विपर्ययः ॥ १७ ॥
तं काममिति । यं काममुद्दिश्य गुर्वादीनुपसन्नो ऽस्मि, तमप्राप्य । न तावता समाप्तम्, अपि तु विपर्ययः–विपरीतप्रयोजनं चैवंवेषरूपं प्राप्तमित्यर्थः ॥ १७ ॥
(२ तत्कर्मङ) ॥ १।५८।१७ ॥
॥ १।५८।१८ ॥ सशरीरो दिवं यायामिति मे ३सौम्य दर्शनम् ।
मया चेष्टं क्रतुशतं, तच्च नावाप्यते फलम् ॥ १८ ॥
कस्ते कामस्तादृश इत्यतः–सशरीर इत्यादि । दर्शनंबुद्धिः । तच्चेति । तथापि तत्फलंसशरीरस्वर्गप्राप्तिरूपमित्यर्थः ॥ १८ ॥
( हे सौम्यदर्शन सशरीरो ऽहं दिवं यायामिति हेतोः क्रतुशतं मे इष्टंमदिच्छाविषयीभूतं तत्क्रतुशतं मया नावाप्यतेअत एव फलंसशरीरस्वर्गगमनं च नावाप्यतेशि।)
(३ सौम्यदर्शनङ।ज) ॥ १।५८।१८ ॥
॥ १।५८।१९ ॥ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
कृच्छ्रेष्वपि गतः, सौम्य क्षत्रधर्मेण ते शपे ॥ १९ ॥
क्षत्रधर्मेणेति । तत्साक्षितयेत्यर्थः ॥ १९ ॥
(क्रतुशतं न कृतं त्वयेति चेत्–तत्राह–अनृतमिति । ति। गुरोः गुरुपुत्राणां वा अपराधान्तरं मया न कृतमिति बोधयितुमाह–अनृतमिति । मेमया ।शि। वसिष्ठप्रत्याख्यानमूलं पापं मयि नास्तीत्याशयेनाह–अनृतमिति । यद्वा–ऽयज्ञो ऽनृतेन क्षरतिऽ इति वचनात् क्रतुनाशकत्वेनावगतं अनृतमपि मयि नास्तीत्याह–मेमयागो।)
(तेतुभ्यम् ।) ॥ १।५८।१९ ॥
॥ १।५८।२० ॥ यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ।
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ २० ॥
शीलोपेतं वृत्तं शीलवृत्तं । शीलंसद्गुणः । वृत्तंआचारः ॥ २० ॥
( पूर्वं सशरीरत्वसाधनक्रतुशतमुक्तम्, अत्र नित्यकर्मेति भिदा । यद्वा, पूर्वं क्रतुशतं इष्टंयष्टुमुपक्रान्तं तच्चतादृशक्रत्वनुष्ठानमनोरथः नावाप्यत इत्यर्थःगो) ॥ १।५८।२० ॥
॥ १।५८।२१ ॥ धर्मे प्रयतमानस्य यज्ञं चाहुर्तुमिच्छतः ।
परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ॥ २१ ॥
न गच्छन्तिन गच्छन्ति स्म ॥ २१ ॥
( प्रयतमानस्येति सप्तम्यर्थे षष्ठी ममेति शेषःगो) ॥ १।५८।२१ ॥
॥ १।५८।२२ ॥ दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ २२ ॥
यदेवमतःदैवमेवेति । प्रारब्धफलादृष्टमित्यर्थः । परंश्रेष्ठं । पुरुषहिताहितप्रापकमित्यर्थः । पौरुषंइदानींतनधर्माद्यनुष्ठानं निरर्थकं–फलोन्मुखप्रारब्दोद्यदर्थानर्थतिरस्कारे दुर्बलमित्यर्थः । दैवेनेत्यादौ दैवशब्द उक्तार्थः । आक्रम्यते–अभिभूयते । हि यस्मादेवं तस्मात् दैवं परमा गतिः । साक्षादितरतिरस्कारेणैहिकसुखदुःखादिप्रद इत्यर्थः ॥ १।५८।२२ ॥
॥ १।५८।२३ ॥ तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ।
कर्तुमर्हसि, भद्रं ते, दैवोपहतकर्मणः ॥ २३ ॥
प्रसादं–दैवानुकूल्यं । दैवेनोपहतफलं इहानुष्ठीयमानं कर्म यस्य स तथा ॥ १।५८।२३ ॥
॥ १।५८।२४ ॥ नान्यां गतिं १ गमिष्यामि नान्यः शरणमस्ति मे ।
दैवं पुरुषकारेम निवर्तयितुमर्हसि ॥ २४ ॥
(१ प्रपश्यामिङ)
इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टपञ्चाशः सर्गः
–
वर (२४) मानः सर्गः ॥ २४ ॥ ॥ १।५८।२४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टपाञ्चाशः सर्गः