अथ षट्पञ्चाशः सर्गः
[विश्वामित्रनिग्रहः]
॥ १।५६।१ ॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
२आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
अथ वरप्राप्तसर्वास्त्रबलस्य च नाशनं–एवमित्यादि । एवमुक्त इति । न भविष्यसीत्युक्त इति यावत् ॥ १ ॥
(२ एतदनन्तरं ऽप्राहिणोत्तद्वसिष्ठाय विश्वामित्रो महाबलःऽ इत्यधिकम्ङ) ॥ १।५६।१ ॥
॥ १।५६।२ ॥ ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥
क्षत्रबन्धो स्थितो ऽस्म्येषः, यद्बलं तद्विदर्शय ।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ ३ ॥
तिष्ठ तिष्ठेति भीषयन्तं विश्वामित्रं प्रति स्वभीप्रसङ्गाभावः प्रकाश्यते–स्थितो ऽस्म्येष इत्यादि । शस्त्रस्य दर्पंशास्त्राप्तिहेतोरुत्पन्नमित्यर्थः ॥ ३ ॥
(ते दर्पं तव शस्त्रस्य च दर्पं नाशयामिगो। यत् ते बलं तत् विदर्शय तव शस्त्रस्य दर्पंगर्वं अद्यैवाहं नाशयामिशि।) ॥ १।५६।३ ॥
॥ १।५६।४,५ ॥ क्क च ते क्षत्रियबलं क्क च ब्रह्मबलं महत् ।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ ४ ॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
ब्रह्मदण्डेन तच्छान्तं अग्नेर्वेग इवाम्भसा ॥ ५ ॥
क्षत्रियपांसन इत्युक्त्वा स्थितस्य वसिष्ठस्य ब्रह्मदण्डेन तस्य गाधिपुत्रस्य आग्नेयमुद्यतं तत् अस्त्रं शान्तमभवत् ॥ ५ ॥
(क्षत्रियपांसनेत्यनन्तरं वसिष्ठो ऽब्रवीदित्यनुकृष्यतेगो।) ॥ १।५६।५ ॥
॥ १।५६।६१३ ॥ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६ ॥
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।
जृम्भणं मादनं चैव संतापनविलापने ॥ ७ ॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥
पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे ।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १०
[धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।]
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥
वसिष्ठे १जपतां श्रेष्ठे, तदद्भुतमिवाभवत् ।
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १३ ॥
एतानि उक्तरूपाणि अस्त्राणि वसिष्ठे चिक्षेप । तानि दण्डेन ग्रसते स्मेति यत् तदिन्द्रजालमहेन्द्रजालाद्यद्भुतमिव सर्वाश्चर्यकरमभवदित्यर्थः ॥ १३ ॥
(जपतां श्रेष्ठे इत्यनेन जपवैभवमिदं ग्रसनमिति द्योतितम् । तत्–अस्त्रक्षेपणं अद्भुतमिवाभवत्, कार्यलेशस्याप्यदर्शनादिति भावःगो।)
(१ जयतां श्रेष्ठेङ।) ॥ १।५६।१३ ॥
॥ १।५६।१४,१५ ॥ तेषु शान्तेषु ब्रह्मास्त्रं त्रिप्तवान् गाधिनन्दनः ।
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥ १४ ॥
देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः ।
त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १५ ॥
ब्रह्मास्त्रे समुदीरिते त्रैलोक्यं सन्त्रस्तमिति । तस्याप्रतिक्रियामोधत्वात्, प्रतिब्रह्मास्त्रस्यैव वसिष्ठेनापि प्रयोगे उभाभ्यां सर्वलोकनाशप्रसङ्ग इति त्रासः ॥ १५ ॥
(अग्निपुरोगमःवायुः, तत्सहिताः अग्निसहितो वायुः पुरोगमः येषां ते इति वाति।) ॥ १।५६।१५ ॥
॥ १।५६।१६ ॥ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
वसिष्ठो ग्रसते सर्वं ब्रह्म दण्डेन राघव ॥ १६ ॥
ब्राह्मेण तेजसेति । ब्रह्मविद्यानुष्ठानवैभवजनिताधिकब्रह्मवर्चसेनेति यावत् । ब्रह्मदण्डेन । मूर्तब्रह्मविद्यामयेन करधृतेन चेत्यर्थः ॥ १६ ॥
(अत्र ग्रासक्रियायां न दण्डस्यान्वयः पुत्रैर्गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधःगो।) ॥ १।५६।१६ ॥
॥ १।५६।१७ ॥ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥ १७ ॥
ग्रसमानस्य–एवमुभयबलेन ब्रह्मास्त्रं ग्रसमानस्येति । अयमर्थःमूलब्रह्मविद्यायास्तत्तदक्षरतत्त्वमात्राक्रियावस्थादिद्वाविंशतिबिभूत्यनुसन्धानपूर्वं बहिर्भाव्यमाना मूलविद्या बहिः करगतो ब्रह्मदण्डो भवति । तथा ध्यानोपेतं स्वात्मनि यथास्थलं न्यस्यमाना स्वमूर्त्यात्मना नित्य आन्तरो ब्रह्मदण्डो भवति । ब्रह्मास्त्रं तूक्तब्रह्मविद्यामार्गबीजंभेदविलासात्मा । तच्च कालप्रधानं रोचिःप्रधानं चेति द्वेधा । तत्र रोचिःप्रधानस्य बहिर्ब्रह्मदण्डे हृदा ग्रस्य क्रमान्मोक्ष इत्युपनिषदुपदिश्यमानमार्गेण ग्रसनं–ग्रासः, परस्यान्तरब्रह्मदण्डे ग्रास इति । एवं ग्रसमानस्य वसिष्ठस्य रूपं ब्रह्मविद्यामूर्तिमयं त्रैलोक्यमोहनं–भयात् त्रिलोकीचित्तमूर्च्छाकरमासीत् । तत्र हेतुःरौद्रमतिदारुणमिति । रौद्रं–भयानकं स्मरणेन च दारुणं–दुर्दशं, नृसिंहवीरभद्राद्यावेशमूर्तिवदित्यर्थः ॥ १।५६।१७ ॥
॥ १।५६।१८ ॥ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतु रग्नेर्धूमाकुलार्चिषः ॥ १८ ॥
तावेव रौद्रदारुणार्थौ उभयोः प्रकाश्येते–रोमेत्यादि । अग्नेरिव मरीच्यः–विस्फुलिङ्गाः निष्पेतुरिति योजनार्थः ॥ १८ ॥
(ऋषेः विश्वामित्रब्रह्मास्त्राकुलत्वात् धूमाकुलार्चिष्ट्वमग्नेर्विशेषणम्ति।) ॥ १।५६।१८ ॥
॥ १।५६।१९ ॥ प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
१विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ १९ ॥
विधूमः कालाग्निरिव ब्रह्मदण्डश्च प्राज्वलत् ॥ १९ ॥
(१सधूम इवङ।) ॥ १।५६।१९ ॥
॥ १।५६।२० ॥ ततो ऽस्तुवन् मुनिगमा वसिष्ठं २जपतां वरम् ।
अमोघं ते बलं ब्रह्मन् तेजो धारय ३तेजसा ॥ २० ॥
एवं रूपं वसिष्ठमुपश्लोकयन्तो देवाः पारक्यब्रह्मास्त्रतेजोग्रसनमेव निरवशेषतः कार्यमित्याहुः । ततो ऽस्तुवन्–साधुसाध्वित्युपश्लोकितवन्तो मुनिगणाः हे ब्रह्मन् ते बलं–ब्रह्मबलं अमोघं अस्तु । अरातौ अविसर्जनेन अक्षीणमस्तु । किमुक्तं भवति ? प्रतिब्रह्मास्त्रं मा प्रयुङ्क्ष्वेति, पारक्यं तेजः स्वतेजसा सहजेन धारय, विलाप्यैकीकुरु ॥ २० ॥
(२ जयतां वरंङ)
(३ तेजसिङ) ॥ १।५६।२० ॥
॥ १।५६।२१ ॥ निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ २१ ॥
ननु कथमरातौ स्थिते अप्रतिप्रयोग इत्यत्राहुः–निगृहीत इत्यादि । ब्रह्मास्त्रस्य च ग्रासे सति नष्टसर्वसामर्थ्यः स्वयमेव मृतप्रायो जात इत्यर्थः ॥ १।५६।२१ ॥
॥ १।५६।२२ ॥ एवमुक्तो महातेजाः शमं चक्रे महातपाः ।
४विश्वामित्रो विनिकृतो विनिश्वस्येदमब्रवीत् ॥ २२ ॥
शमं चक्रे इति । प्रतिप्रयोगतो ऽरातिनाशनादुपरतो ऽभूदित्यर्थः । विनिकृतः–तिरस्कृतसर्वशक्तिरित्यर्थः ॥ २२ ॥
(४ विश्वामित्रो ऽपि निकृतःङ) ॥ १।५६।२२ ॥
॥ १।५६।२३ ॥ धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् ।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २३ ॥
धिग्बलमिति । ऽधिगुपर्यादिषुऽ इति द्वितीया ॥ १।५६।२३ ॥
॥ १।५६।२४ ॥ तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ।
तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्पञ्चाशः सर्गः
–
तदेतदिति । ब्रह्मतेजोबलमित्यर्थः । प्रसन्नेन्द्रियमानस इति । परित्यक्तक्षत्रस्वभाव इति यावत् । भार (२४)मानः सर्गः ॥ १।५६।२४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्पञ्चाशः सर्गः