अथ सप्तपञ्चाशः सर्गः
[त्रिशङ्कोः स्वर्गजिगमिषा]
॥ १।५७।१।२ ॥ ततः सन्तप्तहृदयः स्मरन्निग्रहमात्मनः ।
विनिश्वस्य विनिश्वस्य, कृतवैरो महात्मना ॥ १ ॥
स दाक्षिणां दिशं गत्वा महिष्या सह राघव
१तताप परमं घोरं विश्वामित्रो महत्तपः ॥ २ ॥
अथ चतुर्व्यूहानामेकैकप्राधान्येन दक्षिणादिदिक्षु विश्वामित्रतपःप्रवृत्तिर्ब्रह्मत्वायोत्तरसर्गैः–तत इत्यादि । महात्मना–वसिष्ठेन कृतवैर इति । इदमेव वक्ष्यमाणतत्तपोनाशबीजम् ॥ २ ॥
(श्लोकद्वयमेकवाक्यम्।)
(१एतदनन्तरं–फलमूलाशनो दान्तः चकार परमं तपः ॥ इत्यधिकंङ) ॥ १।५७।१,२ ॥
॥ १।५७।३,४,५ ॥ अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ।
हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ॥ ३ ॥
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
अब्रवीन्मधुर वाक्यं विश्वामित्रं तपोधनम् ॥ ४ ॥
जिता राजर्षिलाकास्ते तपसा कुशिकात्मज
अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ ५ ॥
पूर्णे वर्षसहस्रे तु ब्रह्मा ऽब्रवीदिति । ब्रह्मर्षित्वाय ब्रह्मविद्यया तदधिदैवतब्रह्मविद्योपासकत्वात् स एव भगवांस्तदुचितफलदानाय सन्निधत्ते । विद्महे इति । ऽविदो लटो वाऽ इति मसो मादेशः ॥ ५ ॥
(आर्षमात्मनेपदम्गो।) ॥ १।५७।५ ॥
॥ १।५७।६ ॥ एवमुक्त्वा महातेजा जगाम सह दैवतैः ।
त्रिविष्टपं, ब्रह्मलोकं लोकानां परमेश्वरः ॥ ६ ॥
लोकानांभूरादीनां तद्वर्तिलोकानां सर्वस्रोतसां च असङ्कोचोपचारेण परमेश्वरःभगवान्ब्रह्मा ब्रह्मलोकं जगाम । देवास्त्रिविष्टपं जग्मुरिति विपरिणामः ॥ ६ ॥
(अत्र ऽत्रिविष्टपं जगामऽ इत्युक्त्थ तत्र इन्द्रं संस्थापयामासेति ध्वनितम् । तेन इन्द्रस्य विश्वामित्रपोभीतत्वं व्यञ्जितम्–शिः) ॥ १।५७।६ ॥
॥ १।५७।७ ॥ विश्वामित्रो ऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः ।
दुःखेन महता ऽ ऽविष्टः समन्युरिदमब्रवीत् ॥ ७ ॥
समन्युरिदमब्रवीदिति । स्वं प्रत्येवेदं वचनम् ॥ ७ ॥
(समन्युःसदैन्यः–ऽमन्युर्दैन्ये क्रतौ क्रुधिऽ इत्यमरःगो।ति।) ॥ १।५७।७ ॥
॥ १।५७।८ ॥ तपश्च सुमहत्तप्तं राजर्षिरीति मां विदुः ।
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् ॥ ८ ॥
सुमहत्तपस्तप्तम् । एवमपि मां राजर्षिरित्येव विदुःअवगच्छन्त इति बत लटि विदेरुस् । इदं तपःफलंअस्मदिष्टं नास्तिन भवतीति मन्ये ॥ ८ ॥
(एतन्मात्रं मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदभिमतत्वादिति भावःगो।) ॥ १।५७।८ ॥
॥ १।५७।९ ॥ १ एवं निश्चित्य मनसा भूय एव महातपाः ।
तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ ९ ॥
परमात्मवान्ब्रह्मविद्यादैवतश्रीमदादिगुरुपरमात्मब्रह्मध्यानवान् परमधृतिमांश्च । “आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि” । । ९ ॥
(१ एतदनन्तरं कोपेन महताविष्टस्त्रैलोक्यं व्यथयन्निवऽ इत्यधिकम्–ङ) ॥ १।५७।९ ॥
॥ १।५७।१०,११ ॥ एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।
त्रिशङ्कुरिति विख्यातः इक्ष्वाकुकुलवर्धनः ॥ १० ॥
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव
गच्छेयं २सशरीरेण देवानां परमां गतिम् ॥ ११ ॥
गच्छेयमिति । यज्ञबलेनेति शेषः । सशरीरेणेति । स्वात्मनेति शेषः ॥ ११ ॥
(२ स्वशरीरेणङ।) ॥ १।५७।११ ॥
॥ १।५७।१२,१३ ॥ स वसिष्ठं समाहूय कथयामास चिन्तितम् ।
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ १२ ॥
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः ॥ १३ ॥
तत्कर्मसिद्ध्यर्थमिति । सशरीरस्वर्गप्रापकयज्ञसिद्ध्यर्थमित्यर्थः ॥ १३ ॥
(अशक्यत्वं च–न ऋषेरसामर्थ्यात्, नापि तादृशकर्मविधानाभावात्, ऽसशरीर एव स्वर्गं लोकमेतिऽ इति श्रुतेः । किन्तु, त्रिशङ्कोस्तादृशस्वर्गप्राप्तिर्नास्तीति पूर्वकाल्पवृत्तज्ञानादिति मन्तव्यम्–गो।)
(तस्यवसिष्ठस्य पुत्रान् नृपःत्रिशङ्कुः गतःप्राप्तः ।) ॥ १।५७।१३ ॥
॥ १।५७।१४ ॥ वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ॥ १४ ॥
यत्र तेपिर इति । गत्वेति शेषः । शतं वासिष्ठानिति । बह्वर्थे शतमित्येकत्वनिपातात् सामानाधिकरण्यम् ॥ १।५७।१४ ॥
॥ १।५७।१५,१६ ॥ वासिष्ठान् संददर्शाथ तप्यमानान् १यशस्विनः ।
सो ऽभिगम्य २महात्मानः सर्वानेव गुरोः सुतान् ॥ १५ ॥
अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः ।
अब्रवीत् ३सुमहात्मानः सर्वानेव कृताञ्जलिः ॥ १६ ॥
ह्रियेति । वसिष्ठप्रत्याख्यानजयेति शेषः । सुमहात्मानस्सर्वानिति । छान्दसो जस् ॥ १६ ॥
(१ मनस्विनःङ)
(२ महातेजाःङ)
(३ सुमहाभागान् सुमहातेजाःङ।) ॥ १।५७।१६ ॥
॥ १।५७।१७ ॥ शरणं वः प्रपद्ये ऽहं शरण्यान् ४शरणागतः ।
प्रत्याख्यातो ऽस्मि, भद्रं वः, वसिष्ठेन महात्मना ॥ १७ ॥
शरणागतःशरणं रक्षितारं रक्षित्रपेक्षया आगतः अहं शरण्यान्रक्षणसमर्थान् वःयुष्मानेव शरणं प्रपद्ये ॥ १७ ॥
(४ शरणं गतःङ।ज) ॥ १।५७।१७ ॥
॥ १।५७।१८,१९ ॥ यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये ॥ १८ ॥
शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ।
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ॥ १९ ॥
ब्राह्मणान्अन्वर्थब्राह्मणान् । अत एवतपसि स्थितान् ॥ १।५७।१८,१९ ॥
॥ १।५७।२०२१ ॥ सशरीरो यथा ऽहं हि देवलोकमवाप्नुयाम् ।
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ॥ २० ॥
गुरुपुत्रानृते सर्वान् नाहं पश्यामि कां चन ।
१ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ॥
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ २१ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तपञ्चाशः सर्गः
–
तस्मात्स्वकुलनृपतारकस्वकुलपुरोधसो वसिष्ठादनन्तरमित्यर्थः । कर(२१)मानः सर्गः ॥ १।५७।२१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तपञ्चाशः सर्गः